OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 23, 2016

RN4- अनुवैद्यानां वेतनव्यवस्था परिष्कृता। 
नवदेहली > वैयक्तिकार्यातुरालयेषु सेवनं कुर्वताम् अनुवैद्यानां वेतनं परिष्कृतम्। एतदर्थं केन्द्रमन्त्रिसभया निर्देशः दत्तः। सर्वकारातुरालयेषु परिपाल्यमानवेतनव्यवस्थायाः आनुपातिकतया वेतनं परिष्कर्तुमेव केन्द्रसर्वकारस्य निर्देशः। तथा च एतेषां वेतनं न्यूनातिन्यूनं २०,००० रुप्यकाणि इत्यनुपाते भविष्यति। वैयक्तिकार्यातुरालयेषु अनुवैद्यानां वेतनव्यवस्थां सम्बन्ध्य उच्चतरन्यायालयस्य विदग्धसमित्याः निर्देशानुसारमेव केन्द्रसर्वकारस्य वेतनपरिष्करणम् । केन्द्रसर्वकारेण परिष्करणं सम्बन्ध्य निर्देशः राज्यस्तरीयान् आरोग्यकार्यदर्शिनः प्रति दत्तः वर्तते।

Thursday, September 22, 2016

उरी मध्ये सुरक्षाहानिः सञ्जाता - प्रतिरोधमन्त्री। 
नवदहली > उरी भीकराक्रमणाय सुरक्षाहानिरपि कारणं भवतीति अङ्‌गीकृत्य प्रतिरोधमन्त्री मनोहर् परीकरः ।उरी भीकराक्रमणाय सुरक्षाहानिरेव कारणमिति मुख्यप्रतिपक्षेण काण्ग्रस् दलेन तथा माध्यमप्रवर्तकैश्च आरोपितमासीत्। केषुचित् कार्येषु हानिः सञ्जाता, इयम्‌ अतिवैकारिकी समस्या एव , न्यूनताः अवश्यमेव परिह्रियन्ते-मनोहर् परीकरेण उक्तम्। अपि च जल्पनं विना कर्मणः एव वयं प्रामुख्यं दद्मः इति तेन सूचितम्।

 तमिल्नाटु कृते जलं न दीयते- कर्णाटकमन्त्रिसभा ।  
बङ्‌गलुरु > कावेरी नदीजलतर्के उच्चतरन्यायालयस्य आदेशं तृणवदवगणयन् कर्णाटकराज्यम्। कावेरी पर्यवेक्षणसमित्या ३००० क्यूबिक्स् जलं तमिल्नाटु कृते दातव्यमिति निर्देशः दत्तः आसीत्।किन्तु उच्चतरन्यायालयस्य न्यायासनेन ६००० क्यूबिक्स् जलं दातव्यमिति गतदिने आदेशः दत्तः। अयं निर्देशः न पालनीयः इत्येव कर्णाटकमन्त्रिसभायाः निश्चयः। बुधवासरे रात्रौ मुख्यमन्त्रिणः सिद्धरामय्यस्य आध्यक्षे जाते मन्त्रिसभायोगे एव तमिल्नाटु कृते उच्चतरन्यायालयस्य आदेशानुसारं जलं न दातव्यमिति निर्णयः स्वीकृतः वर्तते। गतदिने संवृत्ते सर्वदलाधिवेशने अपि उच्चतरन्यायालयस्य आदेशः न अङ्‌गीकरणीयः इति निश्चितमासीत्।

