सोपानम्-21 Meenakshi N V, Brahmanandodayam H S, Kalady.
OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Wednesday, November 23, 2016
Tuesday, November 22, 2016
ऋणप्रतिदानाय मासद्वयस्य विलम्बालुकूल्यम्।
मुम्बई >मुद्रानिरासेन सञ्जातानि धनदौर्लभ्यं नियन्त्रणानि च परिगण्य ऋणानां प्रतिदानाय षष्टिदिनात्मकम् अधिकसमयं विधातुं रिसर्वबाङ्केन निर्णीतम्। एककोटि रूप्यकाणाम् अधः येषां भवन-कार्षिक-वाहन ऋणानि सन्ति तेषांकृते एव इदम् आनुकूल्यम्। वाणिज्यवित्तकोशाः, जिल्ला-राज्यस्तरीय सहकारवित्तकोशाः इतरधनकार्यसंस्थाः च इदमानुकूल्यम् अर्हन्ति।
विश्वसंस्कृतसम्मानसमारोहः।
नवदेहली>नवदिल्ल्यां २१/११/२०१६ तमे दिनांके भारतीय-सांस्कृतिक-सम्बन्ध-परिषदा विश्व-संस्कृत-सम्मान- समारोह: समायोजित:। अवसरेsस्मिन् थाईलैंड-देशीया राजकुमारी महाचक्री सिरिन्धोर्नवर्या २०१५ तमाब्दार्थं सम्मानेनानेन सभाजिता। ऐषमः सम्मानेन जॉर्ज-कार्डोना-वर्य: बहुमानित:। ध्यातव्यमिदं यत् सम्मानोsयं उभाभ्यामपि भारतस्य उपराष्ट्रपतिना हामिद-अन्सारिणा संस्कृतक्षेत्रे तयो: अप्रतिम-योगदानार्थं उपायनीकृत:।
केरळमन्त्रिसभा पुनर्घटिता।
अनन्तपुरी> षण्मासातीता केरळराज्यमन्त्रिसभा पुनःसंघटिता। सि पि एम् दलस्य वरिष्ठनेता उटुम्पन्चोला मण्डलस्य सामाजिकः एम् एम् मणिः नूतनः विद्युन्मन्त्री भविष्यति। इदानींतन विद्युन्मन्त्री कटकम्पल्लि सुरेन्द्रः सहकारविभागस्य विनोदसञ्चारविभागस्य च उत्तरदायित्वं वक्ष्यति।सहकारिविभागस्य मन्त्री ए सि मोय्तीनः उद्यमविभागस्य मन्त्री भविष्यति।
अष्ट राज्येषु ₹6,068 कोटी धनस्य मार्ग परियोजनानां स्वीकृतिः।
नवदेहली>केन्द्र सर्वकारेण 8 राज्येषु ₹ 6067.90कोटी मूल्येन प्राय: 476 km मार्गनिर्माण परियोजनानां कृते स्वीकृति दत्तमस्ति। मणिपुर-नागालैण्ड-अरुणाचल प्रदेश-महाराष्ट्र-गोवा-पश्चिम बंगाल-उत्तराखंड-उत्तरप्रदेश राज्येषु अस्यां परियोजनायां कार्यं भवति। अधिकाधिक परियोजनानां विकास: ईपीसी (इंजीनियरिंग्,प्रोक्योरमेंट्,कंस्ट्रक्शन्) माध्यमेन भविता।
Monday, November 21, 2016
BBC माध्यमेन चतुर्णां भारतीय-भाषायामपि प्रक्षेपणं

इजरायल देशे अध्यनरत् वैदेशिक छात्रेषु 10% भारतीया:
गुरुवासरे इजरायल देशस्य राष्ट्रपति रुवेन रिवलिन महोदयेनोक्तं इजरायल देशे अध्ययनरत वैदेशिक छात्रेषु 10% छात्रा: भारतीया: सन्ति। तै: उक्तं "भारत-इजरायल सर्वकारस्य 40 त: अधिक संयुक्त अनुसंधान परियोजनामाध्यमेन विगत वर्षेषु इजरायल-भारतस्य शैक्षिक-सहयोगे वृद्धि जातमस्ति।
उत्तरप्रदेश निर्वाचने प्रियंका मुख्य भूमिकायां - कांग्रेस्
शुक्रवासरे कांग्रेस जना: उक्तवन्त: आगामी वर्षे उत्तरप्रदेश विधानसभा निर्वाचने प्रियंका मुख्यभूमिकां वहति। प्रदेश कांग्रेस अध्यक्षेण राजबब्बरेणोक्तं निर्वाचनस्य तिथि निर्णयानन्तरं प्रचार कार्यक्कमाणां योजना स्पष्टा भविता।
