OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, January 6, 2017

केन्द्रसर्वकारस्य आर्थिक-विनिमयानि मुद्रापत्रकरहितानि भविष्यति।
नवदेहली > सर्वकारीय आर्थिक-विनिमयानि मार्च् मासस्य एकत्रिंशत् दिनाङ्कात् पूर्वं मुद्रापत्रकरहितं भविष्यति। एतदर्थं सर्वान् मन्त्रालयान् प्रति निर्देशः दत्तः। विनिमयानि मुद्रापत्रकरहितया कर्तुं कृतानि सज्जीकरणानि सप्ताहान्तरेण पूर्णताम् प्राप्स्यते इति केन्द्र IT निदेशकया कविता भाट्यया उक्तम्। नूतनः भीं आप् सङ्केतः सर्वैः वित्तकोशैः सह आयोक्ष्यते इति च तया उक्तम्। सांख्यक विनिमयानां वर्धनेन सेवा शुल्कः सार्धरूप्यकात् अर्धरूप्यकत्वेन न्यूनीकृतः इति निदर्शनत्वेन तया प्रकाश्यते। (Credit- photo. Matrubhumi News)


 अध्ययनरीतिः समग्रं परिष्क्रियते।
अनन्तपुरी> केरले विद्यालयाध्ययनसम्प्रदायस्य पादादिकेशान्तपरिवर्तनाय अन्तिमरूपं  कृतम्। शैक्षिकसम्प्रदायस्य परिष्करणेन सह भौतिकान्तरिक्षस्य च समग्रं परिवर्तनं भविष्यति। आगामि अध्ययनवर्षादारभ्य केरलेषु सार्वजनीनविद्यालयाः नूतनसम्प्रदाये भविष्यन्ति। अध्यापककेन्द्रीकृताध्ययनस्य स्थाने छात्रकेन्द्रीकृताध्ययनस्य प्राधान्यम् इत्यस्ति परिष्करणस्य सारः। (Credit- photo. Matrubhumi News)



Wednesday, January 4, 2017

निर्वाचनं जाति-धर्मातीतं भवितव्यम् - सर्वोच्चन्यायालयः।
नवदिल्ली >जात्याः धर्मस्य च आधारे सम्मतिदानग्रहणं न आशास्यमिति सर्वोच्चन्यायालयस्य धर्मसंहितापीठेन आदेशः कृतः। मानवानां धर्मः ,वर्गः , जातिः ,भाषा इत्यादीनामाधारेण क्रियमाणं मतदानसङ्ग्रहणं निर्वाचनभ्रष्टाचार इति न्यायपीठेन निगदितम्। मुख्यप्राड्विवाकस्य टि एस् ठाक्कुरवर्यस्य अाध्यक्ष्ययुक्तेन सप्ताङ्गयुक्तेन शासनधर्मसंहितापीठेनैव एषः सुप्रधानः निर्णयः कृतः।
     जनप्रातिनिध्यनियमे १२३[३] विभागे सूच्यमानं "तस्य धर्मः " इत्यत्र स्थानाशिनः, प्रतिनिधेः, सम्मतिदातॄणां च जाति धर्मादयः अन्तर्भूताः इति न्यायपीठस्य भूरिपक्षनिर्णये स्पष्टीकृतम्।

भारत-वंशीयः शेख रफीक: किर्गिस्ताने "मेजर् जनरल्"।
नवदिल्ली> भारतीयमूलस्य निवासी शेख रफीक मोहम्म: नाम भारतवंशजः किर्गिस्तान देशे रक्षा विभागे "मेजर् जनरल्" इत्यस्मिन् पदे नियुक्त: अभवत्। सुचनानुसारेण कुत्रापि कस्यचित् देशस्य वैदेशिक नागरिकस्य अन्यस्मिन् देशे एतादृशरुपेण रक्षा विभागस्य उच्चपद अलंकरणस्य दुर्लभ एवञ्च प्रप्रथमम् उदाहरणमस्ति। भारतदेशस्य केरलराज्यस्य मूल निवासी रफीक: इत:पूर्वमपि किर्गिस्तान-देशस्य भूतपूर्व राष्ट्रपतिः कुर्मानबेक सेलियेविच बेकियेवस्य मुख्य सलाहकार पदे आसीत्।

पञ्चराज्यानां विधानसभेयनिर्वाचनानि
निर्वाचनायोगेन पञ्चराज्यानां विधानसभानिर्वाचनेभ्यः मतदानेभ्यः तिथयः समुद्घुष्टाः उत्तरप्रदेशे सप्तचरणेषु मणिपुरे चरणद्वये उत्तराखण्डगोवापञ्जाबराज्येषु एकस्मिन्नेव चरणे मतदानं भविष्यति |

