OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, January 21, 2017

गृहीतानि मुद्रारूप्यकाणि निर्व्याजानि।
नवदिल्ली> मुद्रपत्रनिरसनानन्तरं आराष्ट्रं कृते अन्वीक्षणे व्याजरूप्यकाणि अधिकृतैः न गृहीतानीति केन्द्रसर्वकारेण उक्तम्। पब्लिक् अक्कौण्ट् समित्याः समक्षं  दत्ते  केन्द्रवित्तमन्त्रालयस्य राजस्वं मन्त्रालयस्य च लिखितप्रतिवचने अस्ति अयं वृत्तान्तः। मुद्रानिरसनानन्तरं गृहीतानां पञ्चाशत् , सहस्ररूप्यकाणां विशदांशाः , तेषु रूप्यकेषु आतङ्कवादिनां चाराणां च मुद्रापत्रकाणि कियदित्यादयः प्रशनाः समित्या उन्नीताः आसन्।

अमेरिक्कायां ट्रम्प् युगः आरब्धः।
क्यापिटल् हिल्  (अमेरिक्का) - अमेरिक्काराष्ट्रस्य पञ्चचत्वारिंशत् तमे राष्ट्रपतिपदे डोणाल्ड् ट्रम्पः अवरोधितः। मुख्यन्यायाधिपस्य जोण् रोबर्ट् वर्यस्य समक्षे शपथवचनं कृतवान्।
     उपराष्ट्रपतिरूपेण मैक् पेन्स् वर्यः शपथवचनं कृत्वा स्थानारोहणं कृतवान्। ट्रम्प् वर्यस्य स्थानारोहणं पुरस्कृत्य राष्ट्रे सर्वत्र महती सुरक्षा आयोजिता आसीत्।

कोलकातायां ऐषमः बंगाल-वैश्विक-व्यापार-सम्मेलनस्योद्घाटनम्
राष्ट्रपतिः प्रणबमुखर्जी  कोलकातायां ऐषमः बंगालवैश्विकव्यापारसम्मेलनस्य  उद्घाटनं कृतवान् । असौ औद्घाटनिकाभिभाषण प्रावोचत् यत् पश्चिमबंगालः आधमर्ण्यं वहति परं  उदारनीतिभिः सह अग्रगमित्वं भजते येन निवेशकान्  अनुकूलवातावरणस्योपलब्धिः भवेत् । राष्ट्रपतिना स्थिरतापूर्णन्यूनकुसीदमितेः  आवश्यकता सबलं प्रतिपादिता ।

इट्टलीदेशे हिमगिरिपातेन त्रिंशत् जनाः मृताः।
अमाट्रैस्> इट्टलीराष्ट्रे फारिन् डोलाप्रदेशे पथिकालयस्य उपरि हिमगिरिः पतित्वा त्रिंशत् जनाः मृताः। गतदिने सञ्जातं भूचलनम् एव हिमपातस्य कारणम्। मृतेषु बालकाः अपि सन्ति। मध्यइट्टल्यां ग्रान् सासो पर्वतस्य समीप एव गोपियानो नामकः पथिकालयः वर्तते। तत्र आगताः विनोदसञ्चारिणः एव दुर्घटनायाम् अन्तर्भूताः।

Friday, January 20, 2017

ट्रम्पः अद्य अमेरिक्कायाः राष्ट्रपतिस्थानमारोहतिI 
 वाषिङ्टन् > अमेरिक्कायाः पञ्च चत्वारिंशत्तम राष्ट्रपति पदमारोहति डोणाल्ट् ट्रम्पः। अद्य प्रतिज्ञास्वीकारकर्मः भविष्यति। सर्वोच्च-न्यायालयस्य मुख्य न्यायाधीशः जोण् रोबर्ट्वर्यस्य प्रतिज्ञावाक्योश्चारणं स्वाधीनतायां उच्चार्य एव स्थानारोहणम्। ७० वयस्कः ट्रम्पः एव वयोधिकः प्रथमराष्ट्रपतिः । भूतपूर्वराष्ट्रपतिः डोणाल्ड रैगस्य प्रतिज्ञाकरणसमये ६९ वयः आसीत् ।

मदिरापानं न मौलिकाधिकारः - उच्चन्यायालयः।
कोच्ची> मदिरापानं कदापि पौराणां मौलिकाधिकारः नास्तीति केरलस्य उच्चन्यायालयेन स्पष्टीकृतम्। जीवनाधारभूताः अघिकाराः एव भारतीयशासनसंविधानेन दृढीक्रियते, न तु मदिराधिकारः। मदिराविक्रयशालानां संख्यान्यूनीकरणं विरुध्य समर्पिताः पुनर्याचिकाः निरस्य एव खण्डन्यायपीठस्य आदेशः।
    राज्ये सम्पद्यमानेषु अपराधेषु प्रतिशतं षष्ट्यधिकाः मद्यसंबद्धः इति कानिचन अन्वीक्षणानि पुरस्कृत्य उच्चन्यायालयेन स्पष्टीकृतम्। आतुरालयान् प्रविष्टमानेषु आतुरेषु प्रतिशतं १९-२० जनाः मद्यपानाधिष्ठिताः भवन्ति। एतादृशानां चिकित्सार्थं परिवारार्थिकायस्य भूरिभागं व्ययं करोति। एवं विधनिरीक्षणेनैव न्यायालयेन पुनर्याचिकाः निरस्ताः

