OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, November 10, 2016

देहल्यां हिमधूम पटलः अतीवगुरुतररीत्या
नवदेहली > देहल्यां हिमधूम पटलस्य आधिक्यः रूक्षः अभवत् इति वातावरण निरीक्षण केन्द्रेण उच्यते। दिवसत्रयानन्तरं स्थितिः अनुकूलं  स्यात् इति तेन उक्तम्।  तथापि इयं दुर्दशा  परिहाराय यावद्  शक्यं तावत् करिष्ये इति देहल्याः मुख्यमन्त्रिणा केजरिवाल् महोदयेन उक्तम्। इयं समस्या  परिहाराय आयोजिते विधानसभा मेलनानन्तरं भाषमाणः आसीत् सः। हिमधूमपटलानां परिहाराय  वृष्टिं वर्षयितुं श्रमः प्रचाल्यते ।  तदर्थं केन्द्र सर्वकार्यस्य साह्यं अभ्यर्धितम् इति तेन उक्तम्।

संस्कृतेः सुस्थितिः कुटुम्बाधिष्ठितम्- पि उण्णिकृष्णः। 
नेटुम्बाशेरी > सुस्थितिः कुटुम्बस्य संस्कृतिं च आश्रित्य भवति । कुटुम्बस्य सुस्थितिः तु तत्रत्यानां गृहिणीनां धर्मानुसृतं भवति इति तपस्या कला साहित्य वेदिः नाम दलस्य कार्यदर्शिना उण्णिकृष्ण-महोदयेन उक्तम्। दलस्य सारस्वत समर्पणं इति कार्यक्रमे भाषमाणः आसीत् सः। त्रिमूर्तेः तथा त्रिशक्तीनां समागमः  सर्वेष्वपि कुटुम्बेषु भवेयुः ।  ब्रह्मचर्यं पातिवृत्यं च अनुष्ठीयमानेषु समूहेषु धर्मच्युतिः न कदापि भविष्यति इति च तेन महोदयेन स्मारितः । एतस्य भाषणानन्तरं सारस्वत समर्पणं च अभवत्।  सांस्कृतिक नवोद्धानाय संघटितं कलासाहित्य-प्रवर्तकानां दलं भवति तपस्या कला साहित्य वेदिः।

शनि-रविवासरयोः वित्तकोशाः प्रवर्तिष्यन्ते। 
नवदिल्ली - राष्ट्रे सर्वे वित्तकोशाः [बेङ्काः] सामान्यजनानां कृते शनिवासरॆ रविवासरे च [नवं १२,१३ तमे दिनाङ्कयोः] साधारणरीत्या समुद्घाट्य प्रवर्तिष्यन्ते। एतदनुसृतः निर्देशः भारतीय रिसर्व् बाङ्केन कृतः।
     सामान्यमण्डलबेङ्काः स्वकीयबेङ्काः तथा ग्रामीण- सहकरण-विदेश-प्रादेशिक बाङ्कैरपि अयं निर्देशः अनुुसरणीय इति विज्ञापितमस्ति।

Wednesday, November 9, 2016

५००, १००० रुप्यकपत्राणां निरोधः - जनेभ्यः महोत्सवः।
500, 1000 रुप्यकाणां पत्राणि भारतसर्वकारेण प्रतिगृह्मते इति वार्ताः ज्ञात्वा सामूहिक माध्यमेषु मोदि महोदयाय अभिनन्दन प्रवाहः । माध्यमेषु सर्वत्र राजनैतिकभेदं विस्मृत्य जनैः अभिनन्दन-वचसा माध्यम -पुटानि प्रपूरितानि । राष्ट्रियोत्सवः इति सम्भाव्य आघुष्यन्ते च। सर्वकारस्य प्रवर्तनेषु *इतःपरम् एतादृशः जनाभिमतः न जातः इति श्रद्धेयः। (*अर्धविसर्गः लिप्यभाव एवं लेखनीयम्)
 ५००,१००० रूप्यकपत्राणि-प्रतिगृहीतानि 
नवदिल्ली >भारतराष्ट्रस्य प्रधान मन्त्री स्थानेषु विराज मान: नरेन्द्र मोदी. भारतस्य उन्नत धनागारेषु एवं धनपत्रेषु च कीलकं निर्णयं कृतवान् । ५००&१००० रूप्यकपत्राणि- ह्यः रात्रौ अारभ्य तानि पत्राणि प्रतिगृह्य प्रधानमन्त्रिणा उद्घोषणा प्रसारिता । जनेभ्यः रुप्यकाणि दिसम्बर् 30दिनपर्यन्तं बैङ्कतः परिवर्त्य नूतनानि स्वीकर्तुम् सन्दर्भः अस्ति इति च  तेन महोदयेन उक्तम् ।