प्रधानमंत्री नरेन्द्र मोदिना कृतस्य मुद्रापत्राणां प्रतिबन्धस्य पक्षे अन्ना हजारे
नवदेहली> सामाजिक कार्यकर्ता अन्ना हजारे महोदय: प्रधानमंत्री नरेन्द्र मोदे: मुद्रापत्राणां प्रतिबन्धस्य निर्णयेन सन्तुष्टास्ति। स: उक्तवान किमपि प्राप्तुं काठिन्यस्य साक्षात्कारं तु करणीयं भवत्येव। एतद् सर्वकारस्य ऐतिहासिक निर्णय: अस्ति। अग्रे उक्तवान् अस्मिन् विषये ते एव विरोधं कुर्वन्ति येषां पार्श्वे कृष्णधनमस्ति।
चैना-ओपण-सुपर्-सीरीस्-प्रीमियर-बैडमिंटन-स्पर्धायां पि.वि. सिंधुः विजयं प्राप्तवती
रियो ओलिंपिकस्पर्धायां कास्य पदकविजेत्री पि.वि.सिंधु चैना ओपण् सुपर् सीरीज् प्रीमियर बैडमिंटन स्पर्धां विजितवती । एकहोरापर्यन्तप्रचलिते निर्णायकद्वन्द्वे तया चीनस्य सुन यू इत्येषा क्रीडिका 21-11, 17-21, 21-11 अंकान्तरालेन पराजिता ।Sunday, November 20, 2016
उत्तरप्रदेशे रेल्यानदुर्घटना - उपशतं मरणानि।
कान्पुरम् >उत्तरप्रदेशे काण्पुर् समीपे पाट्ना-इन्डोर् एक्स्प्रेस् रेल् यानस्य चतुर्दश पेटिकानां पट्टिकास्खलनेन सप्ताधिकशतं यात्रिकाः मृत्युमुपगताः। रविवासरे उषःकाले त्रिवादने आसीदियं दुर्घटना। ७६ यात्रिकाः क्षताः जाताः।दुर्घटनाहेतुः न प्रत्यभिज्ञातः। रक्षाप्रवर्तनानि आरब्धानि। रेल् विभागमन्त्री दुर्घटनास्थानं प्राप्य रक्षाप्रवर्तनानां नेतृत्वं वहति।
चाइन-ओपन-सुपर-सीरीज-प्रीमियर-बैडमिंटन-स्पर्धायां पीवी सिंधोः विजयमधिगतवती।
चाइन-ओपन-सुपर-सीरीज-प्रीमियर-बैडमिंटन-स्पर्धायां पीवी सिंधोः विजयमधिगतवती। रियो ओलिंपिकस्पर्धायां कास्य पदकविदेत्रृ पीवी सिंधु चाइन ओपन सुपर सीरीज प्रीमियर बैडमिंटन स्पर्धां विजितवती । एकहोरापर्यन्तप्रचलिते निर्णायकद्वन्द्वे तया चीनस्य सुन यू इत्येषा क्रीडिका 21-11, 17-21, 21-11 अंकान्तरालेन पराजिता।
Saturday, November 19, 2016
हिन्दी भाषायै दीयमानस्य प्राधान्यस्य अर्धांशः अपि संस्कृतभाषायै दातव्यः -शङ्कराचार्य विश्व विद्यालयस्य उपकुलपतिः
कोच्ची >केरळ-सर्वकारेण विद्यालय-शिक्षायां हिन्दी भाषायै दीयमानस्य प्राधान्यस्य अर्धांशः अपि संस्कृतभाषायै दातव्यः इति कालटी शङ्कराचार्य विश्व विद्यालयस्य उपकुलपतिना डॉ. एम् सी दिलीप कुमारमहोदयेन उक्तम्। केरळे एरणाकुळं जनपदे वेदपूर्णपुर्याम् आयोजिते सांस्कृतिक मेलने भाषमाणः आसीत् सः। संस्कृतभाषां पुरस्कृत्य कैरळ्यां निर्मिते स्वप्नत्तिलेक्कोरु यात्रा (സ്വപ്നത്തിലേക്കൊരു യാത്രാ ) नाम ह्रस्वचलन चित्रस्य प्रदर्शनोद्घाटनमपि तेन महोदयेन सम्पन्नम्। चलन चित्र स्य निर्माता तथा संविधायिका श्रीमती श्रुति इम्मानुवेल् महाभागया कृत योगदानस्य प्रतिक्रिया-रूपेण सानितरां सम्मानिता च। एषा आलप्पुष़ जनपदे विद्यमान तृक्कुन्नप्पुष़ एम् टी प्राथमिक विद्यालये संस्कृताध्यापिका भवति । स्वस्य उद्योगाल्लब्धं वेतनम् उपयुज्य एव चलन-चित्रस्य निर्माणम् अकरोत् इति विशेषः अपि अस्ति।