कौमारकलामेला उत्तेजनस्य उत्तुङ्गश्रृङ्गे।
ChaakyaarKooth-Sreehari 
कण्णूर् >एष्याभूखण्डस्य बृहत्तमा कौमारकलामेला उत्सवोद्दीपनस्य उत्तुङ्गश्रृङ्गपदं प्रविष्टा। केरलानां नदीनामिकासु पञ्चदशवेदिकासु मनोरञ्जकानि कर्णानन्दकराणि नयनमोहनानि च कलाकार्यक्रमाः कौमारप्रतिभाभिः अवतारयन्तः वर्तन्ते।
     सामान्यकलोत्सवादृते संस्कृतोत्सवः अरबिक् कलोत्सवश्च आयोजितः। संस्कृतोत्सवे १९ विभागेषु स्पर्धाः सन्ति। केरल संस्कृताध्यापक फेडरेषन् सङ्घेन संस्कृतोत्सवः प्रचाल्यते। (Photo- Sree Hari . The student of NSS HSS Parakkadavu, Aluva)



बाबा रामदेवस्य सारथ्ये लक्षं जनानं योगासन प्रदर्शनम्।
नवसंख्याकानां विश्वप्रमाणानि।
नव देहली >स्वामि विवेकानन्दस्य चतु पञ्चाशदधिक शतततमे जयन्तिमहोत्सवे नवानि नवविश्वप्रमाणानि (world record) प्राप्तानि । भिलई जयन्ती नाम क्रीड़ाक्षेत्रे त्रयश्चत्वारिषु चत्वरेषु योगासनमवतारितम् । जन निबिडानाम् असङ्ख्यानां सूर्य नमस्काराणं आचरणं , कपालभाति प्राणायामं, अनुलोमविलोम प्राणायामम् ; लक्षशानां योगासन पठनवर्गः , उन्मेषदायका प्रतिज्ञा निमिषाभ्यन्तरेण पतनोत्पदनम् (Push up) ५०,००० जनानानां सर्वाङ्गासनं, हलासनं इत्येतेषु विश्व-प्रमाणं प्राप्तम्। इतोपि राजस्थानीयस्य जयपालस्य १४१ निमेषस्य शीर्षासनं च विश्व-प्रमाणस्य सुवर्णपुस्तके स्थान प्राप्तेः सन्दर्भः अभवत्। छत्तीस् गढ्स्य मुख्यमन्त्री डॉ. रमण् सिंहः, मन्त्री प्रेंप्रकाश पाण्डेयः च सन्निहितौ आस्ताम् ।

Thursday, January 19, 2017

कान्पुर् रेल् यानदुर्घटना भीकराक्रमणहेतुभूता?
मोतिहारी (बीहार्)> गतसंवत्सरस्य नवम्बर् मासस्य विंशे दिनाङ्के, उत्तरप्रदेशे कान्पूरे संवृत्ता रेल् यानदुर्घटना भीकराक्रमणहेतुभूता इति बीहारस्य आरक्षकदलेन उक्तम्। बीहारराज्ये पूर्वचम्पारन् जनपदे आरक्षकैः गृहीतेभ्यःत्रिभ्यः, दुर्घटनां कर्तुं पाकिस्थान् चारसंस्थायाः ऐ एस् ऐ नामिकायाः साहाय्यं लब्धमिति अवगतमस्ति। मोट्टी पस्वान्, उमाशङ्करपट्टेलः, मुकेष् यादवः एते त्रयः एव आरक्षकबद्धाः अभवन्निति आरक्षकाणां जनपदाधिकारिणा जितेन्द्र राणावर्येण उक्तम्।
    एतेषां त्रयाणां ऐ एस् ऐ संस्थया सह सम्बन्धभूतेन ब्रजेष् गिरिनामकेन समं परस्परव्यवहारः आसीदिति आरक्षकाधिकारिणा निगदितम्। एतान् त्रीन् विना द्वावपि एतत्सम्बन्धौ निगृहीतव्यौ तौ निलीयमानौ वर्तत इति च आरक्षकवृत्तैरुच्यते।


डालिया अराना वाचनाविश्वे लघ्वी मेधावी।
वाषिड्टण्>विश्वस्य बृहत्तम ग्रन्थशालायाः यु एस् कोण्ग्रस् ग्रन्थशालायाः (नाषणल् ग्रन्थशालायाः)एकदिनस्य ग्रन्थालयाध्यक्षरूपेण चतुर्वयस्का बालिका नियुक्ता।सहस्राणां ग्रन्थानां वाचनानन्तरं एषः बहुमतिः सा प्राप्ता।जोर्जिया गयिन्व्विन्स् वासी डालिया अराना अस्ति सा बालिका।तृतीये वयसि चित्रकथापुस्तकानां वाचनेनासीत् तस्याः आरम्भः।पुनः के जी कक्ष्याः पूर्वं १००० ग्रन्थाः वाचितुं तस्याः माता प्रोत्साहनं दत्तवती।छात्राणां केषाञ्चन ग्रन्थानां वाचनं शक्यतेति परीक्षणार्थमासीत् एषः।

Wednesday, January 18, 2017

विमाननिलयस्य समीपे स्थितं भवनं विमानस्य भ्रंशपथगतिवशात् भग्नम् अभवत्। सप्तत्रिंशत् जनाः मृताः पञ्चदशजनाः व्रणिताः।
ब्रिष्केक्> मध्येष्यायाः किर्गिस्थानस्य राजधान्यां वर्तमानस्य मनास् विमान-विमाननिलयस्य समीपे जनवासकेन्द्रे एव दुर्घटना जाता। तत्र उषिताः जनाः विमानकर्मकराः च आहत्य सप्तत्रिंशत् जनाः तैस्सह मृताः। होङ्कोङ्‌तः आगतः आसीत् विमानम्। दुर्घटनायाः कारणम् हिम-धूमपटलः इति अनुमीयते।
अफ्‌गानिस्थानस्योपरि सैनिकप्रवर्तनाय यू.एस् राष्ट्राय दत्तमासीत् एतत्‌ निस्थानम्। उपयोगानन्तरं २०१४तमे यू एस् राष्ट्रेण प्रत्यर्पित मासीत् । किर्गिस्थानस्य बृहत्तमं विमान मिस्थानं भवति एतत्। Photo -Royitors

