OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 11, 2016

 सर्वासां समस्यानां परिहारः केवलं गीताध्ययनादेव - राजनाथसिंह:
कुरुक्षेत्रम्> कुरुक्षेत्रे अन्ताराष्ट्रिय भगवद्गीता महोत्सवा: प्रचलन्ति। सर्वासां समस्यानां परिहारः केवलं गीतापठनादेव जायते। वसुधैव कुटुम्बकम् इत्येतत् पूर्वमेव अस्माकं ऋषय: उक्तवन्त: इति श्री राजनाथ सिंह: अवदत् । हर्याणा मुख्यमन्त्री श्री मनोहर-लाल-खट्टर् महोदयस्य आध्यक्षे अयं कार्यक्रम: प्रचालितः आसीत्। प्रतिसंवत्सरं कुरुक्षेत्रे पञ्चदिनानि वैभवेन गीताजयन्त्युत्सवा: भविष्यन्तीति मुख्यमन्त्री अवदत्। देशस्य सर्वस्मात् जनपदात् जना: अत्र आगत्य अस्मिन् उत्सवे भागं गृहीतवन्त:। विशेषतया १८,४७३ पाठशालाया: छात्रा: मिलित्वा अष्टादशाध्यायेषु अष्टादश श्लोका: पठित्वा विश्वविक्रमे स्थानं प्राप्तवन्त:।

Saturday, December 10, 2016

छात्राणां मूलप्रमाणपत्राणि न स्थापनीयानि – यू.जी.सी.

नवदिल्ली> कलाशालानां, विश्वविद्यालयानां कृते नूतननियमा: यू.जी.सी संस्थया उद्घोषिता:। इत:परं विद्यालया: छात्राणां मूलप्रमाणपत्राणि न स्वीकरणीयानि। केवलं मूलप्रमाण पत्राणि संशोध्य तेषामनुकृतय: विद्यालया: स्वीकरणीया:। शिक्षाकाले विद्यासंस्थानां विषयप्रणालिकाया: क्रयणमनिवार्यं न भवेत्। विद्याविषयक शुल्कं एकसंवत्सरात् पूर्वं न स्वीकरणीयम्, परीक्षामनुसृत्य शुल्कं स्वीकरणीयम्। सर्वेषु विश्वविद्यालयेषु आक्षेपपरिहार समिति: भवेत्। एते नियमा: अवश्यं पालनीया: इति यु.जी.सी संस्थया उद्घोषिता।

Friday, December 9, 2016

इब्राहिमपुरं दक्षिणभारतस्य प्रथमः पत्ररूप्यकरहितग्रामः।
हैदराबाद्> तेलुङ्कानाराज्यस्थः इब्राहिमपुरग्रामः दक्षिणभारतस्य प्रथमः पत्ररूप्यकरहितग्रामः भविष्यति। राज्यजलसेचनविभागमन्त्रिणा टि हरीष् रावुणा परिग्रहीतः ग्राम अस्ति इब्राहिम पुरम्। अत्र वसतां १२०० जनानां वित्तकोशलेखाः सन्ति। तेभ्यः सर्वेभ्यः डेबिट् पत्राणि तथा स्वैपिड् यन्त्राणि च दत्तानि इति सर्वकारेण विज्ञापितम्।

 द्वाविंशति दिनाङ्के भाग्यनगरं प्रति राष्ट्रपतेरागमनम्।

न्यूदिल्ली> शीताकालसमयदृष्ट्या भारतराष्ट्रपति: श्री प्रणाब्- मुखर्जीवर्यः हैदराबाद् नगरं प्रति गमिष्यति। बोल्लारम् ग्रामे राष्ट्रपतिनिलये वासं करिष्यति। २२-१२-१६ त: ३१-१२-१६ पर्यन्तं इत: एव सर्वकार्याणि करिष्यति। दिसेम्बर् द्वाविंशति दिनाङ्के सायं पञ्चवादने प्रत्येकविमाने हकींपेट् विमानयानस्थानं तत: बोल्लारं राष्ट्रपतिनिलयं प्रत्यागमिष्यति। दिसेम्बर् षड्विंशति दिनाङ्के मौलाना उर्दू विश्वविद्यालयस्य स्नातकोत्सवे भागंग्रहिष्यति। दिसेम्बर् नवविंशति दिनाङ्के तिरुवनन्तपुरे “इण्डियन् हिस्टरी काङ्ग्रेस्” इत्यस्मिन् कार्यक्रमे भागग्रहणं करिष्यति। तत: मैसुर् नगरं प्रति गमिष्यति। दिसेम्बर् त्रिंशत् दिनाङ्के पुन: राष्ट्रपतिनिलयं प्रति आगत्य एक त्रिंशत् दिनाङ्के पुन: दिल्लीं प्रति गमिष्यति।

