OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 17, 2016

ज्वरतप्तं भूमातरं रक्षितुं - हरितगृह-वातक-व्यवस्था। भारतेन सह १९७ राज्यानि।
कगाल > (रुवाण्ट) शीतीकरणोपकरणेषु उपयुज्यमानः हैड्रो फ्लूरो कार्बण् (HFC) वातकानां निर्माणं न्यूनीकर्तुं भारत-चैनाअमेरिकादीनि द्विशतं राष्ट्राणि हस्ताक्षरमकुर्वन्। वातावरण व्यत्ययं विरुद्ध्य भुवनैक-सख्यस्य प्रथम पदन्यासः एवायम् । वातावरण व्यत्ययस्य कारणभूतः हरितगृहवातकानां मध्ये अत्यन्त-मापत्करः भवति HFC. अङ्गाराम्लादपि दशसहस्रगुणितं मलिनीकरणमेव एतेन क्रियते।
2045 संवत्सरात् पूर्वं HFC उपयोगः प्रतिशतं पञ्च अशीति (८५% ) पर्यन्तं न्यूनीकरणमेव लक्ष्यम् इति सप्तनवत्यधिकशतम् राष्ट्रैः अङ्गीकृते व्यवस्थापत्रे लिखितम्। २०१९ जनुवरिमासस्य प्रथमे दिने व्यवस्था प्रबला भविष्यति। विकसितराष्ट्राणि प्रथमं उपयोगं न्यूनीकरिष्यन्ति। अनन्तरं विकस्वर-राष्ट्राणि अपि न्यूनीकरणे  भागभाजःभविष्यन्ति। गतवर्षस्य पारिस् व्यवस्थानुसारं हरितगृहवातकानां बहिर्व्यापन न्यूनीकरणाय भारत-कानडा आदिभिः राष्ट्रैः गतसप्ताहे यत्नः आरब्दः।

कूटंकुलं - ५,६,एककयोः निर्माणाय सम्मतिः।
नवदिल्ली> तमिळ् नाट् राज्ये कूटंकुलं आणवविद्युन्निलयस्य पञ्चम-षष्ठ एककयोः[यूऩिट्] निर्माणाय ऱष्या-भारतदेशयोः मध्ये सम्मतिपत्रस्य अन्तिमरूपं सम्पन्नम्। गोवायां प्रचाल्यमाने ब्रिक्स् सम्मेलनमध्ये भारतप्रधानमन्त्री नरेन्द्रमोदी रष्याराष्ट्रपतिः व्लादिमिर् पुतिनः च एतदधिकृत्य चर्चां कृत्वा अधिशासनीयां विज्ञप्तिं करिष्यतः।

 मातृभूमि साहित्यपुरस्कारः सि राधाकृष्णाय।
कोष़िक्कोट्> केरलस्य प्रौढेषु साहित्यपुरस्कारेषु अन्यतमः मातृभूमि साहित्यपुरस्कारः अस्मिन् संवत्सरे सि राधाकृष्णाय प्राप्यते। आख्यायिकाकारः, कथाकारः, अध्यापकः, वृत्तान्तपत्रप्रवर्तकः इत्यादिषु विविधमण्डलेषु स्वकीयप्रतिभां प्रकाशितवानयं साहित्यकारः।लक्षद्वयरूप्यकाणि, प्रशस्तिपत्रं, एम् वि देवेन विरचितः शिल्पश्च पुरस्काररूपेण दीयन्ते।


 उत्तरप्रदेशे नक्सलैट्जनाः गृहीताः
लक्नौ - उत्तरप्रदेशराज्ये हिन्डण् नामके स्थाने नव नक्सल् दलीयाः प्रवर्तकाः ए टि एस् नामकैः आरक्षकैः गृहीताः। गोलिकाशस्त्राणि , ग्रनेडादयः स्फोटकाः , विस्फोटकवस्तूनि इत्यादीनि महदायुधसञ्चयानि संगृहीतानि।

Sunday, October 16, 2016

भारत-न्यूसीलान्ट् एकदिन क्रिक्कट् परम्परा अद्य आरभते।
धर्मशाला>निकषस्पर्धासु प्राप्तस्य ३-० विजयस्य आत्मविश्वासेन भारतम् अद्य आरभ्य न्यूसीलान्टं विरुद्ध्य एकदिनपरम्परायां स्पर्धते। पञ्चसु क्रीडासु प्रथमा अद्य धर्मशालायां प्रचलति। भारतस्य ९००तम एकदिनस्पर्धा अस्त्येषा।
    महेन्द्र सिंह धोनी एव नायकत्वं वहति। न्यूसीलान्टं प्रति स्वदेशे एकदिनपरम्परायां पराजयः नाभूदिति चरित्रोल्लेखः धोनिवर्याय ऊर्जस्वलतां प्रददाति।                        