ए टि एम् द्वारा दशसहस्रम्।
मुम्बई>ए टि एम् यन्त्रद्वारा प्रतिदिनं प्रतिनिवृत्तमानानां रूप्यकाणां संख्या दशसहस्रं यावत् वित्तकोशकार्यालयेन वर्धिता। इतःपर्यन्तं ४५०० रुप्यकाणि आसन्। ए टि एम् द्वारा निश्शुल्कव्यवहाराणां संख्या मेट्रोनगरेषु  प्रतिमासं तिस्रः, ग्रामेषु पञ्च इति नियन्त्रणम् आवश्यकमिति वित्तकोशैः वित्तमन्त्रालयं प्रति निर्दिष्टम्।


पंजाबविधानसभायै नामांकनम् 
पटियाला>कांग्रेसस्य कैप्टन अमरिंदरसिंहेन  अकालीदलस्य जे जे सिंहेन पटियाला-विधानसभासनात्  नामांकनं कृतम्। पंजाबविधानसभायै एकस्मिन् चरणे फरवरी मासस्य चतुर्थे दिनांके मतदानं भविष्यति।
Episode 29, 18-01-2017, Vishnu Harikumar, Saraswaty Vidyaniketan, Chengamanad, Ernakulam.

Tuesday, January 17, 2017

वेग-नियन्त्रकम् - राज्यैः स्वाभिमतानि ज्ञापनीयानि- सर्वोच्चन्यायालयः
नवदेहली >लोकयानेषु वेग-नियन्त्रकं घटयितुम् उद्दिश्य राज्यसर्वकारयोः अभिमतप्रकाशनाय सर्वोच्च न्यायालयः आदिशत्। पूर्वं न्यायालयस्य आदेशमासीत् किन्तु सर्वकाराः न मानिताः इत्यनेन न्यायालयेन सर्वकाराः विमृष्टाः। दिल्ली बिहारराज्ययोः गतागतसचिवाभ्याम् सप्रमाणम् उपस्थातुम् प्रधान-न्यायाधीशभ्यां जे एस् खेहर् वर्येण डि वै चन्द्र चूडवर्येण च निर्दिष्टः। सुरक्षा फौण्डेषन् नाम संस्थया दत्तायां याचिकायामेव उच्च न्यायालयस्य आदेशः।

 केरलात् अप्रत्यक्षाः अफ्गानिस्थाने ऐ एस् निवेशने।
करिप्पूर् >केरलराज्यात् कतिपयमासेभ्यः पूर्वं दुरूहसाहचर्ये अप्रत्यक्षेषु पालक्काट् कासरगोड् जनपदीयेषु द्वाविंशति युवजनाः अफ्गानिस्थाने नाङ्गहारप्रदेशस्थे ऐएस् भीकरसंस्थायाः निवेशनस्थाने परिशीलनं कुर्वन्तः इति ऐ एन् ए संस्थया प्रत्यभिज्ञातम्।
      इराखस्थयोः मोसूल् राखा नामकयोः आस्थानयोः विनष्टानन्तरं नाङ्गर्हारं  स्वकीयास्थानं कर्तुं ऐ एस् संस्थया यतते इति देशीयान्वेषण वृत्तैरुक्तम्। अफ्गानिस्थानस्य चतुस्त्रिंशत् प्रविश्यासु अन्यतमं भवति नाङ्गर्हारम्। गोत्रवर्गशासनस्य निर्णायकं प्रबलस्थानमासीत् इदं स्थानम् अल्ख्वायिदा स्थापकेन ओसामा बिन् लाडनेन   अमेरिक्काविरुद्धयुद्धस्य आस्थानत्वेन चितः च आसीत्।

Monday, January 16, 2017

भारतीय विद्यानिकेतनस्य विद्यालय कलोत्सवः सम्पूर्णमभवत् ।
कोट्टयं जनपदस्य किरीटप्राप्तिः।

कोट्टयम् (केरळम्) > भा. वि. नि विद्यालयस्य विद्यालयकलोत्सवः ह्यः सम्पन्नः। कोट्टयम् जनपदः किरीटाधिकारी अभवत्। अस्मिन् कलोत्सवे त्रिसहस्रं छात्राः स्पर्धासु भागभाजाः अभवन्। भारतस्य शिक्षा मण्डलेषु प्रसिद्धा सर्वकारेतर अध्ययनसंस्था भवति विद्याभारति। विद्या भारत्याः केरलविभागः भवति विद्या निकेतन् । अस्याः  त्रयोदशत्तम कलोत्ससवः आसीदियम्।

फिल्मफेयर् पुरस्काराः
द्विषष्टितमे फिल्मफेयर पुरस्कारेषु दङ्गलचलच्चित्रेण श्रेष्ठचलच्चित्र,श्रेष्ठनिर्देशक,श्रेष्ठाभिनेता चेति पुरस्काराः विजिताः । आलियाभट्टः श्रेष्ठाभिनेत्री पुरस्कारेण सभाजिता ।

 गंगासागरे समायोजितमेलके सम्भ्रमपलायनदुर्घटना 
कोल्कत्ता > पश्चिमबंगालस्य  गंगासागरे  मकरसङ्क्रांतिपर्वणि समायोजिते मेलके ससंभ्रमपलायने न्यूनान्न्यूनं षड्जनाः मृत्युमुपगताः। नेकै व्रणिताः संसूच्यन्ते  व्रणितानामुपचारः प्रचलति। राष्ट्रियापदुद्धारबलेन साहाय्योद्धारकार्याणि  सजवं प्रवर्त्यन्ते | ध्यातव्यमिदं यत् गंगासागरे मेलकस्यास्यायोजनं  प्रतिवर्षं भवति ।

