OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, October 5, 2016

 पाक् - भारतसीमा संघर्षभरिता - सीमासुरक्षाबलम्। दिल्ल्यां जाग्रतानिर्देशः। 
नवदिल्ली >भारत - पाकिस्थानयोः सीमाप्रदेशेषु सङ्घर्षावस्था वर्तते इति सीमासुरक्षासेनया स्पष्टीकृतम्। सीमायाः शतमीटर् समीपं यावत् पाकिस्थानस्य मानवरहितविमानानि दृष्टानीति सीमारक्षाबलस्य निदेशकप्रमुखः के के शर्मा अवदत्। मङगलवासरे प्रातःकाले अमृसरजनपदे रविनद्याः पाकिस्थानस्य नौकाः गृहीताः। अतः राष्ट्रराजधान्यां नवदिल्ल्यां कर्शनः जाग्रतानिर्देशः घोषितः। तथा च यं कमपि प्रतिसन्धिम् अभिमुखीकर्तुं भारतसेनाः सुसज्जाः इति वायुसेनाधिकारिणा अरूप् राहा वर्येणोक्तम्।

वार्तामुक्तकानि।

टोरण्टो [कानडा] >- त्रिदिनसन्दर्शनार्थं भारतवित्तमन्त्री अरुण् जेय्ट् ली कानडादेशं सम्प्राप्तवान्। उभयोरपि राष्ट्रयोर्मध्ये क्रियमाणं वित्तीयसन्धिम् अधिकृत्य चर्चिष्यति।

नवदिल्ली > बुक्कर् पुरस्कारजेत्री अरुन्धती राय् १९ संवत्सराणाम् अन्तरालानन्तरं तस्याः नूतनामाख्यायिकां [नोवल्] प्रसिद्धीकर्तुमुत्सहते। आगामिनि जूण् मासे *दि मिनिस्ट्री आफ् अट्मोस्ट् हाप्पिनस्*इत्याख्यः ग्रन्थः प्रकाशयिष्यते।

इम्फाल्> मणिप्पूर्- म्यान्मर् सीमायां इस्लामीयग्रामसमीपे गतदिने बोम्बस्फोटनं संवृत्तम्। आरक्षकैः असम रैफिल्स् संघेन च अन्वेषणम् आरब्धम्। स्फोटनकारणं न प्रकाशितम्।

स्टोक् होम् > जाप्पनीयशास्त्रज्ञः योषिनोरी ओसुमी इत्याख्यः वैद्यशास्त्रस्य नोबेल् पुरस्कारेण समादृतः। ओटोफागी  इत्यभिधेयं शरीरकोशानां पुनःचंक्रमणम् अधिकृत्य अनुसन्धानाय एवायं पुरस्कारः! अर्बुदं पार्किन्सण् प्रमेहः इत्यादीनां रोगाणां चिकित्सायां महती प्रगतिः ओसुमीवर्यस्य अनुसन्धानेन भविष्यतीति नोबेल् पुरस्कारसमित्या उल्लिखितम्!

Tuesday, October 4, 2016

आगोलतापनं विरुध्य भारतस्य युद्धप्रख्यापनम् - पारीस् अभिमतं स्थिरीकृतम्।
न्यूयोर्क्> पर्यावरणपरिवर्तनं सम्बध्य पारीस् अभिमतं प्रवृत्तिपथम् आनयिष्यतीति विज्ञापनं भारतेन ऐक्यराष्ट्रसभायै समर्पितम्। राष्ट्रपतिना प्रणब् मुखर्जी वर्येण हस्ताक्षरीकृतं स्थिरीकरणपत्रं गान्धिजयन्तीदिने भारतस्य स्थिरप्रतिनिधिः सय्यिद् अक्बरुद्दीनः ऐक्यराष्ट्रसभायाः सन्धिविभागाध्यक्षाय सान्टियागो विलाल् पाण्डवे समर्पितवान्।
     आगोलतापननियन्त्रणार्थंम् उद्दिष्टे अनुज्ञापत्रे भारतसहितानि १८५ राष्ट्राणि गतडिसंबरमासे पारीस् मध्ये हस्ताक्षरं कृतवतः आसन्। एषु ६१ राष्ट्रैः अनुज्ञापत्रस्य क्रियाविधिप्रख्यापनं कृतम्। अधुना भारतस्यापि स्थिरीकरणप्रख्यापनेन अस्मिन् संवत्सरे एव सन्धिः प्रवृत्तिपथम् आनेष्यति।

केरळे ऐ एस् शाखा - दशाङ्गसंघः  गृहीतः।
कण्णूर्>इस्लामिक् स्टेट् ऐ एस् इति भीकरसंस्थां प्रति युवकान् आकृष्टुं केरले प्रयोगाभ्यासं लब्धाः ३० अङ्गसंघः प्रवर्तते। अन्सार् उल् खलीफा इत्यस्मिन् नाम्नि एव ऐ एस् संस्थायाः केरळविभागः स्वयं व्यवह्रियते।
    गतदिने कण्णुरस्थे कनकमला, कोष़िक्कोटस्थे कुट्ट्याटि, तमिळ्नाटस्थे कोयम्पुत्तूर् तथा तिरुनल्वेली इत्यादिभ्यः प्रदेशेभ्यः दश युवकाः एन्  ऐ ए संस्थया प्रगृहीताः।
    कोच्चीमध्ये सम्पन्नस्य जमा अत्ते इस्लामी सम्मेलनस्य वेदिकां प्रति लोरियानविध्वंसनसहिताः नैकाः पद्धतयः तैः आकल्पिताः आसन्। केरलस्य चतुरः प्रमुखान् उन्मूलयितुमपि पद्धतिरासीत् इति सूचना वर्तते।

Monday, October 3, 2016

कर्णाटकसङ्गीतज्ञः  Mr. Chong Chiu Sen. Malaysia.
संस्कृतस्य वर्तमानचित्रं परिवर्तनमपेक्षते - चमू कृष्णशास्त्री।
कोच्ची> संस्कृतभाषायाः आधुनिकं मुखं  लोकाभिमुखं कर्तुम् आपादमस्तकं परिवर्तनमपेक्षते इति केन्द्र-मानवविभवशेषिमन्त्रालयस्य भाषा-उपदेष्टा तथा संस्कृतभारत्याः शिक्षणप्रमुखः च.मू कृष्णशास्त्रिवर्यः उक्तवान्। संस्कृतभाषामधिकृत्य पौराणिकसङ्कल्पनात् आधुनिक वैज्ञानिकतन्त्रस्य साङ्केतिकविद्यायाश्च अनुरूपं मुखचित्रं परिकल्पनीयमिति तेन उक्तम्। पूर्णवेदपुर्यां पण्डितरत्नस्य डो. जि गङ्गाधरन् नायर् महोदयस्य सप्ततिप्रणामसभाम् उद्घाटनं कुर्वन् भाषमाणः आसीत् सः।
    संस्कृतं पारम्पर्यरीत्या प्रपठ्य नूतनसङ्केतान् उपयुज्य भाषायाः लोकव्यापनाय उत्साहमानः क्रियावान् पण्डितश्रेष्ठो भवति डो. जि गङ्गाधरन् नायर् महाशयः इति कृष्णशास्त्रिवर्येण उक्तम्। "अमानी मानदो मान्यः"  इति भगवद्विशेषणानि तस्मिन्नपि अनुयुक्तमिति तेन प्रकीर्तितम्।
     विश्वसंस्कृतप्रतिष्ठानस्य अमृतभारती विद्यापीठस्य च संयुक्ताभिमुख्ये प्रवृत्ते सप्ततिप्रणामसमारोहे प्रोफ.तुरवूर् विश्वम्भरः अध्यक्षपदमलंकृतवान्। श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य उपकुलपतिः डो. एम् सि दिलीप् कुमारः सुवर्णवस्त्रं धारयित्वा समादृतवान्। केसरी पत्रिकायाः भूतपूर्वमुख्यसम्पादकः एम् ए कृष्णः शुभाशंसां व्याहृतवान्।