Thursday, December 8, 2016

विमानदुर्घटनया पाकिस्थाने ४७ यात्रिकाः मृताः।
अबट्टाबाद् > सप्तचत्वारिंशत् यात्रिकेण सह उड्डयमानं पाकिस्थानीयं विमानं भग्नं यात्रिकाः मृताः । चित्रालतः इस्लामाबादं प्रति उड्डयमानम् आसीत्। पाकिस्थानस्य एयर्लइन्सस्य (PIA) विमानस्य एव दुरन्तः जातः। गत-दिने सायं सार्धपञ्चवादने इस्लामबादे प्राप्तव्यमासीत्। किन्तु यात्रामध्ये अबट्टाबादस्य अन्तरीक्षोपरिभागतः विमान-गतागत-नियन्त्रकप्रकोष्टं प्रति विद्यमानः बन्धः विनष्टः आसीत् । उड्डयनानन्तरं सार्धचतुर्वादने प्रतिध्वनिग्राहीतः (RADAR) अप्रत्यक्षमासीत्। विमानस्य यान्त्रिकदोषः अस्ति इति वैमानिकेन नियन्त्रण प्रकोष्टं  प्रति उक्तमासीत् इति कैश्चन वार्तामाध्यमैः न्यवेदितम्।

हरितकेरलं पद्धतिः अद्य समारभते।

अनन्तपुरी> नवकेरलसृष्टिं लक्ष्यीकृत्य केरलसर्वकारेण सम्पद्यमाना हरितकेरळम् इति नूतना पद्धतिः अद्य समारभते। नेय्याट्टिन् करा प्रदेशस्थे कळत्तरक्कल् नामके व्रीहीक्षेत्रसमुच्चये बीजवपनं कृत्वा मुख्यमन्त्री पिणरायि विजयः उद्घाटनं करिष्यति। शुचित्वं जलसंरक्षणं कृषिविकसनं पर्यावरणसंरक्षणम् इत्यादिषु मण्डलेषु नैकाः विकसनपद्धयः ग्रामग्रामान्तरेषु निर्वोढुम् उद्दिश्यन्ते।

Wednesday, December 7, 2016

सोपानम्-23  Fathima Mundeth. Brahmanandodyam sanskrit High School, Kalady, Ernakulam.
जयललितायै सहस्राणाम् अश्रुपूजा।
चेन्नै> तमिळ् नाटुराज्यस्य पुरट्ची तलैवी [परिवर्तननायिका] जयललितायाः देहवियोगे तत्रत्याः दशसहस्रशः जनाः दुःखाश्रुसङ्कुलनेत्रैः सन्तप्यमानहृदयैश्च स्वेषाम् अम्बाम् एकवारमप्यन्तिमदर्शनाय नगरसमीपस्थं मरीना सागरोपान्तं प्रवहन्ति। तत्रैव सामान्यजनानां दर्शनार्थं क्रमीकरणम् आयोजितम्।
             नैैकाः भारतीयराजनैतिकनेतारः जयललितायाः प्राणवियोगे अन्वशोचन्। प्रधानमन्त्री नरेन्द्रमोदी साक्षादनुशोचितुं चेन्नै प्राप्तः। तां प्रति आदरसूचकत्वेन एकदिनात्मकं राष्ट्रियदुःखाचरणं विज्ञापितम्। जयललितायाः अन्त्येष्टिः ह्यः सार्धचतुर्वादने एम् जि आर् स्मारकसमीपे अभवत्।

  केरलस्य राज्यस्तरीय-कायिकस्पर्धा- पालक्काट् विजितः।
कोष़िक्कोट्> केरलस्य राज्यस्तरीयविद्यालयीय कायिकोत्सवस्य आकाङ्क्षोज्वलपरिसमाप्तिः। गतचतुर्दिनेषु कोष़िक्कोट् विश्वविद्यालयस्य क्रीडाङ्कणे सम्पद्यमाने केरळछात्राणां कायिकोत्सवे किरीटलब्ध्यर्थं एरणाकुलं-पालक्काट्जनपदयोः पदप्रतिपदस्पर्धा एव दृष्टा। प्राथमिकदिनेषु अग्रगामित्वं प्रदर्शितवन्तम् एरणाकुलं जनपदं अन्तिमे दिने पराजित्य पालक्काट् जनपदः कायिककिरीटं स्वायत्तीकृतवान्। पालक्काट् २५५ अङ्के प्राप्ते एरणाकुलं २४७ अङ्कानि प्राप्य द्वितीयस्थानं प्राप्तवत्।

सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशः - श्रीजगदीशसिंह:
नवदिल्ली>भारत-सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशत्वेन जगदीशसिंह: नियुक्त: अभवत्। कार्यरतस्य न्यायाधीशस्य कालपरिमिति: जनवरी तृतीय दिनाङ्के समाप्तिर्भविष्यति । अत: जनवरी चतुर्थ दिनाङ्के श्री जगदीश: मुख्यन्यायाधीशपदवीं अलङ्करिष्यति । श्री जगदीश: चतुश्चत्वारिंशत्तम: मुख्यन्यायाधीश:।

Episode 23  Fathima Mundeth Std 8 BSHS Kalady

Tuesday, December 6, 2016

जयललिता दिवंगता।
चेन्नै> तमिळ् जनतायाः प्रार्थनाः विफलीकृत्य तेषाम् अम्बा तथा तमिळ्   मुख्यमन्त्रिणी कुमारी जे. जयललिता इहलेकवासं त्यक्तवती। अष्टषष्टिवयस्कायाः तस्याः अन्त्यं ह्यः रात्रौ ११.३० वादने  आसीत्।
   गतानि ७५ दिनानि यावत् जयललिता चेन्नैयाम् अप्पोलो आतुरालये चिकित्साविधेया आसीत्। रविवासरे सायंकाले सञ्जातेन हृदयाघातेन तस्याः आरोग्यस्थितिः गुरुतरा अभवत्। ह्यः अर्धरात्रौ मरणं स्थिरीकृत्य अप्पोलो आतुरालयाधिकृतैः ज्ञापकपत्रं प्रकाशितम्।
     ओ.पनीर् शेल्वम् मुख्यमन्त्रिपदे अवरोधितः। तमिल् नाट् राज्ये सप्तदिनानाम् दुःखाचरणं प्रख्यापितम्। सर्वकारकार्यालयानां शिक्षासंस्थानां च त्रिदिनात्मकः विरामः विज्ञापितः।

'टाइम् पर्सन् ऑफ् द ईयर्'-प्रतिस्पर्धकेषु प्रधानमन्त्रिणे नरेंद्रमोदिने विजयः।
नवदेहली>प्रधानमंत्री नरेंद्रमोदी ऐषमः 'टाइम् पर्सन् ऑफ् द ईयर् ' इत्यस्य प्रतिस्पर्धकेषु प्रप्रथमस्थानत्वं भजति । टाइम्स समवायस्य ONLINE READERS POOL इति अन्तर्जालीय पाठकसर्वेक्षणे मोदिना बराक-ओबामा डोनाल्डट्रम्प सदृशाः अन्ताराष्ट्रिय नेतारः पराजित्य विजयः अधिगतः। अस्य विजयस्य औपचारिकोद्घोषणा दिसंबरमासस्य सप्तमे दिने भविष्यति ।
  ध्येयास्पदं यत् ऐषमः 'पर्सन् ऑफ दि ईयर' इत्यस्य कृते अमेरिकायाः राष्ट्रपतिः हिलेरीक्लिंटनः एफ.बी.आई. इत्यस्य प्रमुखः जेम्स-कोमी एप्पल् समवायस्य मुख्यकार्यकार्यधिकारी टिम् कुकः स्वदेशाय हुतिंगतस्य अमेरिकीय सैन्यभटस्य हुमायूँखानस्य पितरौ उत्तरी कोरियायाः किम-जोंग-उनः ब्रिटिश-प्रधानमंत्री थेरेजा-मे चीनराष्ट्रस्य राष्ट्रपति: शी जिनपिंगश्च सम्मिलिताः सन्ति। 
भारतस्त प्रप्रथमः धनरहितः स: ग्राम:।
मुम्बई> कृष्णधनस्य निवारणार्थं ५००,१००० धनपत्राणि निर्मूल्यीकृतानि। केन्द्रसर्वकारोsपि धनरहित विनिमयाय (Transaction) प्रोत्साहं यच्छति। अधिकतया नगरेषु धनरहित कर्मनिर्वाह: प्रचलति ।  परन्तु महाराष्ट्रे थाने जनपदे देशायि नाम ग्रामे सर्वे जना: धनरहित कर्मनिर्वाहमेव कुर्वन्ति। गतसप्ताह गुरुवासरात् ग्रामजना: कर्मनिर्वाहं स्वैपिङ्ग् यन्त्रमुपयुज्यैव कुर्वन्तीति महाराष्ट्रस्य वित्तमन्त्री श्री सुधीर मुंगन् तिवार: अवदत् । बाङ्क् आफ् बरोडा नाम वित्तकोशस्य साहाय्येन अयं कार्यक्रम: प्रचलति । शाकापणेषु,फलापणेषु,अन्येषु लघु आपणेष्वपि स्वैपिङ्ग् यन्त्रमेव विनियुज्यन्ते । अत: एष: ग्राम: प्रथम धनरहित ग्राम: अभवदीति वित्तमन्त्री अवदत् । आगामि दिवसेषु महाराष्ट्र: प्रथम धनरहित-राज्य: भविष्यतीति च तेनोक्तम् ।

