OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 31, 2016

अतिवृष्टिः - जनजीवनं दुष्करम्।
mumbai rains hits traffic, mumbai rains news today, mumbai rains news latest, mumbai rains today,, mumbai local train problem today, rains in mumbai today, heavy rains in mumbai today, rain news today in mumbai, mumbai rain latest news  बङ्गलुरु > अनुस्यूततया वर्षमानया वृष्ट्या बङ्गलुरुनगरे जीवनं दुष्करं जातम्। गुरुवासरे शुक्रवासरे च जातया अतिवृष्ट्या नगरस्य विविधेषु भागेषु जलोपप्लवम् अपि सञ्जातम् । मालिन्यजलनिर्गमनसंविधानं बहुत्र भग्नं जातम्। अतिशक्तेन वातेन गतागतमार्गेषु वृक्षाः पतिता:। जलोपप्लवेन बहवः जनाः गृहेषु कार्यालयेषु च वर्तन्तः सन्ति। बहुत्र गृहोपकरणानि , भक्ष्यवस्तूनि, वाहनानि च उपयोगशून्यानि अभवन्। बहुत्र यात्रायै मार्गेषु यन्त्रनौकाः च उपयुज्यन्ते। बङ्गलुरु नगरे इव राष्ट्रे हैदराबाद्‌, मुंबई,नवदहली,हरियानायां गुड्गाव् इत्यादिषु महानगरेषु अतिवृष्ट्या जनाः कष्टतां अनुभवन्ति। आसाम् मध्ये प्रलयेन एतावता १८ जनाः मृताः च।

 व्योमसेनाविमानस्य अन्वेषणाय अमेरिकायाः साहाय्याय भारतम्।
   नवदहली > गतसप्ताहे चेन्नैतः यात्रामारभ्य अप्रत्यक्षस्य व्योमसेनाविमानस्य अन्वेषणाय भारतेन अमेरिकायाः साहाय्यम् अभ्यर्थितम्। प्रतिरोधसचिवः मनोहरपरीकर: एतत् न्यवेदयत् । अप्रत्यक्षात् पूर्वं विमानात् कापि सूचना अमेरिकायाः उपग्रहेभ्यः लब्धा वा इति परिशोधयिष्यतीति प्रतिरोधसचिवेन उक्तम्। विमानस्य अप्रत्यक्षे शत्रवेभ्यः जायमानस्य दुष्कृतस्य साध्यताः तेन तिरस्कृताः।   'सिन्धुध्वज्' नामिका अन्तर्वाहिनी , नाविक सेनाया: १० महानौका: च अन्वेषणं कुर्वन्तः सन्ति।

उभयपक्षचर्चा नास्ति।
  नवदहली > इस्लामाबाद्‌ मध्ये आगस्त् ४ दिनाङ्के जायमाने सार्क राष्ट्राणां योगे पाकिस्तान् नेतृभिः सह चर्चा कापि नास्तीति विदेशकार्यमन्त्रालयः। सार्कयोगे भारतं प्रतिनिधीकृत्य आभ्यन्तरसचिवः राजनाथसिंहः भागभागित्वं वहति। तस्यां वेलायां पाक् प्रधानमन्त्रिणा नवास् षेरीफेण , आभ्यन्तरमन्त्रिणा चौधरी निसार् अलिखानेन च सह राजनाथसिंहः चर्चां करिष्यतीति वार्ता: प्रचरिताः सन्ति। अत एव नूतनविशदीकरणं विदेशकार्यमन्त्रालयपक्षतः कृतं वर्तते। विदेशकार्यवक्ता विकासस्वरूपः एव विदेशकार्यमन्त्रालयाय विशदीकरणम् अयच्छत्। किन्तु पाकिस्तानपक्षतः भीकरप्रवर्तनानि उपेक्षणीयानि इति सार्कयोगे आभ्यन्तरसचिवेन अभ्यर्थ्यते इत्यपि विदेशकार्यमन्त्रालयेन सूचितम्।
पादवार्षिकपरीक्षा आगस्ट् २९ आरभ्य।
अनन्तपुरी >केरळे विद्यालयेषु प्रथमपादवार्षिकपरीक्षा आगस्ट् नवविंशति दिनाङ्कादारभ्य सेप्तम्बर् सप्तमदिनाङ्के पर्यवसति। नीचतरस्तरेषु  मध्यमतरस्तरेषु च (एल्  पि,यूपि कक्ष्यासु) आगस्ट् त्रिंशत्तमदिनाङ्के एव प्रारम्भः।
    कलाकायिकपरीक्षाः अर्ध वार्षिक परीक्षया सहैव भवेत्। सेप्टम्बर् पञ्चमदिनाङ्के (अध्यापकदिनम् ) परीक्षा न भविष्यति।  किन्तु प्रवृत्तिदिनं भवेत्।

 कर्णाटकमुख्यमन्त्रिणः पुत्रः विदेशयात्रामध्ये मृतः।
बङ्गलुरु > कर्णाटकमुख्यमन्त्रिणः सिद्धरामय्यवर्यस्य पुत्रः कोण्ग्रस् दलस्य युवजनविभागस्य नेता च राकेष् सिद्धरामय्यः बल्जियं राष्ट्रे मृत्युमुपगतः।
    स्वस्य जन्मदिनं सुहृद्भिः सह आघोषयितुं गते रविवासरे बल्जियं गतवानासीत् राकेषः। किन्तु आग्नेयग्रन्थौ सञ्जातेन रोगेण बल्जिये आन्ट् वेर्प् विश्वविद्यालय चिकित्सालये प्रविष्टः आसीत्।  मूर्छितरोगः सः ह्यः दिवंगतः मरणसमये पितरौ , पत्नी , अपत्यानि , सोदरश्च समीपस्थाः आसन्। अन्त्येष्टिक्रियाः अद्य जन्मदेशे मैसुरुसमीपे सिद्धनहुण्टि प्रदेशे भविष्यति।