१- उत्तरप्रदेशस्य
प्रथमचरणमतदानम् - ११/०२/२०१७
द्वितीयचरणमतदानम् -१५/०२/२०१७
 तृतीयचरणमतदानम् - १९/०२/२०१७
चतुर्थचरणमतदानम् - २३/०२/२०१७
 पञ्चमचरणमतदानम् - २७/०२/२०१७
 षष्ठचरणमतदानम् - ०४/०३/२०१७
 सप्तमान्तिम् चरणमतदानञ्च -०८/०३/२०१७
२- मणिपुरस्य
प्रथमचरणमतदानम् ०४/०३/२०१७
द्वितीयचरणमतदानम् ०८/०३/२०१७
३,४,५- उत्तराखण्ड-गोवा-पञ्जाबराज्येषु च  १५/०२/२०१७ दिनानि विनिर्धारितानि |

केरल-क्रिकेट् संघात् त्यागपत्रम्।
कोच्ची>सोमवासरे क्रिकेट संघस्य(केसीए)अध्यक्षस्य टी० सी० मात्यू इत्यस्य नेतृत्वे सर्वेsपि अधिकारिणा: स्व-स्व पदात् त्यागपत्रं दत्तवन्त:। तेषां वक्तव्यमासीत् यद् सर्वोच्च न्यायालयेन गठित लोढा समिते: अनुशंसानां केसीए मध्ये आरम्भ: भवतु एतदर्थं त्यागपत्रं दत्तवन्त:। सर्वोच्चन्यायालयस्य आदेशानुसारं ते सर्वेsपि अधिकारिणा: ये नव(९)वर्षात्मकं कार्यकालं पूरितवन्त: ते सर्वेsपि त्यागपत्रं दास्यन्ति । टी० सी० मात्यू अनुसारेण केसीए संस्थाया: वरिष्ठ-सदस्या: बी० विनोद: नूतन संघाध्यक्ष: जयेश जोर्ज: नूतन: सचिव: च भविष्यति। व्यवसायेन वाकील: टी० सी० मात्यू १९९७ त: २००५ पर्यन्तं केसीए संस्थाया: कोषाध्यक्ष-पदे तत: परं २०१४ पर्यन्तं सचिव-पदे २०१४ त: अध्यक्ष-पदे च आसीत्।

तिरुवैराणिक्कुलं देवालयस्य आर्द्रा-महोत्सवः जनुवरिमासस्य एकादश-दिनाङ्कतः
कोच्ची> माङ्गल्य देवता इति प्रसिद्धा तिरुवैराणिक्कुलं नाम देशास्य श्रीपार्वती देव्याः आलयस्य संवत्सरीयः कवाटोद्घाटन-महोत्सवः ज नुवरिमासस्य एकादश दिनाङ्के आरप्स्यते। आर्द्रा महोत्सवस्य अनुबन्धतया भवति अयम् उत्सवः। आलुवानगरस्य तथा कालट्याः च मध्यभागे विद्यमानः प्रदेशः भवति अयम् । संवत्सरे एक वारं आलय -कवाटम् उद्‌घाट्य द्वादशदिन पर्यन्तं पिधानं नास्ति इति आस्य आलयस्य विशेषता। कन्यकानां यूनां च शीघ्रमाङ्गल्य-प्राप्तये अत्रत्याः देव्याः दर्शनम् उत्तममिति प्रथा अस्ति।
Episod 27 Sreeranjini K, Govt:HS Thachangad, Kasaragod, Kerala.
छात्राणां कृते संस्कृत-स्पर्धा
-प्रथम स्थानं प्राप्तवतां पारितोषिकत्वेन १०,००० रुप्यकाणि ।
कोच्ची > वाक्भटसरणिः नाम स्वयंसेवक-दलेन आयुर्वेदस्य सुप्रचाराय आयोक्ष्यमाणा योजनेयम् । अष्टमकक्ष्या-छात्रादारभ्य अनुसन्धान-छात्रपर्यन्तेभ्यः विभिन्नाः स्पर्धाः आयोक्ष्यन्ते । प्रबन्धावतारणं, पद्योच्चारणं च अस्यां स्पर्धायां प्रमुखौ (विषयौ) भवतः। आगामि फेब्रुवरि मासस्य दशमदिनाङ्गादारभ्य द्वादशदिनाङ्गपर्यन्तं स्पर्धा प्रचलिष्यति । केरळे एरणाकुलं टौण्  रयिल् निस्थानस्य परिसरे चावर-कल्चरल् सेन्टर् मध्ये एव स्पर्धाः प्रचाल्यन्ते ।  आयुर्वेदपठनेन सह संस्कृतभाषायाः आदरः भवतु इति कार्यक्रमस्य लक्ष्यम् । आरोग्यकवचं नाम अष्टाङ्गहृदये विद्यमानानां ललित श्लोकानां आलापनमेव  अष्टमकक्ष्यादारभ्य द्वादश पर्यन्तेभ्यः स्पर्धा । श्लोकालापनं  ध्वनिमुद्रिकायां विलिख्य प्रेषणीयः ध्वनिमुद्रिकाश्रवणेन स्थानार्हता परिगण्यते इति आयोजकेन डाँ.पि.गौरीशङ्करेण उक्तम्। आवेदनपत्रस्य अन्तिमतिथिः जनुवरिमासस्य दशमदिनाङ्कः। अन्यां स्पर्धाम् अधिकृत्य अधिक ज्ञानाय अन्तर्जालपुटं पश्यतु । www.samprativartah.in