वाराणस्यां जनसम्मर्देन २४ अपमृतयः।
 वाराणसी>आत्मीयनेतुः बाबा जय् गुरुदेवस्य अनुयायिभिः आयोजिते धार्मिककार्यक्रमे सञ्जाते महासम्मर्दे चतुर्विंशति जनाः अपमृत्युं गताः। तेषु १४ महिलाः भवन्ति। उपषष्ठाः जनाः आहताः।
      वाराणस्यां रामनगरे राज् घट् सेतुसमीपे अासीत् इयं दुर्घटना। कार्यक्रममध्ये कश्चन रुद्धश्वासेन मृतः। एतदनुबन्ध्य सञ्जातेन अन्योन्यसम्मर्देन एव दुर्घटना जातेति आरक्षकवृन्दैः उक्तम्। किञ्च ३००० जनाः भागभागित्वं करिष्यन्तीति प्रतीक्षिते सति ८०,०००[अशीतिसहस्रं] जनाः आगतवन्तः। एतदपि दुर्घटनायाः कारणमिति उच्यते।

केरळ-राज्यस्तरीय सि बि एस् ई कलोत्सवः अटिमाल्याम्।
                 कोच्ची> राज्यस्तरीय सि बि एस ई कलामेला नवंबर मासे१७ त: २० पर्यन्तं अटिमालि विश्वदीप्ति सि एम् ऐ पब्लिक् विद्यालये आयोक्ष्यते। कलामेला समिते: आयोजकः फा.डोमि नम्ब्यापरम्पिल, समित्‍यङ्गाः के उण्णिकृष्णन् महोदय:,    डा. इन्दिरा राजन् प्रभृतय:प्रमुखा: कलोत्सवसमित्या: उपवेशने भाग: भाज: आसन्। राज्यस्तरीयात्‌ १३०० सि बि एस्  ई विद्यालयात् उप अष्टसहस्रं (८०००) छात्रा: अस्य कलामेलायां स्पर्धिष्यन्ते। चत्वारि दिनानि प्रचलिष्यति कार्यक्रमा: २२ मञ्चेषु १४४ इत्येतन्नामका: स्पर्धा आयोक्ष्यते।

Saturday, October 15, 2016

काश्मीरे सैनिकव्यूहं प्रति भीकराक्रमणम् - एकस्मै वीरमृत्युः।
श्रीनगरम्> जम्मुकाश्मीरे श्रीनगरे कर्तव्यनिर्वहणानन्तरं स्वावासस्थानं प्रतिनिवृत्तमानं सैनिकवाहनव्यूहं प्रति भीकराणाम् आक्रमणं संवृत्तम्। कश्चन सैनिकः वीरमृत्युं प्राप्तः। अष्ट आहताः च।
    श्रीनगरस्य समीपं सक्कुरप्रदेशस्थस्य सशस्त्र सीमाबलस्य [एस् एस् बि] वाहनव्यूहं विरूद्ध्य गोलिकास्त्रप्रयोगः कृतः। जनवासप्रविश्या इत्यतः सैनिकानां प्रत्याक्रमणम् अवधानतया आसीत्। प्रदेशः सैन्यैः परिवृतः अस्ति। भीकरेभ्यः अन्वेषणम् ऊर्जितं प्रवर्तते।

 कण्णूरे आरक्षकाः निस्साहाय्यकाः - ऐ जी।
कण्णूर् > केरळे कण्णूर् जनपदे राजनैतिकदलप्रतियोगिषु परस्परसंग्रामेषु स्थितेषु वयम् आरक्षकबलं निस्साहाय्यावस्थाम् उपगताः इति उन्नताधिकारिणः विलापः। उत्तरमण्डलस्य ऐ जि वर्यः दिनेन्द्र काश्यपः आरक्षकदलस्य परिमितिं प्रकाशयति स्म।
     प्रतिद्वन्दिषु को पि समवायं नेच्छति। केवलम् आरक्षकदलप्रयत्नेनैव शान्तिं पुनःस्थापयितुं न शक्यते। किन्तु परमां सुरक्षाव्यवस्थां स्वीकर्तुं यतामहे। काश्यपवर्यः अवदत्।

Friday, October 14, 2016

गुट्टेरस् यू एन् अध्यक्षः। 
यू एन् - ऐक्यराष्ट्रसभायाः आगामी अध्यक्षरूपेण [सेक्रटरि जनरल्] पोर्चुगल् देशस्य भूतपूर्वप्रधानमन्त्री अन्टोणियो गुट्टेरसः नियुक्तः। आगामी जनवरी प्रथमदिनाङ्के सः कर्तव्यतां स्वीकरिष्यति। पञ्चसंवत्सराणि एव कालपरिधिः।
     इदानीन्तनाध्यक्षस्य बान् कीमूण् वर्यस्य स्थाने एव गुट्टेरस् वर्यस्य नियुक्तिः। दशाब्दं यावत् ऐक्यराष्ट्रसभायाः अभयार्थिरक्षासंयोजकः आसीदेषः।