Saturday, July 30, 2016

आधारपत्रम् - निर्बन्धाः नास्ति।
 नवदहली > प्रतिपक्षदलानां प्रतिषेधेन आधार पत्रविषये केन्द्रसर्वकारस्य निर्णये परिवर्तनम्। सर्वकारस्य आनुकूल्यादिकं प्राप्तुम् आधार पत्रम् अवश्यं भवेदिति केन्द्रसर्वकारेण विज्ञापितमासीत् । किन्तु राष्ट्रे आधार् पत्रसम्पादनाय जनाः अधुना अपि प्रयत्नं कुर्वन्तः सन्तीति प्रतिपक्षदलैः विधानसभायाम् आरोपितमासीत्। एतत्समये ईदृशं विज्ञापनं सर्वकारं प्रतिकूलतया बाधते इति प्रत्यभिज्ञानमेव विज्ञापनस्य परिवर्तने मुख्यं कारणम् ।आधार पत्रवितरणस्य पूर्णतां प्राप्य एव एतद्विषये निर्बन्धः स्वीक्रियते इति सर्वकारेण विधानसभायां निवेदितम्।

रियो ओलिम्पिक्स् - नरसिंहस्य स्थाने प्रवीण् राणा।
 नवदहली > उत्तेजकौषधविवादेन बहिर्गन्तुं प्रेरितस्य नरसिंहस्य स्थाने रियो ओलिम्पिक्स् कृते बाहुयुद्धसङ्घे प्रवीण् राणस्य योजनं क्रियते इति भारतीया ओलिम्पिक्स् समितिः। किन्तु स्वस्थानपरिवर्तने गूढालोचना सञ्जाता इति नरसिंहेन प्रस्तावितमासीत्। सः एतत्प्रस्तावनायां दृढः एवेति नाडा न्यायालयस्य पुरतः तेन उक्तम्। एतद्विषये संवादाय अधिकः समयः आवश्यकःइति न्याय वादिभिः न्यायालये सूचितम्। तथापि नरसिंहस्य अनुकूलतया निर्णय: भविष्यतीति विश्वासः अस्तीति बाहुयुद्धसमित्‍याः कार्यदर्शिना वि. एन् प्रसूदेन उक्तम्।



मायावतीम् अधिक्षेपं कृतवान् भाजपा नेता करश्रृङ्खलाबद्धः।
 लख्नौ> बि एस् पि दलस्य नेत्रीं मायावतिवर्याम् आक्षिप्य विवादे संलग्नः उत्तरप्रदेशभाजपा दलस्य भूतपूर्व उपाध्यायक्षः दयाशङ्कर् सिंहः आरक्षकैः बद्धः। मायावतीमधिकृत्य विवादप्रस्तावानन्तरं दलात् बहिष्कृतः दयाशङ्करः निलीयमानः आसीत्। बीहारे बुक्सर् शर्कराव्यवसायानुबन्ध आवासस्थानादेव सः बद्ध अभवत्।

Friday, July 29, 2016

रहस्यान्वेषणसूचना - प्रधानमन्त्रिणं प्रति ड्रोण् आक्रमणसाध्यता । 
 नवदहली > प्रधानमन्त्रिणं नरेन्द्रमोदिनम् आक्रमितुं भीकराणाम् आलोचना इति रहस्यान्वेषणसङ्‌घेन सूचना दत्ता। प्रधानमन्त्रिं प्रति जनरहितविमानम् (ड्रोण्) उपयुज्य आक्रमणं कर्तुम् आतङ्वादसङ्‌घाभ्यां पर्यालोच्यते इत्येव सूचना । आगस्त् १५ तमे दहलीस्थे रक्तदुर्गे निश्चिते स्वातन्त्र्यदिनोत्सवकार्यक्रमसमये एव आक्रमणं निश्चितम्‌ इति रहस्यान्वेषणसङ्‌घः सूचयति। लष्कर् इ तोयिबा , जय्षे मुहम्मद् इत्याद्योः आतङ्गवादसङ्‌घयोः संयुक्ताक्रमणमेव निश्चितं वर्तते इति सूचना।

 'अहं पाकिस्तानीय: , भारतीयानां वधः मुख्यं लक्ष्यम्' - बन्धितः आतङ्गवादी सौफुल्ला बहादूर्।
  नवदहली > बुधवासरे जम्मु-काश्मीर् मध्ये सङ्‌घर्षणे सैनिकैः बन्धितः आतङ्गवादी स्वम् अधिकृत्य वस्तुताः प्रत्यक्षीकृतवान्। पाकिस्तान् देशीयस्य स्वस्य मुख्यं लक्ष्यं भारतीयानां वधः एवेति सौफुल्ला बेहादूरेण उक्तम्। सः लष्कर् ई तोय्बा नामकस्य आतङ्गवादसङ्‌घस्य प्रवर्तकः इति एन् ऐ ए सङ्घेन स्थिरीकृतम्। तेन सह भारतम् आगतौ साद्‌ बाय् , दर्भाबाय् इति नामकौ द्वौ आतङ्गवादिनौ भारतसेनया हतौ इत्यपि तेन उक्तम्। एन् ऐ ए न्यायालये एव आतङ्गवादिनः अपराधसम्मतम्।
ट्रम्प - हिलरी युद्धरङ्गः सज्जीकृतः। 
फिलाडेल्फिया >अमेरिक्कायाः राष्ट्रपतिनिर्वाचने डेमोक्राटिक् दलस्य प्रत्याशिपदे भूतपूर्वविदेशकार्यसचिवा हिलरी क्लिन्टणः तथा रिप्पब्लिक् दलाय डोणाल्ड् ट्रम्पः च स्पर्धायै सन्नद्धौ। गतसप्ताहे  ट्रम्पस्य गतदिने हिलर्याः च प्रत्याशित्वं प्रख्यापितमासीत्।
     अमेरिक्काराष्ट्रस्य इतःपर्यन्तचरिते प्रप्रथमतया एव काचन वनिता प्रधानदलेन राष्ट्राध्यक्षपदाय स्पर्धते।  नवंबरमासस्य अष्टमे दिनाङ्के एव निर्वाचनं भविष्यति।