सम्मिलितरक्षासेवापरीक्षापरिणामः
संघलोकसेवायोगेन सम्मिलितरक्षासेवापरीक्षापरिणामः समुद्घोषितः। यस्यान्तर्गतं 126 परिक्षार्थिनः अंतिमरूपेण प्रचिताः। ध्यातव्यमिदं यत् साक्षात्कारपरिणामाधारेण भारतीयसैन्य-अकादमी-देहरादून,भारतीय-नौसेना-अकादमीकेरल,  वायु-सेना-अकादमी-हैदराबाद इत्येषु प्रशिक्षणपाठयक्रमाय एतैः अर्हता सम्प्राप्ता।

सूरतनगरेराष्ट्रपितामहात्मा गाँधी वर्यस्य पौत्र: कनु गाँधी दिवंगत:
   महात्मागाँधी वर्यस्यपौत्र: कनुरामदासगाँधी वर्यस्य(87) वर्षे दीर्घ रोगानन्तरं निर्वाण: जातमस्ति! अमेरिकायां (MIT) त: अध्ययनं कृत्वा नासासंस्थायामपि एते कार्यं कृतवन्त:। दांडी यात्राया: प्रसिद्धचित्रे गाँधी वर्याणां यष्टि: स्वीकृत्य य: बाल: दृश्यते स: एव कनु गाँधी अस्ति।

सम्पूर्ण देशे 1.14.332ग्रामेषु शौचालयव्यवस्था
सोमवासरे केन्द्रीय पेयजल एवञ्च स्वच्छता मंत्री नरेन्द्र सिंह महोदयेन अवादीत् सम्पूर्ण देशे 1.14.332ग्रामा: शौचालययुक्ता: जाता:। तै: उक्तं एतावता 61जनपदेषु 637 खण्डस्तरेषु(ब्लाक) 50.492 ग्राम सभासु पूर्ण रुपेण शौचालय निर्माणं जातमस्ति। लक्ष्यमस्ति यत् आगामी वर्षस्य मार्चमासं यावत् 175 जनपदेषु एतादृशी व्यवस्था भविता इति।

छठपूजा त: गृहागमनवेलायां बिहार राज्ये 6 महिलानां लौहपथगामिन्या: कर्तनेन मृत्यु:
बिहारराज्यस्य दरभंगायां रामभद्रपुर रेलवे(लौहपथगामिनी) स्थानके सोमवासरे 6 महिलानां लौहपथगामिन्या: कर्तनेन मृत्यु: जातम्। सूचनानुसारेण धूमिकाकारणेन न दृष्टम्। अन्यत्र मुजफ्फरपुर नगरे छठपूजायामेव नद्यां निमज्जनेन 2 बालकानां मृत्यु जातम्।
सोपानम्-19 Ahalya M. Std.III, St. Mary's UP School Thevara, Kochi-13.

Tuesday, November 8, 2016

RN1-मार्गेषु सौरोर्जत्रिचक्रिका अपि।    
  तिरुवनन्तपुरम् (केरलम्)> केरलेषु मार्गान् अलङ्कर्तुं सौरेर्जेन चाल्यमाना त्रिचक्रिका अपि सज्जीकृता।'हंराही' इति नामकरणं कृतस्याः अस्याः त्रिचक्रिकायाः स्वरूपकर्ता जोर्जुकुट्टी करियानप्पल्ली इति नामकः भवति। यानमिदं नवम्बर् अष्टमदिनादारभ्य वाणिज्यकेन्द्रेषु उपलभ्यते। सर्वकारपक्षतः सर्वाः अनुमतयः लब्धाः इति जोर्जुकुट्टी अवदत्। २५० वाट्स् शेषियुक्तानि सौरोर्जफलकान्येव यानचालनाय उपयुज्यन्ते। सूर्यप्रकाशस्य अभावे विद्युदुपयुज्यापि अस्य बाटरी उपयोक्तुं शक्यते। एकस्मिन् समये पञ्चभिः जनैः अपि यात्रा सुकरा इति तेन उक्तम्। एकेन अभियोगेन ८० कि.मी दूरं यात्रा साध्या इत्यपि सः असूचयत्। 