वार्ता मुक्तकानि
१-प्रधानमन्त्रि नरेन्द्रमोदी अद्य मध्यप्रदेशस्य भोपाल नगरे शौर्यस्मारकस्योद्घाटनं करिष्यति।

२-प्रधानमंत्री श्रीमोदी अष्टमब्रिक्‍सशिखरसम्‍मेलने  भागग्रहणाय  गोआ राज्ये गमिष्यति ।

३-रक्षामंत्रालयेन रक्षाकर्मिणां विकलांगता पेंशन इति सेवानिवृत्तिवेतनप्रकरणं सप्तमवेतनायोगस्य असंगतिः समित्यै प्रदत्तम् ।

४- संसदः एकमासात्मकं शीतकालीनसत्रं नवम्‍बरमासस्य षोडषदिनांकात् प्रारप्स्यते ।

५- वित्‍तमंत्रिणा अरूणजेटलिना प्रोक्तं यत् आन्तरिकस्‍तरे आर्थिकोनयन्नाय वैश्विकमान्द्यस्य प्रतिकूलप्रभावः नैवोत्पत्स्यते ।

६- रष्यायाः राष्‍ट्रपतिना व्‍लादिमीरपुतिनेनोक्तं यत् रष्या-भारतयोर्मिथः आर्थिकसहयोगाय  ऊर्जाक्षेत्रस्य महत्‍वपूर्णभूमिका भविष्यति ।

७- टेनिसक्रीडायां लियेंडरपेसेन निजसहक्रीडकेन सह ताशकंदटेनिस प्रतियोगितायाः प्रागुपान्त्यचक्रे प्रवेशो लब्धः|
 भारतं विरुद्ध्य विस्तृतं दक्षिणेष्यैक्यं रूपवत्कर्तुं पाकिस्थानः।
इस्लामबाद्>सार्क् मैत्र्यां भारतस्य अधीशत्वं विरुध्य चीना-इरानादिदेशानां विस्तृतं किमपि दक्षिणेष्यीयम् आर्थिकसख्यं रूपवत्कर्तुं पाकिस्थानस्य परिश्रमःइति  सूचनाः। सार्क् समित्यां भारतस्य अप्रमादित्वम् उपशमयितुमेवायं प्रयत्न  इति पाक्दिनपत्रिकया डोण् इत्यनया सूचितम्।
       अष्टाङ्गयुक्ते सार्क् सख्ये अफ्गानिस्थानः बङ्गलादेशश्च भारतस्य शक्तौ अनुकूलिनौ स्तः इदानीम्। मालिद्वीपः, नेप्पालः श्रीलङ्का च पाकिस्थानेन सह सुदृढसौहार्दे वर्तमानाः अपि भारतं विरोद्धुं अशक्ताः भवन्ति। अस्मिन्नवसरे एव चीना इरानः इत्यादिभिः अन्यैः मध्येष्याराष्ट्रैः  सह सहयोगेन नुतनीं कांचन समितिं रूपवत्कर्तुं  पाकिस्थानः चिन्तयति।

 नालिकां सम्यक् कृत्वा  फिग् ली पितामहः गिन्नस् पुस्तकं प्रविष्टवान्।
टोरोन्टो > जलनिर्गमन नालिकायाः दोषपरिहरण-समये मृत्युः भविष्यति तर्हि  ससन्तोषं स्वीकरोमि इति सः वदति। पञ्चषष्टि संवत्सराणि यावत् नालिकायाः दोषपरिहारकर्मसु व्यापृतस्य अस्य नाम गिन्नस् रेखायां आगतः अस्ति। द्वानवति वयस्क: कानडा देशीयः लोण् फिग् ली एव निरन्तरकर्मणा एवं लोकान् अतिशेते।

द्वितीये लोकसंग्रामे संयुद्ध्य आगतेन तेन ब्रोड् वे हीट्टिङ् लिमिट्टड् इति नाम्ना नालिकाकर्मकराणां संघः आयोजितः। ततः यावत्पर्यन्तं कुशलः कर्मकरः इति ख्यातिं सम्पादितवान्। पञ्चाशतधिक एकोनविंशति शततमे (१९५०) पठितेन अनेन कर्मणा सहर्षम् अद्यापि कालं याप्यते। अस्मिन् द्वानवति वयसि अपि विना वार्द्धक्यं अरोग दृढगात्रत्वेन एते विराजन्ते। आलस्यं विना स्वकर्मणि सानन्दं सोत्साहं वर्तते इति अस्य स्वास्थ्यस्य रहस्यम् इति सः वदति।

