OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 27, 2016

एकदिनात्मक वार्तावतरण परिशीलनवर्गः सम्पन्नः।
 कोच्ची > केरळे एरणाकुळं जनपदे सम्प्रति वार्तया आयोजितः एकदिनात्मक-वार्तावतरण पठनवर्ग:सम्पन्नः। जनपदस्य विविधेभ्यः भागेभ्यः १८ विद्यालय छात्राः पठनवर्गाय चिताः आसन्। वर्गस्योद्घाटनम् सर्व-शिक्षा अभियानस्य राज्यस्थरीय प्रयुक्तिपुरुषःऐवर्काला रविकुमारः निरवहत्। दिल्ली दूरदर्शनस्य वार्तावतारकेन नारायण दत्त मिश्र महोदयेन ऑण्‌ लैन् द्वारा वर्गः प्रचालितः इति छात्रेषु तुष्टिः अवर्धत।पुलियनम् सर्वकारीय उच्चतर विद्यालयस्य प्रथानाध्यापकस्य के उण्णिकृष्णस्य समापन सन्देशेन पठनवर्गः सम्पूर्णतां प्राप। एतैः छात्रैः आगामिदिनेषु वार्तावतरणं करिष्यते।
अग्निःपञ्चमः नाम बाणस्य परीक्षणविजयः।
नवदिल्ली > आणवायुधवहनक्षमः भूखण्डान्तरबाणः अग्निःपञ्चः इत्याख्यः परीक्षणे विजयं प्राप्तवान्। ओडीषा राज्यस्य कलां द्वीपतः सोमवासरे प्रातः आसीत्  विक्षेपणम्। परीक्षणस्य उत्तीर्णतया बालिस्टिक् राष्ट्राणां दले भरतस्यापि प्रवेशः अलभत। अमेरिका, रष्‍या, चैना, फ्रान्स् ब्रिटन् प्रभृतीनां राष्ट्राणां एव एतावत्पर्यन्तं
बाणस्य अधीशत्‍वम्। अस्य बाणस्य आक्रमण परिधिः पञ्चसहस्रं किलोमीटटर् एव। परीक्षायाः अन्तिमभागः अधुना समजायत

भारतोपभूखण्डस्य कलापारम्पर्यम्  संस्कृतसम्पन्नम्-
अश्वति तिरुनाल् गौरी महाराज्ञी। 
श्रीशङ्कर नृत्तविद्यालयस्य २५तम वार्षिकाघोषाणाम् उद्घाटनं निर्वहन्ती महाराज्ञी गौरी लक्ष्मी भायी।
कालटी> भारतोपभूखण्डस्य संगीतनृत्तादिकलापारम्पर्यः संस्कृतभाषायाः अधीशत्वे विकासं प्राप्य अग्रिमस्थानमर्हतीति तिरुवितांकोट् देशस्य राज्ञीस्थानमलङ्कुर्वन्ती अश्वतितिरुनाल् [अश्वतीनक्षत्रजाता] गौरी लक्ष्मीभायी अवदत्। कालट्यां श्रीशङ्करा स्कूल् आफ् डान्स् इति नृत्तविद्यालयस्य पञ्चविंशतितमसंवत्सरीयमहोत्सवम् उद्घाटनंकुर्वन्ती भाषमाणा आसीत् महाराज्ञी। भारतस्य दक्षिणराज्यस्य केरलस्य कूटियाट्टमिति कलारूपं ऐक्यराष्ट्रसभायाः युनेस्को संस्थया पैतृक-पारम्पर्यकलारूपेण अङ्गीकृतमिति केरळस्य कलापारम्पर्यस्य संस्कृतपारम्पर्यस्य च उत्तमनिदर्शनमिति महाभागया प्रस्तौतम्। अनुबन्धकलारूपाणां पट्टिकायां केरळस्यैव मुटियेट् इति कलारूपमपि अन्तर्भूतम्।
      सम्मेलने स्मिन् कालटि श्रीशङ्कराचार्य संस्कृत विश्वविद्यालयस्य उपकुलपतिः डॉ.एम् सि दिलीप् कुमारः, केरलकलामण्डलं कल्पित-विश्वविद्यालयस्य भूतपूर्वोपकुलपतिः डॉ.के जि पौलोस्,  नाट्यकलागुरुः कलामण्डलं कल्याणिक्कुट्टियम्मा इत्यादयः सन्निहिताः आसन्।