 यूनेस्कोसंस्थाया: सांस्कृतिक न्यासे योग: सम्मिलित:
गुरुवासरे संयुक्तराष्ट्रस्य शैक्षणिक,वैज्ञानिक,सांस्कृतिक संगठनेन यूनेस्को इत्यनेन विश्वस्य प्रतिष्ठित मानवताया: अमूर्त-सांस्कृतिक-न्यास सूच्यां योगमपि सम्मिलितिकृतम्। यूनेस्कोसंस्थाया: सदस्या: उक्तवन्त: योग दर्शनेन स्वास्थ्य-शिक्षा-कलादि क्षेत्रेषु भारतीय-समाजं प्रभावितं कृतमस्ति।

वर्ष पूर्वं मरुस्थलमपि हरितमासीत् : अध्ययनं 
नेचर जियोसाइंस मध्ये प्रकाशित लेखानुगुणं ६००० वर्ष पूर्वं मरुस्थलमपि हरितमासीत्। मरुस्थलेsपि बहुमात्रया: वृष्टि: भवति स्म्। मरुस्थले एतद् परिवर्तनं विश्व-जलवायु परिवर्तनानुसारं आगतम्। वैज्ञानिकै: उक्तं अस्मिन् अध्यनेन सम्पूर्ण-विश्वस्य वर्षा विषये उत्तमोत्तम रीत्या चिन्तयितुं शक्यते।

Monday, December 5, 2016

जयललितायाः हृदयाघातः, तीव्रपरिचरणविभागे प्रविष्टा।
चेन्नै> अप्पोलो आतुरालये चिकित्सायां वर्तमाना तमिळनाड् मुख्यमन्त्रिणी जयजलिता रविवासरे सायन्तने  हृदयाघेन पीडिता। अतितीव्रपरिचरणविभागे प्रविष्टा सा विदग्धभिषग्वराणां सूक्ष्मनिरीक्षणे वर्तते। तस्याः स्वास्थ्यस्थितिः न शुभोदर्कः इति सूच्यते।

प्राणरक्षौषधं विद्यालयस्थ-परीक्षणशालायां निर्मीय छात्राः!।
सिड्नी> प्राणरक्षौषधस्य मूल्यं पञ्चसहस्रगुणितं वर्धयन्तं औषधनिर्माणश्रेणिनं पराजित्य आस्ट्रेलिया राष्ट्रस्य उच्चतरविद्यार्थिनः विद्यालयस्थायां परीक्षणशालायाम् औषधं निर्मितवन्तः! एयिड्स्,(AIDS ) पूतिवायुः (Malaria ) रोगबाधितेषु अणुबाधां विरुध्य उपयुज्यमानस्य "दाराप्रिम्" नामकस्य औषधस्य घटकान् न्यूनातिन्यूनव्ययेन सिड्निप्रदेशस्थे ग्रामर् विद्यालयस्थाः छात्राः विकसितवन्तः!
     गतसंवत्सरे केवलम् अष्टादश डोलर्  परिमितमासीत् सहस्रशः रोगिणाम् आश्वासदायकस्य दाराप्रिम् औषधस्य मूल्यम्। किन्तु मार्टिन् ष्क्रीलि नामके दाराप्रिं गुडिकानिर्माणसंस्थायाः स्वामित्वे प्राप्ते औषधस्य मूल्यं पञ्चसहस्रगुणितं वर्धयित्वा ७५० डोलर् परिमितमकरोत्। लोके नितराम् अभिशप्त इति माध्यमैः विशेषितः अयं ष्क्रीली।
    लोकारोग्यसंस्थायाः अवश्यौषधगणे अन्तर्भूतस्य दाराप्रिम् औषधस्य सहस्रगुणितमूल्यं श्रद्धां कृतवन्तः ग्रामर् विद्यालयस्थाः ११ छात्राः कथं न्यूनव्ययेन औषधोत्पादनं कर्तुं शक्यतेति अनुसन्धानं कृतवन्तः आसन्।

 व्याजरूप्यकनिर्मार्जनं - विजयः  प्रतिशतं१२ सङ्कोचयिष्यतीती।
 बेङ्गलुरु> मुद्रारूप्यकाणाम् असाधुवत्करणेन व्याजधनं निर्मार्जयितुं न शक्यते इति इन्डिया रेटिंग्स् नामकसंस्थायाः निरीक्षणम्। अस्य क्रियाविधेः प्रयोजनं केवलं १२%  स्यादिति तेषाम् पठनं समर्थयति।