Tuesday, January 3, 2017

न्यायाधिपस्य अधीनतायां क्रिक्कट् क्रीडा वर्धयते चेत् सर्वविधाशंसाः - अनुराग्‌ ठाकुरः।

नवदिल्ली > भारतस्य क्रिक्कट् नियन्त्रक आयोगं (BCCI) नेतुं सेवानिवृत्तेन न्यायाधिपेन शाक्यते इति सर्वोच्च न्यायालयस्य अभिमतः चेत् शुभाशंसा वदामि इति बहिर् गतः BCCI अध्यक्षेण अनुराग्‌ ठाकुरेण उक्तम्। सर्वोच्च न्यायालयस्य आदेशस्य प्रतिस्पन्दवत् टिट्वर् मध्ये वीटडियो द्वारा आसीत् तस्य भाषणम्।

Monday, January 2, 2017

जापनीयछात्राय संस्कृते पञ्च-सुवर्णपतकानि

वारणासी> सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य चतुस्त्रिंशदीय-स्नातकोत्सवे जापनीय-छात्रया तोषिको इडावया संस्कृताघ्ययनात् पञ्च-सुवर्णपतकानि प्राप्तानि। तया सम्पूर्णानन्द-संस्कृतविश्वविद्यालयस्य सुवर्णपतकं,रामकुवार् सुवर्णपतकं, चन्द्रवदन् माधवसिंह सुवर्णपतकं , माधवाचार्य सुवर्णपतकं, प्रसादमुखर्जी सुवर्णपतकं च प्राप्तम्। अष्टवर्षेभ्य: पूर्वं काट्मण्डूतः आगतवती तस्मिन् समये नेपाली भाषामधिगतवती। संस्कृतमेव नेपालभाषाया: मूलमिति ज्ञात्वा संस्कृतभाषा-पठनाय संस्कृते प्रामाणपत्रप्रणालीं कृतवती। तत: प्रेरिता भूत्वा संस्कृते शास्त्री, आचार्य बिरुदौ च कृतवती। अस्मिन् स्नातकोत्सवे बनारस् हिन्दूविश्वविद्यालयस्य उपकुलपति: श्री गिरीश चन्द्रत्रिपाठी, काशीविद्यापीठस्य उपकुलपति: श्री पृथ्वी नागः, राज्यपाल: श्री राम् नायक् च भागं ग्रहीतवन्त:।

 तुर्कीराष्ट्रे भीकराक्रमणम् - एकोनचत्वारिंशत् जनाः मारिताः।
इस्ताम्बूल्> तुर्कीराष्ट्रस्य राजनगर्याम् इस्ताम्बूले कस्मिंश्चित् निशामेलनकेन्द्रे नववत्सराघोषाणां मध्ये भीकरैः कृतेन भुषुण्डिप्रयोगेन एकोनचत्वारिंशत् जनाः मृताः। तेषु द्वौ भारतीयौ स्तः। प्रादेशिकसमयानुसारं रात्रौ सपादैकवादने आसीत् रेय्ना नामके निशाकेन्द्रे भीकराक्रमणं सञ्जातम्।
   उपसप्तशतं जनाः आघोषोत्सुकाः सन्तः उपस्थिताः आसन्!सान्ताक्लोसस्य वेषं धृत्वा प्राप्तः भीकरः द्वारपालकम् आरक्षिपुरुषं प्रति गोलिकाशस्त्रप्रयोगं कृत्वा अन्तः प्रविश्य आघोषकान् प्रति भुषुण्डिप्रयोगं कृतवान्। मृतेषु २० जनाः प्रत्यभिज्ञाताः।

यू एन् सेक्रटरि जनरल् पदे अन्टोणियो गुट्टरसः प्रविष्टवान्।
न्यूयोर्क् > अस्मिन् आङ्कलीय-नववत्सरे ऐक्यराष्ट्रसभयाः आधिपत्ये अन्टोणियो गुट्टरसः प्रविष्टः। प्रतिसन्धयः दूरीकृत्य शान्तिं प्राप्नुयामः इति तेन स्वस्य प्रथमभाषणे उद्घोषितम्। व्यक्तयः राष्ट्राणि च शान्तिवर्धनाय राष्ट्राभिमतभिन्नता परिहाराय च प्रथमस्थानं दद्युः। लोकराष्ट्राणां सर्वकाराः तथा नूतनं यू एस् संविधानं च साह्येन वर्तिष्यन्ते इत्यपि तेन प्रत्याशां प्रकाशितवान्।

