OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 5, 2016

H3 वैदेशिकानाम् अधिवेशनात् पूर्वं भारतम् वैज्ञानिकचिन्तया, सम्पन्नम्- वी के सारस्वत्।
बहरिन् >भारत सेनायाः सुशक्त बाणेषु उग्रतमं पृथ्वी बाणस्य स्रष्टा डॉ. वी के सारस्वतः बहरिन् संदृष्टवान्। बहरिनस्य सयन्स् इन्द्या फोरम् नाम दलस्य वैज्ञानिक प्रतिभा पुरस्कारदानाय एव अस्य बहरीन् राष्ट्र सन्दर्शनम्। आसूत्रण कम्मीषनस्य नूतन स्वरूपस्प 'आयोग्' नाम संस्थायाः अङ्गत्वेन विराजमानः चअयं सारस्वत् । भारतीय प्रतिरोध-अनुसन्धान केन्द्रस्य DRDO अधिपः भवत्‍ययम्
 वैज्ञानिक प्रतिभापुरस्कारेण समादृतैः छात्रैःसह 'मिथ- भाषण मभवत् सायं पञ्च वादने भारत जषन् माल् वेदिकायाम् आसीत् कार्याक्रम: । भारत-संस्कृतिः सदा वैज्ञानिकाभिमुख मासीत् अनेनकारणेन वैदेशिकानाम् अधिवेशनात् पूर्वं भारतम् वैज्ञानिकचिन्तया, अनुसन्धानसरण्या च सम्पन्नम् आसीत् इति तेन उक्तम्।

 चौ.चरणसिंहविश्वविद्यालये महर्षिवेदव्याससमारोहः
लख्नौ >उत्तरप्रदेशस्य मेरठस्थितस्य चौधरी-चरणसिंहविश्वविद्यालस्य रजत-जयन्त्यवसरे तत्रत्येन संस्कृतविभागेन नवम्बर मासस्य प्रथमदिनांकात् सप्तदिनांकं यावत्  सप्तदिवसीयः राष्ट्रिय-वेदव्यास-समारोहः समायोज्यते। यस्यान्तर्गतं छात्राणां प्रतिभा-प्रदर्शनमुद्दिश्य विविध-संस्कृत-प्रतियोगिताः शोधसंगोष्ठयः, कविसम्मेलनञ्चायोज्यन्ते। यत्र हि नैकेषां महाविद्यालयीय छात्राः भागम् अभि-स्वीकुर्वन्ति।

Friday, November 4, 2016

आगामीसप्तवर्षेषुस्टेटबैंकेन(वित्तकोशः)7070 ATM संस्थाप्यते।

मुंबई>भारतीयस्टेटबैंकेन (वित्तकोष:)स्वस्य ATM क्षेत्रविस्तारार्थं आगामीसप्तवर्षेषु 7070 संख्याकानि एनसीआर सेल्फसर्व-22 ई ऑटोमेटेडटेलरयन्त्रंATM संस्थाप्ययत ।  बुधवासरे कश्चन अधिकारी इयं सूचना दत्तवान् ! एतादृश रुपेण ATM स्थापनं एनसीआर कार्पोरेशन नामकश्चनसंस्थया क्रियते । बहुराष्ट्रियसंस्था एनसीआर कार्पोरेशन मुख्यालय: अमेरिकाया: जार्जिया स्थित दुलुथेस्ति ! भारते अस्या: संस्थाया: एतावता सर्वाधिक दीर्घं कार्यं वर्तते ! कार्येस्मिनन् 334 कोटिधनव्ययं भवति।
राजस्थाने त्रिसहस्रं कोटि रूप्यकाणां उन्मादकवस्तूनि गृहीतानि। 
नवदिल्ली >अन्तःराष्ट्रविपण्यां त्रिसहस्रंकोटि रूप्यकाणां सार्धत्रयोविंशति टण् परिमितानि उन्मादकवस्तूनि राजस्थानस्य उदयपुरात् रहस्यान्वेषणसंस्थया [डि.आर्.ऐ] संगृहीतानि। अस्मिन् विषये बोलिवुड् चलनचित्रनिर्माता सुभाष् दुधानी बन्धितः।
      उदयपुरस्थे निर्माणशालातः द्विकोटिसंख्याकाः मान्ड्राक्स् नामकाः वटकाः [टाब्लट्] एव गृहीताः। विषादरोगाय उपयुज्यमानम् औषधमस्ति मान्ड्राक्स्। अस्य अमितोपयोगः मानवम् अबोधावस्थां नीयते। उन्मादाय एते फलकाः उपयुज्यन्ते इति प्रत्यभिज्ञानेन इदमौषधं निरोधितमासीत्। किन्तु उदयपुरस्थायां औषधनिर्माणशालायां महत्परिमितम् उन्मादवस्तुसंचयनं कृतमिति सूचनानुसारं बि एस् एफ् बलस्य साहाय्येन आसीदिदम् उन्मादकाखेटनं कृतम्।