गते वित्तवर्षे स्वच्छ-भारत उपकर-माध्यमत: नव शतोत्तर त्रिसहस्रं कोटी धनलाभ:।
राज्यसभायां गुरुवासरे सर्वकार पक्षत: सूचनादानवेलायां ज्ञातं यत् गाते वित्तवर्षे स्वच्छ भारत योजनायाः उपकरत: नव शतोत्तर त्रिसहस्रं कोटी धनं प्राप्तं, धनराशे: प्रतिशतम् अशीति मितं (80%) पेयजलं एवञ्च स्वच्छता मंत्रालयाय दीयते, 20% प्रतिशतं विंशति नगर - विकास मंत्रालयाय दीयते च। ज्ञातव्यमस्ति यत् विगतवर्षे सर्वकारेण सर्वेषु अपि करयोग्य सेवायै 0.5% प्रतिशतं अर्ध रुप्यकं स्वच्छ भारत उपकरः स्थापितः आसीत्।Friday, November 18, 2016
पर्यावरणमलिनीकरणस्य बृहद्दण्डनशुल्कंविधास्यति।
नवदिल्ली>पर्यावरणमलिनीकरणं निरोद्धुं तीव्रानुशासनं विधीयते। पृथिव्यप्वायून् मलिनीकुर्वतां व्यक्तीनां संस्थानां व्यवसायशालानां च लक्षैकरूप्यकाभ्यः आरभ्य द्विकोटिरूप्यकाणि यावत् दण्डनशुल्कं संवत्सरत्रयस्य कारागारवासं च विधातुं निर्देशः कृतः। १९८६ तमवर्षस्य पर्यावरणसंरक्षणनियमं २०१०तमवर्षस्य हरित ट्रैब्यूणल् नियमं च व्यत्ययं कृत्वा नवीनं पर्यावरणनियमविधेयकं संसदः अस्मिन् सम्मेलने अवतारयिष्यति। परिस्थितिसंरक्षणमण्डले बृहत्परिवर्तनाय निर्दिष्टव्यवस्थया शक्यते।
पर्यावरणमलिनीकरणस्य परिमाणगणनाय केन्द्र-राज्यतलेषु विदग्धसमितिं रूपवत्करिष्यति। समित्याः निर्देशानुसारं दण्डनव्यवस्था भविष्यति। मलिनीकरणस्य परिधिः, तद्वारा जायमानानि नाशनष्टानि, नाशस्य परिमाणः इत्यादीनां निर्वचनेषु समग्रं परिवर्तनं भविष्यतीति नवीननियमस्य सविशेषता।
Thursday, November 17, 2016
संस्कृतभाषायाः महत्वम् उक्त्वा कैरल्यां ह्रस्वचलन-चित्रम् ।
कोच्ची >चित्र लेखकः तथा डोक्कुमेन्टरि चलनचित्रस्य संविधायकः इति सुज्ञातः इम्मानुवेल् नामकस्य पत्नी 'श्रुति' इदानीं संस्कृतभाषायां नूतनं दृश्यकाव्यं व्यरचयत् । एषा संस्कृताध्यापिका भवति आलप्पुष़ा जनपथे एम् टि यू पि विद्यालये कर्म करोति। अतः संस्कृतानुकूलं चलनचित्र निर्माणाय स्वस्य वेतनम् उपयुक्तवती । सप्तमकक्ष्यायाः आदर्शभूतः संस्कृतग्रामः इति पाठभागस्य पृष्ठभूमौ एव कथायाः यात्रा। अस्मिन् मासस्य १८ दिने वेदपूर्णपुर्याम् चलन-मुद्रिकायाः प्रकाशनं भविष्यति। षट्वादने लायं 'कूत्तम्बले' चलनचित्रकारेण विनोद् मङ्करा महाभागेन श्री शङ्कराचार्य संस्कृत विश्वविद्यालयस्य उप-कुलपतये डॉ. एम्. सि. दिलीपकुमार -महोदाय दत्वा चलनमुद्रिका मोच्यते ।Wednesday, November 16, 2016
निरस्तानां मुद्रापत्रकाणाम् अवश्यसेवाभ्यः २४पर्यन्तं साधुता।