महाश्वेता देवी परं महादीप्तिः। 

  कोल्कत्ता > प्रमुखा बङ्गाली लेखिका ज्ञानपीठपुरस्कारजेत्री च महाश्वेता देवी दिवङ्गता। सामाजिकसेवा मण्डले चिरपरिचिता सा मासद्वयात्मककालं यावत् चिकित्सायाम् आसीत्। सा ९१ वयस्का आसीत्I कोल्ककत्तायां वय्यक्तिके आतुरालये आसीत् मृत्यु:। समूहस्य दुर्बलविभागानां शब्दः आसीत् इयं साहित्यप्रेमी। पद्मविभूषणः, माग्ससे पुरस्कारः , केन्द्रसाहित्य अकादमी पुरस्कारः इत्यादिभिः बहुभिः पुरस्कारैः आदृता भवति महाश्वेता देवी। प्रमुखकविः लेखकः च मनीष् घट्टक् पिता लेखिका सामूहिकप्रवर्तका च धरित्री देवी माता च आस्ताम्। प्रसिद्धः चलनचित्रप्रवर्तकः ऋत्विक् घट्टक् पितृसहोदरः च भवति। तस्याः देहवियोगे  राष्ट्रपतिः, प्रधानमन्त्री, बङ्गालस्य मुख्यमन्त्रिणी ममता बानर्जी इत्यादयः बहवः अनुशोचनं न्यवेदयन्।


अपकीर्तिनियमः राष्ट्रियायुधः न - उच्चतरन्यायालयः।
  नवदहली > सर्वकारपक्षतः जायमानं दुर्व्यवहारं प्रति विमर्शनाय अथवा अभिप्रायप्रकटनाय पौरस्य अधिकारः अस्तीति उच्चतरन्यायालयः। एवं विमर्श्यतामुपरि अपकीर्तिनियममाश्रित्य न्यायालयव्यवहारः न स्वीकरणीयः इति उच्चतरन्यायालयेन उद्‌बोधितम्। एवं स्वीक्रियमाणः व्यवहारः समाजे विपरीतफलं जनयति। सर्वकारं विरुद्ध्य वा विमर्श्य वा अभिमतप्रकटनं कूर्वतां सामाजिकानां,उद्योगस्थानां, सामान्यजनानां च उपरि न्यायालयव्यवहारस्वीकारः सर्वकारस्य प्रवर्तनादिकं प्रतिकूलतया बाधते - उच्चतरन्यायालयेन स्मारितम्। तमिल्नाटु सर्वकारं प्रत्येव उच्चतरन्यायालयस्य विमर्शः।


यु एन् रक्षासमित्यां स्थिराङ्गत्वम् - भारतं प्रति आघातः।
   न्यूयोर्क > यु एन् रक्षासमित्‍यां स्थिराङ्गत्वसम्पादनाय प्रयत्नं कुर्वतां राष्ट्राणां निराशा। गतदिने अवसिते योगे रक्षासमित्‍याः पुनःसंघटनम् अधिकृत्य चर्चा नावश्यकीति यु एन् सामूहिकसभया निश्चितम्। एतत्संबन्धचर्चाः अग्रिमवर्षे भवन्तु इत्येव योगस्य निर्णयः। निर्णयोऽयं दौर्भाग्यदायकः इति भारतेन तथा ब्रसील्,जपान्,जर्मनी इत्यादिभिः राष्ट्रैः च अभिप्रेतम्। यु एन् मध्ये विद्यमानेषु १९३ राष्ट्रेषु १५ राष्ट्राणि रक्षासमित्‍याम् अन्तर्भवन्ति।एवं चेदपि स्थिराङ्गत्वसम्पादनाय प्रयत्नः अनुवर्तते इति भारतेन सूचितम्।

Thursday, July 28, 2016

कर्मनैपुण्यवर्धनाय केन्द्रसर्वकारस्य नूतनपरिष्कारः।  
नवदहली > केन्द्रसर्वकारोद्योगिनां कर्मनैपुणिं वर्धयितुं केन्द्रसर्वकारस्य नूतनपरिष्कारः। स्व कर्मसु अभिवृद्धिः न प्राप्ता चेत् आधारवेतने क्रियमाणं वाषिकवर्धनं संग्रहीतुं केन्द्रसर्वकारस्य नूतने आज्ञापत्रे सूचितं भवति। उद्योगं प्रविश्य निश्चितसमयपरिधौ निबन्धनानुसारेण अभिवृद्धिः कर्ममण्डले न प्राप्ता चेत् वार्षिकवर्धनस्यापि आवश्यकता नास्तीति आज्ञापत्रं सूचयति। कार्यशेषिम्၊ अनुसृत्यैव उद्योगस्थानां स्थानोन्नतिः, वार्षिकवर्धनम् इत्यादिकं कार्यम् इति वेतननिर्णयसमित्या निर्दिष्टम् आसीत्।

वनितासमितेः अध्यक्षां प्रति न्यायालय-व्यवहारः।
  नवदहली > देहली वनितासमितेः अध्यक्षायाः उपरि नीतिन्यायवादः स्वीकृतः। देहल्यां कतिपयदिनेभ्यः पूर्वं क्रूरतया पीडितायाः बालिकायाः नाम नाम माध्यमेभ्यः प्रकाशितम् इत्येव व्यवहारः। इयं बालिका दलितविभागीया भवति। एतेषु सन्दर्भेषु पीडनमनुभवतां व्यक्तीनां नाम बहिः न वक्तव्यम् इति नियमानुशासनं वर्तते। पीडितायाः बालिकायाः नाम  देहली वनितासमितेः अध्यक्षया स्वाती मलिवाल् महोदयया उक्तमिति आरोप्य एव न्यायाल- व्यवहारः स्वीकृतः वर्तते। पीडनात्परम् अपराधिनः विषपानमपि बालिकां अकारयन् । न केवलं तत् सा बालिका गतदिने मृता अभवत्।

जि एस् टि - राज्यानां नष्टं केन्द्रसर्वकारः वहेत्।
  नवदहली > भारसेवनकरव्यवस्थया(जि एस् टि) राज्येभ्यः आगम्यमानः नष्टः पञ्चवर्षात्मककालपर्यन्तं केन्द्रसर्वकारेण वहेत्। एतत् संबन्धी निर्णयः राज्यस्तरीयानाम् आर्थिकसचिवानाम् उन्नताधिकारसमित्या स्वीकृतः। जि एस्‌ टि व्यवस्थां प्रति परिवर्तनवेलायां विविधैः राज्यैः बृहन्नष्टम् अभिमुखीक्रियते इति आर्थिकसचिवैः सूचितमासीत्। जि एस् टि समीपनविषये प्रधानतया द्वावंशौ उन्नताधिकारसमित्या अङ्गीकृतौ वर्तेते। तयो: एकस्तु सामान्यजनानां करभारस्य न्यूनीकरणम्, अपरस्तु राज्यानां करात्मकधनसम्पाद्यस्य दृढीकरणम् च। एतत्सम्बन्धतया भरणसंहितापरिवर्तनपत्रिका विधानसभायाम् अनुमतये समर्पयिष्यति। करव्यवस्थायाः स्वरूपं, अनुपातः इत्यादीनां विषये समितेः अग्रिमयोगः निर्णयं स्वीकरोति।