Thursday, November 3, 2016

इस्लामिकभीकरैः उपयुक्तानि शस्त्राणि अमेरिकासहित चतुस्त्रिंशत् राष्ट्राणाम्। 
इराख् राष्ट्रे इस्लामिक स्टेट् भीकरैः आधुनिक-शस्त्राण्येव उपयुज्यन्ते। एतादृशानि स्वयं विकासयितुं ते अशक्ताः इति स्थितौ कुतः शत्राणि, यानानि, अभियान्त्रिकविद्या च लभन्तेति संशयः स्वाभाविकः।
    इस्लामिक स्टेट् भीकराणां कृते अमेरिकया गुप्तरूपेण शस्त्राणि विक्रीयन्तेतित विकिलिक्स् प्रस्तावः समीपकाले एव बहिरागतः। अमेरिकासहित चतुस्त्रिंशत् राष्ट्राणाम् आधुनिक-शस्त्राणि भीकरैः उपयुज्यन्ते। अमेरिकां विना रष्या, चैना, ब्रिट्टन्, फ्रान्स् इत्यादि चतुस्त्रिंशत् राष्ट्राणां शतशः शस्त्राणाम् उपयोगः भीकरैः कुर्वन्ति। 

Wednesday, November 2, 2016

सोपानम्-18 Niranjana J, Saraswati Vidyaniketan, Chengamanad.
 आकाशवाण्याः राजधानी-वाहिनी द्वारा ''संस्कृत-सौरभम्'' कार्यक्रमः

नवदेहली >आकाशवाण्याः राजधानीवाहिनी-द्वारा  ''संस्कृत-सौरभम्'' इति नाम कार्यक्रमस्य प्रक्षेपणं करिष्यते। नवम्बर-मासस्य पञ्चमदिने रात्रौ सार्धनववादने प्रक्षेपणं करिष्यते । कार्यक्रमः 666 आवृत्तौ श्रोतुं शक्यते। अस्मिन्  कार्यक्रमे काव्य-पाठ: संस्कृत-पत्रकारितायाः वर्तमानां अवस्थाञ्च अधिकृत्य श्रोतुं शक्यते। डॉ. ऋषिराजपाठक:, संस्कृत-वाणी इति पाक्षिक-पत्रस्य मुख्यसम्पादिका श्रीमती लक्ष्मी शर्मा चात्र सहभागिनौ स्त:। वरिष्ठः वार्तावतारकः संस्कृतपत्रकारसंघस्य वरिष्ठ-सचिवः तथा सम्प्रतिवार्ता- नामिकया अन्तर्जालपत्रिकया अारब्धस्य अॉन्लाईन्- पत्रकारिता-पठनवर्गस्य निदेशकः इत्यादि-स्थानेषु विराजमानः डॉ. बलदेवानन्दसागरः कार्यक्रमस्य मुख्य-नियन्ता भविष्यति।

भारतसीमायां पाकिस्थानस्य शुक्तिकास्त्राक्रमणम् - अष्ट मरणानि।
जम्मु> भारत-पाक् नियन्त्रणरेखायां द्वयोः राष्ट्रयोः सैनिकैः परस्परं महत् शुक्तिकास्त्राक्रमणं कृतम्। किमपि प्रकोपनं विना पाकिस्थानेनैव आक्रमणम् आरब्धम्। अष्ट भारतग्रामीणाः मारिताः। भारतेन कृते प्रत्याक्रमणे द्वौ पाक् सैनिकौ मृतौ। नौषेरा प्रविश्यायामेव भारतस्य प्रत्याक्रमणं संवृत्तम्। जम्मु-काश्मीरमण्डले अनुवर्तमाने पाकिस्थानस्य आक्रमणे प्रदेशवासिनां व्यापादने च मुख्यमन्त्रिणी मेहबूब् मुफ्ती आशङ्कां दुःखं च प्रकाशितवती।