नवदिल्ली> मुद्रापत्रनिरसनेन संजातं विषमस्थितिं परिहर्तुं केन्द्रसर्वकारेण ऊर्जिताः क्रियाविधयः स्वीकृताः। ग्रामीणमण्डलेषु धनवितरणाय क्रियाविधयः स्वीकृताः। निरस्तानि मुद्रापत्राणि अवश्यसेवाभ्यः नवम्बर् मासस्य २४तम दिनाङ्कं यावत् उपयोक्तुं शक्यन्ते। ए टि एम् यन्त्रद्वारा धनाहरणस्य परिधिः २०००रूप्यकेभ्यः सार्धद्विसहस्रं रूप्यकाणि यावत् परिवर्तितः। ग्रामीणप्रविश्यासु १.३लक्षं पत्रालयान् प्रति धनानयनं त्वरितं करिष्यति। देशीयवीथिषु शुल्कसमाहरणनिरोधनं नवं- १८ पर्यन्तं भविष्यति।
Tuesday, November 15, 2016
आगामिदिवसेषु SBI(ATM) त: ₹20अपि प्राप्यते।
नवदिल्ली > भारतदेशस्य सर्वाधिक दीर्घ SBI वित्तकोषस्य उच्चाधिकारिणी अरुंधति भट्टाचार्य महोदया: अवादीत् । आगामी दिवसेषु जनानां सम्मर्द: न्यूनं भविता। ATM यन्त्र त: ₹100-50 विहाय ₹20 धनमपि लभ्यते तदर्थमपिव्यवस्था क्रियते ! सा उक्तवति धनपत्रस्योपरि प्रतिबन्ध: बहु दीर्घ कार्यमस्ति 50 दिनात् पूर्वमेव सर्वं सामान्यं भविता !
कार्षिकोद्यानानां साध्यता पठनाय नियुक्ति:।

Monday, November 14, 2016
अद्य शिशुदिनं। आभारतम् अद्य शिशुदिनम् आधुष्यन्ते।
कोच्ची >भारतस्य राष्ट्रपतिना प्रणब् मुखर्जिना तथा प्रधान मन्त्रिणा नरेन्द्रमोदिना च शिशूनां कृते आशंसाः अर्पिताः । राज्यस्थरीय मण्डेलेषु प्रधान सचिवैः अस्य आधोषस्य उद्धाटनं क्रियते। क्रीडा विनोदैः पद सञ्चलन शोभायात्रा च दिनमिदं शिशूनां चित्तेषु सामोदं वर्तते। भारतस्य प्रथमस्य प्रधानमन्त्रिणः जवहर् लाल् नेहृ महोदयस्य जन्मदिनमेव शिशुदिनत्वेन आचर्यते ।
सहपाठिने गृह-निर्माणाय पूर्वविद्यार्थिनः मेलनम् ।
चेङ्ङन्नूर्> केरले चेड़नूर देशे एव एतादृश कारुण्य संगमः। चेड़नूर क्रैस्तवीय कलालये दीपावली दिने एव पूर्व विद्यार्थि सम्मेलनम् आयोजितम्। तदा स्वस्य सहपाठी एकः गृहविहीनः इति ज्ञात्वा सर्वे धनसमाहरणं कृतवन्तः। एवं सार्ध त्रिलक्षकानि रुप्यकानि समाहृतानि। गृहनिर्माणस्य उत्तरदायित्वं विद्यार्थि संघेन स्वीकृतम् च।
वीथी शुनकेभ्यः शिशूनां भीतिः। प्रधानमन्त्रिणे लेखं लिखति।
कोच्ची>नगराणां संवर्धनेन मालिन्य सञ्जयः वर्धते। उच्चिष्ट वस्तूनि भक्षयित्व वीथी शुनकानां संख्या नगरप्रान्तेष्वपि वर्धते । एवं स्थितौ वर्धित संघाः शुनकाः अबलान् बालिका बालकान् आक्रमन्ति। केचन अपमृतिं प्राप्ताः इति च वार्ता माध्यमेषु बहुवारं स्पष्टीकृतम्। चेदपि शुनक-सेवकानां शुनक स्नेहितानां च अनिष्टेन इदानीं भारते बालिका बालकाः एवं विधं अपमृतिं यान्ति। केरलस्य बालिकाबालकाः अद्य प्रधानमन्त्रिणे नरेन्दरमोदिने लेखं लिखति।
अष्ट वयस्का व्याध्रेण हता।
गुजरात् राज्ये उमर्-पाड प्रदेशे निकिता वासवा नामिका बालिका व्याध्रस्य आक्रमेण मृता । गतदिने प्रभाते शौचादि कार्याय गृहात् बहिः प्राप्ता बालिका एव दुरन्त विधेय जाता । दिनद्वयात् पूर्वं अन्या बालिका अपि व्याध्रस्य आक्रमेण मृता आसीत्। सामान्यतया बालकाः अपि एवं अपमृतिं यान्ति। Sunday, November 13, 2016