Monday, December 26, 2016

भगवतः अयप्पमंदिरे जनसम्मर्दः
३१ जनाः व्रणिताः।

कोच्ची> केरळे शबरीगिरौ भगवतः अयप्पस्य मंदिरे गतदिने दुरापादिते सम्मर्दे न्यूनातिन्यूनं ३१ व्रतधारिणः व्रणिताः। व्रणिताः अय्यप्पददृशवः भक्ताः कोट्टयं चिकित्यालये अथ च  स्थानीये पम्बा चिकित्सालये शुश्रूषिताः वर्तन्ते।। पत्तनंतिट्टायाः  जनपदााधिकारिणा प्रोदीरितं यत् तीर्थाटकानां भूरिसंख्याकारणेन आरक्षिबन्धस्य खण्डनमभवत् येन दुर्घटनेयं दुरापादिता। जनोद्धाराय सुरक्षादृशा च राष्ट्रियापदुद्धारबलं घटनास्थले सक्रियतामादधाति।

Sunday, December 25, 2016

National Seminar on Holistic way of Life & Living Day3
ज्ञानपीठपुरस्कारः शङ्खघोषवर्याय। 
 नवदिल्ली> अस्य संवत्सरस्य ज्ञानपीठपुरस्काराय वंगराज्यस्य प्रशस्तकविः तथा निरूपकः शङखघोषवर्यः अर्हति। वंगसाहित्ये रवीन्द्रनाथटाक्कुरस्य मार्गम् अनुगच्छन्नस्ति अयम्। प्रसिद्धः साहित्यकारः चिन्तकः नंवर् सिंहः इत्यस्य नेतृत्वे विद्यमाना समितिरेव इमं निर्णयं कृतवती। सामाजिकप्रश्नान् उपेत्य निरीक्ष्यमाणाः कविताः तस्य जीवनकालं सामाजिकावस्थां च याथातथ्येन अङ्कयतीति पुरस्कारसमित्या निर्णीतम्। मानवस्य अन्तर्वैरुध्यान्येव शङघघोषस्य कविताभिः सामान्येन प्रकाश्यमाणानि वर्तन्ते। भाषायाः कृतहस्तता तस्य कवितानां मुखमुद्रा भवति। आशयागाधतयया सौन्दर्येण च तस्य रचनाः नितराम् उत्कृष्टाः विद्यन्ते।

छात्रवैद्यसमूहाः ग्रामेषु पर्यटनं कृत्वा रोगनिवारणोपाया: अध्ययनं करणीयम्-चन्द्रबाबुनायुडु:।
विजयवाडा> स्वास्थ्यविद्यावाहिनि कार्यक्रमे ये वैद्यछात्रा: भागं ग्रहिष्यन्ति तेषामधिक अङ्का: यच्छाम: इति आन्ध्रप्रदेश मुख्यमन्त्री श्री चन्द्रबाबुनायुडु: अवदत् । विजयवाडा नगरे शनिवासरे मुख्यमन्त्री अस्याः योजनायाः प्ररम्भं कृत्वा भाषणं दत्तवान् यत् “जनवरि मासस्य द्वितीयदिनाङ्कादारभ्य अक्टोबर् मास पर्यन्तं दशमासा: प्रतिदिनं षट्चत्वारिंशदधिकचतुश्शतं(४४६)
वैद्यसमूहैः ग्रामेषु पर्यटनं कृत्वा तत्र पर्यावरणम्,  प्रस्तुतस्थितिगतय:, रोगनिवारणोपाया: च अध्ययनं करणीयम्। अस्मिन् उद्यमे ये छात्रा: भागं ग्रहिष्यन्ति ते प्रयोगात्मकपरीक्षासु अधिकाङ्का: प्राप्तुं शक्नुवन्तीति मुख्यमन्त्री अवदत्।                       