Tuesday, November 1, 2016

तुलावर्षा समागता।
अनन्तपुरी> दक्षिणभारते तुलावर्षः इति कथ्यमानः उत्तरपूर्ववर्षाकालः समागत इति पर्यावरणनिरीक्षणकेन्द्रेण निगदितम्। गतदिने तमिल् नाट् आन्ध्राप्रदेशयोः तीरेषु वर्षामेघाः संप्राप्ता इति स्थिरीकृतम्।
     अयं वर्षः संतृप्तमानकेन लप्स्यते इति प्रतीक्षा वर्तते तथापि केरले सामान्येन न्यूनः स्यादिति पर्यावरणकेन्द्रस्य गणना। दक्षिण-पश्चिमकालवर्षः [मण्सूण्] राष्ट्रे साधारणमानकेन लब्धमासीत् तथापि केरले प्रतिशतं ३४ मानकस्य न्यूनता अभवत्। तुलावर्षस्य विषये अपि एषा स्थितिः अभविष्यत् तर्हि राज्यं रूक्षाम् अनावृष्टिं प्राप्स्यति।

केरळाय षष्ठिपूर्तिः।
कोच्ची > देवस्य स्वकीयं स्थानमिति प्रथामवाप्तं केरळराज्यम् अद्य षष्ठिपूर्तिः आघुष्यते। भारतस्य स्वतन्त्रता प्राप्त्यनन्तरं भाषाणाम् आधारेण राज्यपुनःसंघाटने प्रवृत्ते तिरुवितांकूर्-कोच्ची-मलबार् नामकाः तत्कालीनाः लघुदेशाः सम्भूय केरळम् इति नवीनं राज्यं प्रादुरभूत्। १९५६ नवम्बर् प्रथमे दिने आसीत् केरळस्य उदयः। मलयाळं मातृभाषया स्वीकृतम्।⁠⁠⁠⁠

Monday, October 31, 2016

राष्ट्रिय-एकता-दिवस: 
 नवदेहली >अद्य देशस्य प्रथमगृहमन्त्रिणः सरदारवल्लभभाईपटेलस्य  चतुर्दशोत्तरैकशततमीं जयंतीमुपलक्ष्य अशेषदेशेे राष्ट्रिय-एकता-दिवस: आमान्यते । ऐषमः 'राष्ट्रिय-एकता-दिवसावसरे ''भारतस्य एकीकरणम् '' विषयमधिकृत्य सांस्कृतिककार्यक्रमानामायोजनं भविष्यति | प्रधानमन्त्रिणा नरेन्द्रमोदिना,गृहमन्त्रिणा राजनाथ सिंहेन केन्द्रीयसूचनाप्रसारणमन्त्रिणा एम. वेंकैयानायडूना च नवदिल्लीस्थ पटेलचौकस्थाने सरदारवल्लभभाईपटेलस्य प्रतिमायां कुसुमश्रद्धाञ्जलयः  समर्पिताः।
उपग्रहविक्षेपणे नूतनचरितं विरच्य इस्रो

नवदेहली > एकस्मिन्  आकाशबाणे ८३ उपग्रहान् संस्थाप्य उपग्रह विक्षेपणे नूतनचरितं निर्मातुम् उद्युक्तः भवति ऐ.एस्.आर्.ओ संस्था। एतदर्थं नूतनी योजना आयोजिता इति अस्याः संस्थायाः नियन्ता राकेष् शशिभूषणः अवदत् ।
आगामि संवत्सरे क्रियमाणे प्रथमे विक्षेपणे एकाशीति (८१) वैदेशिकोपग्रहाः द्वौ भारतोपग्रहौ च भवन्ति। सप्तदशाधिक विंशतिशत तमे जनुवरिमासे विक्षेपणीया इत्येव लक्ष्यम् । अस्मिन् विक्षेपणे अधिकाः सूक्ष्मोपग्रहाः एव।