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।

Thursday, October 13, 2016

पाम्पोर् सैनिकक्रिया समाप्ता - द्वावपि भीकरौ मारितौ। 
 श्रीनगरं - दिनत्रयात्मकसंघट्टनस्य अन्ते काश्मीरस्य श्रीनगरसमीपे पाम्पोर् प्रदेशे सर्वकारभवनस्य अन्तः प्रविष्टौ द्वावपि भीकरौ सैन्येन मारितौ। झलं नदीतीरे सर्वकारस्य संरम्भकत्व विकसन संस्थायाः [जे के ई डि ऐ] आवासमन्दिरे प्रविष्टौ भीकरौ एव मारितौ। संघट्टने एकः सैनिकः आहतः। भीकरसकाशात् विविधानि आयुधानि संगृहीतानि। सप्त निश्रेणीयुक्ते आवासमन्दिरे सोमवासरे आसीत् भीकरप्रवेशः। दिनत्रयदैर्घ्येण सैनिककर्मणा भवनस्थाः ६० प्रकोष्ठाः सुरक्षिताः इति कमान्डिङ् जनरल् आफीसर् अशोक् नरूलवर्येण उक्तम्।
विरामं विना प्रधानमन्त्री।
नवदेहली>प्रधानमन्त्रिणः विरामः नास्ति इत्येव सङ्कल्पः इति प्रधानमन्त्रिणः कार्यालयात् विज्ञप्तिः अभवत्। प्रधानमन्त्रिणे अवकाश लब्ध्यर्थं नियमः किम् इति ज्ञातुं सूचनाधिकार -नियमानुसारं दत्ते आवेदनपत्रे लब्धमुत्तरम् एवं आसीत्। भूतपूर्व -प्रधानमन्त्रिणः अवकाशान् अधिकृत्य कापि रेखा नास्ति इति ते वदन्ति। प्रधानमन्त्री नरेन्द्रमोदी इतःपर्यन्तं विरामः न स्वीकृतः इति च ते वदन्ति।

बन्धुनियुक्तिविवादः - जयराजस्य त्यागपत्राय सम्मर्दः। 
कोच्ची >केरलस्य उद्योगविभागमन्त्री ई पि जयराजः सुप्रधानस्थानेषु स्वबन्धुजनेभ्यः अनर्हं  नियुक्तिम् अदात् इति विषये स्व जनपक्षपातः भ्रष्टाचारः इत्यादिकमुन्नीय जयराजस्य स्थानत्यागाय सम्मर्दः वर्धितः। प्रश्ने अस्मिन् तीव्रं परिष्करणमावश्यकमिति सि पि एम् दलस्य केन्द्रनेतृत्वेन निर्दिष्टम्। निर्णयः राज्यनेतृत्वाय कल्प्यते।
    तथा च केरलस्य विपक्षदलनेतृभिरपि नीतिन्याययुक्ताय क्रियाविधये परिदेवनानि समर्पितानि। जाग्रतासंस्थया त्वरितपरिशोधनां कर्तुं निर्णयः अद्य स्यादिति प्रतीक्षते।

संस्कृताध्यापकानां राज्यस्तरीयमेलनं फेब्रुवरी मासे।
कोषिक्कोट्> केरळ संस्कृताध्यापक फ़ेडरेशन् नामकीयस्य -दलस्य संवत्सरीय-सम्मेलनस्य मुखचित्रं प्रकाशितम्। ह्यः कोषिकोट् जनपथे आयोजिते कार्यकारिणीमेलने कोण्ग्रस्  राजनैतिक दलीयेन लोकसभासदस्येन एम् के राघवेन मुखचित्रम् (Logo) स्वागतसंधाध्यक्षाय पि.वी गंङ्गागाधराय दत्वा प्रकाशितम्। फेडरेषनस्य अध्यक्षः वेणु चोव्वल्लूर्, पी जी अजित् प्रसाद्, टी के सन्तोष् कुमार्, बिजु काविल् , के पि श्रीधरन् सी पी सुरेष्‌ बाबु, एम् सि रतीष् प्रभृतयः भाषणमकुर्वन् । २०१७ फेब्रवरि २,३,४ दिनेषु कोषिक्कोट् जनपथे संवत्सरीय-समारोहः प्रचलिष्यति। दलस्य अस्य एकोन चत्वारिंशत्तमस्य संवत्सरस्य समारोहः भवति अयम्।  केरळदेशस्य संस्कृताध्यापकानां दलः भवति के एस् टी एफ्(KSTF)। विभिन्न राजनैतिक दलीयाः अस्मिन् एकमनसा कार्यं कुर्वन्ति।