868/- रूप्यकाणाम् एव वायुयान प्रयाणम् – इण्डिगो ऐर्लैन्स्
नवदेहल्ली>वायुयान यात्रिकानां इण्डिगो ऐर्लैन्स् एकं नूतनं पूर्वप्रापणं उद्घोषितम् । निर्देशित देशीय मार्गेषु यानचीटिकाया: मूल्यं 868/- इति उद्घोषितम् । दिनद्वयस्य कृते निर्देशितं एतत् पूर्वप्रापणं द्वारा 2017 जनवरी 11 त: एप्रियल् 11 पर्यन्तं कदापि वायुयाने यात्रां कर्तुं शक्यते । गतमासे 80 लक्षादिक जना: इण्डिगो वायुयाने यात्रां कृतवन्त: । आधुनिक काले जना: वायुयाने यात्रां कर्तुम् उत्सुका: भवन्ति तदनुसृत्य विमानयानसंस्था: अपि विविधानि पूर्वप्रापणानि आनयन्ति । गो एइर् संस्था अपि संस्थाया: एकादशीय वार्षिकोत्सवावसरे 611/- रूप्यकाणामेव यत्राचीटिकां यच्छन्ति ।

प्रतिपट्टणम्  अनन्दकेन्द्रानाम् स्थापना- श्री श्री रविशङ्कर:
वरङ्गल् – ईनाडु > यथा प्रतिपट्टने चिकित्सालया: भवन्ति तथैव प्रतिपट्टने आनन्दकेन्द्राणां स्थापना भवेदिति ”आर्ट् आफ् लिविंग् व्यवस्थापक:” श्री श्री रविशङ्कर महोदयेन उक्तम् । हन्मकोन्डा प्रान्तस्य कला-वैज्ञानिक कलाशाला क्रीडाक्षेत्रे स्थापित “ध्यानम्-गानम्-ज्ञानम्” इत्यस्मिन् कार्यक्रमे मुख्यातिथि रूपेण उपस्थित: श्री श्री रविशङ्कर महोदय: शिष्यान् उद्दिश्य भाषणम् कृतम् । अस्मिन् भाषणे एतेन उक्तम् यत् – सर्वासां समस्यानां धनम् परिष्कारं न भवति ध्यानाभ्यासेन एव मनुष्य: सुखेन जीवति इति उक्तम् । आधुनिक समाजे मनुष्याणां समस्या: अधिका: भवन्ति । तासां समस्यानां निवारणार्थं प्रतिपट्टने आनन्दकेन्द्राणां स्थापना भवेदिति उक्तम् । यदा दु:खं भवति तदा आनन्दकेन्द्रं गत्वा ध्यानं कृत्वा सुखेन बहिरागन्तव्यमिति सूचितम्। 
868/- रूप्यकाणाम् एव वायुयान प्रयाणम् – इण्डिगो ऐर्लैन्स्

नवदेहल्ली>वायुयान यात्रिकानां इण्डिगो ऐर्लैन्स् एकं नूतनं पूर्वप्रापणं उद्घोषितम् । निर्देशित देशीय मार्गेषु यानचीटिकाया: मूल्यं 868/- इति उद्घोषितम् । दिनद्वयस्य कृते निर्देशितं एतत् पूर्वप्रापणं द्वारा 2017 जनवरी 11 त: एप्रियल् 11 पर्यन्तं कदापि वायुयाने यात्रां कर्तुं शक्यते । गतमासे 80 लक्षादिक जना: इण्डिगो वायुयाने यात्रां कृतवन्त: । आधुनिक काले जना: वायुयाने यात्रां कर्तुम् उत्सुका: भवन्ति तदनुसृत्य विमानयानसंस्था: अपि विविधानि पूर्वप्रापणानि आनयन्ति । गो एइर् संस्था अपि संस्थाया: एकादशीय वार्षिकोत्सवावसरे 611/- रूप्यकाणामेव यत्राचीटिकां यच्छन्ति ।

