OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 23, 2016

 संस्कृतस्य उत्कृष्ट सेवायै उत्तरप्रदेशस्य संस्कृतविद्वासः पुरस्कृताः।
 विश्वभारतीपुरस्कारः अभिराजराजेन्द्र-मिश्राय
लख्नौ > उत्तरप्रदेशस्य माननीयमुख्यमन्त्रिणा श्रीमता अखिलेशयादवेन तमे 23 जुलाई 2016 तमे दिनांके स्वकीये आवासे आयोजिते विद्वत्सम्मानसमारोहे संस्कृतविद्वासः पुरस्कृताः। उत्तर-प्रदेश-संस्कृत-संस्थान लखनऊ द्वारा 2015 वर्षस्य पुरस्कारेषु एकसहस्राधिक पंचलक्षात्मकः (5,10000 रूप्यकात्मकः) विश्वभारतीपुरस्कारः शिमलावास्तव्याय प्रोफ. अभिराजराजेन्द्र-मिश्राय प्रदत्तः। वाल्मीकिपुरस्कारः प्रयागवास्तव्याय प्रोफ. रहसविहारी द्विवेदिने प्रोफ. राधेश्याम चतुर्वेदिने च व्यास पुरस्कारः प्रदत्तः। प्रत्येकस्यराशिः एकसहस्राधिकद्विलक्षात्मकः (2,10000 रूप्यकात्मकः) भवति।
 इमे सर्वे पुरस्काराः संस्कृतस्य उत्कृष्ट सेवायै प्रदत्ताः वर्तन्ते।
अस्मिन्नेव दिने सायं 05 वादनवेलायां उत्तर-प्रदेश-संस्कृत-संस्थानपरिसरे विशेष- विविधपुरस्कारभाजां विदुषां कृते ग्रन्थलेखनक्षेत्रे पुरस्काराः प्रदत्ताः। संस्थाने आयोजितास्य पुरस्कारसमारोहस्य आध्यक्ष्यं संस्थानस्य अध्यक्षा डॉ. साधना मिश्रा कृतवती मुख्यातिथित्वं च प्रोफ. अभिराजराजेन्द्र मिश्रेण निव्यूढ़म्। प्रोफ. मीरा द्विवेदी, प्रोफ. वागीश शर्मा दिनकर,प्रोफ. जर्नादन प्रसाद पाण्डेय ‘‘मणि’’प्रोफ. बनमाली विश्वालः एते विद्वांसः विशिष्टपुरस्कारेण सत्कृताः। डा. प्रणव शर्मा च विशेषविशिष्ट पुरस्कारेण सभाजितः।
ग्रन्थलेखनक्षेत्रे सम्मानितानां विदुषां सूचिः
 पं. सत्यनारायण शास्त्री नामित पुरस्कार (बाणभट्ट)
 डॉ. राम नारायण द्विवेदी नामित पुरस्कार (पाणिनी/सायण)
वेद पण्डित पुरस्कारः प्रत्येकस्मै   सम्मानराशिः 5,1000 रूप्यकाणि।
1 श्री विवेक कुमार शर्मा 2 श्री दुर्गा प्रसाद गौतम 3 श्री वेद प्रकाश चतुर्वेदी 4 श्री रविन्द्र शर्मा वेद 5 श्री सर्वेश कुमार मिश्रा 6 श्री ज्योति स्वरूप तिवारी 7 श्री नितिन कुमार पाण्डेय 8 श्री विवेक पाठक 9 श्री तोयराज उपाध्याय 10 श्री श्याम शंकर द्विवेदी च समादृताः।
२९ जनैः सह व्योमसेनाविमानम् अप्रत्यक्षमभवत्। 
चेन्नई> सैनिकोद्योगस्थसहितैः २९ जनैः सह चेन्नै ताम्बरं व्योमनिलयात् अन्तमानस्थं पोर्ट् ब्लेयर निलयं प्रति प्रस्थितं भारतव्योमसेनायाः ए एन् ३२ इति विमानम् अप्रत्यक्षम् अभवत्। ह्यः प्रभाते ८.३०वादने प्रस्थितात् विमानात् ८.४६वादने अन्तिमः सन्देशः आगतः। विमानं वंगसमुद्रे पतितमिति प्राथमिकनिर्णयः । विमानाय अन्वेषणं शीघ्रतया पुरोगम्यते।