प्रतिरोधमण्डलस्य शक्तीकरणाय ३६ राफेल् युद्धविमानान्यपि। 
 नवदहली > प्रतिरोधमण्डलस्य शक्तीकरणाय ३६ राफेल् युद्धविमानानि फ्रान्स् तः स्वीकर्तुं मन्त्रिसभायाः अनुमतिः। एतत्सम्बन्धे उभयसम्मतपत्रे भारतं शुक्रवासरे हस्ताक्षरं करिष्यति। तदर्थं फ्रञ्च् विदेशकार्यसचिवः षीन्ले ड्रियान्‌ अद्य भारतं प्राप्नोति। ८८० कोटि डोलर् (६०,००० कोटि रुप्यकाणि) भवति अस्याः पद्धतेः धनव्ययः। भारतव्योमसेनायाम् एतादृशयुद्धविमानानाम्‌ अपर्याप्तता अधिका इति व्योमसेनाध्यक्षेण एयर् चीफ्‌ मार्षल् अरूप् राहेन पूर्वमेव सूचितमासीत्।
भारत-न्यूसिलान्ट् क्रिकट् निकषस्पर्धा अद्य आरभते। 
काण्पूरम्> भारत-न्यूसिलान्टराष्ट्रयोः अस्य कालकृतस्य प्रथमक्रिकट् निकषस्पर्धा काण्पुरे अद्य आरभते। भारतस्य पञ्चशततमा निकषस्पर्धा इति विशेषः अप्यस्ति।अत एव सच्चिन् टेण्टुल्करः, वेङ् सर्कारः, मुहम्मद् अस्हरुद्दीनः इत्यादीनां
 क्रिकट् प्रतिभाशालिनां सान्निध्यमपि प्रतीक्षते।
      ५००तमां इमां स्पर्धां भारते अविस्मरणीयां कर्तुं नायकस्य विराट् कोलिनः संघः सिद्धताम् आप्तः।  किन्तु भारतस्य प्रमुखक्रीडकेषु शीघ्रक्षेपकः इशान्त् शर्मा चिक्कुन् गुनिया रोगेण पीडितः इत्यतः प्रथमस्पर्धायां न क्रीडिष्यति।
  RN5 रेल्वे धनव्ययगणनपत्रिका अस्तंगता।
  नवदहली > ९२ वर्षेभ्यः पूर्वमारब्धं रेल्वे आयव्ययपत्रिकावतरणं केन्द्रसर्वकारेण समाप्यते। रेल्वे आयव्ययपत्रिका इतः आरभ्य सामूहिकाव्ययपत्रिकया सहैव समर्प्यते। तदर्थं केन्द्रमन्त्रिसभया अनुमतिः दत्ता। केन्द्र-आयव्ययपत्रिकावतरणं जनुवरिमासे कर्तुमपि धनमन्त्रालयेन अभ्यर्थितम्। अनेन नूतनार्थिकवर्षस्य कृते आवश्यकं सज्जीकरणादिकं कर्तुं समयः लप्स्यते इति धनमन्त्रालयः सूचयति। रेल्वे आयव्ययपत्रिकायाः केन्द्र-आयव्ययपत्रिकया सह अवतरणेन धनव्ययोऽपि न्यूनीकर्तुं शक्यते। ९२ वर्षेभ्यः पूर्वम् आङ्गलभरणादिकारिभिः एव द्वयोरपि आयव्ययपत्रिकयोः व्यतिरिक्तावतरणम् आरब्घम्।

RN6 क्रिकट्- एम्.एस्.के. प्रसाद: चयनसमिते: अध्यक्षः।

एम्.एस्.के प्रसादः
 मुम्बई > भारतस्य भूतपूर्वः क्रीडकः एम्.एस्.के प्रसादः देशीयक्रिकट्सङ्घचयनसमितेः अध्यक्षस्थानम् आरूढवान्। भारतस्य भूतपूर्वः द्वारकपालकबल्लकः भवति एम् एस् के प्रसादः। मुंबई मध्ये संवृत्ते बि सि सि ऐ वार्षिकयोगे एव प्रसादस्य चयनमभवत्। अधुनातनाध्यक्षस्य सन्दीप् पाटीलस्य स्थाने एव तस्य आरोहणम्। चयनसमित्‍यां पञ्च अङ्‌गाः सन्ति। कनिष्ठक्रीडकाणां चयनसमितेः अध्यक्षः वेङ्‌कटेष् प्रसादः भवति।

RN
DM 01झारखंडः अौद्यौगिक विकासस्य केन्द्रम् अस्ति - मुख्यमन्त्री
रांची> झारखंडः अौद्यौगिक विकासस्य केंद्रः अस्ति, अतः अत्र निवेश्य करोतु इति झारखंडस्य मुख्यमन्त्री रघुवर दासः अकथयत् । सः मंगलवासरे मुंबईनगरे झारखंड मोमेंटम नामधेये एकस्मिन् सम्मेलने प्रांतस्य विकासाय स्वेच्छां स्थापितवान्। अष्ट अौद्यौगिक समूहाः झारखंडे कार्यं कर्तुम् इच्छन्ति । कार्यक्रमेषु रघुवर दासेन सह झारखंडमंत्री सीपी सिंहः नीरा यादवः च अपि अासीत्।

Wednesday, September 21, 2016



Sanskrit News 21/09/2016
Meenakshi N V, BSUPS Kalady.
उरी मध्ये पुनरपि भीकराक्रमणम्‌- एकः सैनिकः दश भीकराश्च हताः। 
 श्रीनगर् > जम्मू-काश्मीरे उरी मण्डले भीकराक्रमणम्‌ अनुवर्तते। ह्यः सञ्जाते आक्रमणे एकः सैनिकः दश भीकराश्च हताः। लाच्चिपुरा प्रविश्यायां प्रवेष्टुम् उद्युक्तं भीकरसंघं भारतसेना प्रत्यरुधत् । संघे १५ भीकरा: आसन् इति सूचना अस्ति। तेषु सेना१० भीकरान् अवधीत्।, ५ च पलायनमकुर्वन्। नौगामिति अन्यस्मिन् प्रदेशे जाते संघर्षे एकः सैनिक: च हतः।

