OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 28, 2016

 सैनिकानां कृते दीपावलि सन्देशा:
नवदिल्लि > सीमायां सैनिकानां कृते दीपावलि सन्देशा: प्रेषयिष्यति इति सन्देश् ट्टु सोल्जियेल़स् नाम्ना वीडियोसन्देशेन भारतस्य प्रधानसचिव: नरेन्द्रमोदि महोदय: आह्वानम् अकरोत् । एकैकः सन्देशः सैनिकानाम्  आत्मबलं संवर्धयति इति प्रधानसचिव: सूचयति । मै गवण्मेन्ट डोट् इन , आकाशवाणि , दूरदर्शन् आदि माध्यमा:,
सोष्यलमीडिया: च एतस्य कृते उपयोक्तव्याः इति स: अवदत्। राष्ट्रस्य कृते आत्मन: सुखम् उत्सवादय: च परित्यक्त्वा समर्पित चेतसां सैनिकानामपि दीपावल्यादि पर्वणि भागभाक् कारयितुमुद्दिश्य भवत्ययं निर्देश:।

Students handover Diwali greetings cards to Major General KS Nijjar, General Officer Commanding, Karnataka and Kerala sub area, for the soldiers from various colleges at field marshal Manekshaw Parade ground in Bengaluru on Wednesday. Photograph: PTI Photo

अद्य प्रथमं देशीय आयुर्वेददिनम्। 
कोच्ची>आयुर्वेदाचार्यस्य धन्वन्तरिदेवस्य जन्मदिनमस्त्यद्य। इदं दिनम् अस्मात्संवत्सरादारभ्य देशीय अायुर्वददिनत्वेन आचरितुं केन्द्रसर्वकारेण निश्चितम्। आयुर्वेदस्य प्रचारं प्रयोगं च संवर्धयितुमेव प्रतिसंवत्सरं धन्वन्तरिजयन्तिम् आयुर्वेददिनत्वेन आचर्यमाणस्य लक्ष्यम्। मधुमेहनियन्त्रणाय आयुर्वेद इत्यस्ति अस्य संवत्सरस्य सन्देशः।

Thursday, October 27, 2016

चक्रवातः आन्ध्रातीरं प्रति ।
पेदपरिमि >वंगान्तस्समुद्रस्य उपरि सञ्जातः न्यूनमर्दः चक्रवातेन रूपान्तरं प्राप्य आन्ध्रातीरं सञ्चरति। क्यान्ट् इति कृतनामधेयः अयं चक्रवातः गुरुवासरे आन्ध्रातीरं प्राप्स्यतीति सूचना।
     आन्ध्राप्रदेशः, वंगदेशः, ओडीषा इत्येतेषु राज्येषु महती वृष्टिः भविष्यति। चक्रवातः प्रतिहोरं ८० कि मी. वेगं प्राप्स्यतीति पर्यावरणनिरीक्षणसंस्थया सूचितम्।

Wednesday, October 26, 2016

हाजी अलि दर्गायां स्त्रीप्रवेशनं साध्यते।
नवदिल्ली>मुम्बय्यां प्रसिद्धे हाजी अली दर्गा नामकम् इस्लामिकाराधनालयं महिलानां प्रवेशनं साधितप्रायं वर्तते। चतुर्णां सप्ताहानामाभ्यन्तरे स्त्रीणां कृते पूर्णतया प्रवेशनम् अनुज्ञेयं भविष्यतीति अधिकृतैः सर्वोच्चन्यायालये निवेदितम्। खबर्स्थानपर्यन्तं प्रवेशनसुविधां कर्तुमेव सप्ताहचतुष्टयस्य  कालविलम्बम् प्रार्थ्यते।
     २०१२ संवत्सरादारभ्य दर्गांप्रति महिलाप्रवेशनं निषिद्धमासीत् एनं विरुद्ध्य भारतीय मुस्लिम महिला आन्दोलनसंस्था उच्चन्यायालयं प्राप्य अनुकूलादेशं सम्पादितवती। यद्यपि सर्वोच्चन्यायालये पुनर्याचिका समर्पिता तथापि सामाजिकप्रगतियुक्तं अभिवीक्षणं कर्तुं न्यायालयेन निर्दिष्टम्। अत एव महिलानां प्रवेशनाय दर्गाशासनसमितिः सन्नद्धा अभवत्।
सोपानम् -16 Nayan Taara,St. Ignatious Vocational HSS Kanjiramattom.  