नववैद्या: एव भारतनिर्मातार: - श्री प्रणवमुखर्जी।
जवहार्नगरम् >नववैद्या: भारतनिर्मातार: भवितव्यः इति भारतराष्ट्रपतिना श्री प्रणवमुखर्जी महोदयेन उक्तम्। हैदरबाद् सैनिक-दन्तवैद्यकलाशालाया:                         स्नातकोत्तर-बिरुद-प्रदानोत्सवे मुख्यतिथिर्भूत्वा उत्तम-पठनपरिणामं प्राप्तवतां छात्राणां पुरस्कारप्रदानं कृत्वा भाषमाणः आसीत् सः। वैद्यकलाशालाया: एकादशीय स्नातकोत्सव महोत्सवः आसीदयम् । अस्मिन् अवसरे भाषणं दत्तवान् यत् वैद्यछात्रा: भारतनिर्मातार: भवन्ति। तेषां ज्ञानं समाजकल्याणाय भवतु , नववैद्यैः वैद्यसेवाः मानुषत्वेन करणीयाः इति च तेन महामहिमवर्येण उक्तम् । अष्टसहस्र नगरीयजनानां एक: दन्तवैद्य:, एवमेव पञ्चसहस्र ग्राम्यजनानां एक: दन्तवैद्य: एव अस्ति। अत: नववैद्या: प्रतिग्रामं गत्वा दन्तवैद्य-शिबिरा: स्थापनीया: इति तेन वैद्याः उपदिष्टाः। अस्मिन् स्नातकोत्सवे राज्यपाल: श्री नरसिंहन् , तेलंगाना उपमुख्यमन्त्री महम्मद् अलि, कालोजी आरोग्य-विश्वविद्यालयस्य उपकुलपति: करुणाकररेड्डि: अन्ये कलाशालाध्यापकाध्यापिकाश्च भागं गृहीतवन्त:।

 अत्यन्तोन्नत छत्रपतिशिवाजिमूर्तेः निर्माणम्- अरेबियन् महासमुद्रे।
 भारतप्राधनमन्त्री श्री नरेन्द्रमोदि: जलपूजां कृतवान्।
मुम्बई> मुम्बई नगरस्य समीपे अरेबियन् महासमुद्रे अत्यन्तोन्नत शिवाजिमहाराज्ञ: मूर्ते: निर्माणं भविष्यति। अयं मूर्ति: षट्शतत्रिंशत्पदम् उच्चतां भूत्वा विश्वविक्रमे स्थानं प्राप्स्यति। अस्य मूर्ते: निर्माणार्थं त्रिसहस्रषट्शतकोटि रूप्यकाणि व्ययं भविष्यति। शनिवासरे शिवाजिमूर्तेः निर्माणस्य प्रारम्भोत्सवे भारतप्राधनमन्त्री श्री नरेन्द्रमोदि: जलपूजां कृतवान्।

अद्य क्रिस्तुजयन्ति आचरन्ति लोकाः 
चित्रशेखरात्
 
वत्तिक्कान् नगरे सेन्ट्.पेट्टर् देवालये फ़्रान्सिस् मार्पप्पा आराधनं  करोति

Saturday, December 24, 2016

National Seminar on Holistic way of Life & Living Day 2
कृष्णानदी तीरे पञ्चम अन्ताराष्ट्रिय कूचिपूडि नृत्योत्सव:।
अमरावती > कृष्णानदी परीवाहकप्रान्त: कूचिपूडि: विश्वप्रसिद्ध:। अस्मिन् ग्रामे प्रचलिते अन्ताराष्ट्रिय कूचिपूडि नृत्योत्सवे भागं ग्रहीतुं देश,विदेशेभ्यश्च नृत्यकलाकरा: आगतवन्ता:। अयं नृत्योत्सवकार्यक्रम: दिसेम्बर् २३ दिनाङ्कादारभ्य दिसेम्बर् २५ दिनाङ्कपर्यन्तं भविष्यति। आन्ध्रभाषासांस्कृतिकशाखा, सिलिकानान्ध्रा च  संस्थे मिलित्वा अयोजितः भवति कार्यक्रमः। द्विशत-पञ्चाशत् गुरव: तेषां शिष्याश्च अस्मिन् कार्यक्रमे नृत्यं प्रदर्शयिष्यति। अद्य सार्ध-नववादने आन्ध्रप्रदेशमुख्यमन्त्री श्री चन्द्रबाबुनायुडु: अयं कार्यक्रमस्य प्रारम्भ: कृत:। अस्मिन् कार्यक्रमे तृतीयदिने षट्सहस्रं कलाकरा: मिलित्वा नृत्यं करिष्यन्ति। कूचिपूडि नृत्यं आगामि संवत्सरादारभ्य सप्तमकक्ष्याया: पाठ्यपुस्तके पाठ्यांश रूपेण भविष्यतीति मुख्यमन्त्री अवदत्।

तमिल् नाडुराज्यस्य नूतन प्रधानसचिवा श्रीमति गिरिजा वैद्यनाथन्।
श्रीमती गिरिजा वैद्यनाथन् तमिलनाडु राज्यस्य मुख्यकार्यनिर्वाहिका रूपेण अद्य पदवीमलङ्कृतवती। भारतीय प्रौद्योगिकी संस्थाय़ामुपाधिं सम्पाद्य  “संक्षेमं-आर्थिकप्रगति:” इत्यस्मिन् विषये विद्यावारधिं प्राप्तवती। डा.गिरिजा वैद्यनाथन् १९८१ संवत्सरे भारतीय प्रशासनिक सेवायां प्रशिक्षणं कृतवती। अनन्तरं तमिलनाडु आरोग्यशाखायां अधिकारिणी आसीत्। तत्र तस्या: सेवा: प्रशंसनीया: आसन्।


प्राचार्य योग्यता परीक्षा – सी.बी.एस्.सी
 नवदिल्ली>ये अध्यापका: प्राचार्याः भवितुमिच्छन्ति तेषां सी.बी.एस्.सी संस्था प्राचार्य योग्यता परीक्षां निर्वहिष्यन्ति। सी.बी.यस्.सी ५३ (१) नियमानुसारं न्यूनतमयोग्यता भवति चेत् प्राचार्य योग्यता परीक्षा लेखितुं शक्यते परन्तु इयं परीक्षा केवलं अर्हता कृते एव न तु सर्वकारविद्यालयेषु प्राचार्योद्योगाय।

Friday, December 23, 2016

National Seminar on Holistic way of Life & Living Day 1
सौदीअरेब्याराष्ट्रेण करव्यवस्थां स्थापयितुं निश्चितम्।, प्रतिमासं ७०० रियाल्। 

रियाद् > प्रवासिजनानां सौदीअरेब्याराष्ट्रेण करव्यवस्थां स्थापयितुं निश्चितम्। सन्दर्भेऽस्मिन्  प्रवासि जनाः  प्रति मासं सप्तशतं रियाल् (७००) करं दातुं निर्बन्धिताः भवेयुः। आश्रित विसायां गतेभ्यः द्वि शतादारभ्य चतुश्शत पर्यन्तं (२००-४००) भवति करः। आगामि नूतनसंवत्सरस्य  आर्थिक-विनिमय-निर्देशे एव इमं निर्देशं अन्तर्भावयति। भारतात् बहवः जनाः तत्र कर्म कुर्वन्ति। तेषां अवस्था दुरितमया भविष्यति। स्वदेशवत्करणस्य अनुबन्धतया भवति अयं निर्देशः

सी.बी.एस्.सी विद्यालयेषु संस्कृतम् अनिवार्यम्, दशमी पर्यन्तं त्रिभाषासूत्रम्  – श्री प्रकाश जवेद्कर:
नवदिल्ली>सी.बी.यस्.सी विद्यालयेषु त्रिभाषासूत्रमचिरेण प्रारप्स्यते। षष्ठ-कक्ष्यादारभ्य दशमकक्ष्या पर्यन्तं त्रिभाषासूत्रमुद्घोषितम्। परन्तु पाठशालासु का पि भाषा समाहिता न भवति। संस्कृतभाषा दशम-पर्यन्तमनिवार्यं भविष्यतीति जवेद्कर: अवदत्। तमिलनाडुं त्यक्त्वा देशेषु  सर्वेषु राज्येषु एका अन्ताराष्ट्रियभाषा आङ्गलम् , अन्या देशीयभाषा हिन्दी , अपरा संस्कृतं अथवा एका प्रान्तीयभाषा भविष्यति। परन्तु येषां हिन्दी प्रान्तीयभाषा भवति तेषां तृतीयाभाषारूपेण संस्कृतमनिवार्यं भविष्यति । ये जना: पाश्चात्यभाषा-पठनार्थमुत्सुका: भवन्ति ते ऐच्छिकरूपेण चतुर्थभाषारूपेण पठितुमर्हन्तीति श्री जवेद्कर: अवदत्।
                     
 ८०००० शिशवः अनशनतया मृताः भविष्यन्ति -यू एन्।
लोगोस् (नैजीरिया ) >पोषकाहारस्य अभावेन आगामी संवत्सरे अशीति सहस्रं शिशवः मृत्युवशं गमिष्यति इति यू एन् संस्थायाः शिशुविभागेन सूचना दत्ता। चतुर्लक्षं शिशवः अनशनाः भविष्यन्ति। बोक्को हरां भीकराणां वर्धनेन राष्ट्रेषु महान् विघ्नाः जाताः। अस्य विघ्नस्य परिणाम-वशात् दुरन्तः भविष्यति इति युनिसेफ् दलस्य निर्वाहण निर्देशकः अन्टोणि लेक् अवदत्।

Thursday, December 22, 2016

विश्वसम्पद्व्यवस्था - भारतं षष्ठस्थाने।
वाषिङ्टण्> ब्रिटेन राष्ट्रं पृष्टतः कृत्वा भारतं विश्वस्य षष्ठं महदार्थिकव्यवस्थायुक्तं राष्ट्रं समजायत इति फोरिन् पोलिसि नामिकायाः मासिक्याः वृत्तान्तख्यातिः। शतसंवत्सराभ्यन्तरे प्रथमतया भवति ब्रिटेन राष्ट्रात् भारतस्य पुरतःप्राप्तिः।
      अतिशीघ्रः आर्थिकाभिवृद्धिः तथा यूरोप्यन् संगमात् ब्रिटनस्य बहिर्गमनेन  [ब्रक्सिट्] आर्थिकमण्डले सञ्जातम् अनिश्चितत्वं च भारतस्य प्रयोजनाय अभवताम्। पञ्चविंशतिसंवत्सराभ्यन्तरे भारतस्य सम्पूर्णाभ्यन्तर उत्पादने [जि डि पि] अभूतपूर्व अभिवृद्धिः सञ्जातः।तथा च संवत्सरैकाभ्यन्तरे ब्रिटिष्पौण्ट् मुद्रायाः मूल्यमपि बहुवारम् अधःपपात इत्येतच्च भारताय सहायकम् अभवदिति विज्ञप्तिपत्रेण ज्ञायते।

Wednesday, December 21, 2016

करुणस्य वीरत्वेन भारतं विजयपीठे।
चेन्नै> करुण् नायर् नामकस्य केरलीयक्रिक्कट् क्रीडकस्य लगुडेन लब्धानां त्र्यधिकत्रिशतं [३०३] धावनाङ्कानाम् अधीशत्वे इङ्लण्ट् सङ्घस्योपरि भारतस्य एक इन्निङ्स् तथा पञ्चसप्तति धावनाङ्कानां च समुज्वलविजयः।विरसा भवेदिति विचिन्तिता स्पर्धा एव करुणस्य अनितरसाधारणवैभवेन भारतानुकूला परिवर्तिता।अनेन विजयेन ४-० इत्यङ्कविन्यासे भारतं इङ्लन्टराष्ट्रं विरुध्य निकषस्पर्धापरम्परामपि स्वायत्तमकरोत्।
    प्रथम इन्निङ्स् क्रीडायाम् अतिथिराष्ट्रेण ४७७ धावनाङ्कानि, भारतेन ७कन्दुकताडकविनष्टे ७५९ धावनाङ्कानि च प्राप्तानि। द्वितीयेन्निङ्स्मध्ये इङ्लण्टदलं २०७ धावनाङ्कैः सर्वे ताडकाः बहिर्गताः। रवीन्द्र जडेजा नामकः चक्रगेन्दकः तस्य ऐन्द्रजालिकप्रकटनेन सप्त कन्दुकताडकान् बहिर्गमयितवान्। अतः आङ्गलेयानां समस्थितिप्रतीक्षा अपि अस्तंगता। चतस्रः स्पर्धाः अपि भारतेन स्वायत्तीकृताः।

जगन्नाथवर्मा दिवंगतः।
अनन्तपुरी> प्रशस्तः कैरलीचलच्चित्र-दूरदर्शनपरम्परानटः जगन्नाथवर्मा निर्यातः। सप्तसप्ततिवयस्कः आसीत्।
    केरलस्य आरक्षकविभागे उच्चस्थानमलंकृतवान् सः पञ्चशताधिकेषु चलनचित्रेषु स्वीयकलावैभवं प्रदर्शितवान्। शङ्कराभरणम् इति उत्कृष्टतेलुगुचलच्चित्रस्य कैरलीपाठान्तरे सोमयाजलुवर्येण अवतारितस्य शङ्करशास्त्रिणः शब्दः जगन्नाथवर्मणा कृतः आसीत्। कथाकेलिः चेण्टवाद्यम् इत्यादिषु कलारूपेषु अपि निपुणः आसीत्।

Tuesday, December 20, 2016

पाम्पोर् भीकराक्रमणे वीरमृत्युं प्राप्तवद्भ्यः राष्ट्रस्य हृदयाञ्जलिः। 
श्रीनगरम्> जम्मुकाश्मीरे पाम्पोर् मध्ये सञ्जाते भीकराक्रमणे वीरमृत्युं प्राप्तवद्भ्यः सैनिकेभ्यः राष्ट्रम् अन्त्याञ्जलिं समार्पयत्।
    शनिवासरे पाम्पोर् प्रदेशे श्रीनगर-जम्मु देशीयवीथ्यां सैनिकवाहनव्यूहं प्रति  सम्पन्नेन भीकराक्रमणेन त्रयः सैनिकाः मृताः आसन्। केरलीयः कण्णूर् स्वदेशीयः रतीशः[३५], महाराष्ट्रीयः पूणे प्रदेशस्थः सौरभ् नन्दकुमारः[३३], झार्खण्डे धन्बाद् स्वदेशीयः शशिकान्त् पाण्डे च वीरस्वर्गम् उपगताः सैनिकाः।
     सैनिकवृन्दस्य औद्योगिकश्रद्धाञ्जलिसमर्पणानन्तरं भौतिकशरीराणि स्वस्वराज्यं प्रति नीतानि।
 सर्वकार-कार्यकर्तृृऋणाम् अनधिकृत धनस्य पुनस्वीकरणाय विचारः
तिरुवनन्तपुरम्- सर्वकारकार्यकर्तृृऋणाम् अनधिकृत धनस्य पुनस्वीकरणाय नयनिर्माणाय विचारः। सेवाप्रवेशावसरे आयत्तस्य पूर्णं रूपं व्यक्तीकर्तव्यमिति निर्णयस्य पश्चादस्ति नयनिर्माणस्य आलोचना। आगामि फेब्रुवर्यां आयोक्ष्यमाणे सामाजिकानां मेलने परिगणयितुम् अस्य लघुरूपं निर्मातुं मुख्यसचिवः श्री.पिणराई विजयः प्रधान निर्देशकाय एस्.एम् विजयानन्द् महोदयाय निर्देशः अयच्छत्। सर्वकारीय तथा तद्देशसंस्थानां एकादशलक्षाः कार्यरताः च अस्मिन् नियमपरिधौ आगच्छन्ति।

डो.धर्मराज् अटाट् संस्कृतविश्वविद्यालयस्य सहोपकुलपतिः।

कोच्ची - कालट्यां श्री शङ्कराचार्य संस्कृतसर्वकलाशालायाः सहोपकुलपतिरूपेण डो. धर्मराज् अटाट् [पि के धर्मराजः] कुलपतिना राज्यपालेन नियुक्तः। इदानीं तत्रैव संस्कृतसाहित्यविभागाध्यक्षः वरिष्ठ प्राचार्यश्च सः सहोपकुलपतिस्थानं तात्कालिकेन निर्वहन् अस्ति।

Monday, December 19, 2016

ऐ एस् एल् पादकन्दुकस्पर्धा - कोल्कोत्तायै किरीटम्। 
कोच्ची> ऐ एस् एल् पादकन्दुकस्पर्धा - कोल्कोत्तायै किरीटम्।
कोच्ची - गर्जन्तं पीतसागरं निश्शेषं पीत्वा अत्लटिको डि कोल्कोत्ता सङ्घः ऐ एस् एल् पादकन्दुककिरीटं शिरसि धृतवान्। कोच्ची जवहर् लाल् नेहरू अन्ताराष्ट्रक्रीडाङ्कणे सम्पन्नायां अन्तिमस्पर्धायां पञ्चाशत्सहस्राधिकैः पीतवस्त्रधारिभिः केरला ब्लास्टेर्स् आराधकैः सम्पूर्णसहयोगे कृते अपि अन्तिमविजयः कोल्कोत्तादलं प्राप्तवान्।
      निश्चितसमये एकैकं लक्ष्यकन्दुकं प्राप्य दलद्वयमपि समस्थितौ आसीत्। ततः अर्धहोरायाः अधिकसमये अपि तत्स्थितिम् अनुवर्त्य शरव्यप्रक्षेपणं [Shoot out] नीतम्। तत्र ४-३ इति लक्ष्यकन्दुकविन्यासेन केरल ब्लास्टेर्स् दलं पराजित्य अत्लटिको डि कोल्कोत्ता दलेन विजयकिरीटं प्राप्तम्।

कनिष्ठवर्गीया विश्वहॉकीचषकस्पर्धा
नवदिल्ली >भारतेन 15 वर्षानन्तरं जूनियर इति  कनिष्ठवर्गीया विश्वहॉकीचषकस्पर्धा विजिता । लखनऊ-नगरस्य मेजरध्यानचंदराष्ट्रियक्रीडांगणे निर्णायकस्पर्धायां भारतेन बेल्जियम: एकांकं विरुध्य अंकद्वयेेन पराभूय विजयश्रीरधिगता। भारतेन स्पर्धायाः अंकद्वयं क्रीडायाः प्रथमार्धभागे समर्जितम् । प्रथमगोलांकः गुरजंतसिंहेन द्वतीयश्च सिमरनजीतसिंहेन समर्जितः । इतः प्राक् 2001तमे वर्षे भारतीयक्रीडकदलेन अर्जेंटीनादेशं पराजित्य स्पर्धेयं विजितासीत् । 

Sunday, December 18, 2016

वर्धा प्रचण्डवातानन्तरं चेन्नै नगरं पुनःपुष्टिं प्राप्स्यते।
चेन्नै>विगते सोमवासरे प्रचण्डवातेन भग्नं चेन्नै नगरं प्रत्यागमनाय प्रयतते। वर्धा नामकेन प्रचण्डवातेन वर्षया च इतःपर्यन्तं अष्टादश जनाः मृताः आसन्। वाहनानि बहूनि विनष्टाः।  रेल् राजमार्गाः वार्ताविनिमय-सुविधाः वैद्युती, सर्वमपि स्थगिताः किन्तु एते मन्दमन्दं प्रवर्तनक्षमतां यान्ति। सर्वे जनाः सर्वकार सेवकेभ्यः साकं नगर निर्माणाय प्रयत्नं कुर्वन्ति। विभिन्न राजनैतिक दलस्थाः विभिन्न धर्मानुयायिनः च विभिन्नतां विस्मृत्या यत्नं कुर्वन्ति।

 नवदिल्ल्यां राज्यस्तरीया संस्कृत-वाद-विवाद-प्रतियोगिता

नवदिल्ल्यां  17.12.2016 तमे दिनांके बक्करवालास्थिले श्रीवेदव्यासगुरुकुले दिल्ली-संस्कृत-अकादम्या दिल्ली-प्रशासनद्वारा राज्यस्तरीया संस्कृत-वाद-विवाद-प्रतियोगिता समायोजिता । यस्यां राजधान्याः गुरुकुलीय छात्रैः सहाभागिता विहिता, प्रतियोगितायं  केवलं संस्कृतभाषायामेव वाद-विवादः समाचरितः।

Saturday, December 17, 2016

संस्कृतविद्वांस: एव संस्कृतस्य महत्त्वम् ज्ञापनीया: -राजस्थानस्य राज्यपाल:।

जयपुरम्> राजस्थानराज्यस्य राज्यपाल: श्री कल्याणसिंह: शुक्रवासरे राजस्थानसंस्कृतविश्वविद्यालयस्य स्नातकोत्सवे भागं गृहीतवान्। अस्मिन् अवसरे विदुष: पृष्टवान् यत् विद्वांस: एव संस्कृतस्य महत्त्वम्, आवश्यकता च ज्ञापनीया: खलु? इति। विदेशीया: अपि संस्कृतभाषायां शोध: कुर्वन्ति। पाश्चात्यदेशा: बहुविस्तारेण संस्कृतस्य उपयोगं कुर्वन्ति । अमेरिका, इंग्लाण्ड, जपान् देशेषु वैदिकगणितं पाठ्यक्रमस्य भाग: भवति, नासा अपि संस्कृतस्य उपयोगं कुर्वन्ति पाठयन्ति च इति राज्यपाल: अवदत्। इतोsपि कर्णाटकराज्ये मत्तूर् ग्रामस्य जना: दैनंदिनजीवने संस्कृतेन एव सम्भाषणं क्रियते, विश्वविद्यालयस्य छात्रसमूह: मत्तूर् ग्रामं द्रष्टव्यमिति सोsवदत्। अस्मिन् स्नातकोत्सव-कार्यक्रमे विश्वविद्यालयस्य  उपकुलपति: विनोदकुमार:, संस्कृतविभागाध्यक्ष: सञ्जयदीक्षित: अन्ये आचार्या: च, भागं गृहीतवन्त:।