दशरूप्यकाणां नाणकम् उपयोगप्रदम् - आर् बि ऐ । 
नवदहली > दशरूप्यकाणां नाणकं भारते यत्र कुत्रापि उपयोक्तुं शक्यते इति आर् बि ऐ। नाणकमिदं स्वीकर्तुं विमुखतां प्रदर्शयतामुपरि दण्डनव्यवहारं स्वीकरिष्यति इत्यपि आर् बि ऐ वक्त्रा स्पष्टीकृतम्। दशरूप्यकाणां नाणकं निरोधितं भवतीति केषुचित् सामूहिकमाध्यमेषु वार्ता: प्रचलिताः आसन्। तत् दृष्ट्वा केचन आपणिकाः विविधेषु यानेषु कर्मकराः च एतत् नाणकं स्वीकर्तुं विमुखताम् अप्रदर्शयन्। अत एव रिसर्व् बाङ्क् पक्षतः नूतनविशदीकरणं दत्तं वर्तते। नाणकनिरोधनविषये न कोऽपि निर्णय: स्वीकृतः इति आर् बि ऐ वक्त्रा अल्पना किलावालेन सूचितम्। अपि च सामान्यजनाः कमपि सन्देहं विना नाणकस्यास्य उपयोगं कुर्वन्तु इति तेन उक्तम्।

केन्द्रसर्वकारं विमर्श्य राहुल्गान्धिः।
नवदहली > केन्द्रसर्वकारस्य विदेशनयान् तथा भीकरविरुद्धव्यवहारान् च विमर्श्य काण्ग्रस् उपाध्यक्षः राहुल्गान्धिः। मोदीसर्वकारस्य विदेशनयाः, आतङ्गवादप्रतिरोधव्यवहाराः च सम्पूर्णपराजयाः एवेति राहुल्गान्धिना उक्तम्। राष्ट्रसुरक्षायां सर्वकारस्य कापि श्रद्धा नास्तीति तेन उक्तम्। पठान्‌कोट् आक्रमणात्परमपि सञ्जाता सुरक्षा हानिमेव उरी आक्रमणं सूचयति इति राहुलेन प्रस्तावितम्।'तन्त्रप्रधानां काश्मीरसमस्यां प्रति मोदीसर्वकारेण श्रद्धा नैव दीयते, सामूहिकयोगनियन्त्रणमिव देशीयसुरक्षा सुकरा नैव भवतीति केन्द्रसर्वकारेण प्रत्यभिज्ञातव्यम्'- राहुलेन सूचितम्। अपि च एन् डी ए शासनकालेऽस्मिन् समये यु पि ए शासनकालादपेक्षया भीकराक्रमणादिकम् अधिकं भवतीति तेन अभिप्रेतम्।
 RN1 सार्क् मेलनं बहिष्कर्तुं पर्यालोचना।
   नवदहली > उरी भीकराक्रमणे पाकिस्तानस्य योगदानम् अस्तीति चिन्त्यमानेऽस्मिन् समये नवम्बर् मासे पाकिस्ताने इस्लामाबादे संपत्स्यमानं 'सार्क्' मेलनं बहिष्कर्तुं भारतस्य पर्यालोचना। भीकरवादाक्रमणाय पाकिस्तानेन साहाय्यं दीयतेत्यतः अन्ताराष्ट्रवेदिकासु पाकिस्तानस्य निराकरणमेव अस्य लक्ष्यं वर्तते। नवम्बर् ९,१० दिनाङ्कयोरेव इस्लामाबादे सार्क् राष्ट्राणां मेलनम्। भारतं प्रति सहयोगं प्रकटय्य बङ्गलादेश्, अफ्‌गानिस्तान् च सार्क् मेलनं बहिष्कुरुतः इत्यपि सूचना अस्ति। दक्षिणेष्यराष्ट्राणां संस्थायामस्यां ८ राष्ट्राणि सन्ति।
साधारणकक्षासु दीर्घदूरचिटिकाः न दीयन्ते!
कोच्ची> केरलतः उत्तर-पूर्वदिशः गच्छत्सु रेल् यानेषु अनारक्षितकक्ष्यासु दीर्घदूरयात्रार्थं चीटिकाः न दातव्याः इति रेल् यानमन्त्रालयस्य रहस्य निर्देशः! सामान्यचीटिकाप्राप्त्यनन्तरं आरक्षितकक्षाः अनधिकृतया प्रविशद्भ्यः यात्रिकेभ्यः जायमानान् अस्वारस्यान् अपाकर्तुमेव अयं निर्देशः कृतः। ह्रस्वदूरयात्राभ्यः चिटिकाः  केवलमधुना सामान्यकक्षाः उद्दिश्य लभन्ते। विशिष्य, मध्याह्नानन्तरम् अयं निर्देशः कर्कशेन पालनीयः इति वाचा आदेशः। षालिमार् एक्स्प्रेस् , गुरुदेव् एक्स्प्रेस्, गुहावत्ती - पाट्ना -बोक्कारो एक्स्प्रेस् आदिषु यानादिषु पूर्वोक्तनियन्त्रणं प्रवृत्तिपथमागतम्। केरलेतरराज्यीयान् कर्मकरान् अयं निर्देशः बाधते। ते पालक्काट् वा कोयम्पत्तूर् गत्वा सामान्यकक्षासु दीर्घदूरयात्राचीटिकाः सम्पादयन्ति। अतः केरलस्य रेल्याननिस्थानानां आयनष्टम् अपि जायते।