केरळाब्लास्टेर्स् उपान्त्यचक्रं प्रविष्टम्।
कोच्ची - नोर्त् ईस्ट् युणैटड् दलम् एकपक्षीयेन लक्ष्यकन्दुकेनैकेन पराजित्य केरलाब्लास्टेर्स् दलम् ऐ एस् एल् पादकन्दुकक्रीडायाः उपान्त्यपादं प्रविष्टम्।
      ह्यः कोच्चीनगरे जवहर्लाल् नेहरु अन्ताराष्ट्रक्रीडाङ्कणे सम्पन्ने मत्सरे ६६तमे निमिषे केरलीयेन सि के विनीतेन एव निर्णायकं लक्ष्यकन्दुकं प्राप्तम्। अनेन विजयेन २२ अङ्कैः सह केरला ब्लास्टेर्स् पट्टिकायां द्वितीयस्थानम् अवाप।

Sunday, December 4, 2016

पञ्चीकरण-संख्यां विना विहरन्ति भारवाहनानि।
कोच्ची > केरळेषु भारवाहनेषु पञ्चीकरणसंख्यां समीचीनतया द्रष्टुं न शाक्यते। केरलात् बहिः आगतेषु यानेषु संख्याफलकमपि दर्शनयोग्यं नास्ति। वाहनानां पृष्टभागे एव संख्याफलकमेव नास्ति। फलकमस्तिचेत् संख्यां द्रष्टुं न शाक्यते। केषाञ्चन यानानां संख्यायाः आवरणं कर्तुं अलङ्कारादिकम् आरचयन्ति। नूतन यानानि पञ्चीकरणोद्युक्तानि (For Registration)  इति आङ्गलपदमुपयुज्य मार्गेषु स्वतन्त्रतया डयन्ते। इमानि सर्वाण्यपि दुर्घटनानां हेतुः एव। पथिकान् अरक्षितान् कर्तुं एतानि पर्याप्तानि।  मानवानां जीवस्य मूल्यं तृणादपि न्यूनं इत्यनेन प्रदर्श्यते । पथि विद्यमानाः गतागत-नियन्त्रकाः आरक्षकाः अपि अस्मिन्  श्रद्धालवः न। राज्यान्तरादागतेभ्यः भारयानेभ्यः  एतादृशं अपथचालनं संभवतीति केचन चालकाः वदन्ति। बहुवारं एतदधिकृत्य सूचना पञ्चीकरणाधिकारीणां सकाशे दत्ता। किन्तु सर्वापि निष्फला।

 सामाजिकवार्तामाध्यमेषु चीनां विरुद्ध्य सन्देशाः प्रचलन्ति।

कोच्ची > भारतं विरुद्ध्य  पकिस्थानस्य अनुकूलतया च  चीनाराष्ट्रेण कृतं व्यवहारं दृष्ट्वा राष्ट्रभक्ताः भारतीयाः क्षोभितवन्तः। ते चीनां विरुद्ध्य रक्तरहित-संग्रामाय नवमाध्यमेषु अह्वानं कृतवन्तः। चीनया भारते बहूनि वस्तूनि विक्रीयन्ते । बालकानां क्रीडोपकरणानि , जंगमदूरवणी, वैद्युतोपकरणानि, वस्त्राणि, गृहोपकरणानि एतादृशानि असङ्ख्यानि वस्तूनि भारतस्य आर्थिक सम्पदं चीनां प्रति नयन्ति। द्विषष्टि (६२) लक्षं कोटिरुप्यकाणि अनेन मार्गेण  भारतात् बहिः गच्छन्ति। अतः भारतीयाः वयं भारतीयोत्पन्नानां उपयोक्तारः भवन्तु इति च आदेशः कृतः वर्तते। अनेनमार्गेण भारतस्य आर्थिकोन्नतिः चीनायाः आर्थिकमण्डले अपचयः च भविष्यति इति अस्मिन् सन्देशे साविस्तरं प्रतिपादितम् ।

Saturday, December 3, 2016

एष्यायाः बृहत्त्तमस्य महोत्सवस्य  प्राथमिकस्तरेषु शुभारम्भः
एष्यायाः बृहत्तमः इति सुख्यातः केरळ विद्यालयकलोत्सवस्य प्राथमिकस्तरेषु शुभारम्भः अभवत् । सामान्येन उपजनपदस्तरीय स्पर्थाः समाप्ताः । अस्मिन् मासे जनपदस्तरीयाः स्पर्धाः आयोक्ष्यन्ते । अस्यां स्पर्धायां संस्कृत - अरबिक् भाषयोः  विद्यमानाः कलास्पर्धाः च सन्ति। राज्यस्तरीय स्पर्धामहोत्सवः जनुवरिमासस्य प्रथमे सप्ताहे कण्णूर् जनपदे भविष्यति।