Sunday, January 1, 2017

क्षेमपद्धतीनां घोषणया नवसंवत्सरं स्वागतीकृत्य प्रधानमन्त्री; मुद्राप्रतिसन्धिमधिकृत्य मौनम् !।
नवदिल्ली> मुद्रानिर्मूल्यीकरणानन्तरम्  आभारतं प्रतीक्ष्यमाणानि वचांसि प्रधानमन्त्रिणः नरेन्द्रमोदिवर्यात् अद्य बहिरागतानि। नववत्सरं पुरस्कृत्य राष्ट्रं प्रति कृते प्रभाषणे अनेकाः क्षेमपद्धतयः प्रख्यापिताः।
      निर्धनानां भवननिर्माणाय नवीनं पद्धतिद्वयम् उद्घुष्टम्। मध्यवर्गीयेभ्यः जनेभ्यः नवलक्षपर्यन्तानाम् ऋणानां वृद्धौ  प्रतिशतं चतुर्णां रूप्यकाणाम् अवहारः लभते। द्वादशपर्यन्तम् ऋणावधौ ३% अवहारस्य अर्हता अस्ति! कार्षिकर्णानां प्रथममासद्वयपर्यन्तं वृद्धिः नास्ति।

 विश्वप्रसिद्धः अत्युन्नतः सेतुः चीनाराष्ट्रे
बैजिंङ् >  अत्युन्नतम् अचलद्वयं संयोज्य निर्मितः सेतुः गतागताय उद्घाटितं चीनाराष्ट्रे । विश्वे स्थितेषु सेतुषु अत्युन्नतम् इति
प्रसिद्धस्य बैपाञ्चियाङ् सेतोः उद्घाटनेन द्वयोः प्रविश्ययोर्मध्ये सञ्चारदैर्घ्यं चतुर्वारं परिमितं भवेत् ।
नदीतलात् 565 मीटर् (1854 f )   उन्नतौ विद्यमानोऽयं सेतुःयुनान् ग्विसा  प्रविश्ये मिथःयोजयति ।अनेन मार्गेण यात्रां करोति  चेत् चतुर्घण्टादैर्घ्यं  एकघण्टापरिमितं भवेत् । 

Saturday, December 31, 2016

भीम् आप् विश्वे अत्भुतम् आरच्यते ।
नव दिल्ली >  युष्माकम् अङ्गुष्ठे एव वित्तकोश तथा वाणिज्यः चI बृहत्परिणामः आगमिष्यति। भीम् आप् विश्वस्य बृहदाकारकम् अत्‍भुतंभविष्यति। साङ्ख्य विनिमयाय निर्मतः 'आप्‌' विमोच्य भाषमाणः आसीत् प्रधानमन्त्री नरेन्द्रमोदी। नवीनमिदं आप् अन्तर्जालस्य अभावे अपि प्रवर्तनक्षमः भवति ।पञ्चाशत् गतदिनानियावत् पत्र माध्यमेषु प्रकाशिता वार्ताः सर्वकारस्य पद्धतयः क्रमीकर्तुं उपकारिका आसीत्। अतः माध्यम प्रवर्तकान् प्रति धन्यवादमर्पयामि इति च तेनोक्तम्।

पूर्वनिर्णयेन पुरावृत्तं न व्याख्यातव्यम् - भारतष्ट्रपतिः। 
अनन्तपुरी > पुरावृत्तानां व्याख्याने व्यक्तिनिष्ठः पूर्वनिर्णयः न युक्त इति भारतराष्ट्रपतिः प्रणब् मुखर्जी । पूर्ववृत्तान्तरचनायां विभिन्नानि समीक्षणानि अन्तर्भाव्यानि। तदर्थम् अतिसूक्ष्मं दर्शनसामर्थ्यम् अपेक्षितञ्च। अनन्तपुर्यां सप्तसप्ततितमायाः  भारतीयपुरावृत्तपरिषदः उद्घाटनं कुर्वन् भाषमाणः आसीत् प्रणब् वर्यः।
      न्यायाधीशस्य मनोव्यापारः भवेत् चरित्रकारस्यापि, नैव पक्षसमर्थकस्य। चरित्रं वस्तुनिष्ठतया उपगन्तव्यम्- राष्ट्रपतिः अभाषत। तर्क-वितर्क-सन्देहानाम् अनुकूल-प्रतिकूल-निस्सङ्गानां च भारतीयजनाधिपत्ये स्वातन्त्र्यमस्ति। अतः पुरावृत्तरचनायामपि इदं स्वातन्त्र्यम् अपेक्षितम्। सत्यनिर्णये पूर्वोक्तानां तर्कवितर्कादीनां साहाय्यम् अवश्यमेव। अतः पुरावृत्तव्याख्याने पूर्वपरिकल्पना न युक्ता। राष्ट्रपतिना उक्तम्।
    केरळराज्यपालः न्याया.पि सदाशिवम् अध्यक्षपदमलङ्कृतवान्। मुख्यमन्त्री पिणरायि विजयः मन्त्रिणौ कटकंपिल्लि सुरेन्द्रः , प्रोफ.सि रवीन्द्रनाथः च , विपक्षनेता रमेश् चेन्नित्तला इत्यादयः सन्निहिताः आसन्।