Sunday, October 2, 2016

RN 17धीरसैनिकेभ्यः आदरसूचकं  'विज्ञाप्यचलनचित्रम्'।
नवदहली > भारतस्य धीरसैनिकेभ्यः आदरसूचकतया हीरो मोटोकोर्प् इति स्थापनेन निर्मितं विज्ञाप्यचलनचित्रं प्रचारं प्राप्नोति। हीरो मोटोकोर्प् संस्थायाः "हीरो सल्यूट्स् दि रियल् हीरोस्" इति विज्ञाप्यचलनचित्रम् अवतरणवैशिष्ट्येन समकालीनप्राधान्येन च प्रेक्षकहृदयानावर्जयति। भूतल-व्योम-नाविकसेनानाम् उद्योगस्थान् जनाः धीरतया अभिवादनं कृत्वा स्वीकुर्वन्ति इत्येव चलनचित्रस्य इतिवृत्तम्। स्वराष्ट्रं तथा राष्ट्रसंरक्षकान्‌ सैनिकान् च प्रति भारतजनतायाः स्नेहादरौ चलनचित्रेऽस्मिन् व्यक्तौ भवतः।

RN18कावेरीजलविवादः- भूतपूर्वः प्रधानमन्त्री एच्.डि.देवगौडा उपवाससंग्रामम् आचरति।
 बंगलुरु > कावेरी नदीजलतर्के परिहारतया उच्चतरन्यायालयेन कृते आदेशे प्रतिषेधं प्रकटय्य भूतपूर्वः प्रधानमन्त्री एच्.डि.देवगौडा अनिश्चितकालम् उपवाससंग्रामम् आचरति। कर्णाटकनियमसभायाः पुरतः एव समरः आरब्धः। उच्चतरन्यायालयादेशस्य प्रबलीकरणेन राज्यं कर्षकमरणानि अभिमुखीकुर्यात् इति सः सूचयति। तर्केऽस्मिन् परिहारमार्गान् आलोचयितुं कर्णाटकसर्वकारेण अद्य सर्वदलयोग: निश्चितः वर्तते।

RN19भारतेन सह ऐक्यदार्ढ्यं प्रख्याप्य मालिद्वीप् सार्क् मेलनात् प्रतिनिवृत्तिं न्यवेदयत्। 
नवदहली > नवम्बर् मासे पाकिस्थाने निश्चितात् सार्क् मेलनात् मालिद्वीप् राष्ट्रमपि प्रतिनिवृत्तिं न्यवेदयत्। तथा प्रतिनिवर्तितानां राष्ट्राणां संख्या ६ अभवत्। उरी भीकराक्रमणात्परं भारतेन सार्क् मेलनं बहिष्क्रियते इति प्रख्यापितमासीत्। ततः परं बंगलादेश्‌, अफ्गानिस्थान्, श्रीलङ्‌का, भूट्टान् च मेलनबहिष्करणं प्रख्यापितवन्तः आसन्। ५ राष्ट्राणां बहिष्करणेन सार्क्  मेलनस्य समयपरिवर्तनं पाकिस्थानेन ह्यः प्रख्यापितमासीत्। मेलनस्य नूतनदिनाङ्‌कः पश्चात् विज्ञाप्यते इत्येव पाकिस्थानस्य प्रतिकरणम् ।

RN20संस्कृतभाषापण्डितस्य डॉ.जि.गङ्गाधरन् नायर् महोदयस्य सप्ततिसमारोहः अद्य आघुष्यते।
Dr. G Gangadharan Nair
 तृपूणित्तुरा > संस्कृतभाषाप्रचारकस्य पण्डितरत्नस्य डॉ.जि.गङ्गाधरन् नायर् महोदयस्य सप्ततिसमारोहः रविवासरे सायं त्रिवादने वेदपूर्णपुर्यां लायं कूत्तम्बलं मध्ये आघुष्यते। विश्वसंस्कृतप्रतिष्ठानम् अमृतभारती विद्यापीठः च कार्यक्रमस्यास्य संघाटकौ भवतः। "सप्ततिप्रणामं" इत्येव  समादरणसमारोहस्य नाम दत्तं वर्तते। कार्यक्रमस्याऽस्य उद्‌घाटनं केन्द्रसर्वकारस्य भाषाविभागोपदेष्टा संस्कृतभारत्याः शिक्षणप्रमुख: च च.मू.कृष्णशास्त्री महोदयः करिष्यति। प्रफ. तुरवूर् विश्वम्भरः कार्यक्रमस्य अध्यक्षपदम् अलङ्‌करिष्यति। समारोहानुबन्धतया 'कर्णभारम् 'इति संस्कृतनाटकम् अन्ये संस्कृतकार्यक्रमाः च वर्तन्ते।
   संस्कृतशास्त्रग्रन्थेषु तथा रष्यन् भाषायाञ्च अगाधपण्डितः भवति डा.जि गङ्गाधरन् नायर् महोदयः। १९७९ तमे वर्षे अस्य महोदयस्य नेतृत्वे एव विश्वसंस्कृतप्रतिष्ठानम् संस्कृत-सम्भाषणशिबिरकार्यक्रमः आरब्धः। एतैः शिबिरै: लक्षाधिकाः जनाः संस्कृतसम्भाषणसामर्थ्यम् आर्जितवन्तः सन्ति।
      शताधिकानां गवेषणप्रबन्धानां तथा संस्कृतव्याकरणचरितं, संस्कृतप्रबोधनं, संस्कृतसन्दीपनी इत्येतेषां ग्रन्थानां कर्ता भवति गङ्गाधरन् नायर् महोदयः। तृपूणित्तुरा संस्कृतकलालये व्याकरणविभागाध्यक्षः आसीत् अयं महाभागः। अधुना गङ्गाधरन् नायर् महोदयः कालटी श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालयस्य कार्यविचारसभाङ्ग: भवति। पोण्डिच्‍चेरी फ्रञ्च् शिक्षाकेन्द्रस्य प्रयुक्तिपुरुषः, अमृतभारती विद्यापीठस्य संस्थानाध्यक्षः, चिन्मया इन्टर्नाषनल् फौण्डेषन् - शोधसंस्थान् इति केन्द्रस्य निदेशकसमितेः अध्यक्षः, शारदागुरुकुलस्य कुलपति:, सम्प्रतिवार्तायाः रक्षाधिकारी  इत्येवं बह्वीनां संस्कृतप्रचारणपद्धतीनां कार्यनिर्वाहकः भवति अयं भाषापण्डितः। अपि च आधुनिकसाङ्केतिकमाध्यमैः आभारतं तथा विदेशराष्ट्रेषु च बहुभ्यः जनेभ्यः संस्कृतशास्त्रग्रन्थानधिकृत्य शिक्षणं ददात्ययं महोदय:।