निकषस्पर्धाग्रे आगतानाम् मध्ये - प्रथमस्थानं प्रतिग्राह्य रविचन्द्र अश्विन्।
  दुबाय् > ऐसिसि निकषस्पर्धाग्रे आगतानां मध्ये पट्टिकायां पुनरपि प्रथमस्थानमारुह्य  रविचन्द्र अश्विन् भारतस्य यशः उन्नीतवान्। पाकिस्तानस्य यासिर् षां तरणं कृत्वा एव अश्विनस्य स्थानारोहणम्। वेस्ट् इन्टीस् सह अवसितायां प्रथमनिकषस्पर्धायाम् अश्विनेन सप्त द्वारकाणि प्राप्तानि। अश्विनस्य कृते इदानीं ८७६ अङ्काः सन्ति। इङ्ग्लण्टस्य आन्डेर्सन्, स्टुवर्ट् बोर्ड् च यथाक्रमं द्वितीयतृतीयस्थानयोः वर्तेते।
लखनऊ> खगोल- विषयकं ज्ञानं भवतु वा अंकानां ज्ञानं समेषां मूलं ज्योतिषमस्ति। अद्यापि जनेषु ज्योतिषे रुचिः वर्धमाना दृश्यते इति उद्गारः लखनऊ नगरस्थिते उत्तर-प्रदेश-संस्कृत-संस्थाने जुलाई मासस्य 27 दिनांके आयोजिते एकमासात्मकं ज्योतिष - प्रशिक्षण - शिबिरस्य समापनावसरे मुख्यातिथिना पं. राधेश्याम शास्त्रिणा उक्तम्। शिविरेस्मिन् 150 प्रशिक्षणार्थिनः प्रशिक्षणं प्राप्तवन्तः।कार्यक्रमे तेभ्यः प्रमाणपत्रस्य वितरणमपि जातम्। त्रयाणां प्रशिक्षकदैवज्ञानां सम्माननमपि अभवत्। अस्मिन्नवसरे संस्थानस्या अध्यक्षा निदेशकश्च उपस्थतौ आस्ताम्।

 छात्रेभ्यः संस्कृत-गानालपन-प्रतियोगिता समायोजिता
नवदिल्ली> २७-०७-२०१६ तमे दिनांके राजधान्यां नवदिल्ल्यां डी.ए.वी.अशोकविहार विद्यालये दिल्लीप्रशासनेन उत्तर- पश्चिम- मण्डलीय-प्राशासनिक- विद्यालयानां छात्रेभ्यः संस्कृत-गानालपन-प्रतियोगिता समायोजिता।
प्रतिस्पर्धायामस्यां ३० विद्यालयानां छात्राः सम्मिलिताः अवर्तन्त। माध्यमिकस्तरे ४९ छात्रैः अथ च  उच्चमाध्यमिकस्तरे ४३ छात्रैः  भागः स्वीकृतः,यत्र हि छात्रैः विविधछन्दरसाप्लावितगीतानि प्रस्तुतानि। येन समुपस्थितजनमनस्सु संस्कृतभाषानुरागः दृग्गोचरीभूतः।

Wednesday, July 27, 2016

चिरं जीवति ए पी जे अब्दुल् कलामः
अद्य भूतपूर्व राष्ट्रपतेः ए पी जे अब्दुल् कलामस्य चरमदिनम् 
शैशवानां राष्ट्रस्य राष्ट्रपतिः अधुनापि बालिका बालकानां हृदि जीवति
एतस्य महोदयस्य  स्मृतौ श्रद्धाञ्जलयः




 इरों शर्मिलायाः षोडशवर्षाणां निराहारसमरं पर्यवसति।
 नवदहली > मणिप्पूर् राज्यस्य समरनायिका इरों शर्मिला षोडशवर्षाणां स्व ऐतिहासिकं निराहारसमरं समाप्य मणिप्पूर्  निर्वाचनप्रक्रियायां श्रद्धां ददाति। तदर्थम् आगस्त् ९ दिनाङ्‌के निराहारसमरं समापयिष्यतीति तया सूचितम्। किन्तु स्वराष्ट्रीयदलं किमिति वक्तुं सा सन्नद्धा नाभवत्। मणिप्पूर् राज्ये सैनिकदलाय दत्तः सविशेषाधिकारः अफ्‌स्पा प्रतिनिवर्तनीय: इति प्रख्याप्य २००० नवंबर् २ दिनाङ्के एव इरों शर्मिलया निराहारसमरः आरब्धः। सर्वकारपक्षतः प्रस्तुत-समस्यापरिहाराय अनुकूल-प्रतिकरणाभावे एव निर्वाचनरङ्गप्रवेश: इति ४४ वयस्कया तया सूचितम्।

कुप्वारायां पाक् आतङ्गवादी बन्धने।
  श्रीनगर् > काश्मीरे कुप्वारायां बन्धित:आतङ्गवादी पाक् देशीय: इति केन्द्र आभ्यन्तरसहसचिवेन हन्सराजगङ्‌गाराम् आहिर् महोदयेन सूचितम्। भारतस्य युद्धविरामप्रक्रियाणाम् उपरि पाकिस्थानेन क्रियमाणं सर्वमपि विध्वंसकप्रवर्तनादिकं भारतसेनया अवश्यं प्रतिरोधयिष्यतीति तेन संयोजितम्। अद्य प्रातः नौगं मण्डले भारतसेनया सह संवृत्‍ते संघर्षे एकः बन्धितः, चत्वार: आतङ्गवादिनः हताः च आसन्।

 lSRO उपरि अन्ताराष्ट्रन्यायालयात् प्रत्याघातः।
   नवदहली > विवादे आन्ड्रिक्स्-देवास् विनिमयसम्बन्धे अन्याये lSRO संस्थां प्रति हेग् मध्ये प्रवर्तमानस्य अन्ताराष्ट्रन्यायालयस्य दण्डनव्यवहारः। १०० कोटि डोलर् धनं दण्डनव्यवहारत्वेन प्रख्यापितम् इति माध्यमप्रवर्तकाः सूचयन्ति। भारतस्य बहिराकाशसंस्थायाः वाणिज्यविभागः भवति आन्ड्रिक्स्। विभागोऽयं बङ्गलुरु केन्द्रीकृत्य प्रवर्तमानया देवास् इति संस्थया सह कृतस्य स्पेक्ट्रं विनिमयस्य असाधुत्वेन आरब्धे अन्याये एव इदानीम् अन्ताराष्ट्रन्यायालयस्य कल्पना आगता वर्तते।