Tuesday, October 25, 2016

ओडीषा-आन्ध्रा सीमायां संघट्टने २४ मावोवादिनः मारिताः।
पेदपरिमि, आन्ध्रप्रदेश> ओडीषा - आन्ध्राप्रदेशराज्ययोः सीमायां वनान्तर्भागे गतदिने उषःकाले आरक्षकबलेन कृते भुषुण्डिप्रयोगे नेतृभिः सह चतुर्विंशति मावोवादिनः मृताः। सीमाप्रदेशे प्रचलन्तं तेषां मेलनं विज्ञाय राज्यद्वयोः आरक्षकबले सम्भूय आगतवति संघट्टनं संवृत्तमासीत्। ओडीषायाम् उदयः इति उच्यमानेन गजराल रवि नामकेन नेत्रा सह केचन प्रमुखाः नेतारः संघर्षे मारिताः इति सन्देहः वर्तते।

राष्ट्रान्तर-भीकरतां विरुद्ध्य भारतेन सह बहरिन् अपि
बहरिन् >भारतस्य आभ्यन्तरमन्त्री राजनाथसिंहः बहरिन् राष्ट्रं संदृष्टवान् । त्रिदिवसीय सन्दर्शने सः बहरिनस्य राज्ञं हामत् बिन् इसा अल् खलीफां तथा प्रधानमन्त्रीं खलीफा बिन् सल् मान् अल् खलीफाम् आभ्यन्तर मन्त्रीं  रषीद् बिन् अब्दुल्ला अल् खलीफां च मिलित्वा विद्यमानां समस्याम् अधिकृत्य  संभाषणमकरोत् ।
 भाविनिकाले भारतं बहरिन् च मिथः राष्ट्रयोः सुरक्षायै राष्ट्रान्तर-भीकरतां विरुद्ध्य च संयुक्ततया कार्यं कर्तुं निश्चितः इति सिंहेन उक्तम्।

भद्रं ते विराट!
कोच्ची>ऐ एन् एस् विराटाय स्वस्ति! भारतनौसेनायाः अभिमानभाजनत्वेन वर्तितायै ऐ एन् एस् विराट् नामिकायै  युद्धनौकायै कोच्चीतः स्वस्तिवचनम्! विश्वेपि वरिष्ठा विमानवाहिनिनौका विराटः प्रतिसमर्पणाय (De Commissioning) एव कोच्ची नौकाश्रयात् मुम्बैय्यां नाविकास्थानं प्रति नीता।
    भारतीयनौकासेनायाः अविभाज्यांशत्वेन दशकत्रयं यावत् प्रवर्तननिरता आसीदियं विमानवाहिनी। श्रीलङ्कायां सम्पन्नां ओपरेशन् जूपिटर्, कार्गिल् मध्ये ओपरेषन् विजय् , लोकसभाक्रमणानन्तरं संवृत्ता ओपरेषन् पराक्रमः इत्यादिषु विराटः भागभागित्वम् कृतवान्। प्रत्यर्पणानन्तरं विराटस्य भविष्यः  कीदृश इति चिन्तनीयः।

Monday, October 24, 2016

 एष्यन् चाम्प्यन्स ड्रोफि हॉकिक्रीडायां भारतेन जापनीयदेश: पराजित:।
कुवाण्डन्> (मलेष्या)  केरलदेशीयस्य श्री पी आर् श्रीजेषस्य नेतृत्वे भारतीय-संघेन एष्यन् चाम्प्यन्स्स् ड्रोफि हॉकिक्रीडायां १०-२ इति अङ्गै: जापनीयदेश: पराजित:। स्पर्धायां सविशेषः  स्पर्धाया: नेतुः रूपीन्दरपाल सिंहस्य हब्ल्ल् हाड्रिक् आसीत्। भारतदेशस्य,जापनीयदेशस्य च ७५ तमा स्पर्धा आसीत् गुरुवारस्य क्रीडा। एतासु ६७ क्रीडासु भारतराष्ट्रं एतावत् पर्यन्तं जयति स्म।

"समाराध्यः" नावश्यकः इति तमिल् नाट् राज्यपालः। 
चेन्नै >आत्मानः संबुद्धौ "समाराध्यः"(His Excellency ) इति पदं निवारणीयमिति तमिल् नाट् राज्यपालेन विद्यासागर् रावुना निर्दिष्टम्! स्वस्य नाम्ना सह 'बहुमान्यराज्यपालः' इति  पदं पर्याप्तमिति राज्यपालकार्यालयात् प्रसारितायां पत्रकारटिप्पण्यां निर्दिश्यते।
    विदेशराष्ट्रेषु अयमुपचारः अद्यापि अनुवर्तते इत्यतः समाराध्यः इत्यभिसंबुद्धिः विदेशप्रतिनिधीनां कृते प्रयोक्क्ष्यते इति उक्तमस्ति। २०१२ तमे राष्ट्रपतिः प्रणब् मुखर्जी , २०१३ तमे भूतपूर्वः महाराष्ट्र राज्यपालः के .शङ्करनारायणः , ततः केरलानां राज्यपालः पि.सदाशिवम् इत्येते च समाराध्यसंबुद्धिः नावश्यकः इति निर्दिष्टवन्तः।