Friday, December 30, 2016

सांख्यक विनिमयसुविधायै दूरवाणी सङ्केतः - प्रधानमन्त्री।
 नव दिल्ली > विशेष दूरवाणी सङ्केतः धनविनिमयाय विमोच्यते इति प्रधानमन्त्रिणा नरेन्द्र मोदिना उक्तम्। जनोपकारका भविष्यति अयम्। साङ्ख्यक विनिमय सुविधा वर्धनाय क्रियमाणाः पद्धतयः केन्द्रसर्वकारस्य साहाय्यम् अर्हन्ति इति च मोदिना टिट्वर् द्वारा सूचितम्। धनपत्रस्य निर्मूल्यीकरणानन्तरं पञ्चाशत् दिनानि अतीते नूतन आर्थिक विनिमयोपधयः प्रख्याप्यते।

केरळे शासनदक्षाव्यवस्था आयोजयिष्यति। 
अनन्तपुरी >केरळस्य सचिवालये सामान्यशासनं वित्तकार्यम् इत्यादिषु त्रिंशत् विभागेषु केरल शासनदक्षा सेवाव्यवस्थां [Kerala Administrative Service] समायोजयितुं मन्त्रिसभया निश्चितम् । पि एस् सि संस्थायाः अनुमत्या नियमावलिं सज्जीकृत्य के ए एस् सफलीकर्तुम् उद्दिश्श्यते।
     यदि केएस् ए सफलीक्रियते तर्हि सचिवालयाभिव्यापकेषु सुप्रधानविभागेषु विद्यमानेभ्यः उन्नतस्थानेभ्यः पि एस् सि द्वारा साक्षान्नियुक्तिं कर्तुं शक्यते। तत्र अष्टसंवत्सरसेवनात्परं ऐ ए एस् पदवीं लब्धुमर्हतां लभते च।

Thursday, December 29, 2016

आभारतम् ऑण् लैन् सुरक्षायै गूगिलः आगमिष्यति। 
नवदिल्ली>ऑण् लेन् सुरक्षामधिकृत्य सुखबोधाय उपभोक्तृमन्त्रालयस्य सहकारितया पठनवर्गः आयोक्ष्यते । संवत्सरं यावत् वर्गः प्रचाल्यते । कथम् ऑण्लेन् सुरक्षां प्राप्नुयामः इति राष्ट्रियस्थरे कार्यक्रमाः आयोक्ष्यते इति गूगिलेन ज्ञापितः। उपभोक्तृदलानां कार्यक्षमता, अन्तर्जालसुरक्षा, अन्तर्जाल सङ्केतानधिकृत्य अवबोध वर्धनम् च लक्ष्यम् इति गूगिल् संस्थायाः भारतस्य वक्त्रा चेतन् कृष्णमूर्ति महोदयेन उक्तम्। प्रथमे परिशीलनसत्रे पञ्चशतम्  जनाः भागभाजःभविष्यन्ति। २०१७ जनुवरि मासे परिशीलनसत्रस्य आरम्भम् इति निश्चितम्।

संस्कृतस्य कृते आत्मनं समर्प्यप्य सुजा गतवती। 
सम्प्रतिवार्तायाः वार्ताहरा सुजाहरिदास् दिवङ्गता।
त्रिश्शिवपेरूर्> सम्प्रति वार्तायाः प्रारम्भात् आरभ्य वार्तालेखिकायाः कर्मणा संस्कृतसेवां कुर्वन्ती असीत् सुजा महाभागा। संस्कृतभारत्याः निस्वार्थसेविकारुपेण बहुकालं प्रवर्तनं कृतवती। त्रिशूर् जनपदस्य चेर्प्‌ सर्वकारीयविद्यालये संस्कृताध्यापिकापदम् अलङ्कुर्वन्ती आसीत् । ललितया रीत्‍या  संस्कृतकक्ष्याचालने सुजायाः नैपुणी बहुवारं प्रशंसिता आसीत्।  अनारोग्ये अपि संस्कृतभाषा प्रचाराय  स्वमृत्युपर्यन्तं प्रयत्नं कृतवती। वृक्करोगेण पीडिता सा गतमासादारभ्य एरणाकुळे औषधालये चिकित्सायाम् आसीत्। ह्यः रात्रौ आसीत् तस्याः निधनम्।
Anjana Shaji, MGM Govt. HSSS Nayathod, Ernakulam, Kerala.