Wednesday, October 12, 2016

कण्णूरे राजनैतिकनिहनानि न समाप्यते;  एकोfपि हतः। 
कोच्ची > केरळे कण्णूर् जनपदे नरहत्यापरम्परायाः शमनं नास्ति। सि  पि एम् - भा ज पा दलयोः  समवायरहितायां  परस्परप्रतियोगितायां एकैकः अकालमृत्युं प्राप्नोति। सोमवासरे कूत्तुपरम्प् प्रदेशे सि पि एम् दलीयः आर् एस् एस् प्रवर्तकैः निहतः। तस्य प्रतीकाररूपेण अद्य भाजपा प्रवर्तकः सि पि एम् दलीयैः निहतः।
पुनर्विन्यासः न समाप्तः, स्थानभ्रष्टाः अध्यापकाः क्लिश्यन्ते।
कोच्ची>केरळे संरक्षणीयाध्यापकानां पुनर्विन्यासक्रियाविधयः अद्यावधि न समाप्तिमुपगताः इत्यतः स्थानभ्रष्टाः नवशतम् अध्यापकाः महान्तं क्लेशमनुभवन्ति। एते सर्वे सर्वकारस्य निर्देशमनुसृत्य मातृविद्यालयं प्राप्य उपस्थितिं  कृतवन्तः तथापि मासत्रयं यावत् वेतनं नोपलब्धवन्तः।
    विनष्टपदानाम्  अध्यापकानां पुनर्विन्यासमधिकृत्य सामान्यशिक्षाविभागेन आदेशः विज्ञापितः। किन्तु अस्यां नामावल्यां ये नान्तर्भूताः, ते अधुना त्रिशङ्कुस्वर्गप्राप्ताः अभवन्।

 Ps.2>अफगानिस्तानस्य राजधान्याम् आतंक्याक्रमणम्
काबूल् >अफगानिस्तानस्य राजधान्यां काबुलनगर्यां  शियादरगाह इति पूजास्थले संजाते आतंक्याक्रमणे चतुर्दशजनाः कालकवलिताः  षडविंशतिश्च व्रणिताः संसूच्यन्ते, मृतकेषु एकः आरक्षिभटः अपि सम्मिलितः| आक्रमणमिदं मोहर्रमपर्वणः प्राक् विहितम् आक्रमणकारिणः पूर्वमेव तस्मिन् स्थले प्रविष्टाः अनन्तरं बंधने निगड्य गोलिका प्रहृताः, अधिकारिणां मतानुसारि आतंकिभिः सैन्यपरिधानस्यावरणं विहितम्, ध्यानस्पदं यत् समेपि आतंकिनः निहताः

जयललितायाः उत्तरदायित्वानि पनीर् शेल्वं प्राप्नुवन्ति।
    चेन्नै> आतुरालयं प्रविष्टायाः तमिल् नाट् मुख्यमन्त्रिण्याः जयललितायाः कर्तव्यानि राज्यधनमन्त्रिणे पनीर शेल्वाय समर्पितानि। राज्यपालस्य  विवेचनाधिकारम् उपयुज्यैव अयं क्रियाविधिः।
     जयललितायाः आतुरालयवासः अनिश्चितकालम् अनुवर्तते इत्यतः अयमेव मार्गः करणीयः इति राज्यपालवृत्तैः निगदितम्। किन्तु मुख्यमन्त्रिस्थाने जयललिता अनुवर्तिष्यते। तथापि मन्त्रिसभामेलनेषु पनीर् शेल्वः अध्यक्षपदमलङ्करिष्यति इति राज्यपालेन विद्यासागर् रावु वर्येण स्पष्टीकृतम्।
     चिकित्सार्थं चेन्नै अप्पोलो आतुरालयं प्रविशत्याः जयललितायाः  विंशति दिनानि अतीतानि। तत्र अतितीव्रपरिचरणविभागे सत्यां राज्यशासनं स्तम्भितमिति विपक्षारोपणं प्रतिरोद्धुं तथा च प्रतिव्यवस्था आवश्यकीति केन्द्रसर्वकारस्य तात्पर्यं च परिगणय्य जयललितायाः उपदेशानुसारमेव अयं क्रियाविधिः।
सोपानम् -14 Gouri Nandana & Gayatrai Prasad, Vivekananda Vidyamandir, Kangazha, Kottayam.