69तमः सेनादिवसः आमानितः 
प्रधानमन्त्रिणा सैन्यभटाः प्रशंसिताः 
नव दिल्ली >सैन्यदिवसावसरे प्रधानमंत्रिणा नरेंद्रमोदिना सैन्यभटा: वर्धापिताः । ट्वीटसंदेशे भारतीयसेनायाः अतुल्यपराक्रमस्य महत्तां प्रशंसता मोदिना प्रोदीरितं यत् देशस्य संप्रभुताविषये   प्राकृतिक-आपत्सु च नागरिकाणां रक्षा सैन्यबलैः अनारतं समाचर्यते ।

Sunday, January 15, 2017

भुमिः भग्नग्रहात् रक्षिता ।
पञ्चित्रिंशत् आणवायुध विस्फोटक तुल्यो दुरन्तः भूमेः समीपेन गतः
 जनुवरि मासस्य नवमदिनाङ्के एव घटनेयं सम्पन्ना । नासा नामिकायाः संस्थायाः Near Earth object(NEO) Observetion programme इति नाम याेजनायाः क्रान्तर्दशन विभागस्य दृष्टिपदे इयं घटना न आगता। योजनेयं तु एता दृश भग्न ग्रहाः उल्कादि विशेष वस्तुनां भूभ्रमणपद प्रवेशमधिकृत्य सूचनादानार्थमेवI शतोत्तरद्विसस्र २१००तम वर्ष पर्यन्तं भूमिः सुरक्षितम् इति नासया उक्तमासीत्। चेदपि दुर्घटना सम्पन्ना। भाग्यवशात् वयं रक्षिताः।

Saturday, January 14, 2017

 युमनातटस्य सौन्दर्यीकरणम् 
नवदिल्ली> यमुनानद्याः गीताघट्टे दिल्लीजलबोर्डद्वारा निर्मितायाः नक्षत्रवाटिकायाः  उद्घाटनं सामान्य जनान् उद्दिश्य कृतम्। अस्यां वाटिकायां नैकविधाः वृक्षाः समारोपिताः सन्ति। वाटिकायामस्यां  नक्षत्रोद्यानं,नवग्रहोद्यानम्, औषधोद्यानं, तुलसीवनं च  मुख्याकर्षकाः सन्ति। ध्यातव्यमिदं यत्  यमुनातटस्य सौंदर्यीकरणमिदं  मासद्वयावधौ कृतमस्ति।

Friday, January 13, 2017

"टाटा संस्था" चन्द्रशेखरेण नीयते। 
मुम्बई - भारतस्य बृहत्तमस्य टाटा ग्रूप् नामकस्य उद्योगसाम्राज्यस्य अध्यक्षरूपेण एन् चन्द्रशेखरः नियुक्तः। अस्याः संस्थायाः अधीनत्वे वर्तमानस्य ऐ टि नैगमस्य [टि सि एस्] अधिपो भवत्ययमिदानीम्। ५३ वयस्कः सः टाटा सण्स् नैगमस्य अध्यक्षरूपेण फिब्रवरिमासस्य २१तमे दिनाङ्के उत्तरदायित्वं स्वीकरिष्यति।
     गतदिने टाटाग्रूप् इत्यस्य मातृनैगमस्य टाटासण्स् नामकस्य  निदेशकसंघमेलने एव चन्द्रशेखरस्य नियुक्तिः। रत्तन् टाटा वर्यस्य अनन्तरगामित्वं प्राप्तः सैरस् मिस्त्री सार्धद्वयमासात्पूर्वम् अध्यक्षस्थानात् निष्कासित आसीत्। तदनन्तरम् इतःपर्यन्तं रत्तन्टाटा आसीत् अध्यक्षः।  

सेल्फिग्रहण-स्पर्धायां केरळस्य भूतपूर्वमुख्यमन्त्री।

एरणाकुळं रयिल् निस्थाने ह्यः सायं पञ्चवादने भूतपूर्व मुख्यमन्त्रिणा उम्मन् चाण्टिना सह  सेल्फि ग्रहणार्थं जनाः महान् सम्मर्दम् अकुर्वन्। काचित् नारी पुरुषान् पराजित्य सेल्फीफीग्रहणे प्रथमं सफलता प्राप्ततवती।

कोल्कत्ता आरक्षकैः अनुमतिः न दत्त: 
कोल्कत्ता अस्मिन् शनिवासरे १४ दिनांके मकरसंक्रान्तिपर्वण: उपलक्ष्ये पश्चिमबंगालस्य कोल्कत्ता नगरस्य ब्रिगेड परेड् ग्रौण्ड् मध्ये राष्ट्रीय-स्वयं- सेवकसड्घेन आयोजिताय कार्यक्रमाय कोल्कत्ता आरक्षकै: अनुमति न प्रदत्तः। अत्र "हिन्दू सम्मेलनं" इति नाम्ना सम्मेलनम् आयोजितमासीत् । इदानीं राष्ट्रियस्वयंसेवक संघेन उच्चन्यायालये दूषणम् कृतो वर्तते। कार्यक्रमेस्मिन् मुख्यतिथि रुपेण एवञ्च मुख्यवक्तारुपेण संघाध्यक्षानां मोहन् भागवतमहोदयानां आगमनमासीत्၊