Wednesday, December 28, 2016

त्रिंशद्दिनाङ्कात्पपरं निरुद्ध-मुद्रापत्र-वशवर्तिनः द्रव्यदण्ड्याः।
नवदिल्ली> निद्धाः पञ्चशत - सहस्र मुद्रारूप्यकाणि निश्चितसंख्याधिकतया दिसम्बर् त्रिंशत्दिनाङ्कात् परं ये स्वाधीनतां कुर्वन्ति तेषां द्रव्यदण्डं व्यवस्थापयितुं केन्द्रसर्वकारः चिन्तयति। अद्यतनमन्त्रिमण्डले अयं विषयः परिगण्यतेति ज्ञायते।
      निर्मूल्यीकृतानि मुद्रारूप्यकाणि वित्तकोशलेखायां निक्षेप्तुम् अन्तिमदिनं भवति दिसम्बर् ३०। ततःपरं ५००,१००० रूप्यकाणां निरुद्धानि मुद्राणि दशसंख्याकात्परं हस्तगतानि भवन्ति चेत् द्रव्यदण्डः भवितव्यः इति अभिज्ञैः सूच्यते। तादृशैः मार्च ३१ पर्यन्तं रिसर्व् बाङ्कस्य प्रादेशिककार्यालयेषु निक्षेपाय अवसरः अस्ति। पञ्चशत - सहस्र मुद्रारूप्यकाणि निश्चितसंख्याधिकतया दिसम्बर् त्रिंशत्दिनाङ्कात् परं ये स्वाधीनतां कुर्वन्ति तेषां द्रव्यदण्डं व्यवस्थापयितुं केन्द्रसर्वकारः चिन्तयति। अद्यतनमन्त्रिमण्डले अयं विषयः परिगण्यतेति ज्ञायते।

टोम् उष़ुन्नालस्य मोचनाय यतिष्यते - सुषमास्वराज्।
नवदिल्ली> येमन् देशात् ऐ एस् भीकरैः अपहृतस्य टोम् उष़ुन्नाल् नामकस्य क्रिस्तीयपुरोहितस्य मोचनाय पुनरपि  यावच्छक्यं यतिष्यते इति भारतस्य विदेशकार्यमन्त्रिणी सुषमास्वराजः ट्विटर द्वारा निगदितवती।
     भारतीयः इत्यतः स्वस्य मोचनाय का पि धर्मसंस्था को पि सर्वकारः वा  यत्किमपि सक्रियं प्रवर्तनं न करोति इति उष़ुन्नालस्य दृश्यनिवेदनं प्रकाशितमासीत्। तस्य प्रतिवचनरूपेणैव सुषमायाः ट्विटर् वचनम्। सर्वेषां भारतीयानां प्राणाः परमप्राधान्यमर्हन्तीति तया निगदितम्।

याचनया लब्धं- भगवते दत्तवान्
विजयवाटिका > आन्ध्राप्रदेशस्य गोण्डापरिसस्थ श्रीराममन्दिरे याचकेन सार्थैकलक्षस्य काच निर्मिततः किरीटः भगवते समर्पितम्। मुत्यालंपडु कोदण्डरामालयस्य यदि रढ्ढिनामकेन भिक्षुकेन एव किरीटः अर्पितः। पञ्चसप्तति वयस्कः अयं कौमारे विजयवाटिकायां आगतवान्। रिक्षावाहकः आसीत्। पञ्च वर्षेभ्यः पूर्वमेव याचकवृत्तिः स्वीकृता। बान्धवाः नास्ति इत्यनेन लब्धंधनं आध्यात्मिक-कार्याय उपयोक्तुं निश्चितवान्।

Tuesday, December 27, 2016

एकदिनात्मक वार्तावतरण परिशीलनवर्गः सम्पन्नः।
 कोच्ची > केरळे एरणाकुळं जनपदे सम्प्रति वार्तया आयोजितः एकदिनात्मक-वार्तावतरण पठनवर्ग:सम्पन्नः। जनपदस्य विविधेभ्यः भागेभ्यः १८ विद्यालय छात्राः पठनवर्गाय चिताः आसन्। वर्गस्योद्घाटनम् सर्व-शिक्षा अभियानस्य राज्यस्थरीय प्रयुक्तिपुरुषःऐवर्काला रविकुमारः निरवहत्। दिल्ली दूरदर्शनस्य वार्तावतारकेन नारायण दत्त मिश्र महोदयेन ऑण्‌ लैन् द्वारा वर्गः प्रचालितः इति छात्रेषु तुष्टिः अवर्धत।पुलियनम् सर्वकारीय उच्चतर विद्यालयस्य प्रथानाध्यापकस्य के उण्णिकृष्णस्य समापन सन्देशेन पठनवर्गः सम्पूर्णतां प्राप। एतैः छात्रैः आगामिदिनेषु वार्तावतरणं करिष्यते।
अग्निःपञ्चमः नाम बाणस्य परीक्षणविजयः।
नवदिल्ली > आणवायुधवहनक्षमः भूखण्डान्तरबाणः अग्निःपञ्चः इत्याख्यः परीक्षणे विजयं प्राप्तवान्। ओडीषा राज्यस्य कलां द्वीपतः सोमवासरे प्रातः आसीत्  विक्षेपणम्। परीक्षणस्य उत्तीर्णतया बालिस्टिक् राष्ट्राणां दले भरतस्यापि प्रवेशः अलभत। अमेरिका, रष्‍या, चैना, फ्रान्स् ब्रिटन् प्रभृतीनां राष्ट्राणां एव एतावत्पर्यन्तं
बाणस्य अधीशत्‍वम्। अस्य बाणस्य आक्रमण परिधिः पञ्चसहस्रं किलोमीटटर् एव। परीक्षायाः अन्तिमभागः अधुना समजायत