डोणाल्ड् ट्रंपः अमेरिका राष्ट्रपतिः। एनं विरुद्ध्य जनाः I
कालिफोर्णिया >अमेरिकाराष्ट्रस्य राष्ट्रपति पदे रिपब्लिक् दलस्य स्थानाशी डोणाल्ड् ट्रंपः चितः। राज्यनैतिक निरीक्षकाणां प्रवचनानि अस्तां कृत्वा डमोक्राटिक् दलस्य हिलरि क्लिन्टन् वर्यां पराजित्य एव ट्रंपः अमेरिकायाः राष्ट्रपति पदं प्राप्नोति। किन्तु इदानीं जनाः एनं विरुद्ध्य रथ्यायां आक्रोशं कृतवन्ताः।
संस्कृतेन अनुवादः, न तु संस्कृतस्य अनुवादः!- च मु कृष्णशास्त्री

संस्कृतग्रन्थानाम् इतरभाषाभिः अनुवादेन इतरभाषावाड़्मयं समृद्धं जातम्, न तु संस्कृतवाड़्मयम्। जनाः भगवद्गीतायाः अनुवादं पठन्ति, न तु भगवद्गीताम्। न तु संस्कृतम्। अतः संस्कृतेन अनुवादः, न तु संस्कृतस्य अनुवादः!
Saturday, November 12, 2016
मोदी जापानदेशे - आणवसन्धिः हस्ताक्षरीकृतः।
टोकियो>त्रिदिवसीयसन्दर्शनार्थं भारतस्य प्रधानमन्त्री नरेन्द्रमोदी जाप्पानदेशं प्राप्तवान्। जापानस्य प्रधानमन्त्रिणा षिन्सो अबे महोदयेन सह मेलनं कृत्वा शान्तिपूर्णं सहवर्तित्वं लक्ष्यीकृत्य आणवसन्धिं यथातथं कृतवान्। उभयराष्ट्रयोः आर्थिक -सुरक्षामण्डलेषु परस्परबन्धं दृढीकर्तुं अयं सन्धिः सहायकं भविष्यति।Friday, November 11, 2016
केन्द्रसर्वकारस्य सर्वदलीय गोष्ठी नवम्बर १५ दिने
नवदिल्ली>केन्द्रसर्वकारेण नवम्बरमासस्य 15 दिनांके शीतकालीनसत्र चालितुं सर्वदलीय गोष्ठी आयोजिता -आगामीशीतकालीनसंसदसत्रस्य चर्चार्थं केन्द्रसर्वकारेण सर्वदलीय गोष्ठी आयोजितमस्ति। सूचनास्ति यत् गोष्ठ्यां प्रधान्मन्त्रि नरेन्द्र मोदि अपि आगच्छन्ति । सामान्यतः शीतकालीन सत्रस्य आरम्भ: नवम्बर मासस्य 3-4 सप्ताहे भवति परञ्च अस्मिनहायने G S T सम्बन्धित विधेयकानां कृते पूर्वमपि शक्यते।
भारतीयटेस्ट्ट् क्रिकेट् क्रिडायां प्रथमवारं महिला
राजकोट्> राज्यस्तरीय इतिहासेप्रमथवारं अन्तराष्ट्रिय टेस्ट्ट् क्रिडायां महिला संगणिका जातम्। बुधवासरात्रा जकोट् क्रिडास्थले भारत-इंग्लैण्ड देशयो: प्रथम टेस्ट्ट् मध्ये हेमाली देशाई -सेजल दवे आधिकारिक अंकगणिका सन्ति। उभाsपि एतावता 150 क्रीडाषु अंकगणनं कृतवत्य:।
Thursday, November 10, 2016
शुक्रवारत: ATM यन्त्रे नूतन धनं लभ्येते
नवदेहल्ली > वित्तसचिव अशोकलवासा महोदयेन बुधवासरे निगदितं वित्तकोषानां(ATM) यन्त्रेषु उच्च सुरक्षया स: नूतनं र500-2000 धनं लभ्यते ! लवासा महोदयेन गदितं जनानां कृते किञ्चित् असुविधा भविता तदर्थमपि सर्वकारेण व्यवस्था कृतमस्ति यत् कस्यापि कृते असुविधा मा भवतु इति ! RBI नूतनधन निष्कासनेsपि दृष्टिं यच्छति !
Subscribe to:
Posts (Atom)