मिस्टर् वेल्ड् पुरस्कारः भारतीयस्य कृते ।
  लण्टन् > रोहित् खण्डेल्वालः मिस्टर् वेल्ड् २०१६ । विश्वसुन्दरीपुरस्कारः भारतीयवनिताभिः बहुधा प्राप्तः वर्तते। किन्तु विश्वसौन्दर्यमत्सरे पुरस्कारः एकेन भारतीयेन पुरुषेण इदम्प्रथमतया एव प्राप्यते। २६ वयस्कः हैदराबाद् देशीयः रोहित् खण्डेल्वाल: एव २०१६ वर्षस्य विश्वसुन्दरः अभवत्। ब्रिटणे सौत्पोर्ट् मध्ये आसीत् सौन्दर्यमत्सरः। मत्सररङ्‌गे विविधेभ्यः राष्ट्रेभ्यः ४७ मत्सरार्थिनः आसन्। रोहित् प्रतिरूपाभिनेता वर्तते। पुरस्कारधनत्वेन ३०लक्षं रूप्यकाणि रोहितस्य कृते लभन्ते।

रियो डि जनीरो मध्ये रष्या नास्ति।
  लोसान् > ब्रसील् आतिथ्यं वहन्तं २०१६ ओलिम्पिक्स् मध्ये ट्राक् & फील्ड् विभागे रष्यायाः भागभागित्वं न भविष्यति। कतिपयदिनेभ्यः पूर्वम् उत्तेजकौषधविवादः रष्यायाः सङ्‌घस्योपरि आरोपितः आसीत्। तेन च अत्लटिक्स् भरणसमितिः सङ्‌घस्योपरि निरोधनं प्रख्यापितमासीत्। निरोधनस्य प्रतिग्रहणाय सङ्घेन समर्पितं निवेदनम् अन्ताराष्ट्र-कायिकतर्कपरिहार न्यायालयेन (कास्) ह्यः तिरस्कृतम्। रष्यासर्वकारस्य अनुमत्या क्रियमाणः उत्‍तेजकौषधोपयोग: अङ्गीकर्तुम् अशक्य एवेति निवेदनस्य परिगणनावेलायां न्यायालयेन सूचितम्। एवञ्च आरोपणविधेयानां ६८ क्रीडकाणाम् अर्हता नष्टा जाता।

Friday, July 22, 2016

श्री अरविन्द महर्षिः - संस्कृतविवरणम्
गतकालः अत्यधिकतापयुक्तः।

 वाषिङ्‌टण् > गत जूण् मासः १३७ वर्षाणां चरित्रे अत्यधिकः तापयुक्तः मासः आसीत् इति अमेरिकाया: कालभेदनिरीक्षणसङ्घः। आगोलतापनम् अनुस्यूततया अभिमुखीकृतेषु मासेषु चतुर्दशतमः मासः अपि जूण् आसीत् इत्यपि नाषणल् ओष्यानिक् अट्मोस्फेरिक् अड्मिनिस्ट्रेषनेन (एन् ओ ऐ ए ) प्रस्तावितम्। १८८० तः रेखीयमाने आगोलतापनानुपाते अतिशक्तः आसीत् जूण्मास: इति एन् ओ ऐ ए असूचयत् । २०तम शताब्दस्य अनुपातापेक्षया २०१६ जूण्मासे ताप: ०.९०॰c अधिकः रेखीकृतः वर्तते।
 