विः१६५,२५० कोटिरूप्यकाणां व्याजधनम् प्रकाशितम्।
नवदिल्ली> केन्द्रसर्वकारेण पूर्वस्मिन् आयव्ययपत्रके प्रख्यापितायाः अलीकधनप्रकाशनपद्धत्याः आनुकूल्येन ६४,७२५ जनाः ६५,२५० कोटिरूप्यकाणाम् अलीकधनानि प्रकाशितवन्तः। एतादृशधनस्य प्रतिशतं ४५ भागः सर्वकाराय लप्स्यते। नीतिन्यायव्यवहारेभ्यः अलीकधनिकानां मोचनाय केन्द्रसर्वकारेण जूण् प्रथमे दिनाङ्के आरब्धा इयं पद्धतिः सेप्तम्बर् ३० दिनाङ्के पर्यवसिता।
   पद्धत्यानुकूल्यभोक्तॄणां संख्यां रूप्यकसंख्यां च विना नाप्यन्यो वृत्तान्तो बहिगमयिष्यतीति धनमन्त्रिणा अरुण् जय्ट्लि वर्येण उक्तम्।

रविः२जयललितायाः स्वास्थ्यमधिकृत्य अभ्यूहः।
चेन्नै>शारीरिकास्वास्थ्येन अप्पोलो आतुरालयं प्रविष्टायाः  तमिल् नाट् मूख्यमन्त्रिण्याः जयललितावर्यायाः स्वास्थ्यविषयमधिकृत्य अभ्यूहः प्रचलति। तस्याः चिकित्सार्थं लण्टन् देशतः रिच्चार्ड् जोण् बियाल् नामकः भिषग्वरः आतुरालयं प्राप्त इति ए ऐ ए डि एम् के दलस्य वरिष्ठनेता पन्टुट्टी रामचन्द्रः अवदत्। तथा च तमिल् नाट् राज्यपालः विद्यासागररावः अप्पोलो आतुरालयं प्राप्य जयललितां संदृष्टवान्।

Saturday, October 1, 2016

 भारतस्य प्रतिक्रिया - भीकरकेन्द्रेषु आकस्मिकाक्रमणम्।
नवदिल्ली > उरि भीकराक्रमणस्य सप्ताहद्वयाभ्यन्तरे भारतेन शक्ता  प्रतिक्रिया कृता। पाक् अधीनकाश्मीरे सप्त भीकरपरिशीलनकेन्द्राणि विनाश्य अष्टात्रिंशत् भीकरान् यमपुरीम् अनयत्।
     स्थलसेनायाः उत्तरकमान्ड् विभागस्य नेतृत्वे रात्रौ आसीत् अप्रतीक्षिताक्रमणस्य प्रारम्भः। २५०चतुरश्रकिलोमीटर् परिमिते विस्तृतौ एव भारतसैन्यस्य आक्रमणम्। द्वौ पाकिस्थानसैनिकावपि आक्रमणे हतौ।
   अनन्तरं सर्वकारेण सर्वदलसम्मेलनं कृत्वा सैनिकव्यवहारमधिकृत्य विशदीकृतम्। सर्वाणि राज्यनैतिकदलानि आक्रमणे सहयोगं प्रादर्शयन् च।

 बीहारे सम्पूर्णमदिरानिरोधः उच्चन्यायालयेन निरस्तः।
पाट्ना> बीहारराज्ये नितीष्कुमारसर्वकारेण एप्रिल्मासादारभ्य प्रवृत्तिपथमानीतः सम्पूर्णमद्यनिरोधः पाट्ना उच्चन्यायालयेन निरस्तः। मदिरायाः निर्माण-विपणन- उपभोगाः सम्पूर्णतया निरोद्धुम् आविष्कृतः नियम एव निरस्तः। पौराय यदिष्टं तद्भोक्तुं पातुं च स्वातन्त्र्यं निराकरोति अयं नियमः इति नीतिपीठस्य निरीक्षणम्। बीहारविधानसभानिर्वाचनकाले नितीष्कुमारेण दत्तेषु वाग्दानेषु अन्यतम अासीत् सम्पूर्णमदिरानिरोधः। अधिकारप्राप्त्यनन्तरम् अयमादेशः जनैः सामान्यजनैः स्वीकृतश्च। किन्तु मदिराव्यापारिणः, मद्यनिर्मातरः इत्यादयः सर्वकारादेशं विरुद्ध्य नीतिपीठम् उपगतवन्तः आसन्।
R15 बृहस्पतेः उपग्रहे  जलसान्निध्यम्।
वाषिङ्टण् - सौरयूथस्य बृहत्तमग्रहस्य बृहस्पतेः यूरोप्पाभिधेये उपग्रहे जलबाष्पगणानां सान्निध्यं दृष्टमिति 'नासा'! सौरयूथे जीवस्य नितराम् अनुकूलावस्था यूरोप्पायामिति शास्त्रज्ञानाम् अनुमानम्! नासासंस्थायाः ' दि हबिल् स्पेस्' दूरदर्शिन्या एव जलबाष्पकणाः दृष्टाः! एते बाष्पकणाः२०० कि.मी.यावत् उद्गम्य उपग्रहस्य उपरितलं प्रति वर्षन्तीति मन्यते! इदानीं यावज्जलसञ्याः भूसमुद्रेषु सन्ति ततो द्विगुणं जलम् उपग्रहसमुद्रेषु वर्तते! किन्तु एतत् अतिघनशैत्यसंयुतैः हिमफलकैः आवृतमस्ति! अतः एतान् बाष्पकणान् समाहर्तुं शक्यते चेत् हिमफलकानामधः विद्यमानस्य जलस्य सविशेषताः व्वच्छेत्तुं शक्यते इति गवेषकानां प्रत्याशा!