 दक्षिणभारतस्य बृहत्तमा मृगशाला तृश्शिवपेरूरे।
                 तृश्शिवपेरूर् (केरळम्) > दक्षिणभारतस्य बृहत्तमा मृगशाला वर्षद्वयाभ्यन्तरे  तृश्शिवपेरूरे पूर्तीकरिष्यतीति सर्वकारः। मृगशालायाः निर्माणप्रवर्तनानि षड्मासाभ्यन्तरे आरप्स्यन्ते इति वनविभागसचिवः के राजुः कृषिसचिवः वि एस्‌ सुनिलकुमारः च सर्वकारपक्षतः अवदताम्। ३३६ एकर् परिमितौ वनभूमावेव मृगशाला निर्मीयते। प्रारम्भनिर्माणप्रवर्तनेभ्यः १५ कोटि रुप्यकाणि दीयन्ते। प्रारम्भनिर्माणपूर्तीकरणाय १५० कोटि रूप्यकाणां व्ययः निश्चितः वर्तते।

 प्रथमपुरुषं  प्रशंस्य प्रधानमन्त्री।
 नवदहली > राष्ट्रस्य प्रथमपुरुषस्य पदवीं निर्वहन्तं प्रणबकुमारमुखजीं प्रशंस्य प्रधानमन्त्री नरेन्द्रमोदी। नवदहल्याः राजनैतिकमण्डले नवमुखस्य स्वस्य मातृकापुरुषः भवति राष्ट्रपतिः प्रणबकुमारमुखजीं महोदयः इति प्रधानमन्त्रिणा नरेन्द्रमोदिना अभिप्रेतम्। राजनैतिकमण्डले स्व रक्षिता तथा मार्गदर्शकश्च भवति 'प्रणाब् भाई' इति मोदिना उक्तम्। प्रणबकुमारमुखर्जी महोदयः राष्ट्रस्य प्रथमपुरुषस्य पदवीं प्राप्य वर्षचतुष्टयम्‌ अभवत्।

 वन्यजीविकेन्द्रे वनिताः व्याघ्रेण गृहीताः, एका निहता।
बीजिंग्> चीनादेशे वन्यजीविसंरक्षणकेन्द्रं सन्द्रष्टुमागताः वनिताः व्याघ्रैः दंशिताः। एका हता। बीजिङ्नगरे बदालिङ् वन्यजीविसंरक्षणकेन्द्रे कार् यानादव रूढवत्यः महिलाः व्याघ्राणाम् आक्रमणविधेयाः अभवन्। अत्र सञ्चारिणः कार् याने सञ्चरन्तः मृगान् निरीक्षणं कर्तुंम् अर्हन्ति। यानाद्बहिः गन्तुम् अनुज्ञा नास्ति। किन्तु यानाद्बहिर्गतामेकां झटित्येव व्याघ्र अग्रहीत्। तां रक्षितुं बहिः प्राप्तामन्याम् अन्यः कश्चन व्याघ्रः व्यापादयति स्म।

Tuesday, July 26, 2016

अहंकारं त्यक्त्वा पत्रकारिता विनम्रतां धारयेत् – राममाधवः
पुणे > पत्रकारिता कदाचित् काले व्रतम् आसीत् अपि अधुना तया व्यावसायिकतामपि लङ्घितम् अस्ति। अधुना पत्रकारिता अहंकारपरिप्लुता वर्तते। तस्मात् पत्रकाराः विनम्रतां धारयितुम्। यदि पत्रकारिता संवेदशीला भवति तर्हि एव सा सफला भविष्यति, इति 'भारतीय जनता पक्ष'स्य राष्ट्रिय सरचिटणीसः अपि प्रख्यातः विचारकः राम माधव प्रतिपादितम्।

विश्व संवाद केन्द्र, पश्चिम महाराष्ट्र प्रान्त अपि च डेक्कन एज्युकेशन सोसायटी संस्थाया प्रतिवार्षिकाः 'देवर्षी नारद पत्रकारिता पुरस्काराः' राममाधवमहोदयेन शनिवासरे पुणेनगरे प्रदत्ताः। कार्यक्रमेsस्मिन् भाषमानः सः एतत् विचाराः प्रकटितवान्। सन्दर्भेsस्मिन् ज्येष्ठपत्रकार पुरस्कारेन दिलीप धारूरकरवर्यः, युवापत्रकार पुरस्कारेण मुस्तफा अतारवर्यः, छायाचित्रकारपुरस्कारेन गणेश कोरेवर्यः तथा च प्रथम 'सोशल मीडिया' पुरस्कारेन शेफाली वैद्यमहोदया च सन्मानिता।

 सन्दर्भेsस्मिन् राममाधवमहोदयः अवदत्, “पत्रकारः प्रतिपुरस्कारम् उत्तरदायित्वं मन्येत्। स्वतंत्रता संघर्षकालेsस्मिन् पत्रकारिता एकं व्रतमासीत्। प्रत्येकः नेतारः साधना-रुपेण पत्रकारिता प्रयुक्ता। अपि अधुना पत्रकारिता एकः उद्योगः अस्ति। पत्रकारितायां तत्कालीन व्रतभावस्य पुनरागमनम् आवश्यकम्।”