Tuesday, October 11, 2016

विवेकानन्द विद्यामन्दिरम् कङ्ङ्षा 11-10-2016


 सुशक्तराष्ट्राय सशक्तं बलमपेक्षते - प्रधानमन्त्री। 
नवदिल्ली >यदि राष्ट्रस्य सैन्यम् ऊर्जस्वलं भवति तर्हि राष्ट्रं सुशक्तं भवेदिति पण्डिट् दीनदयाल् उपाध्यायस्य भणितमुद्धृत्य भारतप्रधानमन्त्री नरेन्द्रमोदी अब्रवीत्। भारतं पाकिस्थानं विरुध्य आयोजितम् आकस्मिकाक्रमणं संस्मृत्य एव मोदिवर्यस्य प्रतिकरणम्। दीनदयाल् उपाध्यायस्य सम्पूर्णकृतीनां प्रकाशनं निर्वहन् भाषमाणः आसीत् प्रधानमन्त्री।
     राष्ट्रं सुशक्तं भवति इत्यस्य यस्यकस्यापि प्रतिद्वन्दी भवतु इत्यर्थः नास्ति। अस्माकं सुरक्षा एव तेन लक्ष्यते। प्रातिवेशिकराष्ट्रं कदापि न लक्ष्यीक्रियते। अपि च मात्सर्ययुक्ते लोके राष्ट्रस्य सुरक्षा अनिवार्या  भवति इत्यपि मोदिना उक्तम्।

पुनर्विन्यासः न समाप्तः, बहिर्भूताः अध्यापकाः क्लिश्यन्ते। 
कोच्ची >केरळे संरक्षिताध्यापकानां पुनर्विन्यासक्रियाविधयः अद्यावधि न समाप्तिमुपगताः इत्यतः स्थानभ्रष्टाः नवशतम् अध्यापकाः महान्तं क्लेशमनुभवन्ति। एते सर्वे सर्वकारस्य निर्देशमनुसृत्य मातृविद्यालयं प्राप्य उपस्थितिं  कृतवन्तः तथापि मासत्रयं यावत् वेतनं नोपलब्धवन्तः।
    विनष्टपदानाम्  अध्यापकानां पुनर्विन्यासमधिकृत्य सामान्यशिक्षाविभागेन आदेशः विज्ञापितः। किन्तु अस्यां नामावल्यां ये नान्तर्भूताः, ते अधुना त्रिशङ्कुस्वर्गप्राप्ताः अभवन्।
सम्प्रतिवार्तायां संस्कृतपत्रकारितायां पठनवर्गः।
सम्प्रतिवार्ताः अन्तर्जाल-संस्कृतदिनपत्रिकाद्वारा  संस्कृतपत्रकारितायां पठनवर्गः आरभ्यते। अस्मिन् विजयदशमीदिने शुभारम्भः भवति। संस्कृत-बिरुदधारिणः तथा अध्यापकछात्रान् च उद्दिश्य आयोज्यमानः अयं पठनवर्गः षण्मासपर्यन्तं प्रचाल्यमानैः  अभ्यासकार्यक्रमैः भविष्यति। एतादृश ऑण् लैन्‌ वर्गः भारते प्रप्रथममेव। वर्गस्यास्य निर्देशकः प्रौढः वार्तावतारकः डॉ. बलदेवानन्दसागरः भवति ।

अद्य विजयदशमी।
कालटी> विजयदशमी विद्यारम्भाय शुभदिनमिति गण्यते । अतः मन्दिरेषु अन्येषु सांस्कृतिकनिलयेषु च विद्यारम्भकार्यक्रमाः आयोज्यन्ते।
    कर्णाटकायां कोल्लूर मूकाम्बिकायां तथा  केरलेषु तिरूर् तुञ्चन्परम्प्, चिट्टूर् तुञ्चन् मठं, कालटि आदिशङ्कर जन्मस्थानं, पनच्चिक्काट्, परवूर् , चोट्टानिक्करा, इत्यादिषु प्रसिद्धेषु देवीमन्दिरेषु च सहस्रशः बालकाः विद्यादेवताम् उपासयन्तः अक्षरशिक्षाप्रारम्भं कुर्वन्ति।


शीतलपानीयेषु आरोग्यहानिकराः लोहाः।
नवदेहली>भारते विपणनं क्रियमाणेषु कोक्कोकोला, पेप्सी, स्प्रैट् मौण्टन् ड्यू, सेवन् अप्  इत्यादिषु शीतलपानीयेषु मानवस्वास्थ्यविनाशकारिणः पञ्चविधाः लोहांशाः अन्तर्भवन्तीति बहिरागतैः वृत्तान्तैः सूच्यते। लेड्, क्रोमियं, काड्मियं, डि ई एछ् पि,फत्तालेट् एते लोहांशाः एव कोल्क्कत्तायां विद्यमानायां All India Institute of Hygiene and Public health नामिकायां संस्थायां कृते समीक्षणे प्रमाणीकृताः। केन्द्रस्वास्थ्यमन्त्रालयस्य निर्देशानुसारमासीत् समीक्षणम्।
 बालकेभ्यः रुच्यमानं पानीयम् इत्यस्मात् इदं समीक्षणफलम् आशङ्काजनकं वर्तते। मस्तिष्क-वृक्कादि अवयवेषु प्रतिकूलतया प्रवर्तते इत्यतः बालकानां शारीरीक मानसिकास्वास्थ्यकारणं भविष्यति।
रुचिकरं यत् तत् सर्वं न भोक्तव्यम् , तत् अस्माकं शारीरीक मानसिकास्वास्थ्यकारणं भविष्यति।