Thursday, January 12, 2017

सहारा - बिर्ला उत्कोचविवादः - प्रधानमन्त्रिणं विरुध्य याचिका निरस्ता। 
नवदिल्ली >सहारा तथा बिर्ला नैगमाभ्यां प्रधानमन्त्री नरेन्द्रमोदी संवत्सरेभ्यः पूर्वम् उत्कोचं स्वीकृतवान् इत्यारोपणमधिकृत्य नीतिपीठस्य नियन्त्रणे विद्यमनेन संघेन अन्वेष्टव्यम् इति याचिका सर्वोच्चन्यायालयेन निरस्ता। पूर्वोक्ताभ्यां नैगमाभ्यां आपाते निग्रृहीताः लेखाः प्रमाणीकर्तुं न शक्यन्त इति न्याया. अरुण् मिश्रः , अमिताभ रोय् इत्येतयोः नीतिपीठेन स्पष्टीकृतम्।

Wednesday, January 11, 2017

एन्डोसळ्फान् दुरन्तः – नैगमैः निष्कृतिः दातव्या। 
नवदिल्ली> केरलस्य एन्डोसल्फान् दुरितबाधितानां कृते विहितां निष्कृतिं मासत्रयाभ्यन्तरे दातुं सर्वोच्चन्यायालयेन राज्यसर्वकारः आदिष्टः। दातव्यं निष्कृतिधनं कीटनाशिनिनिगमेभ्यः समाहर्तव्यमिति  मुख्यप्राड्विवाकस्य जे एस् खेहर् वर्यस्य आध्यक्ष्ये विद्यमानेन त्र्यङ्गनीतिपीठेन निर्दिष्टम्। दुरन्तविधेयेभ्यः आजीवनान्तपरिरक्षा अपि दातव्या। 

Episode 28, Meenakshi. N V,  Brahmanandodayam HSS Kalady.

Tuesday, January 10, 2017

चिटिका स्वीकृत्य धनं न प्रत्यर्पितं पट्टिकाशकटकारिभिः
जय्पूर्> केरले अङ्गमालि 
१०,१२ कक्षयो : बोर्डपरीक्षायाः परीक्षा-कार्यक्रमः
नवदिल्ली> केन्द्रीयमाध्यमिकपरिक्षाबोर्डस्य परीक्षा मार्चमासस्य नवमदिनांकात् प्रारप्स्यते, पञ्चराज्यानां विधानसभेयनिर्वाचनकारणेन परीक्षायोजने विलम्बः नैव भविष्यति। मार्चमासे ४,८,११ दिनांकेषु निर्वाचनकारणेन परीक्षा नैव भविष्यति। दशमकक्षायाः अन्तिमपरीक्षा अप्रैलमासस्य १० दिनांके द्वादशकक्षायाः अन्तिमपरीक्षा अप्रैलमासस्य ऊनत्रिंशे दिनांके आयोजयिष्यते।

यूरोप् भूखण्डे अतिशैत्यम्। विंशत्यधिकाः मृताः।
लण्टन्>अतिशैत्यात् स्तब्धायमाने यूरोप् भूखण्डे इतःपर्यन्तं विंशत्यधिकं जनाः मृताः। ग्रीक् द्वीपाः दक्षिणेट्टलीप्रदेशाश्च कठिनहिमैरावृताः।
     इट्टलीराष्ट्रे विमान-जलयानगतागतानि निरस्तानि। दक्षिणेट्टलीप्रदेशे विद्यालयानां सोमवासरादारभ्य  प्रवर्तनविरामः निर्दिष्टः। तुर्की राष्ट्रमपि शैत्यग्रस्तमभवत्। इस्ताम्बूल् प्रदेशे शक्तः शीतवायुः वातीत्यतः महानौकागतागतं स्थगितम्। पोलण्ट् देशे अतिशैत्येन उपशतं जनाः मृताः। रूस् राष्ट्रे तापः न्यूनं त्रिंशत् डिग्री परिमाणं [–३०] अभवत्।

मुद्रारूप्यकप्रतिसन्धिः - लघुतर - मध्यमोद्योगमण्डलेषु ६०% कर्मनष्टः भविष्यति। 
  नवदिल्ली>मुद्रारूप्यकाणां निर्मूल्यीकरणेन राष्ट्रस्य लघु-मध्यमस्तरीयेषु उद्योगमण्डलेषु इतःपर्यन्तं प्रतिशतं पञ्चत्रिंशत् कर्मकराणां कर्मविनष्टम् अभवदिति "ओल् इन्डिया मानुफाक्चरेर्स् ओर्गनैसेषन्" नामिकया संस्थया कृते समीक्षणे स्पष्टीकृतम्। मार्च् मासं तावत् प्रतिशतं षष्टिः इति क्रमेण कर्मकराः विनष्टकर्माणः  भविष्यन्ति। एषु मण्डलेषु आय अपि प्रतिशतं पञ्चाशत् परिमाणेन न्यूनीकृतः। मासत्रयाभ्यन्तरे न्यूनता ५% वर्धिष्यते।
समीक्षणे उपलब्धाः वृत्तान्ताः -
. महाराष्ट्रा तमिल् नाट् गुजरात् इत्येतानि राज्यानि नितरां क्षतिबाधितानि जातानि।
. उत्पादनमण्डलेषु विद्यमानेषु बृहदुद्योगेषु इतःपर्यन्तं कर्मविनष्टः ५% , समीपकाले १५% भविष्यति।
प्रतिसन्धेः कारणानि -
. मुद्रापत्रलभ्यतायाः महती न्यूनता, रूप्यकप्रतिसंहरणे अनुवर्तमानं नियन्त्रणं, धनसमाहरणस्य क्लेशः इत्यादयः।