तेन कथितम्, यत् साम्प्रतम् पत्रकारिता आंदोलकपत्रकारिता वर्तते। ”पत्रकारिता अहंकारपरिप्लुता वर्तते। अधुना समाजः बुद्धिमान् अस्ति। तस्मात् अधुना जनाः विनम्रतां अपेक्ष्यन्ते। अभिव्यक्तीस्वतंत्रता महती खलु, अपि जीवनाधिकारः उच्चतमः अस्ति।” तेन एतदपि सूचितम् यत् विनम्रता धृत्वा माध्यमानि देशविकासतत्परानि भवेयुः, न चेत् विकासविरोधकाः चेत् जनाः न सहिष्यन्ति।
कश्मीरस्य जनता अस्माकमेव
कश्मीरविषये सः अवदत् यत् अस्मानम् कृते कश्मीरस्य न केवलं भूमि अपि तत्रस्थ जनाः अपि स्वीकरितुम् आवश्यकमस्ति। कश्मीरप्रान्तः भारतदेशस्य अभिन्नभागः अस्ति अपि च एतद्विषये का अपि चर्चा न संभाव्यते। तत्रस्था केचित् जनाः पाकिस्तानदेशप्रियाः सन्ति अपि ते अल्पसंख्यका सन्ति। तत्रस्थ राष्ट्रवादीबलं दृढीकरणार्थं अस्माभिः कश्मीरजनहृदयानि विजेयितव्य।
कावालं नारायण पणिक्कर् महोदयस्य
 शाकुन्तलम् नाटकाविष्कारः
 -शकुन्तला- विख्याता नटी मञ्जु वारियर्।

भारतीया युवती मोचिता।  
काबूल् > काबूल् तः अज्ञातैः बन्धिता भारतीया युवती मोचिता। गतमासे नवमदिनाङ्के बन्धिता आसीत् ४० वयस्का जूडित् डिसूसा नामिका युवती। सा आगा खान् फौण्डेषन् इत्यस्याः सन्नद्धसंस्थायाः वरिष्ठोपदेष्टा भवति। विदेशकार्यसचिवा सुषमा स्वराजमहोदया युवत्या: मोचनवृत्तान्तं न्यवेदयत्। अफ्गान्‌ पुनर्निर्माणसम्बन्धतया प्रवर्तमाना संस्था भवति आगा खान् फौण्डेषन्। काबूल् देशस्य तैमानी मण्डलादेव सा बन्धनस्था अभवत्। किन्तु मोचनसम्बन्धाः विशदांशाः अधिकृतैः न प्रत्यक्षीकृता:।


सर्वकारातुरालये विद्युतद्विघातः - २१जनाः मृताः।
 हैदराबाद् > तेलुङ्काना राज्ये सर्वकारातुरालये विद्युद्विघातेन २१ जना: मृताः। गान्धी मेडिक्कल् कोलेज् मध्ये एव अपायः सञ्जातः। मृतेषु नवजातशिशव: अपि अन्तर्भूताः। तीव्रपरिचरणविभागं प्रविष्टा: रोगिणः एव मृताः।विद्युद्विघातेन शुक्रवासरादारभ्य  विद्युज्जनकान्याश्रित्यैव आतुरालयस्य प्रवर्तनानि कृतानि। किन्तु निरन्तरोपयोगेन एतेषु कानिचन यन्त्राणि प्रवर्तनरहितानि अभवन्। अनेन तीव्रपरिचरणविभागस्य प्राणवायुप्रवेशकयन्त्राणि तथा नवजातशिशूनां परिचरणविभागस्य संरक्षकयन्त्राणि च प्रवर्तनरहितानि अभवन्। एतत्तु मरणस्य मुख्यं कारणम् अभवत्।



केरळेषु संस्कृत-जागरणम्   
                                                                कोषिक्कोट् > केरळेषु प्रति जिल्लायां संस्कृत-जागरणं प्रवर्तमानमस्ति। कार्यक्रमोयं केरल-संस्कृतअध्यापक फ़ेडरेशन् द्वारा आयोजितः। अस्मिन् कार्यक्रमे पूर्वजाः संस्कृत-कार्यकर्तारः, अध्यापकाः, संस्कृत-प्रेमिणः, च भगभाजः आसन् इदानीम् जनाः संस्कृतपठनं आवश्यकम् इति चिन्तयन्ति। फ़ेडरेशन् निजीयदलस्य मुख्य सचिवः संतोष्कुमारः अवदत् आधुनिक-वैज्ञानिक-मण्डले भागं स्वीकर्तुं संस्कृतं इदनीमपि सज्जाः इत्यपि सः अवदत् ।


तिरोभूतानां केरळीयानाम् ऐ एस् सम्बन्धः स्थिरीकृतः।
कोच्ची> केरळीयानां तिरोधानविषये इस्लामिक स्टेट् भीकरसंस्थायाः सम्बन्धः आरक्षकदलेन निर्णीतः। कोच्चीतः अप्रत्यक्षा मेरिन् नामिकां मरियमिति नाम्नि ऐ एस् प्रति आपयति स्म इति न्यायालयाय न्यवेदयत्।
   मुम्बय्यां केरळारक्षकैः बन्धनस्थौ  अर्षिद् खुरैषी, रिस्वान् खान् इत्येतौ अधिकृत्य ग्रहणावेदनपत्रे (Remand report) एव आरक्षकदलस्यायं परामर्शः। केरळीयानां तिरोधानविषये ऐदंप्राथम्येनैव ऐ एस् बन्धः स्थिरीकृतः। खुरेषी रिस्वानः च १४ दिनात्मके आरक्षकरक्षणे निक्षिप्तौ।
    कोच्ची स्वदेशिनी मेरिन् निर्बन्धित धर्मपरिवर्तनाय विहिता इति परामृष्टम् अस्ति। तस्याः पतिना यह्या नामकेनैव एतत् साधितम्। मेरिनायाः सोदरः अपि धर्मपरिवर्तनाय प्रेरित इति , एतेषां सर्वेषां प्रमाणानि स्वसकाशे सन्तीति च आरक्षकावेदनपत्रे परामृष्टमस्ति।

Monday, July 25, 2016

कण्डकसूकरमीनः जाले बद्धः

विषिञ्ञम् (केरळम्)>सागरमुखे  कण्डकसूकरमीनः जाले बद्धः सलिलात् बहिरानीतः सूकरमीनः झटुत्येव पादकन्तुकसमं शरीरस्य आकारम् उद्पादितवान् ,  कण्डकानि शारीरमखिलम् प्रदर्श्य भाययितुमारब्द्धवान् , जनाः आश्चर्यभरिताः अभवत् श्वेतवर्ण- बृहदाकारमुख-गोलाकारनेत्र-युक्तोടयम् Porcupine fish इति आङ्गलेये अभिज्ञायते।
बहरिन् मध्ये संस्कृत-आन्दोलनम् 
शिबिर-गणेषु एकम्
बहरिन् > गतसप्तहे बहरिन् मध्ये आयोजिते संस्कृत-संभाषण-शिबिरे आहत्य पञ्चसप्तत्यधिकाः छात्राः अभवन्।  एकैकस्मिन् गणे पञ्चविंशति छात्रान् सन्निवेश्य गणत्रयेषु शिबिरं चालितवन्तः।  एतत् सर्वम् अधुनाधुनकाले अपि संस्कृतं जीवति परं विहरति सर्वत्र इति दृष्टुं शक्नुमः इति दुबाईतः आगतः संस्कृत-सेवाव्रती सुब्रह्मण्यमहोदयः अवदत्। संस्कृत-भारत्या तत्र संभाषण शिबिरम् आयोजितम्।


साक्कीर् नायिकम् अधिकृत्य अन्वेषणावेदनम् आगामी सप्ताहे।
मुम्बई > इस्लामपण्डितं साक्कीर् नायिकं विरुध्य आरोपणानि अधिकृत्य  मुम्बई आरक्षकदलस्य सविशेषविभागः आगामी सप्ताहे आवेदनपत्रं समर्पयिष्यति। प्रस्तुतावेदनस्य आधारे  तं विरुद्ध्य व्यवहारसंबन्धः निर्णयः भविष्यति।
    बांग्लादेशस्य धाक्कायां भीकराक्रमणविषये गृहीतेष्वेकः साक्किर् नायिक्कस्य प्रभाषणेनैव  स्वयम् ऐ एस् प्रति आकृष्ट इति उक्तमासीत्। तदनुसृत्य साक्किर् नायिकं तथा इस्लामिक् रिसर्च् फौण्टेषन् इति संस्थां च विरुघ्य अन्वेषणाय मुख्यमन्त्री देवेन्द्र फड्नविसः आदेशं दत्तवान्।
   किन्तु केरलानाम् आरक्षकसंघस्य साहाय्येन महाराष्ट्र भीकरविरुद्धसंघः साक्किरस्य द्वौ अनुयायिनौ नविमुम्बईतः कल्याण् तः च गृहीतौ। एताभ्यां लभ्यमानानां प्रमाणानाम् आधारे एव आवेदनपत्रं सज्जीकुर्यादिति वरिष्ठेन आरक्षकोद्योगस्थेन व्यक्तीकृतम्।

Sunday, July 24, 2016

 भारतं प्रति हाफिस् सयीदस्य युद्धभीषणिः।
                        इस्लामाबाद्  > भारतं युद्धाय आह्वानं कृत्वा पाकिस्तानस्थस्य जमात्-उद्-दवा इति आतङ्गवादसङ्घस्य नेता हाफिस् सयीद्। भारतेन काश्मीर् समस्यानां परिहाराय एस् ऐ एस् गीलानिनः चत्वारः निर्देशाः अङ्गीकरणीयाः अथवा युद्धाय सज्जं भाव्यम् इत्येवम् आह्वानं कृत्वा हाफिस् सयीदस्य कानिचनदृश्य-मुद्रिकांशः प्रत्यक्षीकृतानि। विघटनवादिनां नेत्रा २००८ तमस्य मुम्बय् आतङ्गवादाक्रमणस्य मुख्य सूत्रकारः इति कथ्यमानया च आसिया अन्त्राबिया सह तथा सैनिकैः हतेन बर्हान् वानिना च सह बन्धुत्वमस्तीत्यपि दृश्य-मुद्रिकांशद्वारा  सूचयति सः। प्रमुखवार्ताप्रेषणसङ्घेन ए एन् ऐ द्वारा एव दृश्य-मुद्रिकांशः प्रत्यक्षीकृताः वर्तन्ते।

तात्कालिककर्मचारिभ्यः सवेतना प्रतिवारनिवृत्तिः।
                      नवदिल्ली> येषु कार्यालयेषु प्रतिसप्ताहे पञ्च प्रवृत्तिदिनानि सन्ति तत्रत्येषु तात्कालिककर्मचारिभ्यः एकदिवसीया सवेतननिवृत्तिः दातव्येति केन्द्रसर्वकारेण आदिष्टम्। इदानीं प्रतिसप्ताहे षट्दिनप्रवृत्तियुक्तेषु कार्यालयेषु एव एकदिननिवृत्तिः अङ्गीकृता। तस्य परिवर्तनं कर्तुमेवायं निर्णयः।

अफ्गानिस्ताने आत्मघाति आक्रमणं - एकषष्ठि जनाः हताः।
                       काबूल्>अफ्गानिस्तानस्य राजधान्यां काबूलनगरे न्यूनपक्षीयाणां षियाविभागानां पथसञ्चलनं प्रति संवृत्ते आत्मघात्याक्रमणे ६१ जनाः मृताः द्विशताधिकं जनाः आहताः। आक्रमणस्य उत्तरदायित्वं आगोलभीकरसंस्थया इस्लामिक् स्टेट् इत्यनया स्वीकृतम्। षिया हसारविभागः अधिकतया अधिवसति प्रदेशे एव स्फोटनं संवृत्तम्। तुर्कमेनिस्तान देशात् काबूल् प्रति स्वकीयावासमण्डलेन आगच्छत्याः ५०० के वि   विद्युत्प्रसारणसरण्याः गतिः परिवर्तनीया इत्यभियाच्यमानम् आसीत् पथसञ्चलनम्।