Friday, September 30, 2016

नियन्त्रणरेखाम् अतिक्रम्य भारतस्य आक्रमणम्; ३८ भीकराः मृत्युमुपगताः।

डि जि एम् ओ रणवीरसिंहः वार्ता-सम्मेलने
नव देहली > नियन्त्रणरेखामधिक्रम्य पाक् अधीनकाश्मीरे निलीयानां भीकराणां शिबिरं प्रत्‍यासीत् भारत सेनायाः झटित्याक्रमणम्। बुधवासरे रात्रौ आसीत् सैन्येन कृतम् आक्रमणम् । भीकराणां नाशः अधिकः अभवत् । किन्तु एतादृशम् आक्रमणम् अनुवर्तितुम् इच्छा नास्ति इति डि जि एम् ओ रणवीरसिंहः वार्ता सम्मेलने अवदत्। पाकिस्थानतः आक्रमणानि भविष्यन्ति चेत् तानि प्रतिरोद्‌धुं भारतसेना सज्जा इति च सः असूचयत् । अष्टात्रिंशत् (३८) भीकराः सैनिकानां निशिताक्रमणे मृताः। भारतस्य पक्षे नाशः नासीत्।

सूक्ष्मासूत्रणेन एव आसीत् सैन्यस्य प्रक्रिया। नियन्त्रणरेखायाः अन्तर्भागे किलोमीट्टर् त्रयं यावत् गत्वा आसीत् सैन्यस्य इयं प्रक्रिया। इमम् अधिकृत्य राष्ट्रपतिः प्रणाब् मुखर्जी, उपराष्ट्रपति: हामिद् अन्सारिः, भूतपूर्वप्रधानमन्त्री मनमोहनसिंहः, जम्मू-कश्मीरस्य मुख्यमन्त्री मेहबूबा मुफ्‌तिः प्रभृतयः ज्ञातवन्तः आसन्।

उद्योगमण्डलात् रूक्षगन्धः - छात्राः परिक्लान्ताः। 
कोच्ची> केरळे एरणाकुलं जनपदे अम्पलमुकल् उद्योगमण्डले  रूक्षगन्धव्यापनेन समीपस्थे अम्पलमुकल् सर्वकारीयविद्यालये छात्रसहितानाम्  अनेकेषां शारीरिकास्वास्थ्यमजायत। त्रिंशत् छात्राः पञ्च अध्यापकाश्च आतुरालयं प्रवेशिताः। द्वौ छात्रौ अत्यासन्नविभागे स्तः।
   ह्यः प्रभाते उपनववादने एव परिभ्रान्तजनका इयं दुर्घटना संवृत्ता।  बि पि सि एल् कोच्ची रिफैनरी व्यवसायशालायाः फाक्ट् कोच्ची विभागस्य च मध्ये अयं विद्यालयः वर्तते। अन्तरिक्षे रूक्षगन्धे व्यापृते विद्यार्थिनः अवशाः बभूवुः। ततः ते  आम्बुलन्सादिभिः वाहनैः तृप्पूणित्तुरायां आतुरालयं प्रवेशिताः।

Thursday, September 29, 2016

 सविशेषपरिगणनापदं - भारतं पुनर्विचिन्तने।
नवदिल्ली>दशकद्वयं यावत् भारतं पाकिस्तानाय दीयमानं सविशेषपरिगणनाराष्ट्रम् इति स्थानम् उपसंहर्तुं पर्यालोचना आरब्धा। उरि भीकराक्रमणस्य पश्चात्तले पाकिस्तानं विरुध्य विभिन्नतलेषु नयतन्त्रपदक्षेपान्  शक्तीकर्तुम् एवायं चिन्तनम्।
     १९९६तमे संवत्सरे विश्वव्यापारसंस्थायाः गाट् सन्धिं परिगण्य एव एम् एफ् एन् इति सविशेषस्थानं ददौ।भारतेन सह पाकिस्तानमपि गाट् सन्धौ हस्ताक्षरम् विदधात्।
     तथा च सिन्धुनदीजलसन्धिमपि निराकर्तुं भारतं विचिन्तयदस्ति। किन्तु नदीजलसन्धिनिरासः पाकिस्तानं प्रति युद्धप्रख्यापनमिति परिगणयेदिति पाकिस्तानवृत्तैः उक्तम्।

कावेरी - तमिळनाटु कृते ६००० क्यूसेक्स् परिमितं जलं दातव्यमिति सर्वोच्चन्यायालयः।
नवदिल्ली>तमिल् नाट् राज्याय शुक्रवासरपर्यन्तं प्रतिदिनं ६००० क्यूसेक्स् परिमितं कावेरीजलं दातव्यमिति कर्णाटकराज्यं प्रति सर्वोच्चन्यायालयः पुनरपि निरादिशत्। नीतिपीठस्य आदेशः कर्णाटकविधानसभया देयकद्वारा तरणं कृतः तथापि दिनत्रयं यावदपि जलं निर्गमयितुमेव निर्देशः।
   कावेरीविषये राजनैतिकपरिहाराय दिनद्वयाभ्यन्तरे राज्ययुगलस्य मुख्यमन्त्रिणोः मेलनम् आयोजयितुं केन्द्रसर्वकारं प्रति निरादिशत्।

Wednesday, September 28, 2016

सार्क् उच्चकोटिः भारतेन बहिष्क्रियते।

नवदिल्ली - उरि भीकराक्रमणे पाकिस्तानस्य भागभागित्वं निस्सन्देहं प्रमाणीकृतम् इत्यतः पाकिस्ताने सम्पद्यमानं दक्षिणेष्याराष्ट्राणाम् उन्नततलसम्मेलनं [सार्क् उच्चकोटिः] भारतेन बहिष्करिष्यते। अयं निश्चयः सार्क् अध्यक्षाय नेपालस्य प्रधानमन्त्रिणे निवेदितः।
  भीकरवादप्रोत्साहनपरः पाकिस्तानस्य पदक्षेपः भवति अस्य निश्चयस्य प्रेरणा इति तस्य राष्ट्रस्य नामोक्तिं विना विदेशमन्त्रालयेन स्पष्टीकृतम्। पाकिस्तानस्य उपरि आगोलप्रेरणाशाक्तीकरणमेव भारतेन लक्ष्यीक्रियते। सार्क् संस्थायां प्रमुखराष्ट्रं भवति भारतम्।
     उन्नतकोटिं संप्राप्तुं अन्यानि कानिचन राष्ट्राण्यपि वैमुख्यं प्रकटितवन्तः सन्ति। बंग्लादेशः , भूट्टानः, अफ्गानिस्तानश्च अस्मिन् गणे सन्ति। नवम्बरस्य ९,१० दिनाङ्कयोरेव १९तमं सार्क् सम्मेलनं इस्लामबादे प्रचालनीयम्।
 RN15 किं जोङ्‌ उनस्य वधाय दक्षिणकोरियस्य पद्धतिः।
 सोल् > उत्तरकोरियस्य स्वेच्छाधिपते: किं जोङ्‌ उनस्य वधाय दक्षिणकोरिया पद्धतिं आविष्करोति इति सूचना। दक्षिणकोरियस्य प्रतिरोधसचिवेन एव विषयेऽस्मिन् विधानसभायां सूचना दत्ता। पद्धतेः पूर्तीकरणाय विशिष्टसेना अपि नियुक्ता इति तेन सूचितम्। शत्रुराज्यस्य आयुधसंविधानानि प्रधानकेन्द्राणि प्रधाननेतारं च हन्तुं पद्धतिः मार्गाः च सन्तीति प्रतिरोधसचिवः हान् मिन् कू विधानसभायाम् अवदत्। उत्तरकोरियेन वारद्वयं कृतम् आणवपरीक्षणमेव दक्षिणकोरियस्य नूतनासूत्रणं प्रति प्रधानं कारणम्।