भारतोपभूखण्डस्य कलापारम्पर्यम्  संस्कृतसम्पन्नम्-
अश्वति तिरुनाल् गौरी महाराज्ञी। 
श्रीशङ्कर नृत्तविद्यालयस्य २५तम वार्षिकाघोषाणाम् उद्घाटनं निर्वहन्ती महाराज्ञी गौरी लक्ष्मी भायी।
कालटी> भारतोपभूखण्डस्य संगीतनृत्तादिकलापारम्पर्यः संस्कृतभाषायाः अधीशत्वे विकासं प्राप्य अग्रिमस्थानमर्हतीति तिरुवितांकोट् देशस्य राज्ञीस्थानमलङ्कुर्वन्ती अश्वतितिरुनाल् [अश्वतीनक्षत्रजाता] गौरी लक्ष्मीभायी अवदत्। कालट्यां श्रीशङ्करा स्कूल् आफ् डान्स् इति नृत्तविद्यालयस्य पञ्चविंशतितमसंवत्सरीयमहोत्सवम् उद्घाटनंकुर्वन्ती भाषमाणा आसीत् महाराज्ञी। भारतस्य दक्षिणराज्यस्य केरलस्य कूटियाट्टमिति कलारूपं ऐक्यराष्ट्रसभायाः युनेस्को संस्थया पैतृक-पारम्पर्यकलारूपेण अङ्गीकृतमिति केरळस्य कलापारम्पर्यस्य संस्कृतपारम्पर्यस्य च उत्तमनिदर्शनमिति महाभागया प्रस्तौतम्। अनुबन्धकलारूपाणां पट्टिकायां केरळस्यैव मुटियेट् इति कलारूपमपि अन्तर्भूतम्।
      सम्मेलने स्मिन् कालटि श्रीशङ्कराचार्य संस्कृत विश्वविद्यालयस्य उपकुलपतिः डॉ.एम् सि दिलीप् कुमारः, केरलकलामण्डलं कल्पित-विश्वविद्यालयस्य भूतपूर्वोपकुलपतिः डॉ.के जि पौलोस्,  नाट्यकलागुरुः कलामण्डलं कल्याणिक्कुट्टियम्मा इत्यादयः सन्निहिताः आसन्।

Monday, December 26, 2016

भगवतः अयप्पमंदिरे जनसम्मर्दः
३१ जनाः व्रणिताः।

कोच्ची> केरळे शबरीगिरौ भगवतः अयप्पस्य मंदिरे गतदिने दुरापादिते सम्मर्दे न्यूनातिन्यूनं ३१ व्रतधारिणः व्रणिताः। व्रणिताः अय्यप्पददृशवः भक्ताः कोट्टयं चिकित्यालये अथ च  स्थानीये पम्बा चिकित्सालये शुश्रूषिताः वर्तन्ते।। पत्तनंतिट्टायाः  जनपदााधिकारिणा प्रोदीरितं यत् तीर्थाटकानां भूरिसंख्याकारणेन आरक्षिबन्धस्य खण्डनमभवत् येन दुर्घटनेयं दुरापादिता। जनोद्धाराय सुरक्षादृशा च राष्ट्रियापदुद्धारबलं घटनास्थले सक्रियतामादधाति।

Sunday, December 25, 2016

National Seminar on Holistic way of Life & Living Day3
ज्ञानपीठपुरस्कारः शङ्खघोषवर्याय। 
 नवदिल्ली> अस्य संवत्सरस्य ज्ञानपीठपुरस्काराय वंगराज्यस्य प्रशस्तकविः तथा निरूपकः शङखघोषवर्यः अर्हति। वंगसाहित्ये रवीन्द्रनाथटाक्कुरस्य मार्गम् अनुगच्छन्नस्ति अयम्। प्रसिद्धः साहित्यकारः चिन्तकः नंवर् सिंहः इत्यस्य नेतृत्वे विद्यमाना समितिरेव इमं निर्णयं कृतवती। सामाजिकप्रश्नान् उपेत्य निरीक्ष्यमाणाः कविताः तस्य जीवनकालं सामाजिकावस्थां च याथातथ्येन अङ्कयतीति पुरस्कारसमित्या निर्णीतम्। मानवस्य अन्तर्वैरुध्यान्येव शङघघोषस्य कविताभिः सामान्येन प्रकाश्यमाणानि वर्तन्ते। भाषायाः कृतहस्तता तस्य कवितानां मुखमुद्रा भवति। आशयागाधतयया सौन्दर्येण च तस्य रचनाः नितराम् उत्कृष्टाः विद्यन्ते।