 सिरियायां यू एन् संघं प्रति व्योमाक्रमणं - २१ मरणानि।
अलेप्पो [सिरिया]> अत्र नगरसमीपं दुरिताश्वाससामग्रीभिः गम्यमानं ऐक्यराष्ट्रसभायाः वाहनव्यूहं प्रति संवृत्ते व्योमाक्रमणे एकविंशति जनाः मारिताः। तेषु २० तत्रत्याः जनाः अन्यः 'रेड् क्रसन्ट्' संस्थायाः वरिष्ठप्रवर्तकश्च । अतः सुरक्षाकारणेन सर्वाणि दुरिताश्वासप्रवर्तनानि अवस्तम्भितानि इति ऐक्यराष्ट्रसभया निगदितम्। ७८००० जनेभ्यः भक्षणसहितानि वस्तूनि वहन्तं वाहनव्यूहं प्रति आसीत् व्योमाक्रमणम्। गतदिने सिरियासैन्यैः आक्रमणं प्रत्यर्प्य होराणामाभ्यन्तरे आसीत् इदमाक्रमणम्।
सोपानम्-12 Meenakshy N V, BSUPS Kalady.

Tuesday, September 20, 2016

 उपभोक्तॄन् आकर्षयितुं नूतनोपायान् अवतार्य बि एस् एन् एल्।
    
 नवदहली > उपभोक्तॄन् आकर्षयितुं नूतनोपायान् अवतार्य सेवनम् अभिवर्धयितुं बिएस्एन्एल्। तदर्थम्‌ आविष्कृतायाः"सेर्वीस् वित् ए स्मैल् (स्वास्)" इति पद्धत्याः अनुबन्धतया श्वः १२ वादने बिएस्एन्एल् सि एम् डि अनुपं श्रीवास्तवेन केरलीयैः उपभोक्तृभिः सह संवद्यते। सामूहिकमाध्यमेन ट्विट्टर् द्वारा एव एकघण्टात्मकः संवादः आयोजितः वर्तते। स्वाभिप्रायान् निर्देशान् च प्रस्तौतुम् उपभोक्तॄणां कृते सन्दर्भः अपि लप्स्यते। तदर्थं "टाक्‌टुबिएस्एन्एल्सिएम्डि (Talk ToBSNLCMD)" इति हाष्टाग् अपि सज्जीकृतमस्ति।
ऋग्वेदग्रन्थे संस्पृश्य ब्रिटीष्‌ सामाजिकस्य सत्यप्रतिज्ञा।
  ब्रिटण् > १६७ वर्षाणां पुरातनत्वम् अनुमीयन्तं संस्कृतग्रन्थं हौस् ओफ्‌ लोर्ड्स् कृते समर्प्य भारतवंशजः युवसामाजिकः। ब्रिटणस्य विधानसभायां युवसामाजिकः जितेष् किषोर् कुमार् एव व्यत्यस्तशैल्यां सत्यप्रतिज्ञाम् अकरोत्। माक्स् मुल्लर् महोदयेन १७४९ तमे वर्षे सम्पादितं संस्कृतभाषायां लिखितं ऋग्वेदग्रन्थं संस्पर्श्य आसीत् जितेष् किषोर् कुमारस्य सत्यप्रतिज्ञा ।
 
संस्कृतेन जन्मदिनामाशंसयन्- आप्पिल् संस्थायाः CEO

नव देहली >आप्पिलस्य स्वामी टिम् कुक्कः नरेन्द्रमोदिनः जन्मदिने संस्कृतेन शुभाशयाः प्रेषिताः। संस्कृतभाषा लोकभाषायाः गुरुस्थाने पुनरागच्छति इति वदन्ति संस्कृतप्रेमिणः। नरेन्द्रमोदिनः जन्मदिने टिट्वर् द्वारा आसीत् टिम् कुक्कस्य  आशंसा प्रकाशनम्। 'वसुधैव कुटुम्बकम्' (भवतु आवयोः) इति उक्त्वा सः मोदिनं मुदितवान् । नरेन्द्रमोदिनः सप्तषष्टितमं जन्मदिनमासीदिमम्। राष्ट्रान्तरात् सन्देशप्रलयाः आसन् अस्माकं प्रधानमन्त्रिणे।

