OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, September 8, 2016

 फिलिप्पीन्स् राष्ट्रपतेः असभ्यवर्षः - ओबामा चर्चायाः निवृत्तः।
मनीला>फिलिप्पीन्स् राष्ट्रपतिः रोट्रिगो ड्यूटेर्सः अमेरिक्कादेशस्य राष्ट्रपतिं बराक् ओबामं असभ्यवर्षेण अवहेलयति स्म इत्यतः तयोः मिथः चर्चा निरस्तेति अमेरिक्कादेशस्य नयतन्त्रविभागाधिकृतैः निगदितम्।
     लावोस् मध्ये आसियान् शिखरोपवेशने तयोः मेलनं पूर्वनिश्चितमासीत्। किन्तु ओबामवर्यस्य लावोस् प्रति प्रस्थानात् पूर्वं ड्यूटेर्स् वर्यः पत्रकारसम्मिलने तेषां प्रश्नानां समाधानरूपेण ओबामम् अनिन्दत्। फिलिप्पिन्स् राष्ट्रस्य मानवाधिकारलङ्घनमधिकृत्य ओबामस्य प्रभाषणं श्रोतुम् आत्मना न सन्नद्ध इत्युक्त्वा ड्यूटेर्सः निन्दावचनेन भर्त्सयन्नासीत्।
   किन्तु ओबामं प्रति निन्दावचने परं  खेदं प्रकटितवान्।


पण्ययानस्य पथभ्रम्शेन कोङकण् मार्गे गतागतस्तम्भनम्।
मङ्गलुरु >कोङ्कणरेल् पथे अङ्कोल-गोकर्णयोर्मध्ये भाण्डकयानस्य पथविभ्रंशेन तेन मार्गेण गतागतं स्तम्भितम्।  ब्रेक् वान् नामकयानभागेन सह पण्यवस्तुसहिते द्वे प्रवहणे एव भ्रंशिते। कोङ्कण-मार्गेण गम्यमानानि कानिचित् यानानि अवलुप्तानि लक्ष्यप्राप्तिरहितानि वा कृतानीति रेल्यानाधिकृतैः उक्तम्।

व्लादिमिर् पुटिनस्य चालकः दुर्घटनायां हतः।
मोस्को >रष्यायाः राष्ट्रपतेः व्लादिमिर् पुतिनस्य औद्योगिकवाहनं दुर्घटनां प्राप्य यानचालकः हतः। पुतिनं प्रति वधोद्यम इति सन्देहः वर्तते।
       राजधान्यां मोस्कोनगरे कुटुसोव्स्कि अवन्यू इत्यस्मिन् स्थाने आसीत् दुर्घटना प्रवृत्ता। पुतिनस्य बि एम् डब्ल्यू कार् यानं प्रति अभिमुखमागतं मेर्सिडस् बन्स् कार् यानं घट्टनं कुर्वदासीत्।  तदा पुतिनः याने नासीत्। तथा च यानान्तरे अपि केवलं चालकश्च। अातुरालयं प्रविष्टः सः मृतप्रायः वर्तते।

Wednesday, September 7, 2016

भारत-चीना बन्धः - मोदी षि चिन् पिङ् महोदयौ मिथः सन्धिः स्वीकृतौ।
 हाङ्चो> भारत-चीनाराष्ट्रयोः उभयकक्षी बन्धः समीचीन दिशायाम् आनेतुं ; राष्ट्रयोः स्वाभिमान-विषयाणि परस्परं बहुमनयन् पुरोगन्तुं धारणां स्वीकृतवन्तौ। जी . २० सम्मेलनस्य मध्ये लब्धायाम् अवकाशवेलायामेव तयोयोः विशेष-मेलनमभवत्। तस्मिन् कालांशे कृतायां चर्चायामेव  ईदृशा धारणा जाता इति चीनायाः नयतन्त्रज्ञः हुवा चुनियाङ्‌ महोदयः अवदत्। गोवायाम् आरब्स्यमानः ब्रिक्स् मेलने अपि एतस्याः अनुबन्धचर्चा भविष्यति। यू एन् मेलनस्यमध्येऽपि इयं चर्चा अनुवर्तिष्यते इति चुनियाङ्‌ महोदयेन उक्तम्।
ई एस् ऐ आर्थिकायसीमा ₹ २१,०००!
नवदिल्ली > राष्ट्रस्थेभ्यः कर्मकरेभ्यः तेषां परिवारेभ्यश्च ई एस् ऐ आनुकूल्यस्य धनोदयसीमा प्रतिमासं एकविंशतिसहस्रं रूप्यकाणीति निश्चितम्! इदानीमेषा पञ्चदशसहस्रं रूप्यकाणि भवति  अयं निश्चयः पञ्चाशत् लक्षं कर्मकरेभ्यः प्रयोजकीभविष्यति! अनेन सह ई एस् ऐ भिषग्वराणां निवृत्तिवयः ६० तः ६५ इति वर्धयितुमपि निश्चितम्!

Tuesday, September 6, 2016

जी 20 सम्मेलने प्रधानमन्त्रिणा मोदिना भणितं दक्षिण एष्देशेषु एकः देशः आतङ्कवादस्य प्रवृद्धप्रवर्तनार्थं प्रयत्नं करोति।
जी 20 देशीयगोष्ट्यां अन्तिमदिने प्रधानमन्त्री नरेन्द्र मोदिना स्व संबोधने नामोच्चारणंविनैव पाकिस्तानस्योपरि लक्ष्यं साधितम्। तैः स्पष्टरुपेणोक्तं यत् दक्षिणएशिया मध्ये एकैव देशः वर्तते यः आतङ्कवादं प्रसारयितुं सर्वत्र स्वप्रतिनिधिः प्रेषयति।तेन अन्ताराष्ट्रिय समुदायं प्रति उक्तं यत् एतादृशदेशानां पृथककरणस्य आवश्यक्ता वरीवर्ति। तेषामुपरि प्रतिबंधोऽपि स्यात्।
स्व संबोधने कृष्णधनस्योपरि तैः उक्तं यत् अस्मिन विषये सर्वकाराणां आचरणं कठोरं स्यात् एवञ्च स्वदेशस्योपयोगः शरणागाहरुपेण न भवेत् तदर्थं प्रयत्नं विधेयं प्रधानमन्त्रिणा एवमपि भणितं यत् विकास एवञ्च सहयोगार्थं अन्ताराष्ट्रिय मुद्राकोषेण सह निरन्तरं वार्तालापादिकं करणीयम्।
मुद्राकोषे गोपनीयता समापयितुं याचना-
प्रधानमन्त्रिणा सदस्यदेशानां कृते उक्तं यत् अधिकाधिक रुपेण मुद्राकोषे गोपनीयत्वं समापत्यर्थं प्रयतनीयम् इति।तेनोक्तं प्रभावपूर्ण वित्तीय संचालनार्थं भ्रष्टाचारसमाप्त्यर्थं च प्रयत्नं विधेयं।
IMF सह निरन्तर संवादावश्यकः-
स्व संबोधने तैः उक्तं यत् अत्यावश्यकं वर्तते आईएमएफ् संस्थया सह निरन्तरः संवादः।बीईपीएस इत्यस्य अनुशंसायाः समर्थनपुरस्सरं सदस्य देशान् उद्दिश्य उक्तं 2017-2018 मध्ये अस्यारम्भः भवतु इति।

जम्मुकाश्मीर् - सर्वपक्षसंघस्य दौत्यं विफलम्। 

श्रीनगरम्म्मु > जम्मुकाश्मीरे शान्तिपुनःस्थापनाय केन्द्रगृहमन्त्रिणः राजनाथसिंहस्य नेतृत्वे प्रस्थितः सर्वपक्षसंघः निराशतया प्रतिनिवृत्तः। अधित्यकायां सङ्घर्षलघूकरणाय शान्तिपुनःस्थापनाय च क्रियात्मकाः निर्देशाः न समर्पिताः।
    उपत्रिंशत् संघटनान् प्रति सर्वपक्षसङ्घः  चर्चाम् अकरोत् तथापि हुरियत् संघटनस्य नेतारः सर्वपक्षसङ्घं सन्द्रष्टुं विमुखतां प्रकटितवन्तः इत्येतत् दौत्यस्य पराजयकारणम्।
मान्द्यं प्रतिरोद्धुं एकीकृतप्रयत्नः आवश्यकः - नरेन्द्रमोदी। 
हाङ्षू >विश्वेन इदानींतनकाले संमुखीकृतम् आर्थिकमान्द्यं प्रतिरोद्धुं लोकराष्ट्राणि संभूय  लक्ष्याधिष्ठितं प्रवर्तनम् आवश्यकमिति भारतप्रधानमन्त्री नरेन्द्रमोदी उक्तवान्। चीनानगरे हाङ्षू नामके जि २० राष्ट्राणाम् उच्चकोटिसम्मेलने भाषमाण आसीत् मोदीवर्यः।
    सम्पद्व्यवस्थाम् उत्तेजयितुं मूलभूतानि परिवर्तनानि अपेक्षितानि। आभ्यन्तरोत्पादनस्य वृद्धिः, आधारसौविध्यविकसनं,  मानववैभवानां प्रकर्षः इत्यादयः आर्थिक व्यवस्थाश्रेष्ठतायै अाश्रयणीयाः मार्गाः इति प्रधानमन्त्रिणा उक्तम्।
   चीनाराष्ट्राध्यक्षेण षि जिङ् पिङ् वर्येण सम्मेलनस्य उद्घाटनं कृतम्। यू एस् प्रथमपौरः बराक् ओबामा, रष्यायाः अध्यक्षः व्लादिमिर् पुतिन् इत्यादयः प्रमुखाः राष्ट्रनेतारः सम्मेलने अस्मिन् भागभाग्त्वं कुर्वन्तः सन्ति।

सर्वत्र संस्कृततरङ्गाः
नवदिल्ली > गतदिने नवदिल्यां राष्ट्रिय-नाट्य-विद्यालयस्य द्वितीयवर्षीय छात्रै: शूद्रकप्रणीतं  मृच्छकटिकम् नाटकम् अभिनीतम्। नाटकमिदं केवलं व्यक्तिगतविषयवर्ति न विद्यते  अपितु तात्कालीन समजस्य शासनव्यवस्थायाः राज्यस्थितेश्च  ज्ञानाय महत्वपूर्णसामग्रीम्  अपि प्रकटयति। विभिन्नाभिः  भावभंगीमाभि: परिपूरितेन नाटकेन समुपस्थितानां जनानां हृदयानि आनंदेन-आप्लावितानि |

गायत्रीमंत्रसर्ववेदसारपुस्तकस्य लोकार्पणं
 ह्यो नवदिल्लीस्थे केरलाभवने गायत्रीमंत्रसर्ववेदसारपुस्तकस्य लोकार्पणं सञ्जातम् । डॉ. इंद्रा बालचंद्रनप्रणीतस्य पुस्तकस्य लोकार्पणकार्यक्रमे राज्यसभासांसदः डॉ.कर्णसिंहः ज्ञानपीठपुरस्कारसभाजितः श्री सत्यव्रतशास्त्री च समुपस्थितौ अवर्तताम् । कार्यक्रमेस्मिन् गायत्रीमंत्रस्य वैश्विकतथ्यानां विषये परिचर्चा अपि विहिता ।

Monday, September 5, 2016

गिलानी पार्श्वे मेलनार्थं गतवतां रिक्तहस्तेन पुनरागमनम्l
गृहमंत्रीराजनाथसिंहस्य नेतृत्वे श्रीनगरं प्रति गतवतः प्रतिनिधिसमूहस्य प्रवाससमये नगरे कार्याबाधः-प्रदर्शनम् च जातम्।
समाचारपत्राणां माध्यमेन ज्ञायते यदा प्रतिनिधिमंडलस्य चतुर्णां नेतॄणां दलं हुर्रियत इत्यस्य सैयद अली शाह गिलानीना सह मिलितुं गतं तदानीं तेन तैः सह मिलितुं अनिच्छा प्रकटिता।
इतः पूर्वं जम्मूकश्मीरराज्यस्य मुख्यमन्त्रीणी महबूबा मुफ्तेः वार्तालापस्य आमन्त्रणमपि अलगाववादी नेतॄणा निराकृतमासीत्। भारताधिकृतकाश्मीरे जुलाई मासे कथित हिज्जबुल मुजाहिद्दीन नायकस्य(commander)बुरहान वानेः मृत्योरनन्तरं विरोधप्रदर्शनानि जायमानानी सन्ति।प्रदर्शनकारीणां सुरक्षाबलैः सह कलहेन ६५ जनाः मृताः।सुरक्षाकैः सह शताधिकाःजनाः आहताः अस्यानन्तरं विपक्षिदलजनैः प्रदर्शनकारिणा सह वार्तालापस्याभियाचना कृता तस्य कारणेनैव राजनाथसिंहस्य आध्यक्षे दलं श्रीनगरंप्रति गतं।दृष्टिबन्ध हुर्रियत नेतृषु मिलितुं सीपीएम महासचिव सीताराम येचुरीः,सीपीआई नेता डी राजाः,जनतादल यू पक्षतः शरदयादवः,आरजेडी पक्षतः जयप्रकाशनारायणः गतः।
स्ववातायनात् सर्वदलीयप्रतिनिधिमण्डलं गिलानीः अद्राक्षीत्।परं सः मेलनार्थंनागच्छत्।
गृहमंत्री राजनाथसिंहस्य नेतृत्वे यत्र सर्वदलीयप्रतिनिधि मंडलमासीत्।तत्र समूह जनाः विभिन्न स्थानीय जनैः सह वार्तालापं कृतवन्तः।समाचारपत्राणां माध्यमेन गिलानी-मीरवाइज एवञ्च जेकेएलएफ नेता यासीनमलिकेन एकस्वरेण मुख्यमन्त्रीण्याः महबुबायाः प्रस्तावः निराकृतः।
एकस्वरेण तैः उक्तं वयं चिन्तने असफलाः जाताः।तस्य प्रतिनिधिमंडलेन सह वार्तालापेन किं सिध्द्यति?इति।

अभिषेक परगाँई
परिक्षापरिषदम् आधारपत्रेण योजनात् 
बिहार राज्यं प्रथमम् राज्यम् जातम्।

बिहारविद्यालयपरीक्षासमीतेः अध्यक्षमहोदयेन आनन्दकिशोरेण भणितं यत् परिक्षासु पारदर्शिता नेतुं तथैव वञ्चनं स्थगयितुं छात्राणां परिषद् (board)परीक्षायाः आवेदनम् आधार पत्रेण सह योजयिष्यते।अस्मिन् क्षेत्रे बिहार राज्यं प्रथमम् राज्यं अभवत।अस्यानन्तरं छात्राणां प्रमाणपत्राणां आधुनिक यन्त्रेण(डाक्यूमेंटस् डिजिटल लाकर) सह योजनं भविष्यतीति। नवम्बर् मासे भविष्यमाणमाध्यमिक(दशम)परिक्षातः एषा व्यवस्था आरप्स्यते।
- अभिषेक परगाँई, नव दिल्ली


ब्रिटेनत:(युक्तराष्ट्रतः) बहिरागमिष्येत् जापानदेशीयसंस्था ।
कोल्क्कत्ता > जापानसर्वकारः ब्रिटेनदेशं संसूचीतं यत्-ब्रेक्सिट् इत्यस्मात् कारनात् जापानदेशीयसंस्था स्वस्य प्रधानकार्यालयः ब्रिटेनतः बहिः स्थानान्तरनं करिष्यतीति। जापानदेशस्य विदेशमन्त्रालयद्वारा प्रस्तुतः एकस्मिन् वृत्ते(रिपोर्ट) कठिनशब्दैः न्यकृतम् - यदि इउरोपीयसंघस्य नियमाः ब्रिटेनमध्ये न प्रयुंक्ते तर्हि जापानदेशीयसंस्था ततः बहिरागमिष्यति इति।वृत्तेस्मिन्(रिपोर्ट)ब्रिटेनस्य टेरिजायां सर्वकारपक्षतः आवेदितं यत् ते आस्थापूर्वकं कार्यं कुर्यादीति।
बीबीसी संवाददाता  लॉरा कून्सबर्गानुसारेण वृत्तोSयं(रिपोर्ट) ब्रिटेनदेशीय प्रधानमन्त्रीणः कार्यालयतः अस्मिन् सप्ताहे प्राप्तम्। आनुमानिक ब्रिटेनमध्ये जापानीसंस्थायां प्रायः १,४०,००० कर्मकराः कार्यं कुर्वन्ति। ब्रिटेनमध्ये नोमुरावित्तकोशः,हिताची,कारयाननिर्माणसंस्था निसान तथा टोयोटा सह अन्य संस्थायाः मुख्यकार्यालयः दीप्यते।
यद्यपि वृत्तेस्मिन् संस्थायाः नामोल्लेखः न कृतं,परन्तु तत्रोक्तं यत्-वृत्तमेतद् ब्रिटेन तथा युरोपियान संघे कार्यरतः काचित् संस्थायाः अनुरोधेन् लिखितमिति।
-ओमप्रकाश पण्डा पश्चिमबंग

Sunday, September 4, 2016

अगतीनाम् अम्बा विशुद्धपदम् अरूढवती,
विश्वासिसमूहः आनन्दनिर्वृतौ।
Mother of Kolkata
वत्तिक्कान्>आभुवनं क्रैस्तवविश्वासिसमूहानां तथा लोकशान्तिम् अभिलषतां लोकसुखमिच्छतां जनानां धन्यमुहूर्तः। भुवने निरालम्बिनां मातरं तेरेसाम्बां  परिशुद्धपदमुन्नीय सेन्ट् पीटेर्स् बसलिक्का देवालयस्य चत्वरे फ्रान्सीस् मार्पाप्पा वर्यस्य विशुद्धपदप्रख्यापनेन लोकाः ईशस्य कारुण्यवर्षम् अनुभूतवन्तः।
     स्थानं सेन्ट् पीटेर्स् बसलिक्कायाः अन्तः। भारतसमयः अपराह्ने द्विवादनम्। सार्वत्रिकसभायाः परमाध्यक्षस्य परिशुद्धपितेति लोकैकवन्द्यस्य फ्रान्सिस् मार्पाप्पावर्यस्य सभाप्रवेशनेन विशुद्धनामकरणकर्माणि आरब्धानि। प्रार्थनानन्तरं कर्दिनालः आञ्चलो अमात्तोवर्यः  मदर् तेरेसां विशुद्धेति प्रख्यापयतु इति मातुः ह्रस्वजीवचरितकथनेन सह  मार्पाप्पां प्रति अभ्यर्थयत। ततः  अमात्तोवर्यस्य सहकार्मिकः फा. ब्रयाल् वर्यः इट्टलीयभाषया सर्वान्विशुद्धान् उद्दिश्य "अस्मभ्यं संप्रार्थ्यताम्" इति प्रार्थयामास!
    अनन्तरं पाप्पावर्यः  ह्रस्वैः वाक्यैः तेरेसामातरं कल्क्कत्तायाः विशुद्धतरेसा इति पुनर्नामकरणमकरोत्। तत्र सन्निहिताः लक्षशः जनाः कार्यक्रमान् सर्वान् दृश्यमाध्यमैः वीक्ष्यमाणाः सर्वे अपि प्रार्थनानिर्भरचित्तैः कृतार्थाः बभूवुः।
    ततः मातुः भौतिकावशिष्टानि मिषनरीस् आफ् चारिटि संस्थायाः अध्यक्षया सिस्टर् क्लयर् वर्यया अल्त्तारामध्ये  समर्पितानि। सार्वत्रिकसभायाः कृतज्ञताम् आञ्जलो अमात्तो वर्यः प्रकाशयामास। तथास्तु इति पाप्पावर्यस्य प्रतिवचनेन विशुद्धप्रख्यापनस्य परिसमाप्तिः।
माता तेरेसा भारतीयानां मनसि सदा विशुद्धा।
मदर् तेरेसा अद्य विशुद्धा भविष्यति। 
वत्तिक्कान् >निस्वानाम् अम्बा मदर् तेरेसा अद्य विशुद्धपदं प्राप्स्यति। वत्तिक्काने सेन्ट् पीटेर्स् देवालयस्य चत्वरे फ्रान्सिस् मार्पाप्पा वर्यस्य कार्मिकत्वे अपराह्ने द्विवादने - भारतसमयः - आरभ्यमाणे दिव्यबलिमध्ये विशुद्धनामकरणं भविष्यति। कोल्कोत्तायाः विशुद्धतेरेसा इति इतःपरं विख्याता भविष्यति।
       कार्यक्रमे भागभागित्वं वोढुं केन्द्रसर्वकारं प्रतिनिधीभूय  विदेशकार्यमन्त्रिण्याः सुषमास्वराज् वर्यायाः नेतृत्वे कश्चन संघः वत्तिक्कानं प्राप्तः। दिल्ली मुख्यमन्त्री अरविन्द केज्रिवालः वंगराज्यस्य मुख्यमन्त्रिणी ममता बनर्जी इत्येतावपि वत्तिक्कानं संप्राप्तौ।

के बाबोः भवने दक्षतावस्कन्दः। 
कोच्ची >अविहितद्रव्यसम्पादनविषये भूतपूर्वकेरलराज्यमन्त्रिणः के बाबुवर्यस्य भवने ,अपत्यानां तथा  बिनामीति विवक्षितपुरुषाणां सहकारिणां  च गृहेष्वपि दक्षतासंस्थायाः आपातः सम्पन्नः। एऱणाकुलं तोटुपुष़ा इत्येतत्प्रदेशस्थयोः पञ्च वासस्थानेषु कारिते आपाते अष्टलक्षं रूप्यकाणि १८० ग्रां परिमितं सुवर्णं च परिदृष्टानि। बाबोः , तस्य पत्न्याः, अपत्यानां च पञ्च बेङ्कलेखाः च स्तोभयते स्म।
    किन्तु एतत्सर्वं राजनैतिकलक्ष्येण कृता प्रतिक्रिया इति बाबु: अवदत्।
संस्कृम् अनुदिनं प्रकाश्यते

Alankaara Bhooshanam
नवदेहल्ली > संस्कृतभाषा सूर्यवत् अनुदिनं प्रकाशमानं वर्तते। अधुनिकलोके नूतन पुस्तकानां रचनया, लघु संस्कृत
चलनचित्राणां निर्माणेन, चित्रमुद्रिका प्रकाशनेन च संस्कृतभाषा स्वस्य दायित्वं सम्यक् कुर्वन् अस्ति।

इदानीं नवदिल्याम् आयोज्यमाने कार्यक्रमे अलङ्कार-भूषणम् नाम ग्रन्थस्य प्रकाशनमभवत्। ग्रन्थकर्ता डा. कुन्दन मिश्र महोदयः भूमिकालेखक:-महामहोपाध्याय: प्रो. उमाशंकरशर्मा'ऋषि:' (राष्ट्रपतिसम्मानितः) 5 अध्यायः, प्रसिद्धसंस्कृत-अलंकारग्रंथेभ्यः 50 अलंकाराणाम् संकलनं, सरलभाषया व्याख्यानं, तुलनात्मकं विवेचनं च, पृष्ठ -300, मूल्यम्-180 रूप्यकाणिप्रकाशकः -परिमल प्रकाशनं, दिल्ली च।

दिल्ली सर्वकारस्य राजकीय विद्यालये अध्यापकः भयत्ययं महोदयः। दिल्ली शिक्षा निदेशालयस्य उप-निदेशकः सुरेन्द्र चन्द्रशर्मा, उत्तराखण्ड वि.विद्यालयस्य सहायक-प्राध्यापकः डा. अरविन्द नारायणमिश्रः, सर्वोदय विद्यालयस्य प्राचार्यः यतेन्द्र कुमार शर्मा इत्येते स्वस्तिवाचन पुरसरम् ग्रन्थ विमोचनमकुर्वन्।
 नेताजी षुभास् चन्द्र वसु -“डिक्लासिफाइड्”सञ्चिका
Subhas Chandra  Boss
नव देहली- नेताजी सुभाषवर्यस्य “डिक्लासिफाइड्”सञ्चिकाभि ज्ञातं यत् भारतदेशेन् १९५३ तमे वर्षे इंडियन् नेशनल आर्मी(INA) एवञ्च “इंडियन इंडिपेंडेंस् लीग”(IIL) एतयोः निधिः पाकिस्तानेन सह् भागं कर्तुं अङ्गीकृतमासीत्। जवाहरलाल नेहरुमहोदयः पश्चिमबंगस्य तत्कालीनमुख्यमन्त्रिं प्रति पत्रं व्यलेखी-“वार्तालापेन अङ्गीकृतं यत् निधेः आवंटनं भारत-पाकयो २.१ अनुपातेन भवतु इति” सोमवासरे नेताजी सम्बन्धीनां २५ सञ्चिकानाम् “डिक्लासिफाईप्” कृतमासीत् पाकिस्तानस्य कृते निधि वंटनस्य वार्ताः नेहरुवर्यस्य पत्रेणेव ज्ञायते।

नेताजी महोदयस्य सङ्घटनानां(INAएवञ्चIIL)इत्येषां निधि पाकिस्तानाय दत्तं इति नेहरु महोदयस्य पत्रैः ज्ञायते।
नेहरुना पत्रमेतत् १९५३तमे वर्षे अक्टूबर मासस्य १८दिनाङ्के पश्चिमबंगस्य मुख्यमन्त्री बीसी राय कृते लिखितं। पत्रेस्मिन् नेहरुना वंग सर्वकारस्य पक्षतः प्रस्तावितस्य पत्रस्य उत्तरं दत्तमस्ति। प्रस्तावनानुसारं वंगसर्वकारेण नेताजी एवञ्च तेषां आजादहिन्दसर्वकारेण त्यक्तस्य निधिविषये केन्द्रसर्वकारः परीक्षणम् कुर्यात् इति उल्लिखितमस्ति

नेहरुवर्येण स्वटिप्पणीपत्रे किं लिखितमासीत्?
टिप्पणीपत्रानुसारं “सूदूर पूर्वदिशि अंतिम युद्धसमाप्त्यननतरं स्वर्ण-आभूषणादीनि अधिकारिणः बलात् ग्रहीतवन्तः। एतानि वस्तूनि दक्षिण-पूर्व एशियायाः देशेषु INA एवञ्च IIL सम्बन्धितानि आसन्।
सिंगापुर देशःअस्य कस्टोडियन आफ् प्रापर्टी(संपत्तेः संरक्षकः आसीत्) १९५० तमे वर्षे सिंगापुर सर्वकारेण संपत्तेः मूल्यतोलनम् कृतं।संपत्तेः मूल्यं १६३अधिक ४७ सहस्त्र १लक्षं “स्ट्रेट् डालर” इति आसीत्। “स्ट्रेट्डालर” नाम बिट्रेनदेशस्य “मलक्का स्ट्रेट्” इत्यस्योपरि स्वीकृतनिर्णयानुसारं करन्सी आसीत्।
पत्रे एतदपि उल्लिखितमासीत् यत् “पुनर्मूल्याङ्कनानुसारं सम्पत्तेः उचिताकलनं कठिनमिति”
पाकिस्तानेनसह सुदीर्घाचर्चा प्रचलिता।अन्ततोगत्वा एवं निश्चितं यत् सम्पत्तेः आवंटनं भारतपाकिस्तानयोः २.१ इति अनुपातेन भवतु इति।
यद्यपि निधिनिष्कासन प्रकरणं सम्पत्यनुसारं कस्टोडियन् सिंगापुरस्य “लेजिस्लेटिवकाउंसिल”मध्ये उपस्थापितमासीत्। एतदानुसारं कस्मै अपि जनाय संस्थायै वा निधेः दानस्याधिकारः नासीत्।
  विशेष वार्ता-
अभिषेक परगाँई
नवदेहली

Saturday, September 3, 2016

  राष्ट्रस्य यन्त्रशास्त्रबिरुदधारिषु असमर्थानां संख्या अधिका -इ श्रीधरः।  
    अहम्मदाबाद् > राष्ट्रस्य यन्त्रशास्त्रकलालयेभ्यः पठनं पूर्तीकृत्य बहिरागतवत्सु बिरुदधारिषु असमर्थानां संख्या अधिका इति 'मेट्रोमान्'इति नाम्ना विशिष्ट: इ.श्रीधरः।बिरुदं प्राप्तेषु यन्त्रज्ञेषु केवलं २९% एव समर्थाः वर्तन्ते , उपरिपठनेन परिशीलनेन च अपरं २०% बिरुदधारिणामपि सामर्थ्यं वर्द्धयेत् इति तेन सूचितम्।'यन्त्रज्ञानां समाजं प्रति दायित्‍वम्' इत्यस्मिन् विषये प्रभाषणमध्ये एव तेन एवम् अभिप्रेतम्।

 अखिलभारतीयकर्मस्थगनं पूर्णम्। 
नवदहली > केन्द्रसर्वकारस्य कर्मकरविरुद्धान् नयान् प्रति विविधैः कर्मकरसंघै: प्रख्यापितम्‌ २४ घण्टात्मकम् अखिलभारतीयकर्मस्थगनं पूर्णम्। राष्ट्रस्य वित्तकोशाः, सर्वकारकार्यालयाः , विद्यालयाः,कलालयाः, व्यवसायशालाः च प्रवर्तनरहिता: सन्ति। सामान्यगतागतं पूर्णतया स्थगितम्।सर्वत्रापि व्यापारस्थापनानि भोजनालयाः च प्रवर्तनरहिताः सन्ति। केषुचित् राज्येषु अक्रमादिकमपि सञ्जातम्। पश्चिमबंगाले कूच् मध्ये तथा बीहारे च समरानुकूलिनः बस्यानानां नाशनम् अकुर्वन्। बीहारे तथा ओडीषायां भुवनेश्वर् मध्ये च रेल् गतागतं प्रतिरुद्धम्। उत्तरप्रदेशे वाराणस्यां समरानुकूलिनः मार्गोपरोधम् अकुर्वन्। जम्मुकाश्मीरे च कर्मस्थगनं पूर्णमेव। केरलेष्वपि कर्मस्थगनं पूर्णमेव। कुत्रचित् संघर्षः सञ्जात: इति सूचना अस्ति।

आफ्रिक्कन् गजानां संख्या शुष्यति।
न्यूयोर्क्>आफ्रिक्कन् गजाः कुलनाशम् उपयान्तीति वृत्तान्तः। सप्तसंवत्सराभ्यन्तरे गजानां संख्यासु प्रतिशतं त्रिंशत्परिमितानां ह्रासः अभवत्।
    Elephants Without Borders इति संघटनेन त्रिभिः संवत्सरैः कृते "दि ग्रेट् एलफन्ट् सेन्सस्" इति गजसंख्यागणनायाम् एव अयमधिगमः। १८ देशेषु २०१३ डिसंम्बर् मासादारभ्य आकाशमार्गेण कृतेन निरीक्षणेनैव गजगणना चालिता। हवादेशे सम्पन्ने ऐक्यराष्ट्रसभायाः पर्यावरणसंस्थायाः उपवेशने इदं वृत्तान्तपत्रम् अवतारितम्।
 
'विष़िञ्ञम्' नौकाश्रयाय देशीयहरितन्यायसभायाः अनुमतिः।
 नवदहली > 'विष़िञ्ञम्' राष्ट्रान्तरनौकालयपद्धत्यै देशीयहरितन्यायसभायाः सोपाधिका अनुमतिः लब्धा। न्यायाधिपस्य स्वतन्त्रकुमारस्य आध्यक्ष्ये चतुर्णां न्यायाधिपानां समित्या एव अनुमतिः दत्ता। पद्धतिनिर्वहणाय  शास्त्रज्ञानां सप्ताङ्गसमितिः रूपीकरणीया इत्येव प्रधाननिर्देशः। अस्यां समित्‍यां परिस्थितिशास्त्रज्ञ:, सर्वकारप्रतिनिधिः, समुद्रगवेषणविदग्धाः च भवेयु:। अनया समित्या निर्माणपुरोगतिः निरीक्षणीया। षण्मासाभ्यन्तरे पठनं समर्पणीयम्। परिस्थितिनाशनसम्बन्धीनि निर्माणप्रवर्तनानि , समुद्रसम्पदां नाशनसम्बन्धानि प्रवर्तनानि वा मा भवन्तु इत्यपि हरितन्यायसभया निर्दिष्टम्। न्यायालयस्य नूतननिर्देशः स्वागतार्हः इति केरळस्य नौकादिविषयमन्त्रिणा कटकंप्पल्लि रामचन्द्रमहोदयेन उक्तम्।

 गान्धिहत्याप्रस्तावः - स्वमतं व्यवस्थाप्य राहुल्गान्धी।
नवदिल्ली> महात्मागान्धिनः हत्याविषये आर् एस् एस् संघटनां विरुध्य उक्ते प्रस्तावे प्रत्यक्षरं स्थिरमतिः अस्मीति कोण्ग्रस् दलस्य राष्ट्रियोपाध्यक्षः राहुल् गान्धिवर्यः सर्वोच्चन्यायालयं प्रति उक्तवान्। एतद्विषयकापकीर्तिव्यवहारे महाराष्ट्रस्थे भिवण्टी न्यायालये उपधां सम्मुखीकर्तुं सन्नद्धः इति सः विज्ञापितवान्।
     अस्मिन् विषये राहुलं विरुध्य मुम्बई उच्चन्यायालयेन आदेशः दत्तः।  तन्निरोद्धुं राहुलेन सर्वोच्चन्यायालये समर्पिता याचिका अपि तेनैव निराकृता। अतः भिवण्टि न्यायालये साक्षात् गत्वा उपधाम् अभिमुखीकरिष्यति।
    २०१५ संवत्सरे महाराष्ट्रे निर्वाचनसम्मेलने प्रभाषणे कृते  गान्धिहनने आर् एस् एस् संस्थायाः भागभागित्वमस्तीति प्रकारेण राहुलस्य परामर्शः जातः।

कर्मन्यासप्रतिषेधः आशास्यः किम्?
     अस्माकं राष्ट्रं प्रगतिपथात् व्यतिचालयितुं पर्याप्तः आसीत् ह्यस्तनः अखिलदेशीयकर्मन्यासप्रतिषेधः। कोटिशः रूप्यकाणां नष्ट एव राष्ट्राय अनेन सञ्जातः।
    प्रतिषेधाय सर्वेषाम् अधिकारः अस्ति। किन्तु सः राष्ट्रस्य अभिवृद्धिकर्मणां तालभङ्गं सृष्ट्वा न भवेत्। पुरोगमनचिन्तनानि वाचि इव कर्मणि च भवितुं सर्वैः राजनैतिकदलैः प्रयतितव्यः।
      विनष्टं प्रतापं प्रत्यानेतुं प्रयत्नः  एव  स्वतन्त्रतालब्धेः आरभ्य भारतीयजनतत्या अनुवर्तते। विभिन्नाः राजनैतिकविश्वासिनः विभिन्नाः धर्मानुयायिनः वा भवन्तु , क्रियमाणानि सकलानि प्रवर्तनानि राष्ट्रपुरोगतिं लक्ष्यीकृन्य भवितव्यानि।
    अतः एतादृशः कर्मन्यासः निरर्थकः निराकरणीयश्च इति बोद्धव्यः।

Friday, September 2, 2016

 दशमकक्ष्यायां न पठितवती, किन्तु MIT मध्ये पठिष्यति।
मुम्बै>दशमकक्ष्यायां न पठितवती तथापि मालविका राजेश् जोशी मसाचुसेट्टस् इन्स्टिट्यूट्‌ ओफ् टेक्नोलजि(MIT)मध्ये पठिष्यति। स्थानीय योग्यता नास्ति चेत् अपि सङ्गणक यन्त्रे प्रवर्तन-क्रमाणाम् आयोजने तस्याः कुशलता श्रद्धेया एव। सा एव पठनाय प्रवेशलब्धेः निदानम् । सप्तदशवयस्का मालविकायाः ओलिम्प्याट् पतकेन (IOI) पुरस्कृता इत्यनेन एव कलाशालायां प्रवेशनम्। द्वादश कक्षायाः विजयं विना सामान्येन यत्रकुत्रापि पठनाय अनुज्ञा न लभते।सप्तमकक्ष्यानन्तरम् अध्ययनम् नास्ति इत्यनेन सा उपरिपठनात् निवारिता। अधुना बालिका बालकाः सङ्गणकयन्त्रं क्रीडायै उपयुज्यते । किन्तु एषा सङ्गणक-यन्त्रमुपयुज्य नूतनानि प्रवर्तन-कार्यक्रमाणि निर्मितानि च

संस्कृतकवयः न दुर्लभाः 
वक्ता श्रोता चदुर्लभा
नव देहली > दिल्लीविश्वविद्यालयः संस्कृतविभागस्य तत्वावधाने समायोजिते कविसम्मेलने  संस्कृतभाषायाः  प्रख्यातकविभिः प्रस्तुतिः विहिता। सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य  पूर्वकुलपतयः प्रो.अभिराजराजेन्द्रमिश्रः, पद्मश्री पुरस्कार रमाकान्तशुक्लः, श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठस्य कुलपतयः प्रो.रमेशचन्द्रपाण्डेयः, श्रीलाल बहादुरशास्त्रीराष्ट्रीयसंस्कृतविद्यापीठस्य  प्रसिद्धाचार्यःडॉ. दयालसिंहपँवारः दिल्लीविश्वविद्यालयस्थ संस्कृतविभागस्य   प्रख्याताचार्यः  डॉ. भारतेन्दुपाण्डेयः चेत्यादयः सुकविभिः भव्याः काव्य रचनाः प्रस्तुताः। अवसरेsस्मिन् संस्कृतविभागस्याध्यक्षया प्रो. शारदाशर्ममहोदयया समुपस्थितानां  कविनां  संस्कृतकाव्यरसिकानां च वाचिकस्वागतं विहितम् ।

Thursday, September 1, 2016

सिंगापुरे जीका विषाक्तोsपशपनं प्रयतते 
निखिलेsपि जगति जीका वायरस इति संक्रमणग्रस्तानां संख्या अनुदिनं वर्धतेतराम् सिंगारपुरे विषाक्तग्रस्तानां संख्या द्वयाशीति मिता सञ्जाता। विषाक्तं वारयितुं दृढसुरक्षोपायाः समुपकल्पन्ते |  सिंगापुर प्रशासनः  दक्षिण-पूर्वोपनगरे एडीस् मशकानां प्रजननस्थलान् नाशयितुं  प्रयतते, सममेव अन्योपायेष्वकि कार्यचरणं विधीयते |

उत्तर कोरियायां शिक्षामंत्रिणे मृत्युदण्डम् 
दक्षिण कोरिया सरकारेण प्रोक्तं यत्  उत्तर कोरियायां देशस्य शिक्षामंत्रिणः किमयांगजिनाय  मृत्युदण्डं प्रदत्तम्, अस्योद्घोषणा सियोलनगरे विहिता | असौ एकस्मिन्नुपवेशने सुषुप्तिःतिः प्राप्तः अतोनन्तरं किमयांगजिनं विरुद्ध्य भ्रष्टाचारान्वेषणं विहितम् |
भारत-  अमेरिक्काभ्यां सेनानिलयानि संविभज्यन्ते।
वाषिङ्टण्> भौम - नाविक - व्योम निलयानि मिथः विभज्य उपयोक्तुं भारत - अमेरिक्का मध्ये सन्धिः। अमेरिक्कायाः प्रतिरोधास्थाने पेन्टगण् नामके भारतरक्षामन्त्री मनोहरपरीक्करः अमेरिक्कारक्षासचिवः आष्टण् कार्टर च सन्धिपत्रे हस्ताक्षरम् अकुरुताम्।लेमोवा नामक सैनिक सन्नाह विनिमयसन्धिः (Logistics Exchange Memorandum Of Agreement) एव प्राबल्ये अभवत्। एतदनुसृत्य उभयोः राष्ट्रयोः सैनिकनिलयानि परस्परम् उपयोक्तुं शक्यते। संयुक्तसैनिकव्यवहारे तथा दुरिताश्वासप्रवर्तनेषु च प्रयोजकीभविष्यति।
    किन्तु राष्ट्रान्तरेषु भारतस्य सैनिकव्यवहारः नितरां परिमित इत्यतः अमेरिक्कायाः निलयेषु भारतस्य साध्यता विरल एव। प्रत्युत तस्य राष्ट्रस्य सैनिकसाङ्केतिकविद्यासहकारः प्रयोजनाय भविष्यति। तथापि एष्यन् मण्डलेषु अमेरिक्कायाः सान्निध्यं सजीवं वर्तते वर्धते च, तथा भारतस्य सैनिकपरमाधिकारः दुर्बलः स्यादिति आशङ्कापि अवशिष्यते।

सिङ्गूरे कृषकविजयम्।
नवदिल्ली > पश्चिमवंगे सिङ्गूरे टाटा मोटोर्स् इति निर्माणसंस्थायै नानो कार् याननिर्माणशालां स्थापयितुं २००६ तमे संवत्सरे तदानींतनसर्वकारेण दत्तं उपसहस्र एकर् परिमितं भूमिं कृषकेभ्यः प्रत्यर्पयितुं सर्वोच्चन्यायालयेन आदिष्टम्।
     २००६तमे संवत्सरे बुद्धदेवभट्टाचार्यस्य नेतृत्वे वामदलसरवकारेणैव ९९७.११ एकर् परिमिता केदारभूमिः टाटासंस्थायै कृषकेभ्यः बलेन स्वीकृत्य दत्ता। एतं विरुध्य कृषकाणां शक्तमान्दोलनम् आरब्धम्। ततः २००८ वत्सरे नानोपद्धतिः गुजरातं प्रति अपनीता आसीत्। एतद्विषयं राजनैतिकशस्त्रं परिकल्प्य एव ममताबानर्जिवर्यायाः नेतृत्वे तृणमूल् कोणग्रस् सर्वकारः अधिकारस्थानं प्राप।