स्वदेशी क्षेपणायुध-नशीकरण-महानौका सज्जा।
मुम्बई > भारतनाविकसेनायाः शक्तिवर्धनाय अत्याधुनिकसज्जीकरणैः सह क्षेपणायुधनशीकरणक्षमा 'मोर्मुगावो' नामिका महानौका प्रवर्तनसज्जा जाता। भारतेन स्वशीया निर्मिता भवति इयं महानौका। मुंबई मध्ये अद्य प्रातः द्वादशवादने समुद्रे नाविकसेनाध्यक्षस्य सुनिल् लाम्बस्य सान्निध्ये परीक्षणतया महानौकायाः प्रवर्तनमारब्धम्। किन्तु वर्षद्वयानन्तरमेव एव मोर्मुगावो भारतनाविकसेनाया: नियन्त्रणे भविष्यति। ततः परम् ऐ एन् एस् मोर्मुगावो इत्येव महानौकेयं व्यवह्रियते।
RN2. केन्द्र-स्वास्थ्यमन्त्रिणं प्रति मशीप्रयोग:।
भोप्पाल् > भोपाल् एयिंस् कलालये केन्द्र-आरोग्यमन्त्रिणं जे पि नड्डां प्रति छात्राणां पक्षतः मशीप्रयोग:। एयिंस् अधिकृतान् सन्दर्श्य प्रतिगमनवेलायामेव वैद्यबिरुदछात्राणां प्रतिकरणम् अभवत्। एयिंस् आतुरालयस्य सौकर्यादिकं वर्धितव्यम् इति उन्नीय समरं कुर्वन्तः पञ्चाशदधिकाः छात्राः एव लेखनद्रावकप्रयोगम् अकुर्वन्।समस्यापरिहाराय चर्चां कर्तुमपि मन्त्रिणा सन्नद्धता न कृता इत्यपि छात्रैः आरोपितम्।
RN3. मोहन् एम् शान्तनगौडर् केरलस्य उच्चन्यायालयस्य अध्यक्षः।
नवदहली > केरलस्य उच्चन्यायालयस्य अध्यक्षस्थाने न्यायाघिपः मोहन् एम् शान्तनगौडर्
महोदय : नियमितः।राष्ट्रपतिना प्रणब् मुखर्जी महोदयेन तस्य नियमनं कृतम्।
उच्चन्यायालयस्य आक्टिङ् चीफ् जस्टिस् आसीत् मोहन् एम् शान्तनगौडर्। एतेन
साकं कोल्कत्ता, सिक्कीं, त्रिपुरा, मणिप्पूर् इत्यादिषु राज्येष्वपि
उच्चन्यायालयेषु अध्यक्षानां नियमनमभवत्।।
14 गोमातरं परिगण्य गूगिलस्य आदर्श-दर्शनम्।
लन्टन् > गूगिलस्य 'स्ट्रीट् व्यू' नाम आप् सङ्केतमुपयुज्य नगरस्य राजमार्गस्य दर्शनसमये सामान्येन मनुष्याणां मुखं द्रष्टुं न शक्यते। इदानीं मनुष्यसम-स्थान-मानानि गाम् प्रति दत्वा गूगिलः तस्य आदर्शं प्रदर्शितवान्। तस्मिन् आप् मध्ये केम् ब्रिट्ज् परिसरस्थं को फैन् नामकं पन्थानं अन्विष्य गच्छति चेत् तत्रत्याः केम् नद्याः तीरे चरन्तीं गां द्रष्टुं शक्यते। इतोऽपि उपसूक्ष्मतया (Zoom in) वीक्ष्यते चेत् मुखं मनुष्याणामिव अव्यक्तं भविष्यति। चित्रमिदम् इदानीं सामूहिक माध्यमेषु प्रसृतम् (virol) अभवत्। गवां व्यष्टि रूपेण लब्धः अङ्गीकारः एव अनेन प्रदर्श्यते इति बीबीसिना न्यवेदयत्। नव-सहस्राधिकैः जनैः विषयमिदं ट्विटर् द्वारा विचारितम्। द्विसहस्राधिक-लक्षं जनैः तत् स्नेहमयेन संस्थापितं च । ब्रिट्टनस्य पत्रपत्रिकाभिः गोमात्रे लब्धमानुकूल्यं साघोषं प्रकाशितम्।
(उपसर्पकं - zoom in अप ससर्पकं zoom out)
[ उपसूक्ष्म Zoom in अपसूक्ष्म zoom out]
सौम्यावधविषये विदग्धनीतिज्ञः नियोजयिष्यते।
पालक्काट्>
सौम्यावधविषये गोविन्दच्चामिनः मृत्युदण्डने निरुद्धे सर्वोच्चन्यायालये
सर्वकारेण पुनःपरिगणनाभियाचना समर्पयिष्यति इति केरलनीतिमन्त्रिणा ए के
बालन् वर्येण उक्तम्। तदर्थं विदग्धं नीतिज्ञं नियोजयिष्यति। तथा च
प्रगत्भैः व्यवहारपण्डितैः सह चर्चित्वा सौम्यायाः नीतिलब्धये यतिष्यतेति
केरलानां प्रतिपालकपतिः(Advocate General) सि पि सुधाकरप्रसादःअपि
न्यगादीत्। अस्मिन् प्रकरणे सर्वकारस्य पुरतः विद्यमानः एक एव मार्गः भवति
पुनःपरिगणना अभियाचना।
राष्ट्रियभक्ष्यसुरक्षाविधिः एतावत्पर्यन्तं केरल-तमिल्नाट् राज्याभ्यां न प्रतिष्ठापिता।
नवदिल्ली>
केन्द्रसर्वकारेण आविष्कृतः राष्ट्रियभक्ष्यसुरक्षानियमः केरलेन
तमिलनाटुना च यावच्छीघ्रं प्रवृत्तिपथमानेतव्य इति केन्द्रभक्ष्यमन्त्रिणा
राम विलासपास्वानेन निर्दिष्टम्। भारते २७ राज्येषु ७ केन्द्रशासनप्रदेशेषु
च एषः नियमः प्रावर्तिकः अभवदिति सः अवदत्। भूतपूर्वेण यू पि ए
सर्वकारेणैव जनोपकारप्रदा एषा पद्धतिः २०१३ संवत्सरे आविष्कृता। केरले तु
एतदर्थं संगणकयन्त्रवत्करणस्य कालविलम्बः, गुणभोक्तृृृजनानां पट्टिकाकरणे
अपाकः इत्यादिभिः कारणैः पद्धत्याः प्रस्तुतिः एतावत्पर्यन्तं नाभवत्।
षण्मासाभ्यन्तरे पद्धत्याः प्रतिष्ठापनं कर्तुं शक्यतेति केरलानां
भक्ष्यसचिवोत्तमया मिनि आन्टणि वर्यया न्यवेदितम्।
कावेरी जल विवाद:- स्टालिन-कनिमोषियो: बन्धनम्
बाङ्गलूरु> कर्नाटक राज्ये तमिलजनानामुपरि जातान् आक्रमणान् विरुद्ध्य तमिलनाडु राज्यस्य वणिक कृषकसंघटनैः कृतकार्यावरोधस्य प्रभाव: दृष्ट:। कार्यावरोधस्य पक्षे डीएमके-एमडीएमके-सीपीआई-सीपीएम कर्तार: मिलितवन्त:।
तथापि राज्ये शासने आरूढा: एआईएडीएमके जना: कार्यावरोधात् पराड़्मुखाः
आसन्।
चेन्नै मध्ये डीएमके नेता एम के स्टालिनस्य नेतृत्वे राजारथीनम
स्टेडियम त: एग्मोर रेल निस्थानं यावत् तस्यानुगामिनः
संयुक्तप्रतिरोधप्रर्दशनम् उद्दिष्टिवन्तः। तत्रैव कनिमोषि बन्धिता तस्या: याचना वर्तते कावेरी जलविषये सर्वदलीयसभा भवतु इति।