 RN5  तमिल्नाडु कृते जलं दातव्यम् - कावेरी पर्यवेक्षणसमितिः।
     नवदहली > कावेरी नद्याः जलं तमिल्नाडु कृते अपि दातव्यम् इति कावेरी पर्यवेक्षणसमित्याः आदेशः। कावेरी नद्या: प्रतिदिनं ३००० क्यूबिक्स् जलं दातुमेव समित्याः नूतननिर्देशः। अस्य मासस्य ३० दिनाङ्कपर्यन्तं जलं दातव्यमस्ति। समित्‍याः नूतननिर्देशेन कर्णाटके तमिल्नाडु मध्ये च आक्रमणप्रवर्तनाय उपपत्तिरस्तीत्यतः सुरक्षाक्रमीकरणादिकं शक्तं कर्तुं राज्यसर्वकारयोः केन्द्रसर्वकारेण निर्देश: दत्तः वर्तते।


 उरी भीकराक्रमणम् अपलप्य बान् कि मूण्।
युणैटड् नेषन्स् > उरी भूसेनास्थानं प्रति जातं भीकराक्रमणम् अपलप्य यु.एन् अध्यक्षः बान् कि मूण्। आक्रमणस्य दायित्वां वहतां भीकराणां दण्डनव्यवहारः नियमानुसृतं करणीयः इत्यपि तेन अभिप्रेतम्। काश्मीरदेशवासिनां जीवनावस्थायाः उपरि यु एन् संस्थायाः आशङ्का अनुदिनं वर्धत एव इति तेन सूचितम्। आक्रमणेन मृतानां सैनिकानां कुटुम्बाङ्गेभ्यः भारतसर्वकाराय च बान्‌ कि मूण् महोदयेन अनुशोचनं निवेदितम्।

पाकिस्तान् युद्धम् इच्छति चेत् वयं सज्जाः एव - विजेन्दरः।
  नवदहली > जम्मुकाश्मीरे उरी मण्डले गतदिने जातं भीकराक्रमणं सम्बन्ध्य पाकिस्तानस्योपरि रूक्षविमर्शनेन सह भारतीय: मुष्टियुद्धक्रीडकः विजेन्दरसिंहः। पाकिस्तानराष्ट्रं युद्धमेव इच्छति चेत् वयं भारतीयाः तदर्थं सज्जाः इति सः ट्विटर् द्वारा असूचयत्। मृतेभ्यः १७ सैनिकेभ्यः स्वानुशाेचननिवेदनवेलायामेव विजेन्दरेण एवम् अभिप्रेतम्‌।


उरी भीकराक्रमणम् - मरणसंख्या २० ।  
श्रीनगर् > जम्मू काश्मीरे उरीमध्ये जाते भीकराक्रमणे वीरमृत्‍युं प्राप्तानां सैनिकानां संख्या विंशति: अभवत्। सैनिककेन्द्रं प्रति गतदिने जाते आक्रमणे १७ सैनिकाः हताः आसन्। व्रणितेषु सैनिकेषु ३ अपि ह्यः मृत्युं प्राप्ता:। अपि च आक्रमणस्य सूत्रधारेषु एकस्य चित्रं बहिरागतं वर्तते।भीकरेभ्यः प्राप्तानाम् आयुधानाम् आक्रमणस्थलस्य च चित्राणि वार्तसंघः ए.एन्.ऐ प्रसिद्धीकृतानि।


उरी आक्रमणं - भारतस्य प्रत्याक्रमणं प्रतिरोद्धुं पाकिस्तानराष्ट्रं सज्जम्। 
इस्लामाबाद् > जम्मुकाश्मीरे उरी मण्डले जातं भीकराक्रमणं सम्बन्ध्य वादप्रतिवाद: न पर्यवसति। प्रत्याक्रमणाय भारतसेना सज्जा इति वार्तायाः सन्दर्भे, भारतस्य प्रत्याक्रमणं प्रतिरोद्धुं पाकिस्तानस्य सेना अपि शक्ता एवेति पाक् सैनिकाध्यक्षः रहील् षरीफेण अभिप्रेतम्‌। आक्रमणात्परं मण्डलेषु जायमानानि सविशेषकार्याणि निरीक्षितुम् आवश्यकः व्यवहारः पाकिस्तानेन स्वीकृतः इति तेन सूचितम्। रावल्पिण्डी मध्ये सैनिकास्थाने जाते सैनिकोद्योगस्थानां योगे एव तेन एवमभिप्रेतम्‌। काश्मीर् विषयात् व्यतिचलनाय एव भारतेन एतादृशम् आरोपणादिकम् उन्नीयते इत्यपि तेन उक्तम्।

केरळेषु रयिल् गातागतः भग्नः।
कोल्लम् > करुनागप्पिल्ली रयिल् निस्थानस्य समीपे कल्लुकटवु परिसरे रात्रौ १२:३० वादने एव दुर्धटना। रासोर्वरकाणि वहत् यानमेव अपघाते पतितम्। गमनमार्गे रयिल् पट्टायां संभूतं छिद्रं दुर्घटनायाः कारणम् । 'पासञ्चर्' यानानां यात्रा अवसिता । केरळेषु रयिलस्य पट्टयां भग्नता दृश्यन्ते इति गतमासे जातापघातस्य कारणमन्विष्यमाणेन समितिना सूचितम् आसीत् ।

संयुक्तराष्ट्रमानवाधिकारपरिषदि भारतेन पाकिस्तानराष्ट्रं तर्जितम्। 
भारतेन संयुक्तराष्ट्रमानवाधिकारपरिषदि  आतंकवादप्रकरणम् उत्थापितम् । जम्मू-काश्मीरे आतंक्याक्रमणे अष्टादशसैन्यकर्मिणां वीरगतेरनन्तरं भारतेन अन्ताराष्ट्रियपरिवेशे आतंकवादं विरुद्ध्य (ज़ीरो टालरेंस) इति शून्यसहिष्णुता नीतेः क्रियान्वयनम् अभियाचितम्  । परिषदः त्रयस्त्रिंशततमे सत्रे भारतेन परिषदः अध्यर्थितः यत् पाकिस्तानः निजदेशात् जायमानानं आतंकिगतिविधीनां प्रवर्तम् अथ च आतंकवादिगुल्मानां समर्थनं न कुर्यादिति ।

Monday, September 19, 2016

मार्बल-संगमरमर-ग्रेनाइट-चेति प्रतलकुट्टिमप्रस्तराणां क्रयणाय नूतना आयाता नीतिः

नव दिल्ली >केन्द्रप्रशासनेन निर्माणोद्योगं सम्वर्धयितुं सौविध्यपूर्ण-आवासान् च केन्द्रीकृत्य  मार्बल-संगमरमर-ग्रेनाइट-चेति प्रतलकुट्टिमप्रस्तराणां क्रयणाय नूतना आयाता नीतिः प्रारब्धा, इयं हि अक्टूबरमासात्  प्रभावमायास्यति।

Sunday, September 18, 2016

RN1 जम्मू-काश्मीरे सैनिककेन्द्रं प्रति भीकराक्रमणम्‌ -१७ सैनिकाः हताः।
  श्रीनगरम् > जम्मू-काश्मीरे उरीमण्डले सैनिककेन्द्रं प्रति भीकराक्रमणम्‌। आक्रमणे १७ सैनिकाः हताः ८ व्रणिताः च। प्रत्याक्रमणे ४ भीकराः अपि हताः। प्रातः चतुर्वादनकाले आसीत् भीकराक्रमणम्‌। आयुधधारिणः भीकराः सैनिककेन्द्रं प्रति अनुस्यूततया गोलिकाप्रहारम् अकुर्वन्। सप्तघण्टात्मकं दीर्घतमं प्रत्याक्रमणं कृत्वा सैनिकैः मण्डलस्य नियन्त्रणं प्राप्तं वर्तते। विदेशयात्रादिकम् उपेक्ष्य आभ्यन्तरसचिवः राजनाथसिंहः जम्मू-काश्मीरं संद्रक्ष्यते। देशीयमार्गस्य तथा नियन्त्रणरेखायाश्च समीपस्थः प्रदेशःभवति उरी।
स्वदेशी क्षेपणायुध-नशीकरण-महानौका सज्जा।
 मुम्बई > भारतनाविकसेनायाः शक्तिवर्धनाय अत्याधुनिकसज्जीकरणैः सह क्षेपणायुधनशीकरणक्षमा 'मोर्मुगावो' नामिका महानौका प्रवर्तनसज्जा जाता। भारतेन स्वशीया निर्मिता भवति इयं महानौका। मुंबई मध्ये अद्य प्रातः द्वादशवादने समुद्रे नाविकसेनाध्यक्षस्य सुनिल् लाम्बस्य सान्निध्ये परीक्षणतया महानौकायाः प्रवर्तनमारब्धम्। किन्तु वर्षद्वयानन्तरमेव एव मोर्मुगावो भारतनाविकसेनाया: नियन्त्रणे भविष्यति। ततः परम् ऐ एन् एस् मोर्मुगावो इत्येव महानौकेयं व्यवह्रियते।

RN2. केन्द्र-स्वास्थ्यमन्त्रिणं प्रति मशीप्रयोग:।
         भोप्पाल् > भोपाल् एयिंस् कलालये केन्द्र-आरोग्यमन्त्रिणं जे पि नड्डां प्रति छात्राणां पक्षतः मशीप्रयोग:। एयिंस् अधिकृतान्‌ सन्दर्श्य प्रतिगमनवेलायामेव वैद्यबिरुदछात्राणां प्रतिकरणम् अभवत्। एयिंस् आतुरालयस्य सौकर्यादिकं वर्धितव्यम् इति उन्नीय समरं कुर्वन्तः पञ्चाशदधिकाः छात्राः एव लेखनद्रावकप्रयोगम् अकुर्वन्।समस्यापरिहाराय चर्चां कर्तुमपि मन्त्रिणा सन्नद्धता न कृता इत्यपि छात्रैः आरोपितम्।


RN3. मोहन् एम् शान्तनगौडर् केरलस्य उच्चन्यायालयस्य अध्यक्षः। 
नवदहली >  केरलस्य उच्चन्यायालयस्य अध्यक्षस्थाने न्यायाघिपः मोहन् एम् शान्तनगौडर् महोदय : नियमितः।राष्ट्रपतिना प्रणब् मुखर्जी महोदयेन तस्य नियमनं कृतम्‌। उच्चन्यायालयस्य आक्टिङ् चीफ् जस्टिस् आसीत् मोहन् एम् शान्तनगौडर्। एतेन साकं कोल्कत्ता, सिक्कीं, त्रिपुरा, मणिप्पूर् इत्यादिषु राज्येष्वपि उच्चन्यायालयेषु अध्यक्षानां नियमनमभवत्।।

 14 गोमातरं परिगण्य गूगिलस्य आदर्श-दर्शनम्।

लन्टन् > गूगिलस्य 'स्ट्रीट् व्यू' नाम आप् सङ्केतमुपयुज्य नगरस्य राजमार्गस्य दर्शनसमये सामान्येन मनुष्याणां मुखं द्रष्टुं न शक्यते। इदानीं मनुष्यसम-स्थान -मानानि गाम् प्रति दत्वा गूगिलः तस्य आदर्शं प्रदर्शितवान्। तस्मिन् आप्‌ मध्ये केम् ब्रिट्ज् परिसरस्थं को फैन् नामकं  पन्थानं  अन्विष्य गच्छति चेत्‌  तत्रत्याः केम् नद्याः तीरे चरन्तीं गां द्रष्टुं शक्यते। इतोsपि दृष्टिं विस्तार्य  (Zoom) वीक्ष्यते चेत्  मुखं मनुष्याणामिव अव्यक्तं भविष्यति। चित्रमिदम् इदानीं सामूहिक माध्यमेषु प्रसृतम् (virol) अभवत्। गवां व्यष्टि रूपेण लब्धः अङ्गीकारः एव अनेन प्रदर्श्यते इति बीबीसिना न्यवेदयत्। नव-सहस्राधिकैः जनैः विषयमिदं ट्विटर् द्वारा विचारितम्। द्विसहस्राधिक-लक्षं जनैः तत् स्नेहमयेन संस्थापितं च । ब्रिट्टनस्य पत्रपत्रिकाभिः गोमात्रे लब्धमानुकूल्यं साघोषं प्रकाशितम्।

सौम्यावधविषये विदग्धनीतिज्ञः नियोजयिष्यते।
पालक्काट्> सौम्यावधविषये गोविन्दच्चामिनः मृत्युदण्डने निरुद्धे सर्वोच्चन्यायालये सर्वकारेण  पुनःपरिगणनाभियाचना   समर्पयिष्यति इति केरलनीतिमन्त्रिणा ए के बालन् वर्येण उक्तम्। तदर्थं विदग्धं नीतिज्ञं नियोजयिष्यति।  तथा च प्रगत्भैः व्यवहारपण्डितैः सह चर्चित्वा सौम्यायाः नीतिलब्धये यतिष्यतेति केरलानां प्रतिपालकपतिः(Advocate General) सि पि सुधाकरप्रसादःअपि न्यगादीत्। अस्मिन् प्रकरणे सर्वकारस्य पुरतः विद्यमानः एक एव मार्गः भवति पुनःपरिगणना अभियाचना।

 R3 राष्ट्रियभक्ष्यसुरक्षाविधिः एतावत्पर्यन्तं केरल-तमिल्नाट् राज्याभ्यां न प्रतिष्ठापितः।
नवदिल्ली> केन्द्रसर्वकारेण आविष्कृतः राष्ट्रियभक्ष्यसुरक्षानियमः केरलेन तमिलनाटुना च यावच्छीघ्रं प्रवृत्तिपथमानेतव्य इति केन्द्रभक्ष्यमन्त्रिणा राम विलासपास्वानेन निर्दिष्टम्। भारते २७ राज्येषु ७ केन्द्रशासनप्रदेशेषु च एषः नियमः प्रावर्तिकः अभवदिति सः अवदत्। भूतपूर्वेण यू पि ए सर्वकारेणैव  जनोपकारप्रदा एषा पद्धतिः २०१३ संवत्सरे आविष्कृता। केरले तु एतदर्थं संगणकयन्त्रवत्करणस्य कालविलम्बः, गुणभोक्तृृृजनानां पट्टिकाकरणे अपाकः इत्यादिभिः कारणैः पद्धत्याः प्रस्तुतिः एतावत्पर्यन्तं नाभवत्। षण्मासाभ्यन्तरे पद्धत्याः प्रतिष्ठापनं कर्तुं शक्यतेति केरलानां भक्ष्यसचिवोत्तमया मिनि आन्टणि वर्यया न्यवेदितम्।


कावेरी जल विवाद:- स्टालिन-कनिमोषियो: बन्धनम्
 बाङ्गलूरु> कर्नाटक राज्ये तमिलजनानामुपरि जातान् आक्रमणान् विरुद्ध्य तमिलनाडु राज्यस्य वणिक कृषकसंघटनैः कृतकार्यावरोधस्य प्रभाव: दृष्ट:। कार्यावरोधस्य पक्षे डीएमके-एमडीएमके-सीपीआई-सीपीएम कर्तार: मिलितवन्त:। तथापि राज्ये  शासने आरूढा: एआईएडीएमके जना: कार्यावरोधात्  पराड़्मुखाः आसन्।
चेन्नै मध्ये डीएमके नेता एम के स्टालिनस्य नेतृत्वे राजारथीनम स्टेडियम त: एग्मोर रेल निस्थानं यावत् तस्यानुगामिनः संयुक्तप्रतिरोधप्रर्दशनम् उद्दिष्टिवन्तः। तत्रैव कनिमोषि बन्धिता तस्या: याचना वर्तते कावेरी जलविषये सर्वदलीयसभा भवतु इति।   

Saturday, September 17, 2016

मुख्यमन्त्रिणा सह द्विचत्वारिंशत् (४२)सामाजिकाः दलं त्यक्तवन्तः , अरुणाचलप्रदेशे कोण्ग्रस् दलस्य शासनं विनष्टम्। 
इट्टानगरम् > अरुणाचलप्रदेशराज्ये मुख्यमन्त्रिणः पेम खण्डोः नेतृत्वे त्रिचत्वारिंशत् विधानसभासामाजिकाः कोण्ग्रस्दलं त्यक्त्वा पीपिल्स् पार्टी आफ् अरुणाचलप्रदेश् नामकं राजनैतिकदलं प्राप्तवन्तः। अखिलभारतीयकोण्ग्रस् दलस्य महान् आघातः भवत्ययं विषयः। केवलं भूतपूर्वमुख्यमन्त्री नबां तुक्की कोण्ग्रस् दले अवशिष्टः एकः सामाजिकः।

Friday, September 16, 2016

 मानव-संसाधन-विकास-मन्त्रालयेन एक-दिवसीया परिचर्चा-संगोष्ठी
नवदेहली >राष्ट्रिय-पुस्तक-न्यासेन, मानव-संसाधन-विकास-मन्त्रालयेन, इण्डिया-एक्सपो-सेन्टर- इत्यनेन च संभूय एक-दिवसीया परिचर्चा-संगोष्ठी १६-सितम्बरे ग्रेटरनोएडा-स्थले आयोजिता । "संस्कृतभाषा भारतीय-संस्कृति: च" इति विषयाधृताया: संगोष्ठ्या: अध्यक्ष-पदं आचार्येण डॉ.रवीन्द्रनागरेण अलंकृतम् । न्यासनिदेशिका डॉ.रीता-चौधरी एतादृश्या: संगोष्ठ्या: आयोजन-प्रासंगिकत्वं ख्यापितवती। डॉ.बलराम-शुक्ल: डॉ.मनोजकुमारमिश्र: च संस्कृति-संस्कृतयो: इतिहास-प्रभाव-परम्परादि-विश्लेषण-पुरस्सरं विषयमेनं परिशीलितवन्तौ । डॉ.बलदेवानन्द-सागर: स्वीय-सुदीर्घानुभवान् विवर्णयन् संस्कृतस्य ध्वनि-विज्ञानात्मकं स्वरूपम् उपस्थापितवान् । गुजरातीभाषाया: सुख्यात: लेखक: श्रीभाग्येन्द्रपटेल: अस्य सुमहत:  सारस्वतानुष्ठानस्य संयोजनदायित्वं निरवहत्।