Friday, December 2, 2016

सुवर्णसञ्चयने निरोधः
नवदिल्ली > सुवर्णम् अधिकतया पार्श्वे  स्थापयितुं नियन्त्रणं भविष्यति। विश्वे सुवर्णोपभोगे भारतस्य स्थानं द्वितीयं भवति। सुवर्णस्य क्रय-विक्रये त्रिषु भागेषु एकः कृष्णधनमुपयुज्य भवति इति अनुमीयते। धनमुद्रिकायाः निर्मूल्यीकरणानन्तरं जनाः सुवर्णाम् अधिकतया अक्रीणन् । नूतन-नियमानुसारं स्त्रीणां पञ्चशतं (५००) ग्रां मितः अविवाहितानां त्रिशतं (३००)ग्रां,  पुरुषाणं पञ्चाशतधिक द्विशतं (२५०) ग्रां च स्वस्य पार्श्वे स्थापयितुं शक्यते इति केन्द्र-वित्तमन्त्रालयेन सूचितम्।

 No Horn Day समाचरितम् ।
वाय्वाकाश प्रदूषणवत् शब्देनापि मार्गाः प्रदूषिताः । अतः दिसंबर् मासस्य प्रथमे दिने यानजन्य-शब्द-नियन्त्रणमुद्दिश्य "नो होण् दिनं" समाचरति। केरळेपि एतादृशम् उद्बोधनम् अभवत् विद्यालय-छात्राः तथा कलाशाला छात्राः च अत्र भागं स्वीकृतवन्तः सन्ति। एरणाकुलं नगर-परिसरेषु IMA संस्थया कार्यक्रमस्य आयोजनं कृतम् । शब्दमलिनीकरणेन स्वास्थ्यदोषाः असङ्ख्यकाः भवन्ति,  किन्तु अज्ञानेन मार्गेषु  वृथा वाहनतर्जनी -ध्वनिमुन्पादयन्ति चालकाः। एतान्  बोद्धुम्  उद्दिश्य  लघु-लेखा:  वितीर्यन्ते  छात्रैः।

नाडा प्रचण्डवातः तमिलनाड् राज्यस्य विविधेषु भागेषु अतिशक्ता वर्षा।
चेनै >तमिलनाड् राज्यस्य सीमाप्रदेशेषु आगमिष्यतीति विभावितः नाडा प्रचण्डवातः शुक्रवासरे प्रभाते एव आगमिष्येत्।चेनै नगरे तथातमिलनाड् राज्यस्य विविधेषु स्थानेषु गुरुवासरे मद्ध्याह्नानन्तरं अनुभूता अतिशक्ता वर्षा अस्य भागमेवेति वातावरण निरीक्षणकेन्द्रेण उक्तम्।शुक्रवासरे प्रभाते पुतुच्चेर्याः वेदारण्यस्य च मद्ध्ये अतिशक्ता वर्षा प्रचण्डवातश्च भविष्यतः इति वातावरण निरीक्षणकेन्द्रेण सूचितः।

Thursday, December 1, 2016

 उत्तराखण्ड स्कृतशोधसम्मेलनम् - फरवरी- 17, 18, 19 दिनाङ्केषु।

उत्तराखण्ड संस्कृत अकादमी (उत्तराखण्ड-सर्वकार:) संस्कृत भाषायाः प्रचारार्थं,संरक्षणार्थं तथा च संस्कृत-जगति नूतन-अनुसन्धान-प्रोत्साहनार्थं  त्रिदिनात्मकं अखिलभारतीयं संस्कृतशोधसम्मेलनस्य आयोजनं  फरवरीमासस्य 17, 18, 19 दिनांकेषु करिष्यति। अकाद्म्याः सचिवः जी एस भाकुनि  उक्तवान्  यत्  संस्कृते सर्वविधज्ञानविज्ञानं  निहितम् अस्ति, संस्कृतस्य संवर्धनेन राष्ट्रे सत्विकवृत्ते: वैज्ञानिकप्रमाणिकतायाः च संचरणं भविष्यति. सम्मेलनस्य विषयः  'वर्तमानकाले स्मृतिवाड्मयस्य उपादेयता' इति निर्धारितमस्ति। सम्मेलने सर्वे विद्वांसः,प्राध्यापकाः शिक्षकाः च शोधपत्रं प्रस्तौतुं शक्नुवन्ति. शोधपत्रम् आवेदनपत्रञ्च प्रेषणस्य अन्तिमा तिथिः 30-12-2016 अस्ति. आवेदनपत्रम् अकाद्म्याः  अन्तर्जाले उपलब्धमस्ति।
 संस्कृतनाट्यसमारोह: -"संस्कृति: संस्कृताश्रिता"
 नवदिल्ल्यां I.T.O इत्यस्मिन् स्थाने  स्थिते प्यारेलालभवनस्य सभागारे  दिल्ली-संस्कृत-अकादम्या संस्कृतनाट्यसमारोह: समायोजित:। अस्मिन् संस्कृतनाट्यमञ्चनसमारोहे "संस्कृति: संस्कृताश्रिता" नामधेयं नाट्यं प्रस्तुतम्। अस्य नाट्यस्य निर्देशनं श्रीमनोजकुमारमिश्रेण कृतम् , श्रीनाट्यम् वीणापाणिसंस्कृतसमितेः कलाकारैः भव्यप्रस्तुतिश्च विहिता। अस्मिन् अवसरे दिल्लीप्रशासनस्य भाषासचिवेन समेता: नैके गणमान्या: उपस्थिता: आसन्।