Monday, January 9, 2017

भारतीय भाषाणां विकसनार्थं शीघ्रमेव कालबद्धो कार्यक्रम: - प्रकाश् जावडेकर:
उडुपि> संस्कृतसहितानां सर्वासां भाषाणां  विकसनार्थं शीघ्रमेव कालबद्धो कार्यक्रम: केन्द्र सर्वकारेण आयोक्ष्यते इति मानवसंसाधनविकास मन्त्रिणा प्रकाशजावडेकरेण उद्घोषितम्।
कर्णाटकप्रान्ते उडुपीनगरे संस्कृतभारत्या: अखिलभारतीय अधिवेशने विशिष्टसत्रेsस्मिन् भाषमाणः आसीत् जावडेकरमहोदय:। पुट्टिगे मठस्य पीठाधीश: सुगुणेन्द्रतीर्थस्वामीन: कार्यक्रमस्य अध्यक्षतां अवहत्। पर्याय पेजावर अधोक्षजमठस्य पीठाधीश: श्री श्री विश्वेशतीर्थस्वामीन:, संस्कृत भारत्या: राष्ट्रिय अध्यक्ष: भक्तवत्सल-शर्मा, स्वागतसमित्या: प्रमुख-कार्यदर्शी एम. बी. पुराणिक: च मंञ्चस्योपरि आसन्।
अधिवेशनप्रसंगेन आयोजितां प्रदर्शिनीं मन्त्रिमहोदय: दृष्टवान्। अनन्तरम् अधिवेशने उपस्थिता: प्रतिनिधय: तेन साक्षात् संभाषितवन्त:। अवसरेsस्मिन् स: अवदत् यत् युष्माकं क्लेशानां परिहाराय उचितः कालः समागतः इत्यवधार्यताम्। "संस्कृतस्य संवर्धनाय प्रसाराय ये प्रयत्नान् कुर्वन्ति तान् संस्कृतभारती सम्मेलयति। तेषां प्रयत्ना: केवलं भाषार्थं न अपितु राष्ट्रार्थम्। युष्याकं प्रयत्ना: सर्वकारेण अपि समादृताः भविष्यन्ति।," एवं स: कथितवान्।
यावती कापि भाषा पाठ्यक्रमे न विद्यते तावती सा भाषा विकसितुम् न शक्नोति, इति स: उक्तवान्।
सुगुणेन्द्रतीर्थ: स्वामीन: उक्तवान् यत् संस्कृतं काचित् सुलभा सुन्दरा अपि भाषा वर्तते। "एकस्मिन् वैश्विकसम्मेलने मया संस्कृतेनैव व्याख्यानम् दत्तम्। ये विदेशीजना: तत्र उपस्थिता: सन्तः ते अकथयन् यत् ५० प्रतिशतम् यावत् ते अवगन्तुम् शक्नुवन्त:। सर्वाः भाषा: प्रादेशिकभाषा: सन्ति, केवलं संस्कृतभाषा एव वैश्विकभाषा: वर्तते। अतः संस्कृतं विश्वभाषा इति घोषितुमर्हते," इति स: अवदत्।

संस्कृत विद्वान् प्रो. रामानुज-देवनाथन् महाभागः दिवङ्गतः

संस्कृतक्षेत्रस्य ज्ञानसागरः परिशुष्यते
मुम्बै>संस्कृतक्षेत्रस्य ज्ञान पीयूषः विद्वान् प्रो. रामानुज देवनाथन् महाभागः आत्मानं संस्कृताय समर्प्य दिवङ्गतः। अयं राष्ट्रिय संस्कृत संस्थानस्य विभिन्न परिसरेषु प्राचार्यः
राष्ट्रिय-संस्कृत-संस्थानस्य कुलसचिवः तथा जगद्गुरु रामानन्दाचार्य नाम राजस्थानस्य संस्कृत विश्वविद्यालयस्य कुलपतिः आदि पदेषु अलंकृतः आसीत्। संस्कृतं, हिन्दी, आङ्‌गलेयं, तमिळ्, तेलुगू, कन्नड़, मलयाळम्, अयं महोदय: ओडिया, प्राकृतं आदिषु विभिन्नभाषासु पण्डितः आसीत्। व्याकरण, न्याय, वेदान्त,मीमांसा, दर्शन, शिक्षाशास्त्र्यादिविषयेषु पारंगतः आसीत्। तस्य लघिष्ठा, छन्दोमाला, शाब्दिकचिन्तामणिः तथा लिंगानुशासनस्य अक्षयः टिप्पणिःप्रभृतयः ग्रन्थाः, तथा सम्पादित ग्रन्थाः च प्रसिद्धाः। ज्ञानस्य गरिमा स्वस्य सरलतायां प्रकाश्य स्वस्य लोकान् सदा प्रकाशयन्नासीत् अयं महाभागः।
पान् कार्ड्पत्रम् वैष्टिकं करोति। 
नवदिल्ली > वित्तकोशलेखानां कृते शाश्वतिकलेखापत्रम् [पान् कार्ड्] अवश्यं कृत्वा केन्द्रवित्तमन्त्रालयेन आदेशः कृतः। विद्यमानानां लेखावाहकानां पान् संख्या फेब्रुवरि अष्टाविंशात् दिनाङ्कात् पूर्वं पान् संख्यायाः संग्रहणाय वित्तकोशाः निर्दिष्टाः। ये पान् कार्ड् रहिताः तैः फोम् ६० पत्रम् अवश्यं समर्पयितव्यम्। एतदधिकृत्य अायकरव्यवस्थां संशोधनं कृत्वा प्रत्यक्षकरविभागेन विज्ञप्तिपत्रं प्रकाशितम्। जन् धन् लेखासदृशानां लघुसंख्यानानां कृते अयं नूतननिर्देशः न बाधकः भविष्यति।