येशुदेवस्य समाधिस्थानम् अनावृतम्।
जरुसलेम् > येशुदेवस्येति विश्वास्यमानं समाधिस्थानं शताब्देभ्यः परम् अनुसन्धानार्थम् अनावृतम्। पुरातने जरुसलेमे पुनरुत्थृतदेवालये एव येशुदेवस्य अन्त्यविश्रान्तिस्थानं वर्तते। आतन्से विद्यमानः साङ्केतिक विश्वविद्यालयः नेषणल् जियोग्रफिक् सोसईटी इति संस्था च सम्भूय एव  पर्यवेषणं कर्तुं निरचिनोत्।
     षट्विंशत्यधिकत्रिशततमे क्रिस्त्वब्दे रोमासाम्राज्यस्य चक्रवर्तिनः कोण्स्टन्टयिन् इत्यस्य मात्रा समाधिस्थानं प्रथमं सन्दृश्यते स्म। अग्निबाधायां विशीर्णं स्थानं १८०८-१८१० काले पुनरुद्धृतम्।
    येशुदेवं शायितमिति विचार्यमाणं प्रतलं शास्त्रीयपठनविधेयं करिष्यति।

Sunday, October 30, 2016

क्रिकट् - भारतस्य विजयः, परम्परा च।
विशाखपत्तनम्> न्यूसिलान्टं विरुद्ध्य पञ्चमी अन्तिमा  च स्पर्धा भारतानुकूला। न्यूसिलान्टं विरुद्ध्य नवत्यधिकशतानां धावनाङ्कानाम् उज्वलविजयः। पञ्चस्पर्धानां परम्परा ३-२ रीत्या भारताय प्राप्ता।
   स्पर्धायाः प्रथमचरणे कन्दुकताडनं लब्धेन भारतदलेन २६९ धावनाङ्काः प्राप्ताः। तदनन्तरं विजेतुं २७० धावनाङ्कानां लक्ष्यं प्राप्तुं कन्दुकताडनम् आरब्धवन्तः किवीदलक्रीडकाः सर्वे केवलं ७९ धावनाङ्कैः बहिर्गतवन्तः। षड् पर्यासेषु अष्टादश धावनाङ्कान् दत्वा भारतस्य पादचक्रगेन्दकः - लेग् स्पिन्नर्-अमित् मिश्रः पञ्च द्वारकाणि पातयित्वा वरिष्ठक्रीडकपदं प्राप्तवान्।

Saturday, October 29, 2016

सोपानम् -17 Sivani Harikumar Saraswati Vidyaniketan, Chengamanad,Aluva.

भारतसैनिकानां कृते छात्राणां दीपावलि सन्देशा:।
 नवदिल्लि > सीमायां सैनिकानां कृते दीपावलि सन्देशा: प्रेषणीयाः इति सन्देश् टु सोल्जियेल़स् नाम्ना वीडियोसन्देशेन भारतस्य प्रधानमन्त्री नरेन्द्रमोदि महोदय: आह्वानम् अकरोत् । एकैकः सन्देशः सैनिकानाम् आत्मबलं संवर्धयति इति प्रधानमन्त्री असूचयत् । मै गवण्मेन्ट डोट् इन् , आकाशवाणि , दूरदर्शन् आदि माध्यमा:, सोष्यलमीडिया: च एतस्य कृते उपयोक्तव्याः इति स: निरदिशत्। राष्ट्रस्य कृते आत्मन: सुखम् उत्सवादय: च परित्यज्य समर्पित चेतसां सैनिकानामपि दीपावल्यादि पर्वणि भागभाक् कारयितुमासीदयं निर्देशः। निर्देशानुसारं राष्ट्रस्य विभिन्न राज्येभ्यः विद्यालय-छात्राः कलाशाला छात्राः च दीपावली पर्वणः शुभाशयाः सैनिकान् प्रति प्रेषितवन्तः।
भीकराक्रमणम् - कश्चित् सैनिकः वीरमृत्युं गतः।
श्रीनगरं> सैन्य भीकरसंघर्षस्य शमनं नास्ति। ह्यः कुपवारा जनपदे भीकरैः सह संघट्टने एकः सैनिको हतः। नियन्त्रणरेखासमीपे विरूपीकृत्य एव मृतदेहः दृष्ट इति सैनिकवक्तृभिः उक्तम्।
    सैन्येन कृते प्रत्याक्रमणे एको भीकरः हतः, अन्ये पाक् अधीनकाश्मीरं प्रति पलायितवन्तः। भीकराक्रमणं पाक्सैन्यस्य साहाय्येन आसीदिति भारतसैनिकैः निगदितम्। तथा च अनन्तनागजनपदे कश्चन विद्यालयः अज्ञातैः अग्निसात्कृतः। काश्मीरे संघर्षारम्भानन्तरं विध्वसीकृतानां विद्यालयानां संख्या २० अभवत्।