Monday, November 7, 2016

आसिया समुद्रतीर-क्रीडायां भारतम् आतिथेयः
 चेन्नै > केन्द्र, प्रन्तीय सर्वकारयो: अनुमति: लप्स्यते चेत् २०२० मध्ये आसिया समुद्रतीर क्रीडाभ्यः भारतम् आतिथ्यं यच्छतीति भारत ओलंपिक् क्रीडाध्यक्ष: रामचन्द्रन् महोदय: उक्तवान् । आगामि आसिया समुद्रतीर क्रीडा: महाराष्ट्रे भविष्यतीति उद्घोषितम् । एतस्या: क्रीडाया: कृते भारतसर्वकारस्य अनुज्ञा आवश्यकमिति उक्तम् । अस्मिन् वर्षे वियन्नायां समुद्रतीर क्रीडायां प्रत्येकस्य देशस्य २००० क्रीडाकारा: भागग्रहणं स्वीकृतवन्त:।

सी राधाकृष्णमहोदयाय एष़ुत्तच्चन् पुरस्कार: 
        कोच्चि > केरळसर्वकारस्य एष़ुत्तच्चन् पुरस्कार: श्री सि राधाकृष्णमहोदयाय। सार्धैकलक्षरुप्यकाणि फलकं च पुरस्कारे अन्तर्भवति। आगामि जनुवरीमासे केरळराज्यस्य मुख्यमन्त्रिणा पिणरायी महोदयेन सि राधाकृष्णवर्य: पुरस्कृत: भविष्यति । कैरळीभाषायै तथा साहित्यस्य च कृते अस्य योगदानं परिगणयन्नेव स: पुरस्काराय चित:। केरळसाहित्य अक्कादमी अध्यक्ष: श्री वैशाखन् महोदय:,चयर्मान् श्री सुगतकुमारी,डा.के एन् पणिक्कर्, प्रभावर्मा, सांस्कृतिकविभागमन्त्रि श्री राणिजॉर्ज् आदि विजेतु: नाम्न: चयनवेळायां समित्यां आसन्। महोदयास्यास्य कृतय: सर्वा: अत्युत्तमा: इति समित्यङ्गै: अवलोकिता:। एतत् २४तम एष़ुत्तच्चन् पुरस्कार: अस्ति।लेखक: ,चलचित्रकार: इत्यादि मण्डलेषु वय्यक्तिकमुद्रया सुप्रतिष्ठित: श्री सी राधाकृष्णमहोदय: १९३९ तमे फरवरी पञ्चादशदिने मलप्पुरं जनपदे  चम्रवट्टप्रदेशे अजायत। कथा:,कवितासमाहारा:, नाटकानि,वैज्ञानिकरचना:,     परिभाषा,प्रबन्धसमाहारा: च तस्य सर्गक्रियाया: उत्तमफलानि एव। मलयाळभाषापितु: नाम्नि अयं पुरस्कार: प्रतिवर्षं दीयते।


एष्यन् वनिता चाम्प्य्नस् होकिक्रीडायां च ड्रोफि  
                            एष्यन् वनिताचाम्प्यन्स् होकिक्रीडायां च ड्रोफी ।                         सिंगप्पूर् > एष्यन् चाम्प्यन्स् ड्रोफी होकीक्रीडायां भारतदेशाय युगळ्ड्रोफी। पाकिस्तानदेशं पराजित: मलयाळिक्रीडकस्य श्री पी आर श्रीजेषस्य नेतृत्वे भारतस्य पुरुषक्रीडकसंघ: विजयीघोषित:। तै: सह वनितासंघ: अपि विजयी अभवत्। शनिवासरे संपन्नायां क्रीडायां चतस्रवनिता चाम्प्यन्स् ड्रोफी अन्त्ये भारतीयवनिता: २- १ इति अङ्कै: चीनां जितवन्त:। एतत् भारतीयवनिता: प्रथमचाम्पन्स् ड्रोफी अस्ति। कठिनस्पर्धाया: अन्तिमसमये स्ड्रैकर् दीपिकाठाक्कूर् प्राप्य कन्दुक: एव भारतदेशं विजयपथे अनयत्। डोप्स्कोरर् दिपिकास्ति। होकीइन्ड्या भारतडीमङ्गानां द्विलक्षरुप्यकाणि पारितोषिकत्वेन अकीर्तयत्।