RN13काश्मीरसमस्यायां विना प्रतिकरणं चैना।
  बीजिङ् > काश्मीरसमस्याविषये चैनायाः सहयोगः पाकिस्थानाय वर्तते इति पाकिस्थानस्य माध्यमै: गतदिने सूचितमासीत्। किन्तु इमां वार्तां प्रति चैनायाः पक्षतः व्यक्तं प्रतिकरणं नैव लब्धम्। काश्मीरसमस्या भारत पाकिस्थानाभ्यां चर्चया परिहरणीया इत्येव चैनाया: विदेशकार्यवक्त्रा सूचितम्। काश्मीरविषये भारत पाकिस्थानयो: मध्ये युद्धः सञ्जातः चेत् चैना पाकिस्थानाय सम्पूर्णसहयोगं दास्यतीत्‍यैव पाक् माध्यमैः सूचितमासीत्। किन्तु माध्यमानां परामर्शोऽयम् अस्माभि: न ज्ञायते इत्येव चैनाया: विदेशकार्यवक्त्रा गेङ् षुवाङ् ह्यः अवदत्।

RN14५०० तमा निकषस्पर्धा-भारतविजय:१९७ धावनाङ्कै:।
  कान्पूर् > भारतस्य ५०० तमनिकषस्पर्धायां भारतं १९७ धावनाङ्‌कैः न्यूसिलाण्टं पराजयत्। ४३४ धावनाङ्काः इति लक्ष्यं प्रति क्रीडामारब्धस्य न्यूसिलान्टस्य सर्वेऽपि क्रीडकाः २३६ धावनाङ्केषु बहिर्गताः। भारताय अश्विनः ६ घटकग्रन्थीः प्राप्तवान्। न्यूसिलान्ट् क्रीडकेषु ८० धावनाङ्कान् प्राप्तवान् लूक् रोञ्जी एव उन्नतः। स्पर्धायाः उत्तमक्रीडकाय पुरस्कारः भारतस्य रवीन्द्रजडेजया प्राप्तः। तथा च भारतं निकषस्पर्धापरम्परायां १-० इत्यनुपाते अग्रे वर्तते।

Tuesday, September 27, 2016

 RN 10पारीस् उभयपक्षनिर्णय: गान्धिजयन्त्याम्।
कोष़िक्कोट् (केरलम्) > आगोलतापननियन्त्रणात्मकः पारीस् सन्धिः महात्मागान्धिनः जन्मदिने ओक्टोबर् द्वितीयदिने साक्षात्क्रियते इति प्रधानमन्त्री नरेन्द्रमोदी। भाजपा दलस्य देशीयनिर्वाहकाधिवेशने एव प्रधानमन्त्रिणः इदं प्रख्यापनम्। प्रकृतिविभवानाम् अमितोपयोगः अस्मान् नाशमुखमेव नयति, भौमतापस्य २ एककात् वर्धनं प्रतिरोद्धुमेव विश्वराष्ट्राणां अधुनातनचिन्ता, २ एककात् उपरि भौमतापवर्धनं भारतस्य समुद्रतीरप्रदेशान् प्रतिकूलतया बाधते- प्रधानमन्त्रिणा सूचितम्। अतः विना विलम्बं भारत-पारीस् सन्धिः गान्धिजयन्तीदिने एव साक्षात्क्रियते इति मोदी अवदत्।

 RN11'मिका' परीक्षणं विजयप्रदम्।
नवदहली > प्रतिरोधमण्डलस्य प्रबलीकरणाय 'मिका' अपि। आकाशात् विक्षेपणयोग्य: दीर्घदूरक्षेपणायुध: 'मिका' भारतेन परीक्षितः। परीक्षणमिदं विजयप्रदम् आसीदिति प्रतिरोधमन्त्रालयेन सूचितम्। क्षेपणायुध: लक्ष्यस्थानं प्राप्य कृत्यनिर्वहणमकरोत् इत्यपि मन्त्रालयः विशदयति। मिराष्-२००० विमानादेव मिका क्षेपणायुध: परीक्षित:। राफेल् युद्धविमानादपि अस्य परीक्षणं साध्यमिति मन्त्रालयः सूचयति।

RN12उरी भीकराक्रमणम् - एकः सैनिकोऽपि मृतः।
 श्रीनगर् > उरी सैनिककेन्द्राक्रमणे व्रणितेषु सैनिकेषु एकोऽपि मृतः। तथा भीकराक्रमणेन वीरमृत्युं प्राप्तानां सैनिकानां संख्या १९ अभवत्। ओडीषा नुवपाडा स्वदेशी पिताबस् मज्हि (३० वयः) एव मृतः। २००८ तमे वर्षे एव मज्हि बि एस् एफ् मध्ये राष्ट्रसुरक्षायै भागभाक् अभवत्।

PS1अखिलभारतीय-आयुर्विज्ञानसंस्थानस्य (AIMS) हीरकजंयत्युत्सवः आमानित:
नवदिल्ली>नवदिल्लीस्थे अखिलभारतीयायुर्विज्ञानसंस्थानस्य  हीरकजयंती समारोहावसरे केन्‍द्रीय-स्‍वास्‍थ्‍य-परिवार-कल्‍याणमंत्री जे पी नड्डा प्रत्यपादयत् यत् विगतषष्टिवर्षेषु अनेन संस्थानेन  गुणवत्तायुक्‍त-स्वास्थ्यसेवासु महत्वपूर्णयोगदानं विहितम्। संस्थानेन सर्वदैव शिक्षाक्षेत्रे उच्चतममानकाः प्रतिष्ठापिताः। संस्थानस्य ९ केन्‍द्राणि ५२ शिक्षणविभागा: अष्टशताधिक-शिक्षकान् समेत्य दससहस्राधिक-कार्मिकाश्च  परिश्रमेण स्वास्थ्यक्षेत्रे योगदानं प्रयच्छन्ति । चिकित्साक्षेत्रे   शोधप्रकाशनेषु जगतः शीर्षचिकित्सासंस्थानेषु   अखिलभारतीयायुर्विज्ञानसंस्थानस्य तृतीयस्‍थानं विद्यते ।