छात्रवैद्यसमूहाः ग्रामेषु पर्यटनं कृत्वा रोगनिवारणोपाया: अध्ययनं करणीयम्-चन्द्रबाबुनायुडु:।
विजयवाडा> स्वास्थ्यविद्यावाहिनि कार्यक्रमे ये वैद्यछात्रा: भागं ग्रहिष्यन्ति तेषामधिक अङ्का: यच्छाम: इति आन्ध्रप्रदेश मुख्यमन्त्री श्री चन्द्रबाबुनायुडु: अवदत् । विजयवाडा नगरे शनिवासरे मुख्यमन्त्री अस्याः योजनायाः प्ररम्भं कृत्वा भाषणं दत्तवान् यत् “जनवरि मासस्य द्वितीयदिनाङ्कादारभ्य अक्टोबर् मास पर्यन्तं दशमासा: प्रतिदिनं षट्चत्वारिंशदधिकचतुश्शतं(४४६)
वैद्यसमूहैः ग्रामेषु पर्यटनं कृत्वा तत्र पर्यावरणम्,  प्रस्तुतस्थितिगतय:, रोगनिवारणोपाया: च अध्ययनं करणीयम्। अस्मिन् उद्यमे ये छात्रा: भागं ग्रहिष्यन्ति ते प्रयोगात्मकपरीक्षासु अधिकाङ्का: प्राप्तुं शक्नुवन्तीति मुख्यमन्त्री अवदत्।                       

नववैद्या: एव भारतनिर्मातार: - श्री प्रणवमुखर्जी।
जवहार्नगरम् >नववैद्या: भारतनिर्मातार: भवितव्यः इति भारतराष्ट्रपतिना श्री प्रणवमुखर्जी महोदयेन उक्तम्। हैदरबाद् सैनिक-दन्तवैद्यकलाशालाया:                         स्नातकोत्तर-बिरुद-प्रदानोत्सवे मुख्यतिथिर्भूत्वा उत्तम-पठनपरिणामं प्राप्तवतां छात्राणां पुरस्कारप्रदानं कृत्वा भाषमाणः आसीत् सः। वैद्यकलाशालाया: एकादशीय स्नातकोत्सव महोत्सवः आसीदयम् । अस्मिन् अवसरे भाषणं दत्तवान् यत् वैद्यछात्रा: भारतनिर्मातार: भवन्ति। तेषां ज्ञानं समाजकल्याणाय भवतु , नववैद्यैः वैद्यसेवाः मानुषत्वेन करणीयाः इति च तेन महामहिमवर्येण उक्तम् । अष्टसहस्र नगरीयजनानां एक: दन्तवैद्य:, एवमेव पञ्चसहस्र ग्राम्यजनानां एक: दन्तवैद्य: एव अस्ति। अत: नववैद्या: प्रतिग्रामं गत्वा दन्तवैद्य-शिबिरा: स्थापनीया: इति तेन वैद्याः उपदिष्टाः। अस्मिन् स्नातकोत्सवे राज्यपाल: श्री नरसिंहन् , तेलंगाना उपमुख्यमन्त्री महम्मद् अलि, कालोजी आरोग्य-विश्वविद्यालयस्य उपकुलपति: करुणाकररेड्डि: अन्ये कलाशालाध्यापकाध्यापिकाश्च भागं गृहीतवन्त:।

 अत्यन्तोन्नत छत्रपतिशिवाजिमूर्तेः निर्माणम्- अरेबियन् महासमुद्रे।
 भारतप्राधनमन्त्री श्री नरेन्द्रमोदि: जलपूजां कृतवान्।
मुम्बई> मुम्बई नगरस्य समीपे अरेबियन् महासमुद्रे अत्यन्तोन्नत शिवाजिमहाराज्ञ: मूर्ते: निर्माणं भविष्यति। अयं मूर्ति: षट्शतत्रिंशत्पदम् उच्चतां भूत्वा विश्वविक्रमे स्थानं प्राप्स्यति। अस्य मूर्ते: निर्माणार्थं त्रिसहस्रषट्शतकोटि रूप्यकाणि व्ययं भविष्यति। शनिवासरे शिवाजिमूर्तेः निर्माणस्य प्रारम्भोत्सवे भारतप्राधनमन्त्री श्री नरेन्द्रमोदि: जलपूजां कृतवान्।

अद्य क्रिस्तुजयन्ति आचरन्ति लोकाः 
चित्रशेखरात्
 
वत्तिक्कान् नगरे सेन्ट्.पेट्टर् देवालये फ़्रान्सिस् मार्पप्पा आराधनं  करोति