Sunday, January 8, 2017

धाक्का आक्रमणस्य सूत्रधारः हतः।
धाक्का>बङ्लादेश राष्ट्रे गुल्षन् कफे भीकराक्रमणस्य सूत्रधारः इति  उच्यमानः नूरुल् इस्लाम्मर्सान् इत्याख्यः बङ्लादेशस्य आरक्षकैः सह सम्पन्नेन संघट्टनेन हत इति आरक्षकवृन्दैः उक्तम्। बहुषु हत्याव्वहारेषु अपराधित्वमापन्नः सद्दाम् होसैन् नामकः अपि संघट्टने मृतः।
    गते जूलाई प्रथमदिनाङ्के आसीत् होली आर्टिसान् कफे इति भोजनालये भीकराक्रमणं सम्पन्नम्। भारतीयासहिता एकोनत्रिंशत् जनाः अस्यां घटनायां मृताः आसन्।

समर्थम् चारित्र्यवानमञ्च भारतम् विश्वस्य आवश्यकता - सुरेश सोनी
उडुपी> भारतम् शाश्वतराष्ट्रमस्ति। मानवतायां आत्मा अस्ति। भारतम् पुनः समर्थम् चारित्र्यवानञ्च कर्तुम् विश्वस्य आवश्यकता अस्ति। हिंदू धर्मस्य मूलतत्त्वानि पुनः जनानाम् बोधयित्वा एव एतद् संभाव्यते अपि च संस्कृतम् अस्य परिवर्तनस्य वाहकत्वेन स्थास्यति, इति राष्ट्रिय स्वयंसेवक संघस्य सह सरकार्यवाहः सुरेश सोनी अद्य अत्र निवेदितवान्।
संस्कृत भारत्या उडुप्याम् आयोजिते अखिलभारतीयाधिवने बौद्धिकसत्रस्य मुख्य वक्तृरुपेण सोनीमहोदयः अभाषयत्। उडुपिक्षेत्रस्य पर्याय-श्री-पेजावर अधोक्षज-मठाधीशाः श्रीश्रीविश्वेशतीर्थ स्वामीनः, आदि चुंचुगिरी महासंस्थान मठस्य श्री विद्यासागर तीर्थ महाराजः, शाखा मठस्य श्री धर्मपालनाथ स्वामीनः, संस्कृतभारत्या नवनियुक्तः राष्ट्रिय अध्यक्षः भक्तवत्सलशर्मा तथा च समित्या प्रमुखः कार्यदर्शीः  एम. बी. पुराणिकः प्रसङ्गेस्मिन मंचस्योपरि उपस्थिताः। 
'संस्कृत भारतम् - समर्थ भारतम्' विषयं धृत्वा श्री. सोनीवर्यः मार्गदर्शनम् कृतवान्। आङ्गलेखकस्य विलड्युरांटस्य उक्तीं उद्धृत्वा सः अवदत्, “भारतं सर्वस्यापि माता एव वर्तते। सहस्रवर्षस्य यात्रायाम् केचित् आंदोलनानि भवितव्यानि एव। अधुना भारतम् द्वेप्रवाहसंगमरुपेण वर्तते। एकस्मिन् प्रवाहे दुर्बलः अपि जीवन्त अध्यात्मपरंपरा अस्ति तथा अन्यस्मिन् प्रवाहे वयं केचन् रूढ्याः श्रद्धाश्च गृहितवन्तः ये सहस्रशः वर्षानि आक्रमकाभ्याम् दत्तानि। राष्ट्रियवृत्तिः धारयन् नागरिकाः आध्यात्मिकनागरिकाः च सज्जीकर्तुमेव समर्थभारतस्य प्रथमा आवश्यकता वर्तते।”
भारतम् एकम् दुर्भाग्यशालीन् राष्ट्रमस्ति, यतः अत्र केचन् जनाः सन्ति ये राष्ट्रीयतां एव प्रश्नाः कुर्वन्ति, एवं सः खेदः प्रकटितवान्। "वेदादी साहित्यानि अस्मानम् राष्ट्रस्य व्याख्या यच्छन्ति। पुरातने वाङ्गमये यत्किमपि अस्ति, तत् अस्मानम् प्रतिपदं मार्गदर्शनं करोति। समर्थभारतम् चारित्र्यवानभारतञ्च अधुनां आवश्यकमेव, अपि जगद्गुरुभारतम् महान् आवश्यकता अस्ति," इत्यपि सः कथितवान्।
प्रतिकूल घटनाया कारणात् नैराश्यं न धारयेत्, एवं कथयन् सः अधिवेशनेsस्मिन् उपस्थितानाम् २००० तः अधिकानाम् कार्यकर्तृणाम् प्रेरणाम् अददात्।

 राष्ट्रिय विद्यालयकायिकक्रीडा - केरलाय किरीटम्।
पूने>भारतस्य विद्यालयछात्राणां कालज्येष्ठकायिकक्रीडायां केरलस्य किरीटप्राप्तिः अनुस्यूततया सप्तमवारमेव अस्यां स्पर्धायां केरलस्य सर्वाधिपत्यम्। एकादश सुवर्णपतकानि, त्रयोदश रजतपतकानि, सप्त कांस्यपतकानि च प्राप्य आहत्य ११४ अङ्कैरेव केरलस्य किराटधारणम्।
       आतिथेयराज्यं महाराष्ट्रा   द्वितीयस्थानं प्राप्तवत्। तमिळनाट् राज्येन तृतीयस्थानं प्राप्तम्। प्राप्ताङ्कानां गणनां विहाय प्राप्तपतकानां संख्यामनुसृत्य स्थाननिर्णयं कृतमित्यनेन तमिल् नाट् राज्यस्य प्रतिषेधः संवृत्तः। अङ्कगणनायां तमिळनाट् ६०, महाराष्ट्रा ४५ इति क्रमेण आस्ताम्।