Monday, September 26, 2016

उरि भीकराक्रमणं  न विस्मर्तव्यं , न क्षन्तव्यम् - प्रधानमन्त्री। 
कोष़िक्कोट् > उरि भीकराक्रमणविषये शक्तया भाषया पाकिस्तानं प्रति  भारतस्य अनुशासनम्। अष्टादशधीरभटानां व्यापादनं भारतेन न विस्मर्तव्यं तथा न क्षन्तव्यम्। यथासमयं प्रत्युत्तरं दातुं भारतं शक्तं भवति। सैनिकानां बलिदानं न व्यर्थं भवेत्। आतङ्कवादस्य निर्गमनं कुर्वतः पाकिस्तानस्य पुरतः भारतं भीरुत्वं न प्रदर्शयिष्यतीति भारतप्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्।
    भाजपादलस्य देशीय परिषदः सम्मेलनं कोष़िक्कोट् सागरतीरे उद्घाटनं कुर्वन् भाषमाणः आसीत् मोदिवर्यः। उरि घटनानन्तरम् अस्मिन् विषये सार्वजनीनवेदिकायां प्रधानमन्त्रिणः प्रथमं प्रतिकरणमासीदिदम्।

 ५००-तमा निकषस्पर्धा-भारतं विजयतीरे।  
कान्पूर् > ५००-तमनिकषस्पर्धायां भारतं विजयतीरं प्राप्नोति। स्पर्धायां भारतस्य विजयाय ६ द्वारकाण्येव अपेक्षितानि। निकषस्पर्धायाः चतुर्थदिने न्यूसिलाण्ट् ९३-४ इति भवति। ४३४ इति बृहद्विजयलक्ष्यं प्राप्तुं वल्लनमारब्धस्य न्यूसिलाण्टस्य प्रमुखाः क्रीडकाः बहिर्गताः इत्येतत् भारतप्रतीक्षां वर्धयति। भारताय अश्विनेन ३ द्वारकाणि प्राप्तानि। पूर्वं भारतेन द्वितीयमिन्निङ्स् ३७७-५ इति पर्यवसितम्। भारतस्य कृते विजयः, पूजारा, रोहित् शर्मा, जडेजा च अर्धशतकं प्राप्तवन्तः।
RN7भारतम्‌ आतङ्कवादं प्राेत्साहयति-पाकिस्थानस्य विदेशकार्यमन्त्रालयः।
   इस्लामाबाद्‌ > एष्याभूखण्डे आतङ्कवादप्रवर्तनानां वाहकं राष्ट्रं भवति पाकिस्थानम् इति भारतप्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रस्तावनायाः उपरि पाकिस्थानपक्षतः प्रतिकरणम्। पाकिस्थाने विविधेषु स्थलेषु आतङ्कवाद-आभ्यन्तरकलहादीनां प्रोत्साहनं भारतेन दीयते इति पाकिस्थानस्य विदेशकार्यमन्त्रालयेन आरोपितम्। काशमीरेषु बलूचिस्ताने च जायमानेषु कलहेषु भारतस्य सहयोगः अस्तीति मन्त्रालयवक्त्रा आरोपितम्। आधाररहितैः प्रकोपनपरैः च आरोपणैः भारतं पाकिस्थानं प्रति हीनं प्रचारणं करोति इत्यपि पाकिस्थानस्य विदेशकार्यवक्त्रा ट्विट्टर् द्वारा उक्तम्।

 RN8उरी भीकराक्रमणम्- भीकरान् अधिकृत्य निर्णायकं प्रमाणं लब्धम् ।
 श्रीनगर् > उरी सैनिककेन्द्रं प्रति आक्रमणं कृतवद्भ्यः भीकरेभ्यः पाकिस्थानपक्षतः साहाय्यं लब्धमासीत् इति दृढीकर्तुं योग्यं सुप्रधानं प्रमाणं लब्धम्‌। भीकरैः उपयुक्तम् इति संशयभूतं दूरभाषाश्रवणसहायी प्रदेशेभ्यः लब्धं वर्तते। जपानस्य ऐकोम् इति स्थापनेन निर्मितान्येव एतानि उपकरणानि इति दृढीकृतमस्ति। राष्ट्राणां सुरक्षासेनाभिरेव एतानि उपकरणानि उपयुज्यन्ते इत्यतः भीकरै: तानि कथं प्राप्तानि इत्येतत् पाकिस्थानं प्रति संशयं जनयति। अपि च पाकिस्थान-जपानयोः मध्ये एतेषाम् उपकरणानां विक्रयणं सञ्जातं वा इति भारतेन अन्विष्यमाणं वर्तते।

पाकिस्थानतः प्रेषितः गरुडः भारतसेनया ग्रहीतः।
राजस्थानस्य सीम्नि पाकिस्थानतः प्रेषितः शिक्षितःगरुडः भारतसीमासेनया ग्रहीतः 34 मेगा पिक्‌सल् छायाग्राही पक्षस्य अधो भागे बन्धितः आसीत्। 2016 जानुवरी मासे आसीत् इयं घटना। कः अतङ्क वादं प्रोत्साहयति ??????

Sunday, September 25, 2016

 RN2बलूचिस्तानतर्कः - पाकिस्तानस्योपरि पाश्चात्यसहकरणसङ्‌घस्य शासनम्।
 जनीवा > बलूचिस्ताने जायमानानि मानवाधिकारध्वंसनप्रवर्तनानि अनुवर्त्यन्ते चेत् पाकिस्तानस्योपरि पाश्चात्यसहकरणसङ्‌घेन उपरोधः संस्थाप्यते इति सङ्‌घस्य उपाध्यक्षः रिसोर्ड् सर्नेकि। ए एन्‌ ऐ इति वार्तासङ्घं भाषमाणः आसीत् सः। पाश्चात्यसहकरणसङ्‌घस्य पाकिस्तानेन सह आर्थिक-राष्ट्रिय -उभयपक्षमण्डलेषु बान्धवः अस्ति। तथैव बलूचिस्ताने जायमानानि मानवाधिकारध्वंसनप्रवर्तनानि प्रतिरोद्धुं प्रतिज्ञाबद्धः च भवति सङ्‌घः। अतः बलूचिस्ताने शान्तिं संस्थापयितुम् आवश्यकः व्यवहारः पाकिस्तानेन अवश्यं स्वीकरणीय एव इत्यपि सर्नेकि महोदयेन उक्तम्। अन्यथा पाकिस्तानस्योपरि आर्थिकसम्बन्धान् उपरोधान् अपि स्वीकरिष्यतीति तेन सूचितम्।

 RN3भारतेन सह निरुपाधिकचर्चायै पाकिस्तानं सन्नद्धम् - पाक् विदेशकार्योपदेष्टा।
  इस्लामाबाद् > काश्मीरविषयसहिताः सर्वा: अपि समस्या: परिहर्तुं निरुपाधिकचर्चायै वयं सन्नद्धाः इति पाक् प्रधानमन्त्रिणः विदेशकार्योपदेष्टा सर्ताज् असीसः। चर्चया सहैव समस्याः परिह्रियन्ते किन्तु काश्मीरसमस्यायाः परिहारं विना कापि चर्चा सम्पूर्णा न भविष्यतीति एकस्मिन् अभिमुखभाषणे तेन अभिप्रेतम्। ऐक्यराष्ट्रसभायाः अधिवेशने काश्मीरः तर्कबाधितप्रदेशः भवतीति अन्ताराष्ट्रसमूहेन अङ्‌गीकृतं भवति। समस्यापरिहाराय इदानीं भारतस्योपर्येव सम्मर्द: इत्यपि तेन अभिप्रेतम्।

 RN6तमिल्नाटु मध्ये 'अम्मा वैफै' सज्जीकरणम्।

चेन्नै > तमिल्नाटु मध्ये ५० स्थानेषु 'अम्मा वैफै' सज्जीकरणं करोति राज्यसर्वकारः। अन्तर्जालोपयोगाय निशुल्कव्यवस्थायाः सार्वत्रीकरणमेव वैफै सज्जीकरणस्य मुख्यं लक्ष्यम्। जलं, सिमेन्ट्, औषधं, भोजनालयः इत्यादिषु बहुषु विभागेषु 'अम्मा ' इति नाम्ना वस्तूनि उपलभ्यन्ते। इदानीम् अन्तर्जालसंविधानेषु अपि 'अम्मा 'इति नाम्नः प्रवेशनं जातम्। याननिस्थानानि, विनोदकेन्द्रणि, वाणिज्यकेन्द्राणि इत्यादिषु ५० केन्द्रेषु  वैफै संविधानं संस्थाप्यते। एतदर्थं १० कोटिरुप्यकाणि पद्धते: प्रथमपादे सर्वकारेण व्ययीक्रियन्ते, प्रतिवर्षं १.५ कोटि रुप्यकाणि पद्धतेरस्याः कृते दीयन्ते इत्यपि मुख्यमन्त्री जयललिता चेन्नै मध्ये अवदत्।

 RN4सैनिकनेतृभिः सह प्रधानमन्त्री चर्चामकरोत्।
  नवदहली > भारत-पाकिस्तानयोः मध्ये सङ्‌घर्षावस्थाया: समयेऽस्मिन् प्रधानमन्त्री नरेन्द्रमोदी स्थलसेना, नौसेना, व्योमसेना इत्यादीनां सेनानां नेतृभिः सह चर्चामकरोत्। भारतसीमायाः अधुनातनसुरक्षाकार्याणि तथा पाकिस्तानं प्रति सेनामण्डलात् प्रतिक्रिया कथं भवेत् इत्यादीनि कार्याणि चर्चायाम् आसन् इति सूचना अस्ति। देशीयसुरक्षाविभागस्य उपदेष्टा अजित् डोवलः च चर्चायां सन्निहितः आसीत्। तथापि सेनानेतृभिः सह प्रधानमन्त्रिणः मेलने कापि विशेषता नास्ति, तत्तु स्वाभाविकमेवेति प्रतिरोधमन्त्रालयेन सूचितम्।

RN5उरी भीकराक्रमणं काश्मीरे भारतस्यातिक्रमाणां प्रतिकरणम् - नवास् षेरीफ:।
  इस्लामाबाद् > प्रकोपनपरै: परामर्शै: सह पाक्प्रधानमन्त्री नवास् षेरीफ:। जम्मुकाश्मीरस्य उरीमण्डले जातं भीकराक्रमणं काश्मीरे भारतेन क्रियमाणानाम् अतिक्रमाणां प्रतिकरणं स्यादिति नवास् षेरीफ:। किमपि प्रमाणं विना पाकिस्तानं शत्रुस्थाने चित्रीकुर्वन्तं व्यवहारादिकं भारतेन त्याज्यम् इत्यपि सः अवदत्। काश्मीरेषु जातैः अक्रमैः बहूनां कृते बान्धवाः नष्टाः जाताः,तेषु कैश्चित् जनैः कृतं स्यात् आक्रमणम् इति नवास् षेरीफेण लण्टन् मध्ये अभिमुखवेलायाम् अवदत्। नवास् षेरीफेण उरी भीकराक्रमणं परोक्षतया अङ्‌गीक्रियमाणस्यास्य प्रतिकरणस्योपरि विश्वनेतृणां विमर्शनान्यपि आगतानि सन्ति।

२० लक्षपर्यन्तं जि एस् टि करग्रहणं नास्ति।  
             नवदहली > जि एस् टि करसम्प्रदाये परिधिः २० लक्षम् इति निश्चितम्। भारसेवनकरसमिते: प्रथमाधिवेशने एव निर्णयोऽयं स्वीकृतः। तथा च २० लक्षात् न्यूनं वार्षिकायं यानि स्थापनानि स्वीकुर्वन्ति, तानि जि एस् टि करग्रहणसीमायाः अधः भवन्ति। तथापि उत्तरपूर्वप्रान्तेषु केवलं १० लक्षमेव कररहिता अधः सीमा इत्यपि निश्चीयते।२० लक्षादुपरि सार्धैककोटिपर्यन्तं विक्रयणयः राज्यसर्वकारस्य कृते दीयेत। सार्धैककोटेः अधिकतया विक्रयणायः समागच्छति चेत् तत् करधनं द्वाभ्यां राज्यकेन्द्रसर्वकाराभ्यां मिलित्वा ग्रह्यते।

Saturday, September 24, 2016

संस्कृतविश्वविद्यालयानां महाविद्यालयानां च मूल्याङ्कनं भविष्यति 
 संस्कृतभाषाया: विकासार्थं एन.गोपालस्वामिकम्मीशनस्य निदेशः परिगण्यते 
 बेंगलूरु> बेंगलूरुनगरे राष्ट्रियमूल्यांकनप्रत्यायनपरिषदः सभागारे संस्कृतविश्वविद्यालयानां महाविद्यालयानां च मूल्यांकनार्थंसमितेः उपवेशनं प्रचलति। उपवेशनं कम्मीशनस्य प्रस्तावानुसारेण भवति।  समितिरियं संस्कृतसंस्थानां विविधपक्षान् परिशील्य नियमानां निर्माणं करिष्यति। संस्कृतसंस्थानां मूल्यांकनार्थं सर्वेपि नियमाः संस्कृतभाषायामेव स्युः इति परिषदः निदेशकः प्रो. धीरेन्द्रप्रतापसिंहः न्यवेदयत्। समितौ प्रो.हरेकृष्णशतपथी (उपाध्यक्षः ) श्रीनिवासवरखेडी, रमाकान्तपाण्डेयः विरूपाक्षजड्डीपालश्च सन्ति। इयं समितिः मासत्रये नियमान् निर्माय परिषदे समर्पयिष्यति। संस्कृतभाषाया: विकासार्थं मानवसंसाधनविकासमन्त्रालयेन निर्मिता भवति एन.गोपालस्वामिकम्मीशन्।
पाकिस्तानेन सह क्रिकट् समाप्यते-बि सि सि ऐ। 
 कोष़िकोट्(केरलम्) > उरी भीकराक्रमणात्परं भारत-पाकिस्तानयोः बान्धवः अनुदिनं दुष्करावस्थां प्रापयन् वर्तते। इदानीं भारत-पाकिस्तानयोः क्रिकट् बान्धवः अपि दूषयन् वर्तते। पाकिस्तानेन सह क्रिकट् मध्ये बान्धवं परिसमापयितुं बि सि सि ऐ पक्षतः आलोचना वर्तते इति अध्यक्षेण अनुरागठाकुरेण अवदत्। सैनिकानां प्राणानपेक्षया क्रिकट् कीडायाः किमपि प्राधान्यं नास्तीति तेन उक्तम्। भा ज पा दलस्य सामाजिकः सः कोष़िकोट् मण्डले दलस्य राष्ट्रियनिर्वाहकसमित्याः अधिवेशने भागं गृहीत्वा भाषमाणः आसीत्। वर्षेऽस्मिन् पाकिस्तानेन सह क्रीडा नैव निश्चिता, इतःपरं कीडा आवश्यकी वा इति चिन्तनीयं वर्तते-तेन उक्तम्।


 RN2 प्रथमनिकषस्पर्धा : - न्यूसिलान्ट् सुरक्षितस्थाने।
   काण्पुर् > भारतेन सह निकषस्पर्धापरम्परायाः प्रथमस्पर्धायां न्यूसिलान्ट् द्वितीयदिनस्य समापनसमये सुरक्षितस्थानं प्रापयत्।वृष्ट्या द्वितीयदिनस्य क्रीडा पूर्वमेव समापिता। तदानीं न्यूसिलान्ट्   १५२-१ इति सुरक्षितस्थाने भवति। अर्धशतकेन नेता केयिन् विल्यंसः टों लाथं च पादक्षेत्रे भवतः। प्रथम इन्निङ्‌स् मध्ये भारतं न्यूसिलान्टेन ३१८ धावनङ्केषु निष्कासितं वर्तते।

 RN3 सम्भाषणोपयोगाय मूल्यं नास्ति-विपणीं ग्रहितुं बिएस्एन्एल् अपि।
  नवदहली > वार्ताविनिमयसेवनमण्डले  सेवनदातृणां मध्ये स्पर्धा।सेवनेभ्यः(अन्तर्जालसहितेभ्यः)न्यूनमूल्यैः सह मुकेष्‌ अम्बानेः रिलयन्स् जियो इति संस्थया एव प्रथमं पद्धतिराविकृता। इदानीं सर्वकारसामान्यमण्डलस्य बिएस्एन्एल् संस्थया अपि मूल्येषु न्यूनत्वम् आविष्कृतं वर्तते। सम्भाषणाय विना मूल्यं सौकर्यं दातुमेव बिएस्एन्एल् पद्धतिः इति सूचना। किन्तु आनुकूल्यमिदं डिसम्बर् मासात्परमेव लप्स्यते। रिलयन्स् जियो संस्थायाः प्रवर्तनादिकं निरीक्ष्य एव बिएस्एन्एल् संस्थया नूतनमानुकूल्यं दीयते। जियो द्वारा ४जी उपभोक्तॄणां कृते एव आनुकूल्यं चेत् बिएस्एन्एल् द्वारा २जी,३जी उपभोक्तॄणां कृतेऽपि आनुकूल्यं दीयते इत्येतत् सविशेषता भवति। अधुना बिएस्एन्एल् द्वारा रात्रिकालेषु तथा रविवासरेषु च सेवनं निशुल्कतया भवति।

Friday, September 23, 2016

भारतेन पाकिस्तानस्य आतङ्कवादसमर्थनमालोचितम्
नवदेहली > संयुक्तराष्ट्रमहासभायां भारतेन 'राइट टू रिप्लाई' इत्यधिकारान्तर्गतं आतंकवादः मनवाधिकारस्य बृहत्तमोल्लंघनत्वेन प्रतिपादितम् । भारतेन पाकिस्तानद्वारा दीर्घकालात् विधीयमानमातंकवादसमर्थनमपि भृशमालोचितम्  ।

प्रतिशतं सप्तमितं विकासदरलक्ष्यम् अधिगन्तुं देशस्य आधारिकसंरचनायां बृहन्निवेशाय सज्जीभवितव्यम् 
नवदेहली >केन्द्रीय वित्तमंत्रिणा अरुणजेटलिना भणितं यत् प्रतिशतं सप्तमितं विकासदरलक्ष्यम् अधिगन्तुं देशस्य आधारिकसंरचनायां बृहन्निवेशाय सज्जीभवितव्यम् असौ नवदिल्ल्यां इंफ्रास्ट्रक्चर फाइनेंसिग-  पब्लिक प्राइवेट पार्टनरशिप (पीपीपी) इत्यनेन  संबद्धब्रिक्सदेशानां एकस्याम् गोष्ठ्यां अभिभाषते स्म ।


नवदिल्ल्यां राष्ट्रिय प्रबंधनसम्मेलनम्
 नवदिल्ल्यां ऑल इंडिया मैनेजमेंट एसोसिएशन इत्यत्र राष्ट्रीयप्रबंधनसम्मेलनं संबोधयता केंद्रीयसूचनाप्रसारणराज्यमंत्रिणा  राज्यवर्धनराठौरेण कथितं यत् साम्प्रतिक: कालः  भारताय  विकासस्य समयः वर्त्तते।  देशे संभावित-विपणी-दृढ-इच्छाशक्तिश्च विद्येते।
मुम्बय्यामपि भीकरसान्निध्यम्?
मुम्बई > नगरात् सप्तचत्वारिंशत् कि.मी दूरस्थे उरान् प्रदेशे भीकराः प्रत्यक्षीभूताः इति वृत्तान्तमनुसृत्य मुम्बय्यामपि अतिजाग्रतानिर्देशः।
    पत्तान् नामक  पाकिस्तानीयवस्त्राणि धृतवन्तः आयुधधारिणः केचन पुरुषाः दृष्टा इति उरान् एजूकेशन् सोसाइटी विद्यालयस्य छात्राः स्वीयाध्यापकान् न्यवेदयन्। अध्यापकेभ्यः वृत्तान्तं ज्ञातवन्तः आरक्षकाधिकारिणः नौसेनया स्थलसेनया तीररक्षासेनया च साकम् अन्वेषणम् आरब्धवन्तः। सामान्यजनेभ्यः जाग्रतानिर्देशः कृतः च।