 कोटीश्वरपुत्रः कोच्चीमध्ये भोजनालयकर्मकरः।
  कोच्ची > प्रयत्नस्य प्राधान्यं तथा जीवितानुभवान् च सम्पादयितुं कोटीश्वरपुत्रः कोच्चीनगरे भोजनालयकर्मकरस्य उद्योगं कुर्वन् अस्ति। कोच्चीनगरे मध्यवर्गश्रेणीयुक्ते एकस्मिन् भोजनालये एव दिवसवेतनकर्मकरस्य उद्योगे कोटीश्वरपुत्रस्य प्रवेशः। सः गुजरातराज्ये ६००० कोटि रूप्यकाणां सम्पाद्यमनुभवतः गुजरातराज्यस्थस्य साव्जी धोलाकिया इति नामकस्य रत्नव्यापारे: कनिष्ठः पुत्रः इति सूचना। द्रव्य इति नामक: सः एम् बि ए बिरुदधारी च भवति। आडम्बरपूर्णजीविताय विद्यार्थिनः अपि अधार्मिकप्रवर्तनेषु भागभाक्त्वं स्वीकुर्वति अस्मिन् काले अयं युवक: मातृकाजीवनेन श्रद्धेयः अस्ति।

'कबाली ' प्रदर्शनम् आरब्धम् ; उत्सवलहर्यां तमिळीयाः!
चेन्नै > रजनीकान्तस्य नूतनं महदर्थव्ययीकृतं चलच्चित्रं कबाली अद्य प्रदर्शनम् आरब्धम्। लोके सर्वत्र प्रदर्शनं विद्यते।
    केवलं तमिळ् नाटुराज्ये द्विसहस्राधिकेषु रजतफलकेषु अस्य रजनीचित्रस्य प्रदर्शनं प्रचलति। केरळे तु त्रिशतं चित्रशालासु प्रदर्शनमारब्धम्।
  अद्य प्रभाते चतुर्वादने एव तमिळदेशे प्रथमं प्रदर्शनम्। केरळे तु ५.३० वादने। यू ए ई, ओमान्, खत्तर्, बह्रिन् कुवैट् इत्यादिषु   यवनराष्ट्रेषु ह्यः एव प्रदर्शनं सम्पन्नम्।

  बीहार् मुख्यसचिवस्य मण्डले पाक् पताकारोहणम् ।
  पट्ना > बीहार् मुख्यसचिवस्य नितीष्कुमारस्य मण्डले नलन्दायां करोटिमोहल्ले प्रदेशे एकस्य भवनस्योपरि एव पाकिस्तानस्य पताकायाः आरोहणम् अभवत्। ह्यः प्रभाते षड्वादने प्रदेशस्य आरक्षकालयं पताकारोहणमधिकृत्य दूरवाणीसन्देशः आगतः। सन्देशदायकमधिकृत्य सूचना कापि नास्ति।आरक्षकाः आगत्‍य पताकायाः दूरीकरणम् अकुर्वन् । विषयस्योपरि समग्रान्वेषणाय सर्वकारेण निर्देश: दत्त:।
राजधान्यामपि अभिभाषकाणां राक्षसीया चेष्टा।
अनन्तपुरी> ह्यः केरळस्य उच्चन्यायालयाङ्कणे प्रदर्शितानाम् अतिक्रमाणाम् अनुसन्धानेन राजधानीनगरे वञ्चियूर् जिल्लान्यालयपरिसरे अपि माध्यमप्रवर्तकान् प्रति अभिभाषकराक्षसानां किरातवृत्तिः।
     गतदिने कोच्चीनगरे काञ्चन महिलां प्रति अक्रमं कृतवन्तं सर्वकाराभिभाषकं धनेष् मात्यू माञ्ञूरान् नामकम् अधिकृत्य वार्ताद्वारा प्रकाशनं कृतान् माध्यमप्रवर्तकान् विरुद्ध्य एव अक्रमस्य आरम्भः। न्यायवादिनां संबन्धितया अप्रियवार्ताप्रसारणेन क्रुध्यमाना संघटना न्यायालयबहिष्करणाय आह्वानं कृतवती आसीत्। तद्वार्तामुद्घोषयितुं सन्नद्धान् प्रसारणमाध्यमान् प्रति प्रकोपनं विना अक्रमं कृतवन्तः आसन्।
   वञ्चियूर् न्यायालये माध्यमप्रकोष्ठः  शौचालयमिति फलकं स्थापयित्वा बन्धितः आसीत्। पाषाण लोष्ट मदिराचषक दण्डदीपखण्डैः माध्यमप्रवर्तकान् प्रति क्षेपितवन्तः। अनेके व्रणिताः । होराभ्यः यावत् न्यायालयपरिसरः संघर्षपूरितः आसीत्