Saturday, July 23, 2016

 संस्कृतस्य उत्कृष्ट सेवायै उत्तरप्रदेशस्य संस्कृतविद्वासः पुरस्कृताः।
 विश्वभारतीपुरस्कारः अभिराजराजेन्द्र-मिश्राय
लख्नौ > उत्तरप्रदेशस्य माननीयमुख्यमन्त्रिणा श्रीमता अखिलेशयादवेन तमे 23 जुलाई 2016 तमे दिनांके स्वकीये आवासे आयोजिते विद्वत्सम्मानसमारोहे संस्कृतविद्वासः पुरस्कृताः। उत्तर-प्रदेश-संस्कृत-संस्थान लखनऊ द्वारा 2015 वर्षस्य पुरस्कारेषु एकसहस्राधिक पंचलक्षात्मकः (5,10000 रूप्यकात्मकः) विश्वभारतीपुरस्कारः शिमलावास्तव्याय प्रोफ. अभिराजराजेन्द्र-मिश्राय प्रदत्तः। वाल्मीकिपुरस्कारः प्रयागवास्तव्याय प्रोफ. रहसविहारी द्विवेदिने प्रोफ. राधेश्याम चतुर्वेदिने च व्यास पुरस्कारः प्रदत्तः। प्रत्येकस्यराशिः एकसहस्राधिकद्विलक्षात्मकः (2,10000 रूप्यकात्मकः) भवति।
 इमे सर्वे पुरस्काराः संस्कृतस्य उत्कृष्ट सेवायै प्रदत्ताः वर्तन्ते।
अस्मिन्नेव दिने सायं 05 वादनवेलायां उत्तर-प्रदेश-संस्कृत-संस्थानपरिसरे विशेष- विविधपुरस्कारभाजां विदुषां कृते ग्रन्थलेखनक्षेत्रे पुरस्काराः प्रदत्ताः। संस्थाने आयोजितास्य पुरस्कारसमारोहस्य आध्यक्ष्यं संस्थानस्य अध्यक्षा डॉ. साधना मिश्रा कृतवती मुख्यातिथित्वं च प्रोफ. अभिराजराजेन्द्र मिश्रेण निव्यूढ़म्। प्रोफ. मीरा द्विवेदी, प्रोफ. वागीश शर्मा दिनकर,प्रोफ. जर्नादन प्रसाद पाण्डेय ‘‘मणि’’प्रोफ. बनमाली विश्वालः एते विद्वांसः विशिष्टपुरस्कारेण सत्कृताः। डा. प्रणव शर्मा च विशेषविशिष्ट पुरस्कारेण सभाजितः।
ग्रन्थलेखनक्षेत्रे सम्मानितानां विदुषां सूचिः
 पं. सत्यनारायण शास्त्री नामित पुरस्कार (बाणभट्ट)
 डॉ. राम नारायण द्विवेदी नामित पुरस्कार (पाणिनी/सायण)
वेद पण्डित पुरस्कारः प्रत्येकस्मै   सम्मानराशिः 5,1000 रूप्यकाणि।
1 श्री विवेक कुमार शर्मा 2 श्री दुर्गा प्रसाद गौतम 3 श्री वेद प्रकाश चतुर्वेदी 4 श्री रविन्द्र शर्मा वेद 5 श्री सर्वेश कुमार मिश्रा 6 श्री ज्योति स्वरूप तिवारी 7 श्री नितिन कुमार पाण्डेय 8 श्री विवेक पाठक 9 श्री तोयराज उपाध्याय 10 श्री श्याम शंकर द्विवेदी च समादृताः।
२९ जनैः सह व्योमसेनाविमानम् अप्रत्यक्षमभवत्। 
चेन्नई> सैनिकोद्योगस्थसहितैः २९ जनैः सह चेन्नै ताम्बरं व्योमनिलयात् अन्तमानस्थं पोर्ट् ब्लेयर निलयं प्रति प्रस्थितं भारतव्योमसेनायाः ए एन् ३२ इति विमानम् अप्रत्यक्षम् अभवत्। ह्यः प्रभाते ८.३०वादने प्रस्थितात् विमानात् ८.४६वादने अन्तिमः सन्देशः आगतः। विमानं वंगसमुद्रे पतितमिति प्राथमिकनिर्णयः । विमानाय अन्वेषणं शीघ्रतया पुरोगम्यते।

मिस्टर् वेल्ड् पुरस्कारः भारतीयस्य कृते ।
  लण्टन् > रोहित् खण्डेल्वालः मिस्टर् वेल्ड् २०१६ । विश्वसुन्दरीपुरस्कारः भारतीयवनिताभिः बहुधा प्राप्तः वर्तते। किन्तु विश्वसौन्दर्यमत्सरे पुरस्कारः एकेन भारतीयेन पुरुषेण इदम्प्रथमतया एव प्राप्यते। २६ वयस्कः हैदराबाद् देशीयः रोहित् खण्डेल्वाल: एव २०१६ वर्षस्य विश्वसुन्दरः अभवत्। ब्रिटणे सौत्पोर्ट् मध्ये आसीत् सौन्दर्यमत्सरः। मत्सररङ्‌गे विविधेभ्यः राष्ट्रेभ्यः ४७ मत्सरार्थिनः आसन्। रोहित् प्रतिरूपाभिनेता वर्तते। पुरस्कारधनत्वेन ३०लक्षं रूप्यकाणि रोहितस्य कृते लभन्ते।

रियो डि जनीरो मध्ये रष्या नास्ति।
  लोसान् > ब्रसील् आतिथ्यं वहन्तं २०१६ ओलिम्पिक्स् मध्ये ट्राक् & फील्ड् विभागे रष्यायाः भागभागित्वं न भविष्यति। कतिपयदिनेभ्यः पूर्वम् उत्तेजकौषधविवादः रष्यायाः सङ्‌घस्योपरि आरोपितः आसीत्। तेन च अत्लटिक्स् भरणसमितिः सङ्‌घस्योपरि निरोधनं प्रख्यापितमासीत्। निरोधनस्य प्रतिग्रहणाय सङ्घेन समर्पितं निवेदनम् अन्ताराष्ट्र-कायिकतर्कपरिहार न्यायालयेन (कास्) ह्यः तिरस्कृतम्। रष्यासर्वकारस्य अनुमत्या क्रियमाणः उत्‍तेजकौषधोपयोग: अङ्गीकर्तुम् अशक्य एवेति निवेदनस्य परिगणनावेलायां न्यायालयेन सूचितम्। एवञ्च आरोपणविधेयानां ६८ क्रीडकाणाम् अर्हता नष्टा जाता।

Friday, July 22, 2016

श्री अरविन्द महर्षिः - संस्कृतविवरणम्