Saturday, January 7, 2017

ओम् पुरिः कालयवनिकां गतः।
मुम्बई> अभिनयस्य परुषसौन्दर्यं  प्रेक्षकान् प्रति संक्रमितवान् विख्यातनटः ओम् पुरिः[६६] मृत्युवशं गतः। ह्यः प्रभाते अन्धेरिस्थे स्वभवने हृदयाघातेनैव अन्त्यमभवत्।
   हरियानायां अम्बालाप्रदेशे कस्मिंश्चित् पञ्चाबीपरिवारे १९५० ओक्टोबर् मासे १८ तमदिनाङ्के  भूजातः ओं प्रकाश् पुरिः कतिपयैः हिन्दीचलच्चित्रैः प्रोक्षकमनस्सु स्थानं प्राप्तवान्। चतुर्दशकदैर्घ्ये तस्य अभिनयजीवने समान्तरचलनचित्रैः सह मुख्यधाराचित्रेषु नाटकेषु दूरदर्शनकार्यक्रमेषु च भागभागित्वमावहत्। हिन्दीं विहाय मराठी तेलुगु कन्नटा पञ्चाबी मलयालं भाषाचलच्चित्रेषु अपि स्वस्य नटनवैभवं प्रदर्शितवान्। होलिवुड् ब्रिटिशचित्रेषु भारतीयसान्निध्यम् अभवत्।
     १९८१ , १९८३ संवत्सरयोः द्विवारं श्रेष्ठतमनटस्य देशीयपुरस्कारं लब्धवान्। १९९० तमे वर्षे राष्ट्रस्य  पद्मश्रीपुरस्कारेणापि समादृतः आसीत्।
   ओम् पुरिवर्यस्य निर्याणे प्रधानमन्त्री नरेन्द्रमोदी कोण्ग्रस् अध्यक्षा सोणियागान्धी चलच्चित्रमण्डलस्य प्रमुखाश्च अनुशोचनं प्रकाशितवन्तः।

एष्यायाः बृहत्तमस्य विद्यालय-कलोत्सवस्य जनपदस्तरेषु स्पर्धा आरब्धा
एरणाकुळम् > एष्यायाः बृहत्तमः कलाेत्सवः इति प्रसिद्धः केरळस्य विद्यालय-कलोत्सवः जनपदस्तरेषु आरब्धः। कोट्टयम् जनपदे संस्कृत-स्पर्धायां नाटक विभागे सत्यकामजाबालः इति नाटकावतरणेन वेळ्ळावूर् नाम ग्रामस्य एस्.एन. वि प्राथमिक विद्यालयः प्रथमस्थानं प्राप्तम्। राज्यस्तरीय-स्पर्धा अस्मिन् मासस्य षोडशदिनाङ्गात् आरभ्य द्वाविंशति-दिनाङ्कपर्यन्तम् भविष्यति।                         ऐषमः सप्तपञ्चाशत्तमः महोत्‍सवः भवति। राज्यस्तरीयस्पर्धा माध्यमिक स्तरीय उच्चस्तरीययोः एव। विशेषतया एकोनविंशतिः स्पर्धाः संस्कृतभाषायामपि भवन्ति।

संस्कृतं भारतस्य श्वासः - सुमित्रा महाजन्।
संस्कृतभारत्याः अखिलभारतीयस्य अधिवेशनस्य उडुप्यां प्रारम्भः।।
उडुपि> संस्कृतं भारतस्य श्वासः अस्ति अपि च संस्कृतभाषायाः अध्ययनं चरित्रनिर्माणे सहायकारि भवति इति लोकसभाध्यक्षा श्रीमती सुमित्रा महाजनमहाभागा प्रत्यपादयत्।
      संस्कृतभारत्या कर्णाटके उडुप्याम् आयोजितस्य अखिलभारतीयस्य अधिवेशनस्य उद्घाटनं  श्रीमती महाजनवर्या अकरोत्। उडुपिक्षेत्रस्य पर्यायः श्री - पेजावर - अधोक्षज- मठाधीशाः श्रीश्रीविश्वेशतीर्थस्वामिनः अपि च महाजनमहाभागा इत्यनयोः करकमलाभ्याम् अधिवेशनस्य उद्घाटनम् अभवत्। प्रसङ्गेsस्मिन् कृष्णापुरमठाधीशाः श्रीश्रीविद्यासागरतीर्थस्वामिनः, उडुपिक्षेत्रस्य सांसदा सुश्रा शोभा करंदलाजेमहोदया, कर्णाटकस्य मत्स्यव्यवसाय तथा युवसक्षमीकरणमन्त्री प्रमोद मध्वराजमहोदयः, संस्कृतभारत्याः अखिलभारतीयः अध्यक्षः डा. चॉंदकिरण सलूजामहोदयः, महामन्त्री डा. नन्दकुमारमहोदयः च उपस्थिताः आसन्।
     त्रिदिनात्मकस्य  अधिवेशनस्यास्य अङ्गत्वेन विभिन्नविषयेषु  चर्चा, परिसंवादाः, यक्षगानादयः सांस्कृतिककार्यक्रमाः च आयोजिताः विद्यन्ते। 'परम्परा' नाम्नी आकर्षकी प्रदर्शनी अपि अत्र आयोजिता अस्ति। कार्यक्रमस्य विशेषत्वं नाम  लोकसभाध्यक्षामहोदयाsपि सम्पूर्णम् उदबोधनं संस्कृतेनेव अकार्षीत्।