मासत्रयाभ्यन्तरे अतिवेगजलमार्गः याथार्थ्यं प्राप्स्यति ।
  कोच्ची > केरलराज्यस्य प्रधानानि त्रीणि नगराणि संयुज्य अतिवेगजलमार्गः प्रवर्तनक्षमः भविष्यति। मासत्रयाभ्यन्तरे सेवनमारभ्यतेति अधिकारिभिः सूचितम्।कोष़िक्कोट्, कोच्ची, तिरुवनन्तपुरम् इत्यादीनि नगराणि संयुज्यैव सेवनं भविष्यति ।प्रथमं कोच्ची -कोष़िक्कोट् यात्रा एव आरभ्यते। अनेन राष्ट्रस्य प्रथमम् अतिवेगजलगतागत सेवनम् इति ख्याति अस्याः पद्धतेः लप्स्यते।

 होकी इतिहासः मुहम्मद् षहीद् दिवङ्गतः।
  नवदहली > भारतीयहोकीसङ्‌घस्य मान्त्रिकः इति विख्यातः मुहम्मद् षहीद् (५६ वयः) दिवङ्गतः। मूत्राशयसम्बन्धरोगेण पीडित: सः गुड्गाव् मध्ये आतुरालये चिकित्सायामासीत्। उत्तरप्रदेशस्य वाराणसी एव जन्मदेशः। स्व एकोनविंशतितमे वयसि विश्वचषकहोकीमेलया एव तस्य रङ्‌गप्रवेशः आसीत्। कालक्रमेण भारतसङ्‌घस्य नायकः अपि अभवत्। असाधारणवेगेन , ड्रिब्लिङ् सामर्थ्येन च श्रद्धेय: आसीत् मुहम्मद् षहीद्।

Thursday, July 21, 2016

काश्मीर् समस्या भारतस्य आभ्यन्तरसमस्या न - नवास् षेरीफ्।
                  इस्लामाबाद् > काश्मीरे जायमानेषु प्रक्षोभकार्येषु भारतम् अचिरादेव पराजयम् अङ्गीकरिष्यतीति पाकिस्तान् प्रधानमन्त्री नवास् षेरीफ्। काश्मीरं प्रति ऐक्यदार्ढ्यं प्रख्या पयित्वा कृते प्रतिषेधयोगे एव तेन एवं सूचितम्। काश्मीरजनानाम् अवकाशान् आदृत्य जनहितपरिशोधनायै भारतं सज्जं भवतु इति तेन अभ्यर्थितम्। समस्येयं भारतस्य आभ्यन्तरविषयः न, सः प्रदेशः तर्कप्रदेशः अथवा विवादप्रदेश एवेति ऐक्यराष्ट्रसंस्थया अपि उक्तः भवतीति तेन स्मारितम्।

रियो ओलिम्पिक्स् : व्रणप्रतिरोधाय अपि 'आप्‌'।
  टोकियो > रियो ओलिम्पिक्स् भागभागिनाम् आश्वासाय नूतनम् 'आप्‌'निर्मितम्।अभ्यासवेलायां मत्सरवेलायां च सम्भाव्यमानानां व्रणादीनां प्रतिरोधाय उपयुक्तं भवदिदम् 'आप्'। 'लोगिन्' इति नाम दत्तम् तत् आप् जपान् केन्द्रीकृत्य प्रवर्तमानेन' रैट्‌ ब्लू ' इति नामकेन सङ्‌घेन एव निर्मितम्। मत्सरानुबन्धतया क्रीडकेभ्यः आरोग्यसम्बन्धा: उपदेशा:, निर्देशा: , उपायाः च अनेन आप् द्वारा लभन्ते। विश्वकायिकमेलायै इतः १६ दिनान्येव अवशिष्यन्ते।

 सि बि एस् ई विद्यालयानां निरीक्षणं सर्वकारस्य दायित्वम् - बालावकाशसमिति:।
    तृश्शूर्  (केरलम्) > राज्ये सि बि एस् ई विद्यालयानां निरीक्षणादिकं कर्तुं सर्वकारपक्षतः श्रद्धा आवश्यकीति राज्यस्तरीया बालावकाशसअन्यानि चमितिः। सि बि एस् ई विद्यालयानां उपरि विरुद्धाभिप्रायाः प्रतिदिनं वर्धमानाः सन्तीति समितेः अङ्‌गौ ग्लोरी जोर्ज, बाबु नरिक्कुनिः च सूचितवन्तौ। सि बि एस् ई विद्यालयेषु अनियन्त्रितं पठनशुल्कवर्धनम्, अकारणतया भर्त्सनं, मानसिकपीडनं, शुल्काय उपस्थितेः न्यूनीकरणम् इत्येवं बहूनि अधार्मिकप्रवर्तनानि सन्तीति संसूच्य बहवः अन्यायाः समितेः पुरतः लब्धा: इति समितिः अवदत् । विद्यालयेषु पाठ्यपद्धतिः या कापि भवतु किन्तु छात्रसंरक्षणमानदण्डाः सर्वेभ्यः समानाः एवेति समित्‍या अभिप्रेतम्। विद्यालयानुमतिः सर्वकारेण दीयमानावस्थायाम् अनुमतेः असाधुत्वम् अपि कर्तुं सर्वकारस्य अधिकारः वर्तते इति समित्‍या स्मारितम्। सि बि एस् ई मध्ये शनिवासरेषु पञ्चमकक्षापर्यन्तम् अध्ययनं मा भवतु इति समित्या पूर्वं सूचितमासीत्।

 वास्तुशिल्पी सिड्नी कोरी निर्यातः ।
कोच्ची>लोकप्रशस्तवास्तुशिल्पी द्वितीयलोकमहायुद्धभटश्च सिड्नी कोरी वर्यः - ९३- दिवमगात्।
    आधुनिक षिल्लोङ् नगरस्य शिल्पिना कोरि वर्येण  मेघालयामुख्यमन्त्रिणः औद्योगिकवसतिसहिताः सर्वकारवाससमुच्चयाः अन्यानि च अनेकानि  भवन- चिकित्सालय- कलालयादिमन्दिराणि शिल्पवैदग्ध्यवशात्  रूपवत्कृतानि। सैनिकसाङ्केतिकविदग्धे सति ब्रिट्टीष् बर्मायां द्वितीये लोकमहायुद्धे भागभागित्वं कृतवान् । ततः ब्रिट्टन् सर्वकारस्य बर्मतारं पुरस्कारेण आदृतः। केरलानां वनम् अधिकारी डो. ब्रान्सन् कोरी इत्यस्य पुत्रः अस्ति।

संस्कृतं विज्ञानस्य भाषा च- राष्ट्रिय-संस्कृत-पत्रकार-संगोष्ठी
 लखनौ>उत्तरप्रदेशसंस्कृतसंस्थाने आयोजितायां द्विदिवसीयराष्ट्रियसङ्गोष्ठी संपूर्णमभवत्। संस्कृतं केवलं साहित्य-सांस्कृतिकभाषा न वैज्ञानिकभाषा च इति डा. बलदेवानन्दसागरः स्वस्य भाषणे अवदत् । संस्कृत-पत्रकारिताया: विविधा: आयामा: (इतिहास-प्रकाशन-सम्पादन-पाठक-ग्राहक-लेखन-विज्ञापन-मानकभाषा-सम्बद्धा:) अभिलक्ष्य विंशति: शोधपत्राणि सङ्गोष्ठ्यां उपस्थापितानि।

Wednesday, July 20, 2016

 अष्टादशि नाम योजनायाः आवेदनतिथिः अवसितः। केरलस्य कृते योजनन् प्रेषयितुं सर्वकारीय कार्यालये कोपि नास्ति
नवदिल्ली>राष्ट्रिय संस्कृत संस्थानस्य 'अष्टादशि' नामिकायाः  योजनायाः आवेदन पत्रस्वीकारस्य अन्तिमतिथिः ह्यः अवसितः। संस्कृत-भाषायाः प्रचुर प्रचारमुद्दिश्य  आयोजिता इयं योजना। संस्कृत भाषायाः प्रचाराय क्रियमाणानां प्रवर्तनानां कृते आर्धिकसाह्यः अनया योजनया क्रियते । भिन्न भिन्न राज्येषु संस्कृत प्रवर्तकाः स्वस्व योजनानि राज्य-सर्वकारद्वारा प्रेषिताः। किन्तु   केरलस्य कृते पद्धतिविवरणं प्रेषयितुं सर्वकारीय कार्यालये तत्पराः उद्योगिनः नास्ति। यथा कालं योजनां प्रेषयितुम् उद्योगी जनानां वैमुख्यः एव । सी पी एम्  दलेन केरले शासनं प्रचाल्यते। क्षेत्रीय शैक्षिक अधिकारिभिः अङ्गीकृतसंस्थायाः आवेदनानि स्वीकृत्य प्रेषणीयानि किन्तु एरणाकुळम् जनपथस्य प्रन्तीय शैक्षिकाधिकारिणा स्वस्य कर्तव्यनिर्वहणे तत्परा नासीत्। 


संस्कृतपत्रकारितासम्मेलनमायोजितम्
लखनौ>उत्तरप्रदेशसंस्कृतसंस्थाने आयोजितायां द्विदिवसीयराष्ट्रियसंगोष्ठ्यामद्य द्वितीयदिवसे उत्तराञ्चलसंस्कृत अकादम्याः पूर्वसचिवानां वाक्संस्कृतपाक्षिकसंस्कृतपत्रिकासम्पादकानां डॉ.बुद्धदेवशर्ममहोदयानां आध्यक्ष्ये देशस्य विभिन्नभागेभ्यः समागतैः संस्कृतपत्रपत्रिकाणां सम्पादकैः संस्कृतपत्रिकायाः विविधपक्षेषु समस्यासु च विशदा चर्चा विहिता। समापनसत्रे संस्कृतसंस्थानस्य अध्यक्षाभिः डॉ.साधनामिश्रमहोदयाभिः तथा च समापनसमारोहस्य मुख्यातिथिभिः डॉ. बलदेवानन्दसागरमहोदयैः संस्कृतपत्रिकाप्रसारार्थं सर्वैरेकीभूय कार्यकरणाय सर्वे प्रेरिताः। एवमेव वाराणसीतः सम्प्राप्ताः चातुर्वेदसंस्कृतप्रचारसंस्थानस्य महामन्त्रिणः डॉ.चन्द्रकान्तशुक्लमहोदयैः संस्कृतस्य दशा एवं दिशा इति विषयमवलम्ब्य स्वशोधपत्रिका प्रस्तुता। एवमेव डॉ. जगदीशशर्मा मथुरातः डॉ.जीवनशर्मा देहलीतः, डॉ. जगदानन्दझा उत्तरप्रदेशसंस्कृतसंस्थानतः, डॉ. गीता शुक्ला लखीमपुरखीरीतः, गवीशद्विवेदी हरियाणातः, श्रीकेशवपोख्रेलः गाण्डीवं संस्कृतसाप्ताहिकम् वाराणसीतः, एवमन्यैरