OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 18, 2016

वर्धा प्रचण्डवातानन्तरं चेन्नै नगरं पुनःपुष्टिं प्राप्स्यते।
चेन्नै>विगते सोमवासरे प्रचण्डवातेन भग्नं चेन्नै नगरं प्रत्यागमनाय प्रयतते। वर्धा नामकेन प्रचण्डवातेन वर्षया च इतःपर्यन्तं अष्टादश जनाः मृताः आसन्। वाहनानि बहूनि विनष्टाः।  रेल् राजमार्गाः वार्ताविनिमय-सुविधाः वैद्युती, सर्वमपि स्थगिताः किन्तु एते मन्दमन्दं प्रवर्तनक्षमतां यान्ति। सर्वे जनाः सर्वकार सेवकेभ्यः साकं नगर निर्माणाय प्रयत्नं कुर्वन्ति। विभिन्न राजनैतिक दलस्थाः विभिन्न धर्मानुयायिनः च विभिन्नतां विस्मृत्या यत्नं कुर्वन्ति।

 नवदिल्ल्यां राज्यस्तरीया संस्कृत-वाद-विवाद-प्रतियोगिता

नवदिल्ल्यां  17.12.2016 तमे दिनांके बक्करवालास्थिले श्रीवेदव्यासगुरुकुले दिल्ली-संस्कृत-अकादम्या दिल्ली-प्रशासनद्वारा राज्यस्तरीया संस्कृत-वाद-विवाद-प्रतियोगिता समायोजिता । यस्यां राजधान्याः गुरुकुलीय छात्रैः सहाभागिता विहिता, प्रतियोगितायं  केवलं संस्कृतभाषायामेव वाद-विवादः समाचरितः।

Saturday, December 17, 2016

संस्कृतविद्वांस: एव संस्कृतस्य महत्त्वम् ज्ञापनीया: -राजस्थानस्य राज्यपाल:।

जयपुरम्> राजस्थानराज्यस्य राज्यपाल: श्री कल्याणसिंह: शुक्रवासरे राजस्थानसंस्कृतविश्वविद्यालयस्य स्नातकोत्सवे भागं गृहीतवान्। अस्मिन् अवसरे विदुष: पृष्टवान् यत् विद्वांस: एव संस्कृतस्य महत्त्वम्, आवश्यकता च ज्ञापनीया: खलु? इति। विदेशीया: अपि संस्कृतभाषायां शोध: कुर्वन्ति। पाश्चात्यदेशा: बहुविस्तारेण संस्कृतस्य उपयोगं कुर्वन्ति । अमेरिका, इंग्लाण्ड, जपान् देशेषु वैदिकगणितं पाठ्यक्रमस्य भाग: भवति, नासा अपि संस्कृतस्य उपयोगं कुर्वन्ति पाठयन्ति च इति राज्यपाल: अवदत्। इतोsपि कर्णाटकराज्ये मत्तूर् ग्रामस्य जना: दैनंदिनजीवने संस्कृतेन एव सम्भाषणं क्रियते, विश्वविद्यालयस्य छात्रसमूह: मत्तूर् ग्रामं द्रष्टव्यमिति सोsवदत्। अस्मिन् स्नातकोत्सव-कार्यक्रमे विश्वविद्यालयस्य  उपकुलपति: विनोदकुमार:, संस्कृतविभागाध्यक्ष: सञ्जयदीक्षित: अन्ये आचार्या: च, भागं गृहीतवन्त:।

Friday, December 16, 2016

शुल्कविभागेन सहस्रकोटिरूप्यकाणि सङ्गृहीतानि।
नवदिल्ली> राष्ट्रे मुद्रापत्रनिर्मूल्यीकरणानन्तरम् इतःपर्यन्तं सम्पन्नैः उपचत्वारिंशत्  प्रत्यवेक्षणैः सहस्रकोट्यधिकमूल्ययुक्तानि मुद्रारूप्यकाणि वशीकृतानि इति आयकरविभागेन निवेदितम्। राष्ट्रे सर्वत्र आयकरविभागस्य अवेक्षणं तीव्रेण अनुवर्तते।
     कर्णाटक-गोवा प्रदेशेभ्यः इतःपर्यन्तम् अनधिकृतानि त्रिंशत् कोटिरूप्यकाणि संगृहीतानि। दिल्लीतः चतुष्कोटि रूप्यकाणां निर्मूल्यवत्कृतमुद्रापत्राणि गृहीतानि। चण्डीगढ्तः २.२०कोटिः, मुम्बई तः सपादैककोटिः, पूणैतः६७लक्षं, छत्तीस्गढ्तः १४लक्षं ,असम राज्यात् २५लक्षं राजस्थानतः११लक्षं   रूप्यकाणि च संगृहीतानि।
    सि बि ऐ संस्थया सिऐएस् एफ् संस्थया च विमानपत्तनेषु अपि अन्वीक्षणं क्रियते च।

धनपत्र निर्मूल्यीकरणं -जनपद-सहयोग वित्तकोशेभ्यः दयाचेतः नास्ति।
 नवदिल्ली>धनपत्रस्य निर्मूल्यीकरणस्य अनुबन्धतया जनपद साह्य वित्तकोशेभ्यः सुविधा दातुं नशक्यते इति सर्वोच्च-न्यायालयेन उक्तम्। धन-विनिमयाय शीघ्रतरनिर्देशाय कृतमावेदनं न्यायालयेन निरस्तम्। नवम्बर् मासस्य दशमदिनाङ्कतः चतुर्दश दिन पर्यन्तं स्वीकृतं धनम् रिज़र्व् बैंक मध्ये पूरयितुमनुज्ञा सर्वकारेण दत्तमस्ति।जनपद सहयोग वित्तकोशेभ्यः वारद्वयं प्रतिपाल्य स्थातुं शक्यते वा इति च न्यायालयः अपृच्छत्।  दिसंबर् ३० तः सर्वकारेण नियमेषु दयाचेतः भविष्यति तदा निवेदनं पुनरालोकयिष्ये इति च न्यायालयेन उक्तम्।

अङ्कीयधनविनिमयाय पुरस्कार: कोटिरूप्यकाणि
 नवदिल्ली>धनपत्रसमस्या करणत: अङ्कीयधनविनिमयाय प्रोत्साहं दातुं केन्द्रियसर्वकार: द्वे योजने प्रारभ्स्यते । पञ्चविंशति दिसेम्बर् दिनाङ्कादारभ्य एप्रिल् चतुर्दश दिनाङ्कपर्यन्तं धनरूपेण प्रोत्साहका: दास्यन्ति। लक्कीग्राहक नाम एका योजना क्रेतॄणाम्, वणिजानां कृते डिजिधनव्यापारी योजना इति च नीति आयोगस्य सी.ई.ओ श्री अमिताब् कान्त: उद्घोषितवान् ।
लक्की ग्राहक योजना द्वारा प्रतिदिनं पञ्चसहस्र-ग्राहकाणां सहस्ररूप्यकाणि, सप्ताहे सप्तसहस्र जनानां लक्षं रूप्यकाणि च दास्यन्ति। ’डिजिव्यापारीयोजना’ द्वारा सप्तसहस्र वणिजानां पञ्चाशत् सहस्ररूप्यकाणि दास्यन्ति । अन्तिमे लक्कीग्राहकयोजनायां त्रयाणां भाग्यजेतॄणां प्रथमस्य पञ्चाशत् लक्षं रूप्यकाणि,द्वितीयस्य कृते पञ्चविंशतिलक्षं रूप्यकाणि, तृतीयाय पञ्चलक्षं रूप्यकाणि च पुरस्कारवत् दास्यते।

राजवीथिनां पार्श्वे मदिराशालाः निरुद्धाः। 
नवदिल्ली >राष्ट्रिय-राज्यकीयराजवीथिनां पार्श्वे अर्धकिलोमीटर् परिधौ मदिराविक्रयणशालानां प्रवर्तनं निरुध्य सर्वोच्चन्यायालयस्य आदेशः। आगामि संवत्सरस्य एप्रिल् प्रथमदिनाङ्कादारभ्य अनुशासितव्यम्।
      मार्गेषु मदिराशालानां प्रवर्तनं मार्गदुर्घटनावर्धकम् इत्यनेन कारणेनैव मुख्यन्यायमूर्तिः टि एस् ठक्कुरः, न्याय. डि वै चन्द्रचूडः, एल् नागेश्वर रावः इत्येतेषां खण्डपीठस्य आदेशः।

Thursday, December 15, 2016

रेक्स् टिलेर्सन् नूतनः यू एस् स्टेट् सेक्रट्टरी।
वाषिङ्टण् > विश्वस्य बृहत्मासु मृत्तैल-संस्थासु एका भवति मोबिल्। अस्याः प्रधान-कार्य नियन्ता रेक्स् टिलेर्सन् इदानीं यू एस् स्टेट्सेक्रटरी पदे नियुक्तः भविष्यति। रष्यायाः राष्ट्रपतेः व्लाटिमिर् पुटिनस्य मित्रभावेन वर्तितस्य टिलेर्सनस्य नियुक्ति निर्देशेन डोणाल्ड् ट्रम्पः विवादस्य अग्नेः ज्वालनंकृतवान्। अधिकार-श्रेण्यां द्वितीयं स्थानंभवति सेक्रटरी पदम्। राष्ट्रपतेः निर्वाचन-समये ट्रम्पम् अनुकूल्य रष्यायाः निलीन प्रयत्नः आसीत् इति दुरारोपणम् अधुनापि शक्तया तिष्ठन् अस्ति। किन्तु वस्तुतया टिलेर्सः  जेब्बुष् नामकाय अनुकूलतया तिष्ठन् आसीत् इति हास्यमुद्पादयति।

केरलाब्लास्टेर्स् अन्तिमपादे।
नवदिल्ली> ऐ एस् एल् पादकन्दुकस्पर्धायाम् अत्लटिको डि कोल्कत्तां विरुध्य केरला ब्लास्टेर्स् अन्तिमस्पर्धां करिष्यति। नवदिल्ल्यां सम्पन्ने उपान्त्यस्पर्धायाः द्वितीयपादे दिल्ली डैनामोस् दलं शरव्यप्रक्षेपद्वारा [Shoot out ] ३-० इति लक्ष्यकन्दुकविन्यासेन पराजित्य एव ब्लास्टेर्स् दलम् अन्तिमपादं प्राविशत्।
   रविवासरे कोच्ची मध्ये अन्तिमस्पर्धा भविष्यति।

आगामि संवत्सरे नीट्  परीक्षा प्रादेशिक भाषासु अपि ।
नवदिल्ली > आङ्गल-हिन्दीभाषाभ्यां विना षट्सु प्रादेशिकभाषासु अपि आगामिसंवत्सरादारभ्य देशीयसाङ्केतिकविज्ञानप्रवेशपरीक्षा [नीट्] चालयिष्यतीति केन्द्रमन्त्रिणा प्रकाश् जावदेक्करेण उक्तम्। इदानीम् आङ्गल- हिन्दीभाषयोः परीक्षा प्रचाल्यते।
    प्रादेशिकभाषासु अपि परीक्षा चालनीया इति राज्यसर्वकाराणां निवेदनमनुसृत्यैव अयं निर्णयः इति सूच्यते। तमिळ् तेलुगु मराठी असमीस् बङ्गाल गुजराती इत्येतासु भाषास्वपि परीक्षा भविष्यन्ति।
दिव्याङ्गानां सार्वत्रिक-परिचयपत्रम् – प्रधानमन्त्री
नवदिल्ली> भारतेदेशे २.७ कोटिजना: दिव्याङ्गजना: सन्ति। दिव्याङ्गेभ्यः सर्वेभ्यः विविधानि प्रयोजनानि प्राप्तुं ऐदम्प्राथम्येन  सार्वत्रिक परिचयपत्रं दातुं सर्वकारेण निर्णय: स्वीकृत:। आगामि जनवरि मासे प्रधानमन्त्रिणा नरेन्द्रमोदिना अयं कार्यक्रम: प्रारप्स्यते। परिचय पत्रे अस्मिन् अष्टादश सङ्ख्या: भवन्ति। सङ्ख्यायां जन्मदिनाङ्क:, राज्य:, जनपद:, वैकल्याङ्गानुसारेण सङ्केत-सङ्ख्या च अन्तर्भवन्ति । प्रतिशतं चत्वारिंशत् संख्यातः (४०%) न्यूनं वैकल्यं भवति चेत् श्वेतवर्णपत्रं, चत्वारिंशत् संख्यातः अघिकं वैकल्यं भवति चेत् पीतवर्णपत्रं,  अशीत्यधिकं (८०%) भवति चेत् धूम्रवर्णपत्रं च यच्छति । आधार-पत्रस्य आधारेण एव इमानि पत्राणि यच्छन्ति।

 संस्कृत-भाषायाः रक्षाकर्तृत्वं जर्मनी राष्ट्राय भविष्यति।
बेर्लिन्>यद्यपि भारतीयैः त्यक्तं तथापि जर्मन् राष्ट्रे संस्कृतस्य अतीव स्वीकारः। विना विलम्बमेव भाषायाः अस्याःरक्षाकर्तृत्वं जर्मनी राष्ट्रे एव भविष्यतीति भाषाशात्रज्ञानां मतम्। जर्मनी राष्ट्रे चतुर्दश सर्वकारेतर विश्वविद्यालयेषु संस्कृतं पाठयति। पाठ्यक्रमेषु छात्राणां सम्मर्दाधिक्येन हेय्डलबर्ग् विश्वविद्यालयस्य स्वौत् एषिया संस्थया स्विट्सर्लण्ड् इट्टली किमधिकं भारते अपि संभाषणसंस्कृतपाठनाय विद्यालयाः आवश्यकाः इति दशा संजाता। भारतीय उपभूखण्डस्य संस्कृतिः पैतृकं भाषा इत्यादीन् पाठयतस्य इण्डोलजी इति पाठ्यक्रमस्य जर्मनी राष्ट्रे अतीव स्वीकारः वर्तते। पञ्चदशवर्षात् पूर्वं अस्याः संस्थायाः आरंभे यद्यपि वर्षद्वयाभ्यन्तरे बन्धनाय निर्णीतः तथापि इदानीं यूरोप्यन् राष्ट्रेषु अपि पाठ्यक्रमाणां व्यापनमावश्कमिति विश्वविद्यालयस्य प्रो.डो.अलक्स् मैक्लक्स् वदति। संस्कृतभाषां धर्मेण तथा राजनैतिकविचिन्तनैः सह योजनं विवेकशून्यं तथा अस्याः समृद्धं पैतृकं गणनीयमित्यपि सः अभिप्रैति।

Wednesday, December 14, 2016

वेनस्वेलराष्ट्रे आपि धनपत्रस्य निर्मूल्यीकरणम् - अतिमूल्यधनपत्रं प्रतिनिवर्तितम्।
कराक्कस् > वेनस्वेलराष्ट्रस्य सामूहिकाशयस्य प्रवक्ता इति सुज्ञातः राष्ट्रपतिः भवति निकोलास् मडुरो। तेन महोदयेनापि स्वस्य राष्ट्रस्य अतिमूल्यधनपत्रं शतं बोलीवर् निर्मूल्यीकृतम् । अलीकधन-सञ्चयने उत्सुकानं दण्डनमुद्दिश्य एवायं निशिदादेशः इति राष्ट्रपतिना उक्तम्। निर्मूल्यीकृतानां धनपत्राणां द्विशत गुणितं मूल्ययुक्तं नाणकानि धनपत्राणि च विलम्बं विना वितीर्यन्ते इति च मडुरो महोदयेन उक्तम्। अन्ताराष्ट्रमुल्य-निर्णये शतं बोलिवर् इत्यस्य त्रीणि यू एस् सेन्टस्य अधः एवमूल्यम् । राष्ट्रपतेः दूरदर्शन-कार्यक्रमे आसीत् अस्याः प्रख्यापनम्। राष्ट्रस्य आर्थिक समस्या परिहाराय एव अयं मार्गः स्वीकृतवान् इति च तेनोक्तम्।

 वर्धा प्रचंडवातेन हतानां संख्या अष्टादश अभवत्।
केन्द्रसर्वकारस्य आर्थिकसहायं संप्रार्थ्य मुख्यमंत्री पनीर् सेल्वम्।
चन्नै> मृतानां कुटुम्बाय लक्षचतुष्टयं दस्यते इति तमिळ् नाटुमुख्यमन्त्रिणा ओ पनिर् सेल्वेन उक्तम्। वर्धा प्रचंडवातस्य ताण्डवेन अष्टादश जनाः इतःपर्यन्तं मृताः।

Tuesday, December 13, 2016

 वार्धा चक्रवातस्य कुप्रभावः। 
नवदेहली >आंध्रप्रदेशे तमिलनाडुराज्ये च वार्धा चक्रवातकारणेन  यावत् न्यूनान्नयूनं दशजनाः कालकवलीभूताः, विविध स्थलेषु भूरिशो वृक्षाः भूमौ निपतिताः अपि च राज्यद्वये विद्युत् प्रवाहः अपि अवरुद्धः वर्तते  | राज्यद्वयस्य तटीय क्षेत्रेषु प्रचण्ड-वर्षा प्रवर्तते, आदौ चक्रवातस्यास्य गतिः प्रतिहोरा १४० किलोमीटरमिता अवर्तत, परं कालानन्तरं प्रवाहे शिथिलतावशात् अस्य गतिः ७० तः ८० मिता उटंकिता |
 प्रशासनेन प्रभावित क्षेत्राणां निवासिनः अध्यर्थिताः यत् ते गृहाद् बहिः मा आगच्छेयुः | हैदराबादस्य ऋतुविज्ञानविभागस्य निदेशक: डॉ. वाई.के.रेड्डी प्रावोचत् यत् अनेन चक्रवातेन यातायातः दुष्प्रभावितः | अपि च सुरक्षादृशा शिक्षणसंस्थानानि पिहितानि सन्ति |
Episode 24-Parvati J, Govt. Girl's H S, Ernkulam.

Monday, December 12, 2016

वार्धा चक्रवातः तमिल्नाटु तीरं प्रति।
चेन्नै >वंगसमुद्रे न्यूनमर्देन रूपमापन्नः वार्धा चक्रवातः वर्धितवीर्यः संहारमूर्तिरूपेण चेन्नैतीरं प्राप्नोति। अतः चेन्नै नगरं भीत्या निमेषान् गणयति। तीरप्राप्यनुसारं वातस्य वेगः वरीवर्धते इति वायुगणनिरीक्षणकेन्द्रस्य निगमनम्।
मध्याह्ने द्विवादनादारभ्य सायं पञ्चवादनाभ्यन्तरे चेन्नै मच्चिलिपट्टण तीरमार्गेण चक्रवातः भारततीरं प्राप्स्यति। चेन्नै विमानपत्तनं पिहितम्। विमानसेवनानि स्थगितानि, कानिचन दिशान्तरं नीतानि। नगरान्तररेल्यानसेवनमपि स्थगितम्। राष्ट्रियदुरन्तनिवारणसेना तीरदेशे विन्यस्ता। प्रतिहोरं १००-११५ कि.मी. भवेत् वातस्य वेगः। चेन्नैयां प्रान्तप्रदेशेषु च वातेन सह कठिना वृष्टिरपि भविता।


जि एस् टि क्रियाविधौ अनुरञ्जनं न सम्प्राप्तम्। 
नवदिल्ली >जि एस् टि नामके पण्यवस्तु सेवनकरविषये संवृत्ता केन्द्रसर्वकारेण सह राज्यवित्तमन्त्रिणां  चर्चा अनुरञ्जनाभावात् विफला जाता।
     पण्यवस्तु सेवनकरसमाहरणं शासननिर्वहणम् इत्यादिविषयानधिकृत्य चर्चायाम् अनुरञ्जनं न सम्प्राप्तम्। अतः अद्यतनमेलनमपि परित्यक्तम्। अनेन, लोकसभायाः प्रवृत्तमाने शीतकालसम्मेलने एतदधिकृत्य देयकावतरणमपि परिवर्तितम्।
जनैः उपेक्षितवन्ताः विधानसभायां विघ्नं कुर्वन्ति। - भारतस्य प्रथानमन्त्री नरेन्द्रमोदिः।
 लक्नौ (लक्ष्मणनगरम्) > निर्वाचने जनैःये त्यक्तवन्ताः ते इदानीं विधानसभायाः प्रवर्तनेषु विघ्नं कुर्वन्ति। व्याजधनिकानां बन्धनम् एव सर्वकारस्य लक्ष्यम् । तथा सामान्यजनानां संरक्षणञ्च सर्वकारस्य कर्तव्यमेव । राष्ट्रपुरोगतिमुद्दिश्य कियमाणेषु प्रवर्तनेषु भूरिजनाः सर्वकारेण सह वर्तन्ते इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। उत्तर प्रदेशास्य बह्राय् सागरतीरे भाजपा-दलस्य परिवर्तन-पथ-सञ्चलने भाषमाणः आसीत् सः। उत्तरप्रदेशस्य पुरोगत्यै दुष्टेभ्यः रक्षायै आसन्ने निर्वाचने भाजपादलं निर्वाचनीयम् इति च तेन उक्तम्। हिमबाष्पकणानाम् आधिक्येन व्यजनघटितविमानस्य भूमौ अवतरितुं न शाक्यत। अतः आकाशात् दूरवाणी द्वारा आसीत् एतस्य महाभागास्य भाषणम्।


 पुस्तकं मस्तकौषधम्।  
विजयवाटिका> जनवरि प्रथमदिनाङ्क त: एकादशदिनाङ्क पर्यन्तं  विजयवाटिकायां  पुस्तकमहोत्सव: भविष्यति। विजयवाटिका- पुस्तकोत्सवसंस्था एतस्याः कृते सन्नद्घा भविष्यति। गतसंवत्सरे २३५ सङ्ख्यकाः विपणनप्रकोष्टाः सज्जीकृतवन्त:। अस्मिन् संवत्सरे इतोsपि अधिकतया ३००सङ्ख्यामिताः प्रकोष्टाः स्थापयिष्यन्ति। अस्मिन् पुस्तकमहोत्सवे समग्रभारतात् अनेके पुस्तकप्रकाशनसंस्था: भागं ग्रहिष्यन्ति। स्वराज् मैदाने एव पुस्तक प्रदर्शनं भविष्यति। एतस्य कृते आन्ध्रप्रदेशस्य सर्वकारेण अनुज्ञा दत्ता। अस्मिन् पुस्तकप्रदर्शनशालायाः सर्वासु भाषासु पुस्तकानि लप्स्यन्ते इति आयोजकैः अवदत्।

Sunday, December 11, 2016

तपस्य-कला-साहित्य-वेद्याः ४० तमं राज्यस्थरीय विचारसत्रम् समारब्धम्।
तपस्य -कला साहित्य-वेद्याः राजस्थरीय-विचारोपस्थितिः एरणाकुळं जनपदे समारब्धः। चत्वारिंशत् तम संवत्सरस्य वार्षिक-विचार-सभायां भारतस्य सांस्कृतिक-साहित्यं तथा राष्ट्रियमानबिन्दूनाम् प्रति क्रियमाणः उपहासः च अस्मिन् विचार्यते। तपस्य तत्वं प्रयोगं च इति विषयमधिकृत्य श्री. एम् सतीश महोदयेन उपस्थापनं कृतम्। सांस्कृतिकदलस्य अस्य पूर्व चरितं पि बालकृणमहोदयेन न्यवेदितं च ।
 सर्वासां समस्यानां परिहारः केवलं गीताध्ययनादेव - राजनाथसिंह:
कुरुक्षेत्रम्> कुरुक्षेत्रे अन्ताराष्ट्रिय भगवद्गीता महोत्सवा: प्रचलन्ति। सर्वासां समस्यानां परिहारः केवलं गीतापठनादेव जायते। वसुधैव कुटुम्बकम् इत्येतत् पूर्वमेव अस्माकं ऋषय: उक्तवन्त: इति श्री राजनाथ सिंह: अवदत् । हर्याणा मुख्यमन्त्री श्री मनोहर-लाल-खट्टर् महोदयस्य आध्यक्षे अयं कार्यक्रम: प्रचालितः आसीत्। प्रतिसंवत्सरं कुरुक्षेत्रे पञ्चदिनानि वैभवेन गीताजयन्त्युत्सवा: भविष्यन्तीति मुख्यमन्त्री अवदत्। देशस्य सर्वस्मात् जनपदात् जना: अत्र आगत्य अस्मिन् उत्सवे भागं गृहीतवन्त:। विशेषतया १८,४७३ पाठशालाया: छात्रा: मिलित्वा अष्टादशाध्यायेषु अष्टादश श्लोका: पठित्वा विश्वविक्रमे स्थानं प्राप्तवन्त:।

Saturday, December 10, 2016

छात्राणां मूलप्रमाणपत्राणि न स्थापनीयानि – यू.जी.सी.

नवदिल्ली> कलाशालानां, विश्वविद्यालयानां कृते नूतननियमा: यू.जी.सी संस्थया उद्घोषिता:। इत:परं विद्यालया: छात्राणां मूलप्रमाणपत्राणि न स्वीकरणीयानि। केवलं मूलप्रमाण पत्राणि संशोध्य तेषामनुकृतय: विद्यालया: स्वीकरणीया:। शिक्षाकाले विद्यासंस्थानां विषयप्रणालिकाया: क्रयणमनिवार्यं न भवेत्। विद्याविषयक शुल्कं एकसंवत्सरात् पूर्वं न स्वीकरणीयम्, परीक्षामनुसृत्य शुल्कं स्वीकरणीयम्। सर्वेषु विश्वविद्यालयेषु आक्षेपपरिहार समिति: भवेत्। एते नियमा: अवश्यं पालनीया: इति यु.जी.सी संस्थया उद्घोषिता।

Friday, December 9, 2016

इब्राहिमपुरं दक्षिणभारतस्य प्रथमः पत्ररूप्यकरहितग्रामः।
हैदराबाद्> तेलुङ्कानाराज्यस्थः इब्राहिमपुरग्रामः दक्षिणभारतस्य प्रथमः पत्ररूप्यकरहितग्रामः भविष्यति। राज्यजलसेचनविभागमन्त्रिणा टि हरीष् रावुणा परिग्रहीतः ग्राम अस्ति इब्राहिम पुरम्। अत्र वसतां १२०० जनानां वित्तकोशलेखाः सन्ति। तेभ्यः सर्वेभ्यः डेबिट् पत्राणि तथा स्वैपिड् यन्त्राणि च दत्तानि इति सर्वकारेण विज्ञापितम्।

 द्वाविंशति दिनाङ्के भाग्यनगरं प्रति राष्ट्रपतेरागमनम्।

न्यूदिल्ली> शीताकालसमयदृष्ट्या भारतराष्ट्रपति: श्री प्रणाब्- मुखर्जीवर्यः हैदराबाद् नगरं प्रति गमिष्यति। बोल्लारम् ग्रामे राष्ट्रपतिनिलये वासं करिष्यति। २२-१२-१६ त: ३१-१२-१६ पर्यन्तं इत: एव सर्वकार्याणि करिष्यति। दिसेम्बर् द्वाविंशति दिनाङ्के सायं पञ्चवादने प्रत्येकविमाने हकींपेट् विमानयानस्थानं तत: बोल्लारं राष्ट्रपतिनिलयं प्रत्यागमिष्यति। दिसेम्बर् षड्विंशति दिनाङ्के मौलाना उर्दू विश्वविद्यालयस्य स्नातकोत्सवे भागंग्रहिष्यति। दिसेम्बर् नवविंशति दिनाङ्के तिरुवनन्तपुरे “इण्डियन् हिस्टरी काङ्ग्रेस्” इत्यस्मिन् कार्यक्रमे भागग्रहणं करिष्यति। तत: मैसुर् नगरं प्रति गमिष्यति। दिसेम्बर् त्रिंशत् दिनाङ्के पुन: राष्ट्रपतिनिलयं प्रति आगत्य एक त्रिंशत् दिनाङ्के पुन: दिल्लीं प्रति गमिष्यति।

Thursday, December 8, 2016

विमानदुर्घटनया पाकिस्थाने ४७ यात्रिकाः मृताः।
अबट्टाबाद् > सप्तचत्वारिंशत् यात्रिकेण सह उड्डयमानं पाकिस्थानीयं विमानं भग्नं यात्रिकाः मृताः । चित्रालतः इस्लामाबादं प्रति उड्डयमानम् आसीत्। पाकिस्थानस्य एयर्लइन्सस्य (PIA) विमानस्य एव दुरन्तः जातः। गत-दिने सायं सार्धपञ्चवादने इस्लामबादे प्राप्तव्यमासीत्। किन्तु यात्रामध्ये अबट्टाबादस्य अन्तरीक्षोपरिभागतः विमान-गतागत-नियन्त्रकप्रकोष्टं प्रति विद्यमानः बन्धः विनष्टः आसीत् । उड्डयनानन्तरं सार्धचतुर्वादने प्रतिध्वनिग्राहीतः (RADAR) अप्रत्यक्षमासीत्। विमानस्य यान्त्रिकदोषः अस्ति इति वैमानिकेन नियन्त्रण प्रकोष्टं  प्रति उक्तमासीत् इति कैश्चन वार्तामाध्यमैः न्यवेदितम्।

हरितकेरलं पद्धतिः अद्य समारभते।

अनन्तपुरी> नवकेरलसृष्टिं लक्ष्यीकृत्य केरलसर्वकारेण सम्पद्यमाना हरितकेरळम् इति नूतना पद्धतिः अद्य समारभते। नेय्याट्टिन् करा प्रदेशस्थे कळत्तरक्कल् नामके व्रीहीक्षेत्रसमुच्चये बीजवपनं कृत्वा मुख्यमन्त्री पिणरायि विजयः उद्घाटनं करिष्यति। शुचित्वं जलसंरक्षणं कृषिविकसनं पर्यावरणसंरक्षणम् इत्यादिषु मण्डलेषु नैकाः विकसनपद्धयः ग्रामग्रामान्तरेषु निर्वोढुम् उद्दिश्यन्ते।

Wednesday, December 7, 2016

सोपानम्-23  Fathima Mundeth. Brahmanandodyam sanskrit High School, Kalady, Ernakulam.
जयललितायै सहस्राणाम् अश्रुपूजा।
चेन्नै> तमिळ् नाटुराज्यस्य पुरट्ची तलैवी [परिवर्तननायिका] जयललितायाः देहवियोगे तत्रत्याः दशसहस्रशः जनाः दुःखाश्रुसङ्कुलनेत्रैः सन्तप्यमानहृदयैश्च स्वेषाम् अम्बाम् एकवारमप्यन्तिमदर्शनाय नगरसमीपस्थं मरीना सागरोपान्तं प्रवहन्ति। तत्रैव सामान्यजनानां दर्शनार्थं क्रमीकरणम् आयोजितम्।
             नैैकाः भारतीयराजनैतिकनेतारः जयललितायाः प्राणवियोगे अन्वशोचन्। प्रधानमन्त्री नरेन्द्रमोदी साक्षादनुशोचितुं चेन्नै प्राप्तः। तां प्रति आदरसूचकत्वेन एकदिनात्मकं राष्ट्रियदुःखाचरणं विज्ञापितम्। जयललितायाः अन्त्येष्टिः ह्यः सार्धचतुर्वादने एम् जि आर् स्मारकसमीपे अभवत्।

  केरलस्य राज्यस्तरीय-कायिकस्पर्धा- पालक्काट् विजितः।
कोष़िक्कोट्> केरलस्य राज्यस्तरीयविद्यालयीय कायिकोत्सवस्य आकाङ्क्षोज्वलपरिसमाप्तिः। गतचतुर्दिनेषु कोष़िक्कोट् विश्वविद्यालयस्य क्रीडाङ्कणे सम्पद्यमाने केरळछात्राणां कायिकोत्सवे किरीटलब्ध्यर्थं एरणाकुलं-पालक्काट्जनपदयोः पदप्रतिपदस्पर्धा एव दृष्टा। प्राथमिकदिनेषु अग्रगामित्वं प्रदर्शितवन्तम् एरणाकुलं जनपदं अन्तिमे दिने पराजित्य पालक्काट् जनपदः कायिककिरीटं स्वायत्तीकृतवान्। पालक्काट् २५५ अङ्के प्राप्ते एरणाकुलं २४७ अङ्कानि प्राप्य द्वितीयस्थानं प्राप्तवत्।

सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशः - श्रीजगदीशसिंह:
नवदिल्ली>भारत-सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशत्वेन जगदीशसिंह: नियुक्त: अभवत्। कार्यरतस्य न्यायाधीशस्य कालपरिमिति: जनवरी तृतीय दिनाङ्के समाप्तिर्भविष्यति । अत: जनवरी चतुर्थ दिनाङ्के श्री जगदीश: मुख्यन्यायाधीशपदवीं अलङ्करिष्यति । श्री जगदीश: चतुश्चत्वारिंशत्तम: मुख्यन्यायाधीश:।

Episode 23  Fathima Mundeth Std 8 BSHS Kalady