Sunday, November 6, 2016

एन् डि टि वी प्रणालिं विरुध्य सर्वकारप्रतिक्रियायां शक्तः प्रतिषेधः।
नवदिल्ली > एन् डि टि वि नामकस्य दृश्यमाध्यमस्य हिन्दीवार्ताप्रणालीं प्रति केन्द्रसर्वकारेण कृते एकदिनात्मके सम्प्रेषणनिरोधे विपक्षदलानां वार्तामाध्यमपरिषदां च प्रतिषेधः शक्तः। नवंबर् नवमदिनाङ्कस्य सम्प्रेषणमेव निवारितम्।
     पठान्कोट्ट् तीव्रवादि आक्रमणम् अधिकृत्य वार्तासम्प्रेषणमध्ये व्योमनिलयस्य रहस्यरेखाः अपि सम्प्रेषिताः इत्यारोप्य एव इयं प्रतिक्रिया।
    सर्वकारस्य अयं क्रियाविधिः मतस्वातन्त्यलङ्घनमिति मुख्यप्रकाशकानां समित्या एडिटेर्स् गिल्ड् इत्यनया उक्तम्।

Saturday, November 5, 2016

PS 2वस्तुसेवकरपरिषदोपवेशनं सम्पन्नम् 
नवदेहली> मंत्रिणा अरूण जेटलिना प्रतिपादितं यत् इदानीं यावत्  दशमहत्वपूर्णप्रकरणानि समासाधितानि | वस्तुसेवकरान्तर्गतं १.५ कोटिरुप्यकाणां  करमूल्यांकनं विधातुं राज्यप्रशासनाधिकारिणः केन्द्रप्रशासनाधिकारिणश्च उत्तरदायित्वं निभालयिष्यन्ति |
PS 3
राष्ट्रिय-हरित-प्राधिकरणेन दिल्लीप्रशासनं तर्जितम् 
 नवदेहली > दिल्ल्यां प्रदूषणदूरीकरणे  विफलतायै राष्ट्रियहरितप्राधिकरणेन दिल्लीप्रशासनं तर्जितम् |राष्ट्रियहरितप्राधिकरणेन राजधान्यां प्रदूषणनियंत्रणाय केंद्रीय-प्रदूषण- नियंत्रणाभिकरणं दिल्ली-प्रदूषण-नियंत्रण-समिति च समुचितपदक्षेपाय समादिष्टौ | अपि च  गभीरप्रदूषणस्थितिमालक्ष्य प्राथमिकविद्यालयाः शनिवासराय पिहिताः |
H3 वैदेशिकानाम् अधिवेशनात् पूर्वं भारतम् वैज्ञानिकचिन्तया, सम्पन्नम्- वी के सारस्वत्।
बहरिन् >भारत सेनायाः सुशक्त बाणेषु उग्रतमं पृथ्वी बाणस्य स्रष्टा डॉ. वी के सारस्वतः बहरिन् संदृष्टवान्। बहरिनस्य सयन्स् इन्द्या फोरम् नाम दलस्य वैज्ञानिक प्रतिभा पुरस्कारदानाय एव अस्य बहरीन् राष्ट्र सन्दर्शनम्। आसूत्रण कम्मीषनस्य नूतन स्वरूपस्प 'आयोग्' नाम संस्थायाः अङ्गत्वेन विराजमानः चअयं सारस्वत् । भारतीय प्रतिरोध-अनुसन्धान केन्द्रस्य DRDO अधिपः भवत्‍ययम्
 वैज्ञानिक प्रतिभापुरस्कारेण समादृतैः छात्रैःसह 'मिथ- भाषण मभवत् सायं पञ्च वादने भारत जषन् माल् वेदिकायाम् आसीत् कार्याक्रम: । भारत-संस्कृतिः सदा वैज्ञानिकाभिमुख मासीत् अनेनकारणेन वैदेशिकानाम् अधिवेशनात् पूर्वं भारतम् वैज्ञानिकचिन्तया, अनुसन्धानसरण्या च सम्पन्नम् आसीत् इति तेन उक्तम्।

 चौ.चरणसिंहविश्वविद्यालये महर्षिवेदव्याससमारोहः
लख्नौ >उत्तरप्रदेशस्य मेरठस्थितस्य चौधरी-चरणसिंहविश्वविद्यालस्य रजत-जयन्त्यवसरे तत्रत्येन संस्कृतविभागेन नवम्बर मासस्य प्रथमदिनांकात् सप्तदिनांकं यावत्  सप्तदिवसीयः राष्ट्रिय-वेदव्यास-समारोहः समायोज्यते। यस्यान्तर्गतं छात्राणां प्रतिभा-प्रदर्शनमुद्दिश्य विविध-संस्कृत-प्रतियोगिताः शोधसंगोष्ठयः, कविसम्मेलनञ्चायोज्यन्ते। यत्र हि नैकेषां महाविद्यालयीय छात्राः भागम् अभि-स्वीकुर्वन्ति।

Friday, November 4, 2016

आगामीसप्तवर्षेषुस्टेटबैंकेन(वित्तकोशः)7070 ATM संस्थाप्यते।

मुंबई>भारतीयस्टेटबैंकेन (वित्तकोष:)स्वस्य ATM क्षेत्रविस्तारार्थं आगामीसप्तवर्षेषु 7070 संख्याकानि एनसीआर सेल्फसर्व-22 ई ऑटोमेटेडटेलरयन्त्रंATM संस्थाप्ययत ।  बुधवासरे कश्चन अधिकारी इयं सूचना दत्तवान् ! एतादृश रुपेण ATM स्थापनं एनसीआर कार्पोरेशन नामकश्चनसंस्थया क्रियते । बहुराष्ट्रियसंस्था एनसीआर कार्पोरेशन मुख्यालय: अमेरिकाया: जार्जिया स्थित दुलुथेस्ति ! भारते अस्या: संस्थाया: एतावता सर्वाधिक दीर्घं कार्यं वर्तते ! कार्येस्मिनन् 334 कोटिधनव्ययं भवति।
राजस्थाने त्रिसहस्रं कोटि रूप्यकाणां उन्मादकवस्तूनि गृहीतानि। 
नवदिल्ली >अन्तःराष्ट्रविपण्यां त्रिसहस्रंकोटि रूप्यकाणां सार्धत्रयोविंशति टण् परिमितानि उन्मादकवस्तूनि राजस्थानस्य उदयपुरात् रहस्यान्वेषणसंस्थया [डि.आर्.ऐ] संगृहीतानि। अस्मिन् विषये बोलिवुड् चलनचित्रनिर्माता सुभाष् दुधानी बन्धितः।
      उदयपुरस्थे निर्माणशालातः द्विकोटिसंख्याकाः मान्ड्राक्स् नामकाः वटकाः [टाब्लट्] एव गृहीताः। विषादरोगाय उपयुज्यमानम् औषधमस्ति मान्ड्राक्स्। अस्य अमितोपयोगः मानवम् अबोधावस्थां नीयते। उन्मादाय एते फलकाः उपयुज्यन्ते इति प्रत्यभिज्ञानेन इदमौषधं निरोधितमासीत्। किन्तु उदयपुरस्थायां औषधनिर्माणशालायां महत्परिमितम् उन्मादवस्तुसंचयनं कृतमिति सूचनानुसारं बि एस् एफ् बलस्य साहाय्येन आसीदिदम् उन्मादकाखेटनं कृतम्।

Thursday, November 3, 2016

इस्लामिकभीकरैः उपयुक्तानि शस्त्राणि अमेरिकासहित चतुस्त्रिंशत् राष्ट्राणाम्। 
इराख् राष्ट्रे इस्लामिक स्टेट् भीकरैः आधुनिक-शस्त्राण्येव उपयुज्यन्ते। एतादृशानि स्वयं विकासयितुं ते अशक्ताः इति स्थितौ कुतः शत्राणि, यानानि, अभियान्त्रिकविद्या च लभन्तेति संशयः स्वाभाविकः।
    इस्लामिक स्टेट् भीकराणां कृते अमेरिकया गुप्तरूपेण शस्त्राणि विक्रीयन्तेतित विकिलिक्स् प्रस्तावः समीपकाले एव बहिरागतः। अमेरिकासहित चतुस्त्रिंशत् राष्ट्राणाम् आधुनिक-शस्त्राणि भीकरैः उपयुज्यन्ते। अमेरिकां विना रष्या, चैना, ब्रिट्टन्, फ्रान्स् इत्यादि चतुस्त्रिंशत् राष्ट्राणां शतशः शस्त्राणाम् उपयोगः भीकरैः कुर्वन्ति। 

Wednesday, November 2, 2016

सोपानम्-18 Niranjana J, Saraswati Vidyaniketan, Chengamanad.
 आकाशवाण्याः राजधानी-वाहिनी द्वारा ''संस्कृत-सौरभम्'' कार्यक्रमः

नवदेहली >आकाशवाण्याः राजधानीवाहिनी-द्वारा  ''संस्कृत-सौरभम्'' इति नाम कार्यक्रमस्य प्रक्षेपणं करिष्यते। नवम्बर-मासस्य पञ्चमदिने रात्रौ सार्धनववादने प्रक्षेपणं करिष्यते । कार्यक्रमः 666 आवृत्तौ श्रोतुं शक्यते। अस्मिन्  कार्यक्रमे काव्य-पाठ: संस्कृत-पत्रकारितायाः वर्तमानां अवस्थाञ्च अधिकृत्य श्रोतुं शक्यते। डॉ. ऋषिराजपाठक:, संस्कृत-वाणी इति पाक्षिक-पत्रस्य मुख्यसम्पादिका श्रीमती लक्ष्मी शर्मा चात्र सहभागिनौ स्त:। वरिष्ठः वार्तावतारकः संस्कृतपत्रकारसंघस्य वरिष्ठ-सचिवः तथा सम्प्रतिवार्ता- नामिकया अन्तर्जालपत्रिकया अारब्धस्य अॉन्लाईन्- पत्रकारिता-पठनवर्गस्य निदेशकः इत्यादि-स्थानेषु विराजमानः डॉ. बलदेवानन्दसागरः कार्यक्रमस्य मुख्य-नियन्ता भविष्यति।

भारतसीमायां पाकिस्थानस्य शुक्तिकास्त्राक्रमणम् - अष्ट मरणानि।
जम्मु> भारत-पाक् नियन्त्रणरेखायां द्वयोः राष्ट्रयोः सैनिकैः परस्परं महत् शुक्तिकास्त्राक्रमणं कृतम्। किमपि प्रकोपनं विना पाकिस्थानेनैव आक्रमणम् आरब्धम्। अष्ट भारतग्रामीणाः मारिताः। भारतेन कृते प्रत्याक्रमणे द्वौ पाक् सैनिकौ मृतौ। नौषेरा प्रविश्यायामेव भारतस्य प्रत्याक्रमणं संवृत्तम्। जम्मु-काश्मीरमण्डले अनुवर्तमाने पाकिस्थानस्य आक्रमणे प्रदेशवासिनां व्यापादने च मुख्यमन्त्रिणी मेहबूब् मुफ्ती आशङ्कां दुःखं च प्रकाशितवती।

Tuesday, November 1, 2016

तुलावर्षा समागता।
अनन्तपुरी> दक्षिणभारते तुलावर्षः इति कथ्यमानः उत्तरपूर्ववर्षाकालः समागत इति पर्यावरणनिरीक्षणकेन्द्रेण निगदितम्। गतदिने तमिल् नाट् आन्ध्राप्रदेशयोः तीरेषु वर्षामेघाः संप्राप्ता इति स्थिरीकृतम्।
     अयं वर्षः संतृप्तमानकेन लप्स्यते इति प्रतीक्षा वर्तते तथापि केरले सामान्येन न्यूनः स्यादिति पर्यावरणकेन्द्रस्य गणना। दक्षिण-पश्चिमकालवर्षः [मण्सूण्] राष्ट्रे साधारणमानकेन लब्धमासीत् तथापि केरले प्रतिशतं ३४ मानकस्य न्यूनता अभवत्। तुलावर्षस्य विषये अपि एषा स्थितिः अभविष्यत् तर्हि राज्यं रूक्षाम् अनावृष्टिं प्राप्स्यति।

केरळाय षष्ठिपूर्तिः।
कोच्ची > देवस्य स्वकीयं स्थानमिति प्रथामवाप्तं केरळराज्यम् अद्य षष्ठिपूर्तिः आघुष्यते। भारतस्य स्वतन्त्रता प्राप्त्यनन्तरं भाषाणाम् आधारेण राज्यपुनःसंघाटने प्रवृत्ते तिरुवितांकूर्-कोच्ची-मलबार् नामकाः तत्कालीनाः लघुदेशाः सम्भूय केरळम् इति नवीनं राज्यं प्रादुरभूत्। १९५६ नवम्बर् प्रथमे दिने आसीत् केरळस्य उदयः। मलयाळं मातृभाषया स्वीकृतम्।⁠⁠⁠⁠