Monday, October 10, 2016

 केरळे नवरात्रिमहोत्सवस्य इदानीं शुभपर्यवसानम्
 श्वः विजयदशमी।
Sreekurumba Bhagavati Temple, Near Cochin Airport

जाप्पनीयवैज्ञानिकाय य़ोषिनोरीवर्याय वैद्यशास्त्रस्य नोबेल् पुरस्कारः 
टोकियो> जाप्पनीयवैज्ञानिकः योषिनोरी ओसुमी इत्याख्यः वैद्यशास्त्रस्य नोबेल् पुरस्कारेण समादृतः। ओटोफागी  इत्यभिधेयं शरीरकोशानां पुनःचंक्रमणम् अधिकृत्य अनुसन्धानाय एवायं पुरस्कारः। अर्बुदं पार्किन्सण् प्रमेहः इत्यादीनां रोगाणां चिकित्सायां महती प्रगतिः ओसुमीवर्यस्य अनुसन्धानेन भविष्यतीति नोबेल् पुरस्कारसमित्या उल्लिखितम्।

 भारतं  कदापि न आक्रमणकारी
बार्मेर् > अन्येषाम् आस्थानं गत्वा आक्रमितुं शीलं भारतस्य नास्ति। किंतु यदि कोऽपि अस्मान् आक्रमितुं आगतः चेत् रिक्तहस्तः सन् तं निवर्तयितुं न अनुमन्यामहे इति अभ्यन्तर मन्त्री राजनाथ सिंहः अवदत् । सीमासन्धिरेखां उल्लंघ्य भारतसेनया कृतशत्रुशिबिरस्य भग्नीकरणं अधिकृत्य भाषमाणः सः अस्माकं सुरक्षार्थं तदनिवार्यमासीत् इति  उत्प्रेक्ष्य सज्जीकृतस्वरक्षाजाग्रतादिकं अवालोकयत् च।
फ्लट् लईट् संविधानं सीमाभित्तेः समान्तरतया मार्गस्यनिर्माणं च सीमारक्षकेभ्यः उद्दिश्य क्रियते इतिच सह अवदत्। मुनबवो सीमा केन्द्रस्य सन्दर्शन काले एव सैनिकानां एतादृशं उक्तिं न्यवेदयत्। लोकाः  सर्वाः  एकस्मिन्  कुटुम्बे अन्तर्भवन्ति इति विचारयन्तः भवन्ति अस्माकं जनाः किन्तु वयं धीराः कार्यकुशलाश्च। शत्रोः

Sunday, October 9, 2016

 शान्तेः कृते नोबेल् पुरस्कारः कोलम्बियाराष्ट्रपतये।
ओस्लो - विश्वशान्त्यर्थं दीयमनाय नोबेल् पुरस्काराय अस्मिन् संवत्सरे कोलम्बिया देशस्य राष्ट्रपतिः हुवान् मानुवल् सान्टोसः अर्हति। राष्ट्रे द्विपञ्चाशत् वर्षाणि यावत् अनुवर्तितम् आभ्यन्तरयुद्धं शमयितुं कृताय प्रयत्नाय एव पुरस्कारः।
    आधुनिककाले विद्यमानेषु कालदैर्घे्येन बृहत्तमेषु आभ्यन्तरयुद्धेषु अन्यतमाय शान्तिसम्पूर्णं  शाश्वतपरिहारं कर्तुं सान्टोसः प्रयतितवान् इति पुरस्कारसमित्या निरीक्षितम्।

मात्यू प्रचण्डवातः - मरणानि उपसहस्रम्।
फ्लोरिडा > अमेरिक्काभूखणडे हेय्तिप्रदेशे ताण्डवनृत्तं कृतवान् मात्यु इत्यावर्तप्रचण्डवातः उपसहस्रं जनान् कालपुरीम् अगमयत्। दशसहस्राणां तद्देशवासिनां भवनानि विशीर्णमुपगतानि।
   इदानीं फ्लोरिडाप्रविश्यां प्रविष्टः मात्यू तस्य संहारनृत्तम् अनुवर्तते। फ्लोरिडायां एतदाभ्यन्तरे चत्वारि मरणानि सूचितानि। फ्लोरिडा, जोर्जिया, दक्षिणकरोलिना इत्येतासु प्रविश्यासु अपि राष्ट्रपतिना बराक् ओबामा वर्येण त्वरितशासनप्रक्रिया प्रख्यापिता। प्रतिहोरां ११० योजना वेगेनैव प्रचण्डवातः वाति।

