OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 22, 2016

काश्मीर् समस्यापरिहाराय सर्वेषां राष्ट्रियदलानाम् ऐक्यम् आवश्यकम् - नरेन्द्रमोदी।
 नवदहली > जम्मू-कश्मीर् समस्यापरिहाराय सर्वाण्यपि राष्ट्रियदलानि एक्यभावेन अग्रे गच्छन्तु इति प्रधानमन्त्री नरेन्द्रमोदी। काश्मीरस्य अधुनातनावस्थायाम् आशङ्का वर्तते इति प्रधानमन्त्रिणा सूचितम्। राष्ट्रस्य भरणव्यवस्थामनुसृत्य समस्यानां शाश्वतपरिहारः करणीयः इति तेन अभिप्रेतम्।प्रतिपक्षसङ्घेन सह कृतायां चर्चायां भाषमानः आसीत् प्रधानमन्त्री। गतदिने भूतपूर्वसचिवस्य ओमर् अब्दुल्लस्य नेतृत्वे प्रतिपक्षसङ्घः राष्‍ट्रपतिना सह चर्चाम् अकरोत्। ततः प्रधानमन्त्रिणा सह अपि सङ्घः चर्चां करोति स्म।

 आङ्गलशासनकालीनान् सम्प्रदायान् परिष्कर्तुं केन्द्रसर्वकारस्य पर्यालोचना।
 नवदहली > आङ्गलशासनकालीनान् सम्प्रदायान् परिष्कर्तुं नरेन्द्रमोदिनः सर्वकारस्य निश्चयः। कालानुसृतं परिष्करणं सर्वेष्वपि मण्डलेषु आवश्यकम् इत्येव सर्वकारस्य निश्चयः। इदानीं धनव्ययगणनपत्रिकावतारणस्य काल एव केन्द्रसर्वकारेण परिष्क्रियते। अधुना फेब्रुवरिमासस्य अन्तिमसप्ताहे एव केन्द्रसर्वकारेण धनव्ययगणनपत्रिकावतारणं क्रियमाणं वर्तते। एतत् परिष्कृत्य अवतारणं जनुवरिमासे कर्तुमेव आलोचना भवति। रेलयानमन्त्रालयस्य धनव्ययगणनपत्रिकावतारणं परिष्कृत्य सामान्यवतारणसहितमिति केन्द्रसर्वकारेण निश्चितं वर्तते। इदानीं अवतारणकालमपि परिष्कृत्य सम्पूर्णं परिष्करणमेव केन्द्रसर्वकारेण लक्ष्यीक्रियते।
 माध्यमानां स्वतन्त्रतया वार्ता प्रकाशनाय अधिकारः भवितव्यः- न्यायाधिपः कमाल् पाषा
कोच्ची > माध्यम धर्मान् विरुध्य किमपि न करणीयम् इति केरळस्य ऊच्च-न्यायालयस्य न्यायाधिपेन न्याय. बि कमाल् पाषमहोदयेन उक्तम्। केन राज्यशासनं करणीयम् इति निश्चयः अपि वार्तामाध्यमानि क्रियते इति वदति चेत् तत्र अन्भुतोक्तिः नास्ति । तेषां लोखन्यः शक्तिः कियन्मात्रमिति जानन्ति सर्वे। भारतस्य स्वातन्त्र्यासमर कालादारभ्य जानन्ति च । भारतीयानां स्वतन्त्रतासंग्रामे अत्र विद्यमानेषु विकास-प्रक्रियासु च वार्तामाध्यमानां  प्रवर्तनप्रदानत्वम् अस्ति इति च पाषा महोदयेन उक्तम्। विस्मरणातीताः व्रणवेदनाः न वर्तन्ते। कृतद्रोहाः अमर्षणीयाः न भवन्ति। कालस्य प्रयाणे जाते व्रणविरोपनं जायेत इत्यत्र न संशयः इति न्यायाधिपः कमाल् पाषा महोदयः अवदत्। स वैट्टिलाप्रदेशस्थां एकां सांस्कारिकसमितिं उद्घाटयन् एवं अब्रवीत्।

 संस्कृताध्यापक-समितेः राज्यस्तरीयसंस्कृतदिनाघोषः कण्णूरे भविष्यति । 
कण्णूर्> अस्य मासस्य 27 दिनाड़्के कण्णूरस्थ नगरसभोच्चविद्यालये कार्यक्रमः आयोजितः भवति ।  आदरणीयः गतागतमन्त्री श्री कटन्नप्पल्लि रामचन्द्रः कार्यक्रमे मुख्यातिथिः । पण्डितादरणम्  , कलासांस्कारिककार्यक्रमाः, मरत्तुकलि ,पुरस्कारदानम्  च इतरे विशिष्टांशाः । संस्कृताध्येतृणाम् अध्यापकानाम्  संस्कृतप्रेमिणाम् संस्कृताभिमानिनाम् सर्वेषाञ्च हार्दं स्वागतमपि ।।


रुदन्ति लोकाः उम्रान् बालकाय ज्येष्ठः नष्टः।
बेय्रूट्> लोकमानसम् मुञ्चत्यश्रूणि। सिरियायाः पञ्चवयस्केन बालकेन साकं युद्धवक्त्रात् रक्षितः ज्येष्ठः मृतः अभवत्। बालकः सिरियायाः अलप्पो नगरात् भग्नानाम् आलयानाम् अवशिष्टान्तर्भागात् रक्षितः आसीत्।  इदानीम् आन्तरिक-रक्तस्रावेन एव एतस्य मृतिः।
अलेप्पोयाम् इदानीं युद्धेन त्रिशतम् (३००) जनाः मृताः

भारतीयानां प्रार्थना -
लोकाः समस्ताः सुखिनो भवन्तु ।

Sunday, August 21, 2016

संस्कृत-सप्ताहः अद्य सम्पूर्णतामेति।
कालटी>  न केवलं भारते,विश्वस्य कोणे कोणे अपि संस्कृतवाराचरणम् अद्य संपूर्णमभवत्।  विविधैः कार्यक्रमैः नयनमनोहराणि आसन्। कार्यक्रमाः केरळे प्राधमिक-विद्यालयछात्राणां ओन् लैन् द्वारा संस्कृतवार्तावतरणं श्रद्धेयमासीत् विश्वे ऐदम् प्राथम्येन विद्यालय छात्राणां वार्ता वाचनं सम्प्रतिवार्तया आयोजितम्। कालटी श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयेन लघु चलनास्पर्धा आयोजयति च। संस्कृतभारतया आभारतं संस्कृत-संभाषणशिबिराणि च आयोजितानि। गुर्जर देशे देवसायूज्यं संस्कृतप्रतिष्ठापनेन आयोजितः संस्कृतसप्ताहाघोषः द्वाविंशे (22) दिने विविधैः कला कार्यक्रमैः सम्पूर्यते। भरतस्य विविधराज्यसर्वकारेणापि राज्यस्तरीय आचरणानि आयोजितानि। कानपुरस्य विक्रमाजीत सिम्हासनातन धर्मविद्यालयेन 11 मासात्मकस्य अनौपचारिक-संस्कृतकेन्द्रस्य उद्घाटनं कृतम् । लखनौ विश्वविद्यालये वाद विवाद प्रतियोगिता आसीत्।
एवं संस्कृतमहोत्सवः पुनरारम्भणाय विश्वे पूर्यते।
अय्यम्पुष़ा हरिकुमाराय आगमानन्दपुरस्कारः।
कालटी>  आगमानन्दस्वामिस्मारकसमित्या संस्कृतभाषाप्रचारकाय दीयमानः आगमानन्दपुरस्कारः ‌अस्मिन् संवत्सरे सम्प्रतिवार्ताः इति अन्तर्जालपत्रिकायाः मुख्यसम्पादकाय अय्यम्पुष़ा हरिकुमाराय दीयते। दलितविभागक्षेमप्रवर्तकाय दीयमानाय  पुरस्काराय कूवप्पटि स्वदेशी के.सुतः अर्हति।
     संस्कृतपण्डितः अद्वैतवेदान्ताचार्यः सर्वोपरि सामाजिकपरिष्कर्ता स्वामी आगमानन्दः स्वजीवनं संस्कृतभाषायाः प्रचारणाय पोषणाय तथा अधःस्थितवर्गाणां समुद्धरणाय च समर्पितवान् आसीत्। तस्य स्मरणार्थं रूपवत्कृतया आगमानन्दस्मारकसमित्या प्रतिसंवत्सरं एकैकस्मै दलितक्षेमप्रवर्तकाय संस्कृतप्रचारकाय च पुरस्कारः दीयते।
   अस्य संवत्सरस्य पुरस्कारजेता अय्यम्पुष़ा हरिकुमारः एरणाकुलं तेवरा सेन्ट् मेरीस् यू.पि.एस् विद्यालये संस्कृताध्यापक अस्ति। आकाशवाण्याः ए-ग्रेड् कलाकाररूपेण विद्यमानः अयं  २५ संवत्सराणि यावत् संस्कृते कैरल्यां च  गानरचना नाटकनिदेशः इत्यादिषु विलसन्नयं केरल शैक्षिकविभागस्य संस्कृतप्रयुक्तिपुरुषेषु अन्यतमः अस्ति। एकस्मात् संवत्सरात् पूर्वम् आरब्धायां सम्प्रतिवार्तायां छात्राणां वार्तावतरणमपि आयोज्य संस्कृतानुरागिणां प्रशंसापात्रमभवच्च।
   आगस्त् मासस्य २२तमदिनाङ्के कालट्याम् आयोज्यमाने सम्मेलने पुरस्कारसमर्पणं भविष्यति। पुरस्कारप्रख्यापनवेलायां समित्याः अध्यक्षः के एस् आर् पणिक्करः, कार्यकर्ता के एन् चन्द्रप्रकाशः, प्रोफ. पि.वि.पीताम्बरः इत्यादयः सन्निहिताः आसन्।

 काश्मीर् संघर्षः- राष्ट्रियपरिहारः एव आवश्यकः।
   नवदहली > जम्मुकाश्मीरे जायमानानां संघर्षाणां परिहाराय राष्ट्रियचर्चा आवश्यकी इति काश्मीरस्य प्रतिपक्षदलम्। एतत् अभ्यर्थ्य काश्मीरस्य भूतपूर्वमुख्यसचिवस्य ओमर् अब्दुल्लस्य नेतृत्वे २० प्रतिपक्षनेतार: राष्ट्रपतिं प्रणब्मुखर्जीमहोदयम् अमिलन्। काश्मीरसंघर्षेषु राष्ट्रियस्वरूपमस्ति इति निर्णयाय केन्द्रसर्वकारः अशक्तः जातः इति प्रतिपक्षदलेन उक्तम्। विना विलम्बमेव राष्ट्रियचर्चायै केन्द्रसर्वकारः सन्नद्ध: भवतु इत्यपि प्रतिपक्षदलेन अभ्यर्थितम्।

रिसर्व् बाङ्क् कृते नूतनः अध्यक्षः।
  नवदहली > कालावधिं पूर्तीक्रियमाणस्य रघुरामराजस्य स्थाने रिसर्व्  बाड्क् कृते नूतनः अध्यक्षः। आर् बि ऐ उपाध्यक्षः डा. उर्जित् पटेलः एव नूतनः अध्यक्षः। ५२ वयस्कः सः वाणिज्यवित्तकोशविदग्धः भवति। अस्य नियमनाङ्गीकारः मन्त्रिसभायाः नियमनसमित्‍या कृतः वर्तते। सप्तंबर् ४ तः वर्षत्रयात्मकं कालम् उर्जित् पटेलः आर् बि ऐ अध्यक्षस्थानम् अलङ्करिष्यति। येल् विश्वविद्यालयतः आर्थिकशास्त्रे शोधकार्यबिरुदं सम्पादितः एषः महोदयः रघुरामराजस्य विश्वस्तः इत्येव व्यवह्रियते।

रियो ओलिम्पिक्स्- पादकन्दुकक्रीडा सुवर्णपतकं ब्रसील् कृते। 
              रियो डि जनीरो > मधुरप्रतिकारेण जर्मनीदलं पराजित्य ब्रसील् दलेन रियो ओलिम्पिक्स् मध्ये सुवर्णपतकं प्राप्तम्। अन्तिमक्रीडायां षूटौट् मध्ये ५-४ इत्यनुपाते ब्रसील् दलेन जर्मनीदलं पराजितम्।षूटौट् मध्ये ब्रसील् कृते अन्तिमावसरे नेय्मरेण लक्ष्यं प्राप्तम्। निश्चिते समये द्वाभ्यामपि दलाभ्याम् एकैकं लक्ष्यं प्राप्तमासीत्। गते विश्वचषकानुक्रमणे जर्मनीदलेन ब्रसील् दलं पराजितमासीत्। विजयेनानेन ब्रसील् दलं मधुरं प्रतिकारमपि अकरोत्।

रष्या भारतस्य विश्वस्तसुहृद् - प्रधानमन्त्री। 
नवदहली > रष्या सर्वदा भारतस्य विश्वस्तसुहृद् भवति इति प्रधानमन्त्री नरेन्द्रमोदी। रष्यया सह भारतस्य बान्धवः विश्वासपूर्णः एव, कालः अस्य बान्धवस्य साक्षी भवति - प्रधानमन्त्रिणा उक्तम्। रष्यायाः उपप्रधानमन्त्रिणे दिमित्री रोगोस् महोदयाय नवदहल्यां सज्जीकृते स्वीकरणसमारोहे एव प्रधानमन्त्रिणा एतत् अभिप्रेतम्। रष्यया सह उभयपक्षबान्धवं प्रबलीकर्तुं भारतं सर्वदा सन्नद्धमेव इति रष्यायाः राष्ट्रपतये अर्पिते सन्देशे प्रधानमन्त्रिणा सूचितम्।

Saturday, August 20, 2016

रजतशोभायां भारतम्।
रियो डि > ओलिम्पिक्स् मेलायां वनितानां पिच्छकन्दुकक्रीडायाः अन्तिमे चरणे भारतस्य पि वि सिन्धुवर्यायै रजतपतकम्। क्रीडात्रयपर्यन्तम् अनुवर्तिते अन्तिमे चरणे  स्पेयिन् देशीयां करोलिना मारिनां प्रति तृतीयायां क्रीडायां पराजयं प्राप्य द्वितीयस्थानं लब्धवती।




आनन्दसिन्धौ भारतम्।
कोच्ची >सुवर्णपतकं नष्टेभूतमपि पि वि सिन्धोः अभूतपूर्वविजये भारतीयाः आनन्दतुन्दिलाः वर्तन्ते। नानाकोणेभ्यः अभिनन्दनानि प्रवहन्ति।
    रियो ओलिम्पिक्स् मध्ये ह्यः प्रवृत्ते वनितानां पिच्छकन्दुकस्पर्धायाः - बाड्मिन्टन् - अत्यन्तं रोमाञ्चजनके अन्तिमचरणे तृतीयक्रीडा विनष्टा अपि विश्वस्य प्रथम स्थानीयां करोलिना मरीनां प्रति पराभवेन प्राप्तं  रजतपतकं सुवर्णशोभामतिक्रामति।
   पिच्छकन्दुकक्रीडायां प्राप्तपतका प्रथम वनिता भवति पि वि सिन्धू। तथा ओलम्पिक पतकप्राप्ता पञ्चमवनिता च। भारतस्य प्रधानमंत्री नरेन्द्रमोदी , राष्ट्रपतिः प्रणाब् कुमार् मुखर्जी, क्रिकेट इतिहासः सच्चिन् , अनेके राजनैतिकनेतारः, कायिकमण्डलप्रमुखाश्च अभिनन्दनानि प्रकाशितवन्तः।


Friday, August 19, 2016

 इतः परं प्रतीक्षा  सिन्धौ ।
रियो>  रियो ओलिम्पिक्स्  कायिकमामाड़्के  पदकं कस्मिन्नपि विभागे न प्राप्तवतः   भारतस्य प्रतीक्षा  इतोपि न विनष्टा । बाड्मिन्टण् तारं पी वी  सिन्धुः वनिताविभागं सेमि फैनल् मत्सराय स्थानं प्राप्ता इति अस्माकम् आशावहम् ।                        

 दीपायाः जीत्तोश्च खेलरत्ना पुरस्कारः ।।
       रियो> उज्ज्वलप्रकटनैः ओलिम्पिक्स् जिंनास्टिक्स् वोल्ट्  विभागस्य फैनल्मत्सरे चतुर्थस्थानं  प्राप्तवत्याः  दीपा कर्माकरस्य  तथा  ओलिम्प्यन् षूट्टर् जीत्तु रायस्य च खेलरत्ना पुरस्काराय कायिकपुरस्कारनिर्णयसमित्या  निर्देशः दत्तः । गुरुवासरे एव एतस्य प्रख्यापनं भविष्यति ।

Thursday, August 18, 2016

चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया
Hon. Education Minister, Prof. C Revindranath Introduce LP School Students For Sanskrit Newsreading
 लखनऊ विश्वविद्यालये संस्कृतविभागे संस्कृतसप्ताह: आयोजित:।
संस्कृत सप्ताहमवलम्ब्य संस्कृतभारती अवधप्रान्तः तथा लखनऊ विश्वविद्यालयस्य संयुक्ततत्वावधाने विश्वविद्यालयस्य संस्कृतविभागे संस्कृतसप्ताह: सहर्षेणायोजित: | आयोजने वाद-विवाद प्रतियोगिताया: आयोजनं सम्पन्नम् | प्रतियोगितायां असंख्याका: विद्यार्थिन: भागं गृहीतवन्त: | तेभ्यः पुरस्कारः प्रमाणपत्रञ्च प्रदत्तः । ‘संस्कृत शिक्षाया:प्रासंगिकतेति’ विषयमनुसृत्य छात्रै: पक्षविपक्षयो: स्वविचारा: प्रस्तुता: | तत हि  पूर्वविभागाध्यक्षाणां प्रो. बृजेश कुमार शुक्ल महोदयानाम् आशीर्वचांसि छात्राणां कृते लाभप्रद: संजातानि | वर्तमानै: विभागाध्यक्षै: प्रो. रामसुमेर यादवै: संस्कृतसम्भाषणाय प्रेरणा प्रदत्ता | प्रतियोगिताया: निर्णायकरूपेण विभागीया: डॉ. प्रयागनारायण मिश्र महाभागा:, भारतीय विद्याभवनस्य प्राध्यापिका: डॉ. अनुभा वाजपेयी महाभागा: आस्ताम् | कार्यक्रमस्य संचालनं डॉ. अशोक कुमार शतपथी महोदयेन विहितम् | उ.प्र. संस्कृत संस्थानस्य प्रशासनिकाधिकारिभिः डॉ. जगदानन्द झा महाभागै:स्वागतसम्बोधनं एवञ्च शोधाध्येतृभि: डॉ. कुलदीपक शुक्लैः,अनिल कुमार महाभागै:, अरुण कुमार निषाद महाभागै:, रोशन सिंह महाभागै:व्यवस्था सम्पादिता | कार्यक्रमे ऽस्मिन् डॉ. अभिमन्यु सिंह, डॉ. पत्रिका जैन, डॉ.श्यामलेश, डॉ. नेहा खरे, डॉ. सन्तप्रकाशादय: विभागै: छात्रै: साकमेवोपस्थिता: आसन् |

 चित्रकला तथा मेधिनी कला प्रतियोगिता आयोजिता।
 संस्कृतभारती अवधप्रान्तः द्वारा 17 अगस्त 2006 तमे दिनांके आर. एस. एस. एकेडमी, कृष्णा नगर, लखनऊ विद्यालये चित्रकला तथा मेधिनी कला प्रतियोगिता आयोजिता।  प्रतियोगितायां प्रायः 70 छात्राः भागं गृहीतवत्यः । करतलोपरि मेधिनीकला निर्मीय तत्र वदतु संस्कृतम् जैसे वाक्यं लेखनीयमासीत् । चित्रकलायाः पूर्णं विवरणं प्रतिभागिन्यैः लेखनीयमासीत् । रक्षाबंधात् प्राक् निर्मितैषा कला भ्रातृन् वदतु संस्कृतम् इति संदेशं दास्यति। अस्याः परिकल्पना डॉ. सरिता श्रीवास्तव जगदानन्द झा मिलित्वा कृतवन्तौ ।

 संस्कृतसप्ताहस्य शुभारम्भावसरे ११मासात्मकस्य अनौपचारिकसंस्कृतकेन्द्रस्य उद्घाटनं सम्पन्नम्।
कानपुरम्> १६अगस्तम्। संस्कृतसप्ताहस्य प्रथमदिवसे  कानपुरस्थे विक्रमाजीत-सिंहसनातनधर्म- महाविद्यालये संस्कृतसप्ताहस्य शुभारम्भावसरे ११मासात्मकस्य अनौपचारिकसंस्कृतकेन्द्रस्य उद्घाटनं सम्पन्नम्। उल्लेखनीयं यत् संस्कृतस्य प्रचार-प्रसाराय राष्ट्रियसंस्कृत संस्थानस्य योजनान्तर्गतं चिते केन्द्रेऽस्मिन् संस्थानद्वारा शिक्षकरूपेण सवृत्तिनियुक्ति: क्रियते।           कार्यक्रमे अध्यक्षतां निर्वहन् डॉ. शिवबालकद्विवेद: जीवने संस्कृताध्ययनस्य आवश्यकतां सविस्तरं प्रतिपादितवान्। मुख्यातिथि: मातृस्थानम् इति कानपुरस्य प्रतिनिधि-मासिक-पत्रिकाया: सम्पादक: अनूपशुक्लमहोदय: कानपुरे संस्कृतस्य गौरवशालीतिहासस्य सन्दर्भोल्लैखै: अवागमयत्। महाविद्यालयस्य उपप्राचार्या डॉ. सुप्रिया शुक्ला स्वस्य सम्बोधने उक्तवती यत्संस्कृतं विना अस्माकं परिचय: एव न दातुं शक्यते।                   कार्यक्रमे विभागीयशिक्षका: छात्रा: गणमान्या: अतिथय: उपस्थिता: आसन्। उद्घाटनसमारोहस्य अन्तिमचरणे संस्थानेन नियुक्ता केन्द्रशिक्षिका श्रीमती रेनूसिंह विधिवद् अध्यापनम् आरब्धवती।

 उत्तर प्रदेश संस्कृत संस्थाने 25 दिवसीय कर्मकाण्डप्रशिक्षण- शिविरस्य उद्घाटनं सम्पन्नम् ।
 लखनऊ 17 अगस्त। संस्कृतदिवसस्य पूर्वदिने उत्तर प्रदेश संस्कृत संस्थाने 25 दिवसीय कर्मकाण्डप्रशिक्षण- शिविरस्य उद्घाटनं सम्पन्नम् ।उद्घाटने मुख्यातिथिः डॉ. महानन्द झा, विशिष्टातिथिः प्रो. आजाद मिश्रः आसन् । डाॅ. झा विधिहीनमसृष्टन्नमिति गीतायाः उद्धरणं प्रस्तुवन् उक्तवान् यत् अदक्षिणमिति पदे अल्पार्थवाची नञ् समासः अस्ति । कर्मकांडप्रशिक्षकेण डॉ. अंजनी मिश्रेण विषयोपस्थापनं विहितम्। अस्मिन्नवसरे 30 प्रशिक्षणार्थिनः स्वकीयं नामांकनं कृत्वा समुपस्थिताः आसन् । कार्यक्रमस्य संचालनं धन्यवादज्ञापनञ्च जगदानन्द झा वर्यैः कृतम् ।

 संस्कृत-दिवसमालक्ष्य "आकाशवाण्या: संस्कृत-सौरभार्थं ध्वन्यंकितं कवि-सम्मेलनं
संस्कृत-दिवसमालक्ष्य "आकाशवाण्या: संस्कृत-सौरभार्थं ध्वन्यंकितं कवि-सम्मेलनं २०-दिनांके मासेsस्मिन् रात्रौ सार्ध-नववादने ६६६-किलोहार्ट्ज्-इति राजधानी-वाहिकया प्रसारयिष्यते।

Wednesday, August 17, 2016

संस्कृत दिनस्य अनुबन्धतया श्वः आरभ्य  प्रथम - चत्वार कक्ष्यायाः छात्राणां वार्तावतरणं आरभ्स्यते 
अनन्तपुरी > केरलस्य शिक्षामन्त्री गुरुवर्यः सी.रवीन्द्रनाथ महोदयः वार्तावतरणस्य शुभारम्भे स्वागतं कृत्वा वार्तावतारकान् छात्रान् पुरतः अवतारयिष्यति ॥ विद्यालयेषु प्रभाते संस्कृतदिनमहोत्सवे मन्त्रिणः भाषणं छात्राणां पुरतः प्रदर्श्यते
 रियो ओलिम्पिक्स् : पि.वि. सिन्धू ,श्रीकान्तः च क्वार्टर् मध्ये ।
    रियो डि जनीरो > रियो ओलिम्पिक्स् मध्ये भारतस्य पि.वि.सिन्धू ,श्रीकान्तः च क्वार्टर् फैनल् प्रविष्टौ। बाड्मिन्टण् पुरुषविभागे श्रीकान्तः डेन्मार्क् क्रीडकं यान्‌ यो योर्गेन्सं पराजितवान्। वनिताविभागे पि.वि. सिन्धू चैनायाः ताय् सुयीङिनं च पराजितवती।

 ९२ वर्षपरिमितं रेलयानमन्त्रालयस्य धनव्ययगणनपत्रिकावतरणं केन्द्रसर्वकारः परिसमापयति।
   नवदहली > आङ्गलशासनकालादारभ्य क्रियमाणं रेलयानसम्बन्धं धनव्ययगणनपत्रिकावतरणं केन्द्रसर्वकारः परिसमापयति। अस्य सम्प्रदायस्य ९२ वर्षाणां पुरातनत्वमस्ति। अधुना एकस्य आर्थिकवर्षस्य सामान्यधनव्ययगणनपत्रिकावतरणात्परं रेलयानसम्बन्धं धनव्ययगणनपत्रिकावतरणपि सर्वकारै: क्रियमाणं वर्तते। अग्रिमवर्षादारभ्य सम्प्रदायोऽयं न भविष्यतीति केन्द्रसर्वकारेण सूचना दत्ता। रेलयानमन्त्रालयस्य प्रवर्तनादिकं केन्द्रधनमन्त्रालयस्य परिधावेव आवश्यकम् इत्येव केन्द्रसर्वकारस्य निर्णयः ।अपि च सामान्यधनव्ययगणनपत्रिकासमर्पणानन्तरं क्रियमाणेन रेलयानधनव्ययगणनपत्रिका समर्पणेन जायमानस्य धनव्ययस्य नियन्त्रणमपि नूतनपरिष्कारेण उद्दिश्यते।

 प्रधानमन्त्रिणः प्रभाषणं निराशाजनकम् - उच्चतरन्यायालयस्य अध्यक्ष:।
  नवदहली > स्वातन्त्र्यदिनसन्देशतया चेङ्‌कोट्टायां प्रधानमन्त्रिणा नरेन्द्रमोदिना कृतं प्रभाषणं निराशाजनकमासीदिति उच्चतरन्यायालयस्य अध्यक्षः टि. एस् ठाकूर् महोदयः । प्रभाषणे बहव: विषया: मोदिना परामर्शिताः, किन्तु न्यायाधिपानां नियमनकार्यविषये किमपि न उक्तम्, एतत् निराशाजनकमेव - अध्यक्षेण सूचितम्। न्यायाधिपानां नियमनकार्येषु जायमानः विलम्बः राष्ट्रस्य नीतिन्यायव्यवस्थां प्रतिकूलतया बाधते इत्यपि महोदयेन स्मारितम्। अधुना उच्चन्यायालयेषु न्यायाधिपानां शून्यता अत्यधिका वर्तते इति पूर्वमेव सूचनाः आसन् ।

 नरेन्द्रमोदिनं कृतज्ञतां संसूच्य बलूच् नेतारः।
  नवदहली > पाकिस्थानस्य बलूच्प्रविश्यायां जायमानानां स्वयंभरणप्रक्षोभानां कृते साहाय्यं प्रख्यापितं नरेन्द्रमोदिनं कृतज्ञतां संसूच्य बलूच् नेतारः। ह्यः देहल्याम् स्वातन्त्र्यदिनप्रभाषणे बलूच् प्रक्षोभान् परामर्श्य प्रधानमन्त्रिणा नरेन्द्रमोदिना भाषितमासीत् । बलूचिस्थानप्रविश्यायां जायमानानां मनुष्याधिकारध्वंसनप्रवर्तनानमुपरि भारतस्य शब्दः सर्वदा वर्तते, तत्रत्यैः सङ्घै: क्रियमाणानां स्वतन्त्रताप्रवर्तनानां कृते भारतसर्वकारस्य माध्यमानां च सहयोगः अवश्यं वर्तते इति च प्रधानमन्त्रिणा सूचितम्। प्रधानमन्त्रिणः एतत्परामर्शं प्रति बलूच् रिप्पब्लिकन् दलेन कृतज्ञता अर्पिता च।

Monday, August 15, 2016

झार्खण्डे जलोपप्लवः - अष्ट सेतवः भग्नाः। 
राञ्ची > अतिवृष्ट्या सञ्जाते जलोपप्लवे झार्खण्डराज्ये विविधजनपदेषु अष्टसेतवः भग्नाः अपसृताश्च। चत्राजनपदे जयप्रकाश् नारायण् जलसम्भरण्यां छिद्रः जातः। जलधारा अनुभूता वर्तते।

ऐषमः  राष्ट्रपतिसम्मान-महर्षि-बादरायण-व्यास- सम्मानयोः उद्घोषणा सञ्जाता |

महामहिमराष्ट्रपति: संस्कृतभाषायाः  कृते  सहर्ष सम्मान-प्रमाणपत्रम् एभ्यः प्रदास्यते  तेषु

1. श्री आर. वेंकटरमन:
2. श्री विष्वनाथगोपालकृष्ण:
3. श्री जियालालकम्बोज:
5. डॉ. भवेन्द्रझा
6. प्रो. प्रियतमचन्द्रशास्त्री
7. प्रो. गुरूपाद. के.हेगडे
8. प्रो. एस.टी नगराज:
9. श्री सनातनमिश्र:
10. श्री एस.एल.पि.आज्जनेयशर्मा
11. प्रो. (श्रीमती) लक्ष्मीशर्मा
12. प्रो. विष्वनाथभट्टाचार्य:
13. प्रो. रामानारायणदास:
14. डॉ. रामशङ्करअवस्थी
15. श्री हृदयरंजनशर्मा
16. प्रो. (डॅा.) जानकीप्रसादद्विवेदी सम्मिलिताः सन्ति

संस्कृते अंताराष्ट्रियसम्मानाय श्री फरनांडोतोला प्रचितः |

संस्कृते महर्षिबादरायनव्याससम्मानम्
1. डॉ. महानन्दझा
2. डॉ. सुन्दरनारायणझा
3. डॉ. जि.एस.वि. दत्तात्रेयमूर्ति
4. डॉ. विष्वनाथधितालः
5. डॉ. शंकरराजारमनः

एतेषु प्रदास्यते |
 
ग्रामग्रामान्तरं प्रति 80000 लोकयानानि ।।    
                 नवदेहल्ली >  125000 ग्रामान् परस्परं बन्धितुं 60% केन्द्रविहितेन लोकयानानि आगमिष्यन्ति । ग्रामीणमार्गेण लोकयानचालनमेव पद्धत्याः लक्ष्यम् । गतागतमन्त्रालयः ग्रामविकसनमन्त्रालयेन सह  सम्मिल्य चाल्यमानायाः पद्धत्याः रूपरेखा आविष्कृता । प्रधानमन्त्री ग्रामीण परिवहन योजना इति नाम पद्धत्याः अस्याः।

 पलास्तिकदेशीयपताकायाः निरोधनम्। 
नवदिल्ली - पलास्तिकविमुक्तं स्वातन्त्र्यदिनाघोषं साक्षात्कर्तुं पलास्तिकनिर्मितानां देशीयपताकानाम् विक्रय-वितरण-उपभोगानि निरुद्धानि।
   देशीयपताकानाम् अन्तःसत्तां संरक्षितुं पलास्तिकपताकानाम् उपयोगं निराकर्तुं  च क्रियाविधिं स्वीकर्तुं राज्यसर्वकारान् प्रति केन्द्रसर्वकारः निरदिशत्। निरोधनोल्लङ्घनं संवत्सरत्रयं यावत् कारागारदण्डनम् अर्हति।


 भारतीय क्रिकेटदलेन वेस्ट- इंडीज़ दलं पराजितम् 

भारत वेस्ट इंडीजयोः तृतीय क्रिकेटनिकषद्वन्द्वे सेंटलूसियाटेस्ट क्रीडांगणे भारतेन वेस्ट इंडीजदलं 237 धावनांकैः पराजितम् . रविचन्द्रन अश्विनः 'मैन ऑफ़ द मैच' इति स्पर्धापुरुषपुरस्कारेण बहुमानितः | श्रृंखलायाः अन्तिमस्पर्धा  गुरुवासरात् प्रारप्स्यते |

 श्रीनगरे देशीयध्वजारोहणं करिष्यतीति त्रयोदशवयस्का बालिका। 
अहम्मदाबाद्‌ > स्वातन्त्र्यदिने काश्मीरस्य श्रीनगरे लाल् चौक् मध्ये देशीयध्वजारोहणं करिष्यतीति गुजरातस्वदेशिनी  बालिका। त्रयोदशवयस्का तन्सीं मेरानी एव एवमवदत्। सङ्घर्षपूरितेषु बहुषु काश्मीरमण्डलेषु बहोः कालादारभ्य आगस्त् १५, जनुवरी २६ इत्येतयोः देशीयप्राधान्यदिनयोः 'कर्फ्यू' प्रख्यापनं क्रियमाणं वर्तते। तत्तु अस्मिन् वर्षेऽपि भविष्यति। अतः ध्वजारोहणाय बालिकायै अनुमतिः नैव लप्स्यते इति विदग्धैः सूचितम्। माध्यमप्रवर्तकैः एतत्सूचिते सन्दर्भे 'स्व राष्ट्रे प्रवेशितुं कस्यापि अनुमतिः नावश्यकी' इत्येव बालिकायाः प्रतिवचनमासीत्।

 इरों शर्मिलायाः निराहारसमरम् अनुवर्त्य ३२ वयस्का वनिता।
  इंफाल् > षोडशवर्षपर्यन्तं दीर्घीकृतनिराहारसंग्रामं समापयित्वा गतसप्ताहे एव इरों शर्मिलया राष्ट्रीयमण्डलप्रवेशं सम्बन्ध्य स्वाभिप्रायः प्रकटितः। अफ्स्पा नियमं प्रतिनिवर्तयितुं इरों शर्मिलया कृतं निराहारसंग्रामम् अनुवर्तयितुं मणिप्पूर् स्वदेशिनी अरम्बांरोबितलीमा नामिका ३२ वयस्का सन्नद्धा अभवत् ।द्वयोः बालयोः माता अपि भवति इयं युवती । इंफाल् पश्चिमजिल्लायाः कम्यूणिटि अङ्‌गणे शनिवासरे प्रभाते दशवादनात् तया निराहारसंग्रामः आरब्धः।

वैमानिकयाेः कृते वर्षचतुष्टयस्य निरोधः।
  नवदहली > मद्यलहर्यां विदेशात् भारतं प्रति विमानचालनं कृतम् इति कारणेन द्वयोः वैमानिकयोः डि जि सि ए पक्षतः वर्षचतुष्टयस्य निरोधः। द्वयोः उपरि एफ् ऐ आर् पञ्चीकृत्य अन्वेषणाय अपि निर्देश: दत्तः। एतौ एयर् इन्ड्या संस्थायाः जेट् एयर्वेय्स् संस्थायाः च वैमानिकौ भवतः।विमानस्य प्रत्यागमनात्परं कृतायां परिशोधनायां एतौ मद्यपानमकुरुतां इति व्यक्तमासीत्। एतस्मिन्नेव विषये एयर् इन्ड्या संस्थायाः एकः कर्मकरः निरोधितः वर्तते । वैमानिकाभ्यां गुरुतरः कृत्यविलोपः एव कृतः इति व्योमयानमन्त्रालयेन सूचितमासीत्।

जम्मु - काश्मीर् समस्यां परिहाराय चर्चायै भारतसहयोगः आवश्यकः- पाकिस्थान्।  
नवदहली > काश्मीर् समस्यापरिहाराय चर्चा आवश्यकी,एतदर्थं भारतसहयोगः अपेक्षितः। एतत्सम्बन्ध्य भारतं प्रति आमन्त्रणपत्रिकां प्रेषयिष्यतीति पाक् प्रधानमन्त्रिणः विदेशकार्य उपदेष्टा सर्ताज् असीस् अवदत्। काश्मीर् समस्या परिहारः लक्ष्यं प्राप्स्यतीति विश्वासः वर्तते इत्यपि तेन सूचितम्।
संस्कृतदिने अध्यापकानां स्पर्धा
अनन्तपुरी >संस्कृत-दिनाचरणस्य अङ्गतया केरळराज्यस्य शैक्षिक विभागेन  अध्यापकानां कृते चत्वारः स्पर्धा : आयोजिता:। 1कथा रचनायां विषयः प्रत्यागमनम् । २  कवितारचनायां विषय: निरालंबा । 3 समस्या पूरण विषयः पिबाम संस्कारसुधारसं सदा । 4 उपन्यासरचनायां विषय : शिक्षाक्षेत्रे नव माध्यमानां प्रसरः ।  स्पर्धासु ये भागं स्वीकर्तु मिच्छन्ति ते  २३ तमे दिनांके सायं पञ्चवादनात्  पूर्वं रचनाः तिरूवनन्तपुर्यं  DPI कार्यालये पाप्तव्याः॥

संस्कृतसप्ताहाचरणसम्बन्धाः कार्यक्रमाः जनं टीवी मध्ये भविष्यति
सायङ्काले 5.15 तः  5.30/5.45 पर्यन्तम्।
*15.08.2016 - एकपात्राभिनय:  *16.08.2016 - काव्यालापनम्   *17.08.2016 - संवाद:       *18.08.2016 - ह्रस्वचलच्चित्रम्  - अन्नदाता  *19.08.2016 - बालनिकुञ्जम्  *20.08.2016 - डा. पी नन्दकुमारमहोदयेन सह अभिमुखम्  *21.08.2016 - सांस्कृतिककार्यक्रमः।   प्रतिदिनं 5 वादनतः 5.15 वादनपर्यन्तं संस्कृतवार्ता (वार्तासंस्कृतम्) च ।

Sunday, August 14, 2016

ग्रामग्रामान्तरं प्रति 80000 लोकयानानि ।।
                  नवदिल्ली>125000 ग्रामान् परस्परं बन्धितुं 60% केन्द्रविहितेन लोकयानानि आगमिष्यन्ति। ग्रामीणमार्गेण लोकयानचालनमेव पद्धत्याः लक्ष्यम् । गतागतमन्त्रालयः ग्रामविकसनमन्त्रालयेन सह  सम्मिल्य चाल्यमानायाः पद्धत्याः रूपरेखा आविष्कृता । प्रधानमन्त्री ग्रामीण परिवहन योजना इति नाम पद्धत्याः अस्याः।

 पलास्तिकदेशीयपताकायाः निरोधनम्।
नवदिल्ली>पलास्तिकविमुक्तं स्वातन्त्र्यदिनाघोषं साक्षात्कर्तुं पलास्तिकनिर्मितानां देशीयपताकानाम् विक्रय-वितरण-उपभोगानि निरुद्धानि।
   देशीयपताकानाम् अन्तःसत्तां संरक्षितुं पलास्तिकपताकानाम् उपयोगं निराकर्तुं  च क्रियाविधिं स्वीकर्तुं राज्यसर्वकारान् प्रति केन्द्रसर्वकारः निरदिशत्। निरोधनोल्लङ्घनं संवत्सरत्रयं यावत् कारागारदण्डनम् अर्हति।

भारतीय क्रिकेटदलेन वेस्ट- इंडीज़ दलं पराजितम्|
भारत वेस्ट इंडीजयोः तृतीय क्रिकेटनिकषद्वन्द्वे सेंटलूसियाटेस्ट क्रीडांगणे भारतेन वेस्ट इंडीजदलं 237 धावनांकैः पराजितम् . रविचन्द्रन अश्विनः 'मैन ऑफ़ द मैच' इति स्पर्धापुरुषपुरस्कारेण बहुमानितः | श्रृंखलायाः अन्तिमस्पर्धा  गुरुवासरात्  प्रारप्स्यते |
 काश्मीर् सङ्घर्षः- स्वाभिमतान्  प्रस्ताव्य प्रधानमन्त्री।
  नवदहली > समीपकाले काश्मीरस्य विविधेषु प्रदेशेषु सञ्जाताः सङ्घर्षाः अन्यं कमपि भारतीयम्‌ इव मामपि दुःखयन्तीति प्रधानमन्त्री नरेन्द्रमोदी। काश्मीरसङ्घर्षाणां सन्दर्भे दहल्यां जाते सर्वकक्षियोगे भाषयन् आसीत् मोदी। काश्मीरस्य नेतृभिः जनपक्षतः विश्वासः आर्जनीयः, एतत्तु अत्यन्तापेक्षितः इति मोदी अवदत्। काश्मीरस्य सामूहिकस्थितिः इतोऽपि सङ्घर्षपूर्णा चेत् तत्रत्यानां साधु जनानां जीवनव्यवस्था अतिशोचनीया भविष्यतीति तेन सूचितम्।

बि एस् एन् एल् संस्थायाः रविवासराणां निशुल्कसेवनम् आगस्त् १५ तः आरभ्यते।
  नवदहली > बि एस् एन् एल् दूरवाणी उपभोक्तृणां कृते प्रख्यापितं रविवासराणां निशुल्कसेवनम् आगस्त् १५ तः आरभ्यते। रविवासरेषु बि एस् एन् एल् दूरवाणीतः सर्वान् सेवनदातृन् प्रति उपयोगाय शुल्कव्यवस्था न भविष्यति। अपि च बि एस् एन् एल् संस्थया दीयमानं रात्रिकालनिशुल्कसेवनम् अनुवर्तयिष्यति इति अधिकृतैः सूचितम्।


 मेसी राष्ट्रान्तरक्रीडां प्रत्यागमिष्यति।
  बूणस् ऐरिस् > अर्जन्टीना क्रीडकः लयणल् मेसी राष्ट्रान्तरपादकन्दुकक्रीडां प्रत्यागमिष्यति। अर्जन्टीना परिशीलकेन एड्गार्डो बौसेन सह स्पेयिन् मध्ये कृतात् अभिमुखभाषणात् परं दत्तायां प्रस्तावनायाम्‌ एव मेसी एतत् असूचयत्। अर्जन्टीनायाः कृते स्वपक्षतः इतोऽपि योगदानं करणीयम् इति इच्छा एव विरामनिर्णयस्य परिवर्तनकारणं इति सः अवदत्। कोपा अमेरिका अन्तिमक्रीडायाः पराजयात्परं तेन विरामप्रख्यापनं कृतमासीत्।

आमसोण् अन्तर्जालव्यापारसङ्घात् 
गोमयः अपि लप्स्यते।

नवदेहली > इ-कोमेर्स् मण्डलस्य प्रमुखेन आमसोण् व्यापारसङ्घेन गोमयव्यापाराय पर्यालोच्यते। गोमयस्य प्राधान्यमङ्गीकृत्य द्वित्राः इ-कोमेर्स् सङ्घाः गोमयव्यापारम् आरब्धवन्तः आसन्। एतेषां मध्ये आमसोण् सङ्घस्य प्रवेशः अन्तर्जालव्यापारमण्डले गोमयव्यापारे नूतनं परिवर्तनं भविष्यति। मण्डलेऽस्मिन्, धेनोः लभ्यमानानाम् उत्पन्नानामेव विपणनं कुर्वतः Gaukranti.org सङ्घस्यैव प्रामुख्यं वर्तते।

 केरळेषु व्यवसायमारब्धुम् अनुमतिः एकमासाभ्यन्तरे- इ पि जयराजः। 
कोष़िकोट् > केरळेषु व्यवसायमारब्धुम् अनुमतिः एकमासाभ्यन्तरे एव दातुं सर्वकारपर्यालोचना अस्तीति व्यावसायिकसचिवः इ पि जयराजः। एतदर्थम् आवश्यकं नयरूपीकरणम्‌ अचिरादेव करिष्यतीति मन्त्रिणा सूचितम्‌। व्यावसायिकानुमत्यै उपयुज्यमानम् एकजालकसंविधानं परिवर्त्य सर्वाः अपि अनुमतीः एकमासाभ्यन्तरे पूर्तीकर्तुं नूतनः व्यावसायिकनयः आविष्क्रियते इति तेन उक्तम्।


तीरदेशपालननियमे नव प्रतीक्षायाम् केरलम् ।। 
कोच्ची>तीरदेशपरिपालननियमः  पश्चिमघट्टसंरक्षणनियमः  एतयोः विषययोः केरलानाम् आश्वासहस्तैस्सह केन्द्रसर्वकाराः । मत्स्यबन्धनं कुर्वताम् गुणकरं परिवर्तनं नियमेषु परिगणयेयुः इति केन्द्रवनपरिस्थितिमन्त्रिणा अनिल् माधवदावे महाशयेन उक्तम् । पश्चिमघट्टसंरक्षणाय नूतनसमीपनञ्च आविष्करणीयमिति सर्वकारैः सूचितम् ।

वार्तामुक्तकानि
*विदेशमन्त्रिण्या सुषमास्‍वराजवर्यया  चीनस्य विदेशमन्त्रिणा साकं  परमाण्वापूर्तिकर्त्रृसमूहे भारतस्य सदस्‍यताविषयः  विस्‍तारेण चर्चितः । पाकिस्‍तानस्यावैधतयाधिकृत कश्‍मीरस्य चीन-पाकिस्‍तानार्थिकमार्गस्योपरि भारतेन चिन्‍ता प्रकटिता।
* देशस्य विभिन्नभागेषु तिरंगा इति त्रिवर्णध्वजयात्रा प्रारब्धा । गृहमंत्री राजनाथसिंहः झारखंडे वीर स्‍वतन्त्रतासेनानिने बिरसामुण्‍डाय श्रद्धाजलिस्समर्पितवान् ।
*बलुच् रिप्पब्लिकन् पार्टी इति दलस्याध्‍यक्षः ब्रहमदागबुगती बलुचिस्‍ताने भारतस्य  हस्‍तक्षेपस्याह्वानमकरोत् । तेन पाकिस्‍तानाधिकृतकाश्‍मीरे प्रधानमन्त्रिणः नरेन्‍द्रमोदिनः कृतटिप्‍पण्याः  स्‍वागतम्।

Saturday, August 13, 2016

इरों शर्मिलायाः निराहारसमरम् अनुवर्त्य ३२ वयस्का वनिता। 
 इंफाल् > षोडशवर्षपर्यन्तं दीर्घीकृतनिराहारसंग्रामं समापयित्वा गतसप्ताहे एव इरों शर्मिलया राष्ट्रियमण्डलप्रवेशं सम्बन्ध्य स्वाभिप्रायः प्रकटितः। अफ्स्पा नियमं प्रतिनिवर्तयितुं इरों शर्मिलया कृतं निराहारसंग्रामम् अनुवर्तयितुं मणिप्पूर् स्वदेशिनी अरम्बांरोबितलीमा नामिका ३२ वयस्का सन्नद्धा अभवत् । द्वयोः बालयोः माता अपि भवति इयं युवती । इंफाल् पश्चिमजिल्लायाः कम्यूणिटि अङ्‌गणे शनिवासरे प्रभाते दशवादनात् तया निराहारसंग्रामः आरब्धः।

वैमानिकयाेः कृते वर्षचतुष्टयस्य निरोधः।
  नवदहली > मद्यलहर्यां विदेशात् भारतं प्रति विमानचालनं कृतम् इति कारणेन द्वयोः वैमानिकयोः डि जि सि ए पक्षतः वर्षचतुष्टयस्य निरोधः। द्वयोः उपरि एफ् ऐ आर् पञ्चीकृत्य अन्वेषणाय अपि निर्देश: दत्तः। एतौ एयर् इन्ड्या संस्थायाः जेट् एयर्वेय्स् संस्थायाः च वैमानिकौ भवतः।विमानस्य प्रत्यागमनात्परं कृतायां परिशोधनायां एतौ मद्यपानमकुरुतां इति व्यक्तमासीत्। एतस्मिन्नेव विषये एयर् इन्ड्या संस्थायाः एकः कर्मकरः निरोधितः वर्तते । वैमानिकाभ्यां गुरुतरः कृत्यविलोपः एव कृतः इति व्योमयानमन्त्रालयेन सूचितमासीत्।

 जम्मु - काश्मीर् समस्यां परिहाराय चर्चायै भारतसहयोगः आवश्यकः- पाकिस्थान्।
  नवदहली > काश्मीर् समस्यापरिहाराय चर्चा आवश्यकी,एतदर्थं भारतसहयोगः अपेक्षितः। एतत्सम्बन्ध्य भारतं प्रति आमन्त्रणपत्रिकां प्रेषयिष्यतीति पाक् प्रधानमन्त्रिणः विदेशकार्य उपदेष्टा सर्ताज् असीस् अवदत्। काश्मीर् समस्या परिहारः लक्ष्यं प्राप्स्यतीति विश्वासः वर्तते इत्यपि तेन सूचितम्।
सीमायां तालिबान् आक्रमणाय साध्यतेति पाकिस्तान्।
लाहोर्>भारतस्य स्वातन्त्र्यदिनाघोषमनुबन्ध्य वाग-गन्दसिंहसीमायां तालिबानस्य आत्मघात्याक्रमणसाध्यता अस्तीति पाकिस्तानस्य तीव्रवादविरुद्धसेनायाः  जाग्रतासूचना।
    तेहरिक् इ तालिबान् फसलुल्ला नामकस्य भीकरविभागस्य द्वौ आत्मघातिसङ्घाङ्गौ प्रस्तुतप्रविश्यां निलीय प्रविष्टवन्तौ इति सेनावक्त्रा उक्तम्। आगस्त् १३- १५ दिनाङ्काभ्यन्तरे स्यात् आक्रमणमिति सूचना।



राष्ट्रे ९८३ रेलयानालयेषु निरीक्षणचित्रग्राहिण्यः स्थापयिष्यति - केन्द्रसर्वकारः।
 नवदहली > वनितायात्रिकानां सुरक्षायै राष्ट्रे ९८३ रेलयानालयेषु सिसिटिवि चित्रग्राहिण्यः स्थापयिष्यतीति केन्द्रसर्वकारेण राज्यसभायां प्रख्यापितम्। निर्भया धनपद्धतेः साहाय्येनैव पद्धतिरियं संस्थाप्यते इति केन्द्ररेलसहमन्त्री राजेन् होगेयिन् सभायाम् अवदत्। धनसाहाय्यस्य लभ्यताम् अनुसृत्य पद्धतेः व्यापनमपि उद्‌दिश्यते इत्यपि सः अवदत्।

केन्द्रसर्वकारं प्रति उच्चतरन्यायालयस्य विमर्शनम्।
 नवदहली > केन्द्रसर्वकारं प्रति उच्चतरन्यायालयस्य दण्डनव्यवहारः रूक्ष विमर्शनं च । राष्ट्रस्य वाहनापघातान् सम्बन्ध्य विशदीकरणं दातुं केन्द्रसर्वकारस्य विलम्ब एव विमर्शनस्य कारणम्I उच्चतरन्यायालयव्यवहार: ग्रामपञ्चायत् व्यवहाराः  इव न द्रष्टव्याः इति उच्चतरन्यायालयाध्यक्षेण टि एस्‌ ठाकुरमहोदयेन स्मारितम्। गतागतमन्त्रालयपक्षतः द्वयोः वर्षयोः विशदीकरणम् एतावता न लब्धम्, एतत् अङ्‌गीकर्तुं नैव शक्यते इति अध्यक्षेण सूचितम्‌।२५००० रूप्यकाणि दण्डनव्यवहाररूपेण   समर्पणीयानि इति न्यायालयेन निर्देश: दत्तः। सप्ताहत्रयाभ्यन्तरे उचितं विशदीकरणं दास्यतीति सर्वकारपक्षतः अट्टोर्णी जनरलेन उच्चतरन्यायालयं प्रति बोधितम्।

 वैमानिकयाेः कृते वर्षचतुष्टयस्य निरोधः। 
 नवदहली > मद्यलहर्यां विदेशात् भारतं प्रति विमानचालनं कृतम् इति कारणेन द्वयोः वैमानिकयोः डि जि सि ए पक्षतः वर्षचतुष्टयस्य निरोधः। द्वयोः उपरि एफ् ऐ आर् पञ्चीकृत्य अन्वेषणाय अपि निर्देश: दत्तः। एतौ एयर् इन्ड्या संस्थायाः जेट् एयर्वेय्स् संस्थायाः च वैमानिकौ भवतः।विमानस्य प्रत्यागमनात्परं कृतायां परिशोधनायां एतौ मद्यपानमकुरुतां इति व्यक्तमासीत्। एतस्मिन्नेव विषये एयर् इन्ड्या संस्थायाः एकः कर्मकरं निरोधितः वर्तते। वैमानिकाभ्यां गुरुतरःकृत्य विलोपः एव कृतः इति व्योमया नामन्त्रालयः सूचितमासीत् ।

 भ्रष्टाचारविरुद्धप्रवर्तनं विद्यालयादेव आरम्भणीयम् - डो.जेक्कब् तोमसः।
कोच्ची> भ्रष्टाचारान् विरोद्धुं क्रियाविधयः विद्यालयेभ्य एव आरम्भणीय इति केरलस्य दक्षतासंस्थायाः अधिकारी डो. जेक्कब् तोमसेन प्रस्तुतम्। एरणाकुलं सेन्ट् तेरेसास् कलालये आयोजितायां "यूत् फोर् स्वच्छ् आन्ड् सच्चा भारत्" नामिकायाः सङ्गोष्ठ्याः उद्घाटनं कुर्वन् भाषमाणः आसीत् सः।
केवलबोधवत्करणेन प्रयोजनं न लभते !  भ्रष्टाचाराचरणस्य मानसिकावस्था परोक्षतया अपि विद्यालयतः एव प्रारभते इति तेनोक्तम्। लक्षशः रूप्यकाणि दत्वा अध्यापकवृत्तिं प्रविष्टमानः प्रत्यक्षेषु वर्तमानेषु भ्रष्टाचारेषु निस्सहायः वर्तेत। ईदृशीं निस्संगतां निर्विकारतां च त्यक्त्वा प्रतिकरणशेषिं प्रवर्धेत इत्यस्ति विद्यालयेषु भ्रष्टाचारविरुद्धप्रवर्तनानां मुख्योद्देश्यः इत्यपि जेक्कब् तोमस्वर्येण उक्तम्।

कृत्यविलोपः एव कृतः इति व्योमयानमन्त्रालयः सूचितमासीत्।
 जम्मु> काश्मीर् समस्यां परिहाराय चर्चायै भारतसहयोगः आवश्यकः- पाकिस्थान्।  नवदहली > काश्मीर् समस्यापरिहाराय चर्चा आवश्यकी,एतदर्थं भारतसहयोगः अपेक्षितः। एतत्सम्बन्ध्य भारतं प्रति आमन्त्रणपत्रिकां प्रेषयिष्यतीति पाक् प्रधानमन्त्रिणः विदेशकार्य उपदेष्टा सर्ताज् असीस् अवदत्। काश्मीर् समस्या परिहारः लक्ष्यं प्राप्स्यतीति विश्वासः वर्तते इत्यपि तेन सूचितम्।

Friday, August 12, 2016

साक्कीर् नायिक्कस्य आर्थिकविनिमयम् अन्वेष्टुं मुम्बई आरक्षकाः केरळं प्रति। 
मुम्बई - इस्लामिकधर्मप्रभाषकस्य साक्किर् नायिकः इत्यस्य आर्थिकविनियोगम् अधिकृत्य महाराष्ट्रारक्षकैः अन्वेषणम् आरब्धम्।
  संवत्सरत्रयाभ्यन्तरे नायिक्कस्य संख्या स्थानं प्रति त्रयेभ्यः विदेशराष्ट्रेभ्यः षष्ठिकोटिपरिमितं रूप्यकाणि प्राप्तानीति प्रत्यभिज्ञातम्। विदेशधनं किमर्थमुपयुक्तमिति अन्वेष्टव्यम्। केरलतः अप्रत्यक्षाभ्यां युवाभ्यां नायिक्कस्य ऐ आर् एफ् संस्थया धनसाहाय्यमभवत् इति सन्देहः वर्तते।
   केरलतः प्रस्थितस्य अष्फाख् मजीदस्य बान्धवान् प्रति आशयविनिमयः एव मुम्बई आरक्षकानां सन्दर्शनस्य प्रमुखोद्देश्यः।

आदर्शशालिनः भारतीयाः, केरळाः एव- न्यायाधिपः मार्कण्डेय कट्जू। 
नवदहली > केरलीयेभ्यः न्यायाधिपस्य मार्कण्डेयकट्जू महोदयस्य प्रशंसावचनानि। केरलीयाः एव यथार्थभारतीयाः इति फेय्स् बुक् माध्यमद्वारा महोदयेन लिखितम्‌। यथार्थभारतीयानां प्रतिनिधयः केरलीयाः एव, सर्वानपि अङ्‌गीकर्तुं योग्यं मनः केरलीयानामेव वर्तते इति सः सूचयति। विविधराष्ट्रेभ्यः आगतैः जनैः सम्पूर्णे भारते सर्वानपि एकमनसा स्वागतम् आशंसयन् भावः केरलीयानामेव वर्तते, द्राविडाः, आर्याः, आङ्गलाः, इस्लामधर्मानुयायिनः, क्रैस्तवाः चेति बहूनां वैदेशिकानाम्‌ आगमनं भारतस्य अन्यान् प्रदेशान् अपेक्ष्य केरलान् प्रत्येव आसीदिति सः स्वलेखने सूचयति। के उत्तमाः भारतीयाः? इति फेय्स् बुक् मध्ये स्वयमेव प्रश्नमवतार्य लेखनं कुर्वन्नासीत् कट्जू महोदयः।
 स्वातन्त्र्यदिने श्रीनगरे देशीयध्वजारोहणं करिष्यतीति त्रयोदशवयस्का बालिका।

  अहम्मदाबाद्‌ > स्वातन्त्र्यदिने काश्मीरस्य श्रीनगरे लाल् चौक् मध्ये देशीयध्वजारोहणं करिष्यतीति गुर्जर स्वदेशिनी  बालिका। त्रयोदशवयस्का तन्सीं मेरानी एव एवमवदत्। सङ्घर्षपूरितेषु बहुषु काश्मीरमण्डलेषु बहोः कालादारभ्य आगस्त् १५, जनुवरी २६ इत्येतयोः देशीयप्राधान्यदिनयोः 'कर्फ्यू' प्रख्यापनं क्रियमाणं वर्तते। तत्तु अस्मिन् वर्षेऽपि भविष्यति। अतः ध्वजारोहणाय बालिकायै अनुमतिः नैव लप्स्यते इति विदग्धैः सूचितम्। माध्यमप्रवर्तकैः एतत्सूचिते सन्दर्भे 'स्व राष्ट्रे प्रवेशितुं कस्यापि अनुमतिः नावश्यकी' इत्येव बालिकायाः प्रतिवचनमासीत्।


 रियो ओलिम्पिक्स्- भारतस्य कृते जयपराजययोः दिनम्।
  रियो डी जनीरो > रियो ओलिम्पिक्स् मध्ये षष्ठं दिनं भारतस्य कृते जयपराजययोः दिनम्। बाड्मिण्डन् मध्ये पि वि सिन्धू स्वप्रथमस्पर्धायां जयं प्राप्तवती। किन्तु पुरुषाणां बाड्मिण्डन् द्वन्द्वस्पर्धायां भारतसङ्घः पराजितः। पुरुष-वनिताटेन्नीस् स्पर्धायां बोप्पण्णा-सानिया सख्येन विजयः प्राप्तः।धनुर्विद्यास्पर्धायां दीपिका कुमारी, बोम्बैला देवी च निष्कासिते। मुष्टियुद्धस्पर्धायां भारतस्य पराजयः एव। होलण्ट्सङ्घेन सह होकी स्पर्धायामपि भारतसङ्घः पराजितः।

उत्तरप्रदेशस्य गाजियाबादजनपदे गतरात्रौ भाजपानेतुः  ब्रजपालतेवतियावर्यस्योपरि गोलिकाप्रहारः
गोलिकाप्रहारेण ब्रजपालः तस्य सुरक्षाकर्मी च व्रणितौ, उभौ गभीरस्थितिमवाप्तौ | प्रकरणेsस्मिन् सप्तजनाः व्रणिताः ३ इति संसूच्यते| सम्प्रति नोएडायां फोर्टिस चिकित्सालये उभाभ्यामुपचारः सम्प्रचलति |
  ध्यातव्यमिदं यत्  ब्रजपाल तेवतिया भारतीयजनतापार्टीतिदलस्य वरिष्ठ नेता वर्तते , असौ 2012 तमे वर्षे  मुरादनगरविधानसभातः निर्वाचने भाजपायाः प्रातिनिध्यं कृतवान् |


कस्तूरिरङ्गन् रेखाः - आशङ्कां निवारयिष्यतीति प्रधानमन्त्री।
 नवदहली > कस्तूरिरङ्गन् रेखामधिकृत्य जायमानाः आशङ्काः निवारयितुम् आवश्यकः व्यवहारः स्वीक्रियते इति प्रधानमन्त्री। केरलीयान् क्रैस्तवसभानेतृन् प्रत्येव प्रधानमन्त्रिणा एवं सूचितम्। न्यायालयपक्षतः जायमानः विरोधः तथा सन्नद्धसङ्घानां निस्सहकरणमनोभावः च समस्यापरिहारचर्चायै विघातः भवतीति प्रधानमन्त्रिणा उक्तम्। पश्चिमपर्वतततिसानुभप्रदेशानां संरक्षणाय समर्पितायाः कस्तूरिरङ्गन् रेखायाः उपरि उन्नीताः आशङ्काः परिहरणीयाः इति निवेदनं समर्प्य केरलीयाः क्रैस्तवसभानेतारः राज्य-लोकसभयोः केरलीयाः सामाजिकाः च प्रधानमन्त्रिणा सह चर्चाम्‌ अकुर्वन्।

Thursday, August 11, 2016

संस्कृतभाषायां ह्रस्व-चलनचित्रस्पर्धा
कोच्ची> कालटी श्रीशङ्कराचार्य-संस्कृतविश्वविद्यालयेन संस्कृतभाषायाः प्रचारणं तरुणानां समूहेषु नूतनतया भवतु इति विचारेण लघु-चलनचित्र स्पर्धा आयोजयिष्यते। आगस्ट्ट् मसस्य अष्टाटादश दिनाङ्कात्‌ एकत्रिंशत् दिनपर्यन्तम् आयोज्यमाने संस्कृतोत्सवे इयं स्पर्धा प्रचलिष्यते। “Sanskrit Short Film”  स्पर्धायां ये भागं स्वीकर्तुं इच्छन्ति ते 2016 आगस्ट् मासस्य 25 तम-दिनाङ्गात् पूर्वं सविवरणं ह्रस्वचित्राणि(DVD) प्रेषणीयानि। विद्युद्-पत्रिका द्वारा अपि प्रवेश-पत्राणि स्वीकरिष्यन्ते natesanskt2000@gmail.com इति भवति सङ्केतः तस्मिन्  विवरणम् PDF भवेयम् अधिकविवरणार्थम् – 9447380373 इति दूरवाणी संख्या उपयोक्तव्या

  स्पर्धायां प्रथम द्वितीय स्थानं प्राप्तवतां कृते प्रमाणपत्रं गौरवधनं च सम्मानरूपेण प्रदास्यते ३० दिनाङ्गे आयोज्यमाने संस्कृतोत्सवस्य समापनसम्मेलने विजयीभ्यः सम्मानं वितरिष्यति इति व्याकरणविभागाध्यक्षः डा.एम्.मणिमोहनः अवदत्। एषः चलनचित्र-स्पर्धायाः मुख्यसंयोजकः भवति