Wednesday, November 30, 2016

काश्मीरे सैनिककेन्द्रं प्रति भीकराक्रमणम् -सप्तसैनिकानां वीरमृत्युः।
 श्रीनगरम् > जम्मुकाश्मीरस्य नग्रोड प्रविश्यायां भारतसैन्यस्य षोडशतमं मुख्यास्थानं प्रति मङ्गलवासरे प्रत्युषसि संवृत्ते भीकराक्रमणे सप्त भारतीयसैनिकाः वीरमृत्युम् उपगताः। आरक्षकवेषं धृत्वा आगताः भीकराः सैनिकालयस्य महानससमीपं भवनं प्रविश्य भुषुण्डिप्रयोगं कृतवन्तः। सैन्यस्य प्रत्याक्रमणे त्रयः भीकराः यमपुरीं प्राप्ताः। समीपकाले प्रवृत्तयोः उरि, पठान्कोट्ट् आक्रमणयोः अनन्तरं संपन्नेन अनेन आक्रमणेन जनाः सम्भीताः आशङ्काकुलाश्च संवृत्ताः।

वाहनचालकस्य धनजनयोजना लेखायां ९८०६ कोटिरूप्यकाणि।
चण्डीघर् > स: एक: वाहनचालक:। तस्य नाम बलवीर् सिंह:। पञ्जाब् प्रान्ते निवसति। एस्.बी.ऐ. धन जन योजनायां तस्य एका लेखा अस्ति। अस्मिन् मासे चतुर्थदिनाङ्के तस्य  लेखायां ९८०६ कोटि रूप्यकाणि नेक्षिप्त: अभवत्। एतद्धनं दृष्ट्वा स: आश्चर्यचकित: अभवत् । चलवाणी संदेशं दृष्ट्वा आनन्दितवान् । परन्तु दिनद्वयानन्तरं तद्धनं सर्वं तस्य लेखाया: बहिर्गतम्। स: तु तस्य लेखायां ३,००० रूप्यकाणि एव सन्ति। ९८०६ कोटि रूप्यकाणि कुत: आगतानि स: न जानाति इति अवदत् । स: वित्तकोशं गत्वा वित्तकोशस्य अधिकारीं पृष्टवान् कोsपि उत्तरं न दत्तवन्त: इति स: अवदत्। स: एतत् सर्वं आयकर शाखाधिकारीं प्रति अवदत्। वित्तकोश प्रबन्धक: सन्दीप: तस्य विवरणं दत्तवान्। तस्य लेखायां २००रूप्यकाणि निक्षेपणसमये वित्तकोश धनाधिकारी सङ्ख्या दोषेण कृतवान् अत: तस्य लेखायां ९८०६ कोटिरूप्यकणि आगतानीति वित्तकोश प्रबन्धक: अवदत् । अनन्तर दिवसे तच्छुद्धं च कृतमिति अवदत्।

विपक्षिदलानां सहायनिराकरणोद्यमस्य समाप्ति:
जनानां धनपत्राणां कष्टान् केन्द्रं प्रति नीत्वा समस्याया: परिहाराय विपक्षिदल-नेतार: तेलंगाना, आन्ध्र प्रान्तयो: पिधानाय वै.एस्.आर्.सीपी प्रयत्न: कृत:। परन्तु कुत्रापि तस्य प्रभाव: न अभवत् । बस् यानानि पिधानार्थं विपक्षिदल-नेतार: आन्दोलनं कृतवन्त: । आन्दोलनकारान् रक्षकभटा: कारागृहं नीतवन्त:। भारतकान्ग्रेस् तु  भारतपिधानं नास्ति केवलं आक्रोशदिवस: एव इति प्रकटित:। हैदराबाद् नगरे पिधानस्य प्रभाव: कुत्रापि न दृष्ट:। एम्.जी.बी.एस् बस् यान स्थानत: बस् यानानि यदेच्छेन चलितानि।

 उत्पीठसङ्गणकापेक्षया चलवाण्यामेव अधिकम्
प्रपञ्चे अन्तर्जाल शोधनं उत्पीठसङ्गणकापेक्षया चलवाण्यामेव अधिकमस्तीति एका सर्वेक्षण संस्था उद्घोषिता। अभिज्ञचलवाणी (Smart Mobile) आगमनान्तरं चलवाण्यामेव अन्तर्जालान्वेषणम् कर्तुं जना: रता: भवन्ति। अत: सर्वे वाणिज्य संस्था: अन्येतर संस्था: च जालदेशापेक्षया चलवाणी जालदेशस्य अधिकं प्राधान्यं यच्छेदिति निपुणा: वदन्ति। भारते ७०% जना: चलवाण्यामेव अन्तर्जालमेव उपयोगं कुर्वन्तीति निपुणा: वदन्ति।
सोपानम्-22 Taara G. Bhavan's Munshi Vidyashram, Thiruvankulam,Trippunithura.


Tuesday, November 29, 2016

 व्याजधनं प्रकाशयितुम् एकोsपि सन्दर्भः।
नवदिल्ली> येषां सकाशे असाधुपत्ररूप्यकसहितानि व्याजधनानि सन्ति तादृशधनानि प्रकाशयितुम् एकवारमपि समयः केन्द्रसर्वकारेण लभ्यते। याथातथ्यप्रमाणं विना सम्भृतानि ५००, १००० रूप्यकाणां धनपत्राणि डिसम्बर् ३०तम दिनाङ्कात् पूर्वं स्वमेधया प्रकाश्य वित्तकोशेषु निक्षिप्यन्ते तर्हि केवलं ५० शतमानपरिमितं शुल्कं देयम्। अथवा ५० शतमानपरिमितं शुल्कं दत्वा प्रधानमन्त्रिणःगरीब् कल्याण् योजनानुसारं प्रतिज्ञापत्रेषु निक्षेप्तुम् अर्हन्ति। किन्तु निक्षेपाणां स्रोतः यदि न प्रकाश्यते , अधिकृतैः अवगम्यते तर्हि शुल्क-दण्डन रूपेण ९० शतमानपरिमितं दातव्यम्।

अवैधधनप्रकरणे केंन्द्रप्रशासनस्य महत्त्वपूर्णनिर्णयः
नवदिल्ली>अवैधधनप्रकरणमालक्ष्य केन्द्रप्रशासनेन महत्त्वपूर्णपदक्षेपं विधाय आयकरविधौ  संशोधनार्थं लोकसभायां  विधेयकमेकमुपस्थापितम्। नवंबरमासस्य अष्टमदिनानन्तरं सञ्चितावैधधनस्योपरि प्रतिशतं पञ्चाशतमित: करदण्डः भविष्यति, यस्य प्रतिशतं पञ्चविंशतिमितं धनं निर्धन-कल्याण-योजनायै प्रयोक्ष्यते। शेष-धनस्य प्रत्यावर्तनं वर्षचतुष्ट्यानन्तरं भविष्यति , अघोषित-आयस्य स्वत: प्रकटनाभावे प्रतिशतं 85 करः प्रदेयो भविष्यति|

 वैद्युतिकादानप्रदान-सौध्यविषयिणी कार्यशाला
नवदिल्ली>प्रधानमंत्रिणः नरेंद्र मोदिनः cashless transaction इति  हस्तधनविनिमयाभावसमाह्वाने प्रधानमंत्री कार्यालयस्य वरिष्ठाधिकारिभिः विशेषोद् बोधनं प्रारब्धम् ।अधिकारिभिः दैनिकोपयोगाय वैद्युतिकादानप्रदान-सौविध्यविषयिणी एका कार्यशाला समायोजिता। अपि च  वित्तमंत्रालयेन वैद्युतिकादानप्रदानसौविध्यविषये जनानां परिचयः कारितः।

 वेंकैया नायडू  वामदलेषु वाक्शूलान् आरोपितवान्।
केंद्रीय सूचनाप्रसारण मंत्री वेंकैया नायडू कांग्रेसदलीयानां वामदलीयैः मिलित्वा विमुद्रीकरणं विरुद्य कृतभारतपिधानप्रत्यूहम् अधिकृत्य वाक्शरैः तान् विरुद्ध्य ताडितवान् । प्रोक्तं च यत् एतानि दलानि जनतावञ्चकदलानि। अतः पृथक्तिरस्करणीयानि । संसदि कार्यान्वयनाय च दलानां समाह्वानं कृतम् ।