Sunday, October 23, 2016

मोसूल् संग्रामः - ऐ एस् संस्थया गन्धकशाला ज्वालिता।
खय्यार> मोसूल् नगरस्य अधीशत्वाय  इराख् - ऐ एस् युद्धे दृढीकुर्वति , खय्यारानगरसमीपस्था गन्धकशाला ऐ एस् भीकरैः प्रज्वालिता। परिसरं सर्वत्र विषमयेन वायुना पूरितमभवत्। द्वौ मृत्युमुपगतौ, उपसहस्रं जनाः विषवायुश्वसनेन पीडिताश्च।
    अस्य सप्ताहस्य आरम्भे एव गन्धकनिर्माणशाला अग्निसात्कृतेति यू एस् सेनया उक्तम्। मोसूलस्थाः सर्वे यू एस् सैनिकाः मुखावरणं धृत्वा एव कर्म कुर्वन्ति। संवत्सरद्वयं यावत् ऐ एस् नियन्त्रणे वर्तितं खारखोष् नामकं क्रिस्तीयनगरं इराखिसेनया गतदिने प्रतिगृहीतम्।

Saturday, October 22, 2016

राष्ट्रिय-संस्कृतसंगोष्ठी भाषापितुः भूमाै।
 मलप्पुरम् > अस्मिन् संवत्‍सरस्य राष्ट्रिय-संस्कृत-संगोष्ठी केरळे मलप्पुरं जनपदे ह्यः संवृत्तम्। मळयाळभाषायाः पिता इति प्रसिद्धः तुञ्चत्त् आचार्यस्य विस्तृते पावने गृहाङ्गणे आसीत् सङ्गोष्ठ्याः आयोजनम्। मलयाळभाषायाः प्रथितेन कविना आलङ्कोट्‌ लीलाकृष्णमहोदयेन उद्घाटिता संगोष्ठी। संस्कृतं केवलं भारतस्य भाषा न विश्वभाषायाः जननी इति आलङ्कोट् महोदयेन उक्तम्। संस्कृतभाषया एव विश्वमानव-सङ्कल्पः लोकाय लब्धः। संस्कृत-भाषापठनेन ग्रन्थाध्ययेन च मानवसमूहे शान्तिरेव जयते। वेदेषु उपनिषत्सु च विद्यमान महत्सन्देशान् अवगन्तुं संस्कृतभाषा प्रथमतया ज्ञेया। तदनन्तरं स्वयमेव पठित्वा तस्मिन् विद्यमानं सत्यं द्रष्‍टुं प्रयत्नं कुर्वन्तु। तदेव उचितमिति तेन उक्तम्।

बि एस् एफ् सैन्यस्य प्रत्याक्रमणेन सप्त पाक् सैनिकाः मारिताः।
जम्मू>आक्रमणविरामसन्धिम् उल्लङ्घ्य भुषुणडिप्रयोगं कृतवते पाक् सैन्याय भारतसीमासुरक्षासेनया शक्ता प्रतिक्रिया दत्ता। सप्त पाकिस्थानसैनिकाः कश्चन भीकरश्च गोलकास्त्रप्रयोगे हताः। कश्चन भारतसैनिकः गुरुतरेण व्रणितः।
    जम्मुकाश्मीरस्य अन्ताराष्ट्रसीमायां कत्वा जनपदे हीरनगरस्य भारतसेनायाः वासस्थानं प्रति शुक्रवासरे  पाकिस्थानसैन्यस्य आक्रमणं प्रवृत्तम्। तत्रैकः सैनिकः गरुनामसिंहनामकः व्रणितः। झटित्येव भारतस्य प्रत्याक्रमणं सम्पन्नम्।


  प्रवेशन परीक्षा: ऑणलैन रूपेण
 नवदेहली >प्रवेशन परीक्षा: ऑणलैन रूपेण कृत्वा निश्चितसमये प्रवेशनं कर्तुं इति उद्यिश्य प्रत्येक समितिं आयोजयितुं केन्द्रमानव-विभव विकसनमंत्रालयस्य निश्चयः । नेट्ट, जे इ इ , नीट्ट आदि सी बि एस ई  द्वारा आयोजिता सर्वा: परीक्षा: च नाषणल टेस्टिङ् सर्वीसस्य अन्त: आचरणं कर्तुं एव केन्द्र मानव विभवविकसन-मंत्रालयस्य प्रोद्यमम्। विश्वव्यापिने अमेरिका देशस्य उपचारेण एड्यूकेषणल् टेस्टिङ् सर्वीसस्य संयोजनेन, भविष्यति प्रत्येकसमित्या: संघटनं । अनया निश्चितसमयेन परीक्षाचरणं फलप्रख्यापनं च भविष्यति। एतेन प्रवेशनं सरलं भविष्यति। अत: अयं समित्या ललितयारित्या करणीय: इति केन्द्रमानवविभव विभागस्य सचिव: श्री प्रकाशजावदेक्कर सी बि एस् ई संस्थां प्रति  निर्देशं अददात्।