 RN1आलियार् जलसमस्याविषये चर्चा नास्ति-तमिल्नाटु।
 नवदहली > परम्पिक्कुलम्-आलियार् जलवितरणविषये चर्चा आवश्यकी इति केरलस्य निर्देशः तमिल्नाटु सर्वकारेण तिरस्कृतः। विषयेऽस्मिन् चर्चायै ओक्टोबर् २१ दिनाङ्के संयुक्तजलक्रमीकरणयोग: सञ्चालनीय: इति केरलस्य निर्देशः तमिल्नाटु सर्वकारेण तिरस्कृतः। योगेऽस्मिन् तमिल्नाटु सर्वकारस्य भागभाक्त्वं न भविष्यतीति अधिकृतैः सूचितम्। परम्पिक्कुलम्-आलियार् पद्धतिमनुसृत्य केरलस्य कृते दीयमानं जलं लब्धुम् आवश्यकः व्यवहारः केन्द्रसर्वकारेण स्वीकरणीयः इति संसूच्य केरलसर्वकारेण निवेदनं दत्तमासीत्।

Saturday, October 8, 2016

शीतलपानीयेषु आरोग्यहानिकराः लोहाः। 

भारते विपणनं क्रियमाणेषु कोक्कोकोला, पेप्सी, स्प्रैट् मौण्टन् ड्यू, सेवन् अप्  इत्यादिषु शीतलपानीयेषु मानवस्वास्थ्यविनाशकारिणः पञ्चविधाः लोहांशाः अन्तर्भवन्तीति बहिरागतैः वृत्तान्तैः सूच्यते। लेड्, क्रोमियं, काड्मियं, डि ई एछ् पि ,फत्तालेट् एते लोहांशाः एव कोल्क्कत्तायां विद्यमानायां All India Institute of Hygiene and Public health नामिकायां संस्थायां कृते समीक्षणे प्रमाणीकृताः। केन्द्रस्वास्थ्यमन्त्रालयस्य निर्देशानुसारमासीत् समीक्षणम्।
      बालकेभ्यः रुच्यमानं पानीयम् इत्यस्मात् इदं परिशोधनाफलम् आशङ्काजनकं वर्तते। मस्तिष्क-वृक्कादि अवयवेषु प्रतिकूलतया प्रवर्तते इत्यतः बालकानां शारीरीक मानसिकास्वास्थ्यकारणं भविष्यति।

Friday, October 7, 2016

एष्यायाः बृहत्तमा कलामेला जनुवरिमासे

अनन्तपुरी> केरले अस्य संवत्सरस्य राज्यस्तरीयविद्यालयकलामेला २०१७ जनवरिमासे कण्णूर् जनपदे प्रचलिष्यति। कोच्ची मेट्रो निर्माणकारणेन पूर्वनिश्चितात् एरणाकुलं जनपदात् इदं परिवर्तनम्। राज्यस्तरीयविद्यालयकायिकमेला मलप्पुरं जिल्लायां भविष्यति।

गुट्टरस् ऐक्यराष्ट्रसभायाः नूतनाध्यक्षः भवितुमर्हति
युणैटड् नेषन्स् - पोर्चुगल् देशस्य भूतपूर्वप्रधानमन्त्री अन्टोणियो गुट्टरस् ऐक्यराष्ट्रसभायाः नूतनाध्यक्षः भवितुमर्हति। यू एन् रक्षासमित्यां सम्पन्ने षष्ठे मतदाने गुट्टरसः अग्रिमस्थानं प्राप्तः। अस्मिन् संवत्सरान्ते विरम्यमानस्य बान् कि मूण् वर्यस्य अनुगामी भवत्येषः।

Thursday, October 6, 2016

वार्तामुक्तकानि
अनन्तपुरी >केरलराज्यस्य न्यूनपक्षादेशस्य अध्यक्षरूपेण पि.के. हनीफः कर्तव्यतां स्वीकृतवान्। राज्यस्य दक्षतासंस्थायाःपञ्जिकाधिकारी - ,जनपदन्यायाधीशः इत्यादिरूपेणापि तेन सेवनमनुष्ठितम्। आदेशस्य वनितासदस्यारूपेण बिन्दु एम् तोमसः कर्तव्यताप्राप्तिम् आरूढवती।

नवदिल्ली >जम्मु काशमीरस्य मुख्यमन्त्रिणी मेहबूबा मुफ्ति प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मेलनं कृतवती। सीमाविषयाः काश्मीरस्य संघर्षस्थितिः इत्यादयः चर्चिताः।