क्रिकट् - अद्य पञ्चमाङ्कः, अन्तिमाङ्कः।
विशाखपत्तनम् > अद्यतनस्य पञ्चमं एकदिनं यथा भारताय अभिमानयुद्धः भवति तथा न्यूसिलान्टाय चरित्ररचनायाः सन्दर्भः। इदानीं एकैकमपि दलं स्पर्धाद्वयं विजित्य समस्थितौ सति परम्परायाः विधिनिर्णय एव विशाखपत्तने सम्पद्यमाने पञ्चमेऽस्मिन् एकदिने भविष्यति।
     भारत-न्यूसिलाम्ट् दलयोः नायकयोः विषये अपि एषा स्पर्धा निर्णयाधारभूता भवति। किवीनायकः केय्न् विल्यंसणः  भारते एकदिनपरम्परां स्वायत्तीकुर्वन् प्रथमः न्यूसिलान्ट् नायक इति प्रथा परिपालनीया अस्ति। भारतनायकः थोणिस्तु निषकस्पर्धापरम्परां निश्शेषं निश्शेषं स्वायत्तीकृतस्य विराट्कोलिनः पुरतः मुखसंरक्षणाय सुवर्णावसरः।

पाकिस्तानं प्रति शक्त्या प्रतिराद्धुं  निर्देशः। काश्मीरदेशे अतीव जाग्रता ।
नवदेहली> पाकिस्तानं प्रति शक्त्या प्रतिरोद्धुकामा भारतसेना। गृहकार्य सचिवः राज्नाथसिंहः सीमारक्षासेना मुख्येन सह वार्तालापः अकरोत्।
सीमाप्रदेशे पाकिस्तानः तीव्रं षेलाक्रमणम् अनस्यूततया चालयति।काश्मीरदेशे अतीव जाग्रता निर्देशः प्रदत्तः। पाक् सैनिकानां आक्रमणान्तरे भीकराणां दुरागमनश्रमं भारतेन निरुद्धम्।
ह्यः सायं पञ्चवादने आरब्धं प्रकोपनं इदानीमपि प्रचलति। प्रातः चतुर्विंशति सीमारक्षाकेन्द्रान् प्रति पाक् गोलकाक्रमणं अजायतेति प्रस्तावः। सीमादेशात् जनानां दूरानयनं कृतम्। द्विशतमीटर् दूरं यावत् अतीव जाग्रता निर्देशश्च अददात्।
तदानीमेव गोलकाक्रमणसमयः  नैरन्तर्येण उल्लंघ्य पाक्किस्थाने कृतेन षेलाक्रमणेन काश्मीरस्य आर् एस् पुरा क्षेत्रे सीमारक्षाभटः एकः अवधत्।षट् ग्रामीणाः क्षतबाधिताः। मेन्दर मद्ध्ये अपि समानरीत्या आक्रमणम् अजायत। एकः अम्रियत।

Friday, October 28, 2016

 सैनिकानां कृते दीपावलि सन्देशा:
नवदिल्लि > सीमायां सैनिकानां कृते दीपावलि सन्देशा: प्रेषयिष्यति इति सन्देश् ट्टु सोल्जियेल़स् नाम्ना वीडियोसन्देशेन भारतस्य प्रधानसचिव: नरेन्द्रमोदि महोदय: आह्वानम् अकरोत् । एकैकः सन्देशः सैनिकानाम्  आत्मबलं संवर्धयति इति प्रधानसचिव: सूचयति । मै गवण्मेन्ट डोट् इन , आकाशवाणि , दूरदर्शन् आदि माध्यमा:,
सोष्यलमीडिया: च एतस्य कृते उपयोक्तव्याः इति स: अवदत्। राष्ट्रस्य कृते आत्मन: सुखम् उत्सवादय: च परित्यक्त्वा समर्पित चेतसां सैनिकानामपि दीपावल्यादि पर्वणि भागभाक् कारयितुमुद्दिश्य भवत्ययं निर्देश:।

Students handover Diwali greetings cards to Major General KS Nijjar, General Officer Commanding, Karnataka and Kerala sub area, for the soldiers from various colleges at field marshal Manekshaw Parade ground in Bengaluru on Wednesday. Photograph: PTI Photo

अद्य प्रथमं देशीय आयुर्वेददिनम्। 
कोच्ची>आयुर्वेदाचार्यस्य धन्वन्तरिदेवस्य जन्मदिनमस्त्यद्य। इदं दिनम् अस्मात्संवत्सरादारभ्य देशीय अायुर्वददिनत्वेन आचरितुं केन्द्रसर्वकारेण निश्चितम्। आयुर्वेदस्य प्रचारं प्रयोगं च संवर्धयितुमेव प्रतिसंवत्सरं धन्वन्तरिजयन्तिम् आयुर्वेददिनत्वेन आचर्यमाणस्य लक्ष्यम्। मधुमेहनियन्त्रणाय आयुर्वेद इत्यस्ति अस्य संवत्सरस्य सन्देशः।

Thursday, October 27, 2016

चक्रवातः आन्ध्रातीरं प्रति ।
पेदपरिमि >वंगान्तस्समुद्रस्य उपरि सञ्जातः न्यूनमर्दः चक्रवातेन रूपान्तरं प्राप्य आन्ध्रातीरं सञ्चरति। क्यान्ट् इति कृतनामधेयः अयं चक्रवातः गुरुवासरे आन्ध्रातीरं प्राप्स्यतीति सूचना।
     आन्ध्राप्रदेशः, वंगदेशः, ओडीषा इत्येतेषु राज्येषु महती वृष्टिः भविष्यति। चक्रवातः प्रतिहोरं ८० कि मी. वेगं प्राप्स्यतीति पर्यावरणनिरीक्षणसंस्थया सूचितम्।

Wednesday, October 26, 2016

हाजी अलि दर्गायां स्त्रीप्रवेशनं साध्यते।
नवदिल्ली>मुम्बय्यां प्रसिद्धे हाजी अली दर्गा नामकम् इस्लामिकाराधनालयं महिलानां प्रवेशनं साधितप्रायं वर्तते। चतुर्णां सप्ताहानामाभ्यन्तरे स्त्रीणां कृते पूर्णतया प्रवेशनम् अनुज्ञेयं भविष्यतीति अधिकृतैः सर्वोच्चन्यायालये निवेदितम्। खबर्स्थानपर्यन्तं प्रवेशनसुविधां कर्तुमेव सप्ताहचतुष्टयस्य  कालविलम्बम् प्रार्थ्यते।
     २०१२ संवत्सरादारभ्य दर्गांप्रति महिलाप्रवेशनं निषिद्धमासीत् एनं विरुद्ध्य भारतीय मुस्लिम महिला आन्दोलनसंस्था उच्चन्यायालयं प्राप्य अनुकूलादेशं सम्पादितवती। यद्यपि सर्वोच्चन्यायालये पुनर्याचिका समर्पिता तथापि सामाजिकप्रगतियुक्तं अभिवीक्षणं कर्तुं न्यायालयेन निर्दिष्टम्। अत एव महिलानां प्रवेशनाय दर्गाशासनसमितिः सन्नद्धा अभवत्।
सोपानम् -16 Nayan Taara,St. Ignatious Vocational HSS Kanjiramattom.  

Tuesday, October 25, 2016

ओडीषा-आन्ध्रा सीमायां संघट्टने २४ मावोवादिनः मारिताः।
पेदपरिमि, आन्ध्रप्रदेश> ओडीषा - आन्ध्राप्रदेशराज्ययोः सीमायां वनान्तर्भागे गतदिने उषःकाले आरक्षकबलेन कृते भुषुण्डिप्रयोगे नेतृभिः सह चतुर्विंशति मावोवादिनः मृताः। सीमाप्रदेशे प्रचलन्तं तेषां मेलनं विज्ञाय राज्यद्वयोः आरक्षकबले सम्भूय आगतवति संघट्टनं संवृत्तमासीत्। ओडीषायाम् उदयः इति उच्यमानेन गजराल रवि नामकेन नेत्रा सह केचन प्रमुखाः नेतारः संघर्षे मारिताः इति सन्देहः वर्तते।

राष्ट्रान्तर-भीकरतां विरुद्ध्य भारतेन सह बहरिन् अपि
बहरिन् >भारतस्य आभ्यन्तरमन्त्री राजनाथसिंहः बहरिन् राष्ट्रं संदृष्टवान् । त्रिदिवसीय सन्दर्शने सः बहरिनस्य राज्ञं हामत् बिन् इसा अल् खलीफां तथा प्रधानमन्त्रीं खलीफा बिन् सल् मान् अल् खलीफाम् आभ्यन्तर मन्त्रीं  रषीद् बिन् अब्दुल्ला अल् खलीफां च मिलित्वा विद्यमानां समस्याम् अधिकृत्य  संभाषणमकरोत् ।
 भाविनिकाले भारतं बहरिन् च मिथः राष्ट्रयोः सुरक्षायै राष्ट्रान्तर-भीकरतां विरुद्ध्य च संयुक्ततया कार्यं कर्तुं निश्चितः इति सिंहेन उक्तम्।

भद्रं ते विराट!
कोच्ची>ऐ एन् एस् विराटाय स्वस्ति! भारतनौसेनायाः अभिमानभाजनत्वेन वर्तितायै ऐ एन् एस् विराट् नामिकायै  युद्धनौकायै कोच्चीतः स्वस्तिवचनम्! विश्वेपि वरिष्ठा विमानवाहिनिनौका विराटः प्रतिसमर्पणाय (De Commissioning) एव कोच्ची नौकाश्रयात् मुम्बैय्यां नाविकास्थानं प्रति नीता।
    भारतीयनौकासेनायाः अविभाज्यांशत्वेन दशकत्रयं यावत् प्रवर्तननिरता आसीदियं विमानवाहिनी। श्रीलङ्कायां सम्पन्नां ओपरेशन् जूपिटर्, कार्गिल् मध्ये ओपरेषन् विजय् , लोकसभाक्रमणानन्तरं संवृत्ता ओपरेषन् पराक्रमः इत्यादिषु विराटः भागभागित्वम् कृतवान्। प्रत्यर्पणानन्तरं विराटस्य भविष्यः  कीदृश इति चिन्तनीयः।

Monday, October 24, 2016

 एष्यन् चाम्प्यन्स ड्रोफि हॉकिक्रीडायां भारतेन जापनीयदेश: पराजित:।
कुवाण्डन्> (मलेष्या)  केरलदेशीयस्य श्री पी आर् श्रीजेषस्य नेतृत्वे भारतीय-संघेन एष्यन् चाम्प्यन्स्स् ड्रोफि हॉकिक्रीडायां १०-२ इति अङ्गै: जापनीयदेश: पराजित:। स्पर्धायां सविशेषः  स्पर्धाया: नेतुः रूपीन्दरपाल सिंहस्य हब्ल्ल् हाड्रिक् आसीत्। भारतदेशस्य,जापनीयदेशस्य च ७५ तमा स्पर्धा आसीत् गुरुवारस्य क्रीडा। एतासु ६७ क्रीडासु भारतराष्ट्रं एतावत् पर्यन्तं जयति स्म।

"समाराध्यः" नावश्यकः इति तमिल् नाट् राज्यपालः। 
चेन्नै >आत्मानः संबुद्धौ "समाराध्यः"(His Excellency ) इति पदं निवारणीयमिति तमिल् नाट् राज्यपालेन विद्यासागर् रावुना निर्दिष्टम्! स्वस्य नाम्ना सह 'बहुमान्यराज्यपालः' इति  पदं पर्याप्तमिति राज्यपालकार्यालयात् प्रसारितायां पत्रकारटिप्पण्यां निर्दिश्यते।
    विदेशराष्ट्रेषु अयमुपचारः अद्यापि अनुवर्तते इत्यतः समाराध्यः इत्यभिसंबुद्धिः विदेशप्रतिनिधीनां कृते प्रयोक्क्ष्यते इति उक्तमस्ति। २०१२ तमे राष्ट्रपतिः प्रणब् मुखर्जी , २०१३ तमे भूतपूर्वः महाराष्ट्र राज्यपालः के .शङ्करनारायणः , ततः केरलानां राज्यपालः पि.सदाशिवम् इत्येते च समाराध्यसंबुद्धिः नावश्यकः इति निर्दिष्टवन्तः।