Friday, October 21, 2016

 कोच्चि नगरे "स्वच्छाग्रहः"       
कोच्चि >शुचित्वकार्यक्रमस्य स्वच्छभारतस्य प्रचरणीयस्य हृस्वचित्रस्य "स्वच्छाग्रहस्य " प्रदर्शनोद्घाटनं केन्द्र नगरविकसनसचिव: वेंकय्यनायिटु महोदय: कोच्चि नगरे आचरति स्म। विविध भाषाभ्य: समाहृतानि चित्राणि ४३४६ संख्यकानि परिगण्य तेभ्य: चितानि दश आकल्पयन्ति। २०१९अक्टूबर २ स्वच्छभारत पद्धति सम्पूर्ण राष्ट्रे प्रवर्त्तिष्यते इति वेंकय्य नायिटु महोदय: अवदत्। राष्ट्रस्य,समाजस्य व्यक्तीनां च स्वस्थ: तेज: च शुचित्वमाश्रित्य इति अवदत्।
वातावरणव्यतियानम्-द्वादशकोटि जनाः दरिद्राः भविष्यन्तीति यू एन् संस्तुतिः।
रोम् > वातावरण-व्यतियानेन त्रिंशदुत्तरद्विसहस्रतमे संवत्सरे द्वि दशांशाधिक द्वादशकोटि जनाः (१२.२) नितरां दारिद्र्यं प्रति नेष्यन्तीति यू एन् संस्तुतिः।आगोल भक्ष्यसुरक्षायै बृहत्यः भीषण्यः भवन्ति वातावरणभिन्नता द्वारा । ताः बृहत्या रीत्या लघुकृषकान् बाधतेति संस्तुत्यां तस्यां ज्ञापयति।   आफ्रिक्का राष्ट्राणां कृषकसमूहानेव एतत् बृहत्तया बाधते। रोमा आस्थाने वर्तमानायाः यू एन् संघटनायाः फुड् आण्ट् अग्रिकल्चरल् ओरगनैसेषन् इति संस्थायाः संस्तुतिरियम्। आगोलतापनस्य नियन्त्रणमेकमेव परिहारमार्गमिति संस्तुत्यामस्यां विशदयति।

Thursday, October 20, 2016

ओट्टिसं नाम रोगबाधितानां रोगमुक्तये षेेक्स्पियर् नाटकानि  
 वाषिंगटण> षेक्स्पियर् नाटकानां तालात्मकभाषा, आङ्गिकाभिनय: च ओट्टिसबाधितबालकानां कुशलतां अवाप्तुं उपकरिष्यति इति अनुसन्धान फलम् । षेक्स्पियर वर्यस्य विश्वप्रसिद्ध: "द टेम्पट्" नाम्ना नाटकेन ओट्टिसबाधितबालकेषु कृत: गवेषणफलं भवत्येतत्। अस्य नाटकस्य सविशेषभाषाप्रयोग: तालात्मकता,आङ्गिकाभिनयः इत्यादयः तेषु बालकेषु परिवर्तनं उत्पादयन्ति इति दृष्टम्। अमेरिकादेशस्य ओहियो स्टेट विश्वविद्यालयलयस्थाध्यापकस्य प्रो.मार्क.जे. टासे महोदयस्य नेतृत्वे आसीदनुसन्धानम्।

केरळम् अत्यनावृष्टिभीत्याम्।
कोच्ची>केरळम् अत्यधिकाम् अनावृष्टिम् अभिमुखीकुर्वदस्ति। मण्सूण् वर्षासु अस्मिन् संवत्सरे प्रतिशतं चतुस्त्रिंशदः न्यूनता अभवदिति केन्द्रजलविभवविकसनसंस्थायाः पठने स्पष्टीकृतम्। आगामि तुलावर्षा अनुकूलतया भविष्यति तर्ह्यपि जललभ्यतायां न्यूनता भविष्यति ।
    इटुक्की वयनाट् पालक्काट् जनपदेषु केवलं प्रतिशतं पञ्चषष्ठिपरिमितं वर्षा एव लब्धा। एतेषु स्थानेषु केदाराः शुष्यन्तः सन्ति। जलाशयेषु जलवितानम् अतिशयेन अधोगच्छति।

पाठ्यपद्धत्यां कृषिपाठः।
अनन्तपुरी> आगामि अध्ययनवर्षादारभ्य केरलराज्यस्य पाठ्यपद्धत्यां कृषिः सविशेषरूपेण अन्तभूयेत इति मन्त्री वि एस् सुनिल् कुमारः विधानसभायै न्यवेदयत्। प्रथमकक्ष्यायाः अारभ्य कृषिपाठः भविष्यति। कृषिज्ञानं विना दशमीकक्ष्याम् पारं गन्तुं येन केनापि छात्रेण न शक्यत इति तेनोक्तम्।

Wednesday, October 19, 2016

सोपानम्-15 Vinayak Menon & Manjima Raj, Vivekananda Vidyamandir, Kangazha, Kottayam.
सामाजिकवार्तामाध्यमेषु चीनां विरुद्ध्य सन्देशाः प्रचलन्ति।
 नवदेहली>भारतं विरुद्ध्य  पकिस्थानस्य अनुकूलतया च  चीनाराष्ट्रेण कृतं व्यवहारं दृष्ट्वा राष्ट्रभक्ताः भारतीयाः क्षोभितवन्तः। ते चीनां विरुद्ध्य रक्तरहित-संग्रामाय नवमाध्यमेषु अह्वानं कृतवन्तः। चीनया भारते बहूनि वस्तूनि विक्रीयन्ते । बालकानां क्रीडोपकरणानि, जंगमदूरवणी, वैद्युतोपकरणानि, वस्त्राणि, गृहोपकरणानि एतादृशानि असङ्ख्यानि वस्तूनि भारतस्य आर्थिक सम्पदं चीनां प्रति नयन्ति। द्विषष्टि (६२) लक्षं कोटिरुप्यकाणि अनेन मार्गेण भारतात् बहिः गच्छन्ति। अतः भारतीयाः वयं भारतीयोत्पन्नानां उपयोक्तारः भवन्तु इति च आदेशः कृतः वर्तते। अनेनमार्गेण भारतस्य आर्थिकोन्नतिः चीनायाः आर्थिकमण्डले अपचयः च भविष्यति इति अस्मिन् सन्देशे साविस्तरं प्रतिपादितम्।

पञ्चीकरण-संख्यां विना विहरन्ति भारवाहनानि।
कोच्ची> केरळेषु भारवाहनेषु पञ्चीकरणसंख्यां समीचीनतया द्रष्टुं न शाक्यते। केरलात् बहिः आगतेषु यानेषु संख्याफलकमपि दर्शनयोग्यं नास्ति। वाहनानां पृष्टभागे एव संख्याफलकमेव नास्ति। फलकमस्तिचेत् संख्यां द्रष्टुं न शाक्यते। केषाञ्चन यानानां संख्यायाः आवरणं कर्तुं अलङ्कारादिकम् आरचयन्ति। नूतन यानानि पञ्चीकरणोद्युक्तानि (For Registration)  इति आङ्गलपदमुपयुज्य मार्गेषु स्वतन्त्रतया डयन्ते। इमानि सर्वाण्यपि दुर्घटनानां हेतुः एव। पथिकान् अरक्षितान् कर्तुं एतानि पर्याप्तानि।  मानवानां जीवस्य मूल्यं तृणादपि न्यूनं इत्यनेन प्रदर्श्यते । पथि विद्यमानाः गतागत-नियन्त्रकाः आरक्षकाः अपि अस्मिन्  श्रद्धालवः न। राज्यान्तरादागतेभ्यः भारयानेभ्यः  एतादृशं अपथचालनं संभवतीति केचन चालकाः वदन्ति। बहुवारं एतदधिकृत्य सूचना पञ्चीकरणाधिकारीणां सकाशे दत्ता। किन्तु सर्वापि निष्फला।


स्वदेशान्तर्भागे विद्यमाना भीकरता रोधनीया - ब्रिक्स्।
गोवा>स्वकीयभूमौ विद्यमानं भीकरप्रवर्तनं प्रथमं रोधनीयमिति  ब्रिक्स् शिखरसम्मेलने सर्वेषां  राष्ट्राणां  युगपन्निर्देशः जातः। भीकरतां विरुद्ध्य भारतेन निर्दिष्टा समग्रसन्धिः ऐक्यराष्ट्रसभया प्रवृत्तिपथमानेतव्या इति सम्मेलनेन आदिष्टम्।
   गोवायां बनोलिम् प्रदेशे सम्पन्ने शिखरसम्मेलनानन्तरं पञ्च अङ्गराष्ट्राणि संयुक्ततया प्रकाशिते प्रस्तावे भवत्ययं निर्देशः।
    भीकरतां निरोद्धुं तीक्ष्णः क्रियाविधिः आवश्यक इति भारतप्रधानमन्त्रिणा नरेन्द्रमोदिना आदिष्टम्। पाकिस्थानं भीकरतायाः समष्टिविक्रेता  इति मोदिना विशेषितम्।

मोसूलनगरं प्रतिगृहीतुं इराखीयसेनया युद्ध आरब्धः।
बाग्दाद्>ऐ एस् भीकरेभ्यः मोसूल् नगरं स्वाधीनतां कर्तुं इराखीय सैन्यैः संग्रामः आरब्धः। इराख् देशे ऐ एस् संस्थायाः अन्तिमं शक्तिस्थानमस्ति मोसूल्। सैनिकक्रियाकलापस्य प्रथमपादे एव नवग्रामाणं मोचनम् अभवदिति सैन्याधिकारिभिः उक्तम्।
     संवत्सरद्वयात् पूर्वमेव ऐ एस् संस्थया मोसूलादिषु नगरेषु आधिपत्यं स्थापितम्। इराख् देशे द्वितीयं बृहत्तमं नगरमस्ति तैलक्षेत्रैः सम्पन्नं मोसूल्।

Tuesday, October 18, 2016

 पाकिस्थानेन स्वस्य भीकर-निर्माण-उद्योगशाला पिधानं करणीयम्;
  साह्यं कर्तुं भारतम् उद्युक्तमिति राज् नाथसिंहः।

चण्डीगढ्> पाकिस्थानेन स्वस्य भीकरवादोत्पादन उद्योगशाला पिधानं करणीयमिति केन्द्र आभ्यन्तरमन्त्री राज् नाथ् सिंहः अवदत्। भीकरान् विरुद्ध्य युद्धाय पाकिस्थानाय साह्यं कर्तुं भारतं उद्युक्तम् इति च सः महोदयः अवदत् । चाण्डीगढस्य एकस्मिन् उपवेशने भाषमाणः आसीत् सः।
पाकिस्थानाय भीकरवादानुकूलः नयः वर्तते। तेषां सुरक्षितस्थानमिव पाकिस्थानं विपुलीकरोति। लोकेषु पाकिस्थानं पृथक्करणीयम् इति च तेन उक्तम्।

वापुष़ा कृषकबालिका इति पुरस्कार: श्रद्धाम् अवाप।
 तोप्रांकुटी(केरळम्) > चेम्मण्णूर् विद्यालयस्य सप्तमकक्ष्यायां एका छात्रा अस्ति एषा समर्था बालिका। गृहे विद्यालये च कार्षिकसमृद्धेः हरितपाठान् अवगम्य एषा बालिका गृहं परित: उप अशीति: शाकानि शाकानि रोपणं कृत्वा परिपाल्य च राज्यस्तरीयस्य दक्षा कृषकबालिका अभवत्। जैवकीटनाशिनीनाम् उपयोगेन कीटान् दूरीकुर्वन्ति। व्रीहिः,कारवेल:,चिंचिडा ,भेंडि, वृन्ताक:, गाजर, सेम, मरीच:,गृञ्जन,पलाण्डू,रक्तभलं,आलु आदीनि शाकानि रोपयन्ति। एतत् विना न्यूकिल, चैनीस् पत्तागोपि, केयिल, लेरम्यूस, ब्रोकोलि आदि विदेशी शाकानि रोपणं अकरोत्। किलियारकण्डं   मन्नात्तरा तेक्केकुट्ट सजि महोदयस्य पुत्री अस्ति श्रद्धा।  इटुक्कि जनपथस्य कृषिकार्य उपनिर्देशिका आनसितोमस्, वात्तिक्कुटि कृषिकार्यालयाधिकारी एम.एच् षमीर् आदिनां प्रमुखाणां उत्तेजनेन  बालिकायाः शक्तिं अमिलत्।

भुवनेश्वरे आतुरालये महती अग्निबाधा - द्वाविंशति मरणानि।
भुवनेश्वर्> ओरीसाराज्ये भुवनेश्वरे इन्स्टिट्यूट् आफ् मेडिक्कल् सयन्सस् आन्ड् सम् इत्यस्मिन्  निजीये चिकित्सालये ह्यः सम्पन्नायां महदग्निबाधायां २२ जनाः मृताः। प्रस्तुतातुरालयस्य द्वितीयश्रेण्यां वर्तमाने डयालिसिस् विभागे आसीत् वह्निदुरन्तः।
     दुर्घटनाहेतुः न स्पष्टीकृतः। पञ्च अग्नि सुरक्षादलानि अचिरादेव आगत्य  अग्निं नियन्त्रणविधेयम् अकारयन्। चत्वारिंशत् जनाः दाहव्रणिताः समीपस्थं चिकित्सालयं प्रापयिताः।

 टि एम् उण्णिक्कृष्णन् नम्पूतिरिः शबरिगिर्यां मुख्यार्चकः।
शबरिगिरिः>अस्मिन् मण्डलकाले शबरिगिरि अय्यप्पदेवस्य मुख्यार्चकरूपेण पालक्काट् जनपदे ओट्टप्पालं चेर्पुलश्शेरी तेक्कुम्परम्पत्त् मन भवने टि एम् उण्णिक्कृष्णन् नम्पूतिरिः चितः। मालिकप्पुरं मन्दिरे तु कोट्टयं जनपदे चङ्ङनाश्शेरी वाष़प्पल्ली पुतुमन मनु नम्पूतिरिः च चितः।
     ह्यः प्रभाते उषःपूजानन्तरं संवृत्तेन दैवगतिनिर्णयेनैव स्थानद्वये अपि मुख्यपुरोहितौ नियुक्तौ। वृश्चिकमासस्य प्रथमदिनाङ्के द्वावपि स्थानारोहणं करिष्यतः।

Monday, October 17, 2016

स्वकीयभूमौ भीकरता निरुद्धव्या - ब्रिक्स्। 
गोवा> स्वकीयभूमौ विद्यमानं भीकरप्रवर्तनं प्रथमं निरुद्धव्यमिति ब्रिक्स् शिखरसम्मेलनं सर्वाणि राष्ट्राणि अभ्यर्थयते। भीकरतां विरुद्ध्य भारतेन निर्दिष्टा समग्रसन्धिः ऐक्यराष्ट्रसभया प्रवृत्तिपथमानेतव्या इति सम्मेलनेन आदिष्टम्।
   गोवायां बनोलिम् प्रदेशे सम्पन्ने शिखरसम्मेलनानन्तरं पञ्च अङ्गराष्ट्राणि संयुक्ततया प्रकाशिते प्रस्तावे भवत्यं निर्देशः। भीकरतां निरोद्धुं तीक्ष्णः क्रियाविधिः आवश्यक इति भारतप्रधानमन्त्रिणा नरेन्द्रमोदिना आदिष्टम्। पाकिस्थानं भीकरतायाः स्तूपविक्रयी इति मोदी विशेषणमकरोत्।
ज्वरतप्तं भूमातरं रक्षितुं - हरितगृह-वातक-व्यवस्था। भारतेन सह १९७ राज्यानि।
कगाल > (रुवाण्ट) शीतीकरणोपकरणेषु उपयुज्यमानः हैड्रो फ्लूरो कार्बण् (HFC) वातकानां निर्माणं न्यूनीकर्तुं भारत-चैनाअमेरिकादीनि द्विशतं राष्ट्राणि हस्ताक्षरमकुर्वन्। वातावरण व्यत्ययं विरुद्ध्य भुवनैक-सख्यस्य प्रथम पदन्यासः एवायम् । वातावरण व्यत्ययस्य कारणभूतः हरितगृहवातकानां मध्ये अत्यन्त-मापत्करः भवति HFC. अङ्गाराम्लादपि दशसहस्रगुणितं मलिनीकरणमेव एतेन क्रियते।
2045 संवत्सरात् पूर्वं HFC उपयोगः प्रतिशतं पञ्च अशीति (८५% ) पर्यन्तं न्यूनीकरणमेव लक्ष्यम् इति सप्तनवत्यधिकशतम् राष्ट्रैः अङ्गीकृते व्यवस्थापत्रे लिखितम्। २०१९ जनुवरिमासस्य प्रथमे दिने व्यवस्था प्रबला भविष्यति। विकसितराष्ट्राणि प्रथमं उपयोगं न्यूनीकरिष्यन्ति। अनन्तरं विकस्वर-राष्ट्राणि अपि न्यूनीकरणे  भागभाजःभविष्यन्ति। गतवर्षस्य पारिस् व्यवस्थानुसारं हरितगृहवातकानां बहिर्व्यापन न्यूनीकरणाय भारत-कानडा आदिभिः राष्ट्रैः गतसप्ताहे यत्नः आरब्दः।

कूटंकुलं - ५,६,एककयोः निर्माणाय सम्मतिः।
नवदिल्ली> तमिळ् नाट् राज्ये कूटंकुलं आणवविद्युन्निलयस्य पञ्चम-षष्ठ एककयोः[यूऩिट्] निर्माणाय ऱष्या-भारतदेशयोः मध्ये सम्मतिपत्रस्य अन्तिमरूपं सम्पन्नम्। गोवायां प्रचाल्यमाने ब्रिक्स् सम्मेलनमध्ये भारतप्रधानमन्त्री नरेन्द्रमोदी रष्याराष्ट्रपतिः व्लादिमिर् पुतिनः च एतदधिकृत्य चर्चां कृत्वा अधिशासनीयां विज्ञप्तिं करिष्यतः।

 मातृभूमि साहित्यपुरस्कारः सि राधाकृष्णाय।
कोष़िक्कोट्> केरलस्य प्रौढेषु साहित्यपुरस्कारेषु अन्यतमः मातृभूमि साहित्यपुरस्कारः अस्मिन् संवत्सरे सि राधाकृष्णाय प्राप्यते। आख्यायिकाकारः, कथाकारः, अध्यापकः, वृत्तान्तपत्रप्रवर्तकः इत्यादिषु विविधमण्डलेषु स्वकीयप्रतिभां प्रकाशितवानयं साहित्यकारः।लक्षद्वयरूप्यकाणि, प्रशस्तिपत्रं, एम् वि देवेन विरचितः शिल्पश्च पुरस्काररूपेण दीयन्ते।


 उत्तरप्रदेशे नक्सलैट्जनाः गृहीताः
लक्नौ - उत्तरप्रदेशराज्ये हिन्डण् नामके स्थाने नव नक्सल् दलीयाः प्रवर्तकाः ए टि एस् नामकैः आरक्षकैः गृहीताः। गोलिकाशस्त्राणि , ग्रनेडादयः स्फोटकाः , विस्फोटकवस्तूनि इत्यादीनि महदायुधसञ्चयानि संगृहीतानि।

Sunday, October 16, 2016

भारत-न्यूसीलान्ट् एकदिन क्रिक्कट् परम्परा अद्य आरभते।
धर्मशाला>निकषस्पर्धासु प्राप्तस्य ३-० विजयस्य आत्मविश्वासेन भारतम् अद्य आरभ्य न्यूसीलान्टं विरुद्ध्य एकदिनपरम्परायां स्पर्धते। पञ्चसु क्रीडासु प्रथमा अद्य धर्मशालायां प्रचलति। भारतस्य ९००तम एकदिनस्पर्धा अस्त्येषा।
    महेन्द्र सिंह धोनी एव नायकत्वं वहति। न्यूसीलान्टं प्रति स्वदेशे एकदिनपरम्परायां पराजयः नाभूदिति चरित्रोल्लेखः धोनिवर्याय ऊर्जस्वलतां प्रददाति।                        

वाराणस्यां जनसम्मर्देन २४ अपमृतयः।
 वाराणसी>आत्मीयनेतुः बाबा जय् गुरुदेवस्य अनुयायिभिः आयोजिते धार्मिककार्यक्रमे सञ्जाते महासम्मर्दे चतुर्विंशति जनाः अपमृत्युं गताः। तेषु १४ महिलाः भवन्ति। उपषष्ठाः जनाः आहताः।
      वाराणस्यां रामनगरे राज् घट् सेतुसमीपे अासीत् इयं दुर्घटना। कार्यक्रममध्ये कश्चन रुद्धश्वासेन मृतः। एतदनुबन्ध्य सञ्जातेन अन्योन्यसम्मर्देन एव दुर्घटना जातेति आरक्षकवृन्दैः उक्तम्। किञ्च ३००० जनाः भागभागित्वं करिष्यन्तीति प्रतीक्षिते सति ८०,०००[अशीतिसहस्रं] जनाः आगतवन्तः। एतदपि दुर्घटनायाः कारणमिति उच्यते।

केरळ-राज्यस्तरीय सि बि एस् ई कलोत्सवः अटिमाल्याम्।
                 कोच्ची> राज्यस्तरीय सि बि एस ई कलामेला नवंबर मासे१७ त: २० पर्यन्तं अटिमालि विश्वदीप्ति सि एम् ऐ पब्लिक् विद्यालये आयोक्ष्यते। कलामेला समिते: आयोजकः फा.डोमि नम्ब्यापरम्पिल, समित्‍यङ्गाः के उण्णिकृष्णन् महोदय:,    डा. इन्दिरा राजन् प्रभृतय:प्रमुखा: कलोत्सवसमित्या: उपवेशने भाग: भाज: आसन्। राज्यस्तरीयात्‌ १३०० सि बि एस्  ई विद्यालयात् उप अष्टसहस्रं (८०००) छात्रा: अस्य कलामेलायां स्पर्धिष्यन्ते। चत्वारि दिनानि प्रचलिष्यति कार्यक्रमा: २२ मञ्चेषु १४४ इत्येतन्नामका: स्पर्धा आयोक्ष्यते।

Saturday, October 15, 2016

काश्मीरे सैनिकव्यूहं प्रति भीकराक्रमणम् - एकस्मै वीरमृत्युः।
श्रीनगरम्> जम्मुकाश्मीरे श्रीनगरे कर्तव्यनिर्वहणानन्तरं स्वावासस्थानं प्रतिनिवृत्तमानं सैनिकवाहनव्यूहं प्रति भीकराणाम् आक्रमणं संवृत्तम्। कश्चन सैनिकः वीरमृत्युं प्राप्तः। अष्ट आहताः च।
    श्रीनगरस्य समीपं सक्कुरप्रदेशस्थस्य सशस्त्र सीमाबलस्य [एस् एस् बि] वाहनव्यूहं विरूद्ध्य गोलिकास्त्रप्रयोगः कृतः। जनवासप्रविश्या इत्यतः सैनिकानां प्रत्याक्रमणम् अवधानतया आसीत्। प्रदेशः सैन्यैः परिवृतः अस्ति। भीकरेभ्यः अन्वेषणम् ऊर्जितं प्रवर्तते।

 कण्णूरे आरक्षकाः निस्साहाय्यकाः - ऐ जी।
कण्णूर् > केरळे कण्णूर् जनपदे राजनैतिकदलप्रतियोगिषु परस्परसंग्रामेषु स्थितेषु वयम् आरक्षकबलं निस्साहाय्यावस्थाम् उपगताः इति उन्नताधिकारिणः विलापः। उत्तरमण्डलस्य ऐ जि वर्यः दिनेन्द्र काश्यपः आरक्षकदलस्य परिमितिं प्रकाशयति स्म।
     प्रतिद्वन्दिषु को पि समवायं नेच्छति। केवलम् आरक्षकदलप्रयत्नेनैव शान्तिं पुनःस्थापयितुं न शक्यते। किन्तु परमां सुरक्षाव्यवस्थां स्वीकर्तुं यतामहे। काश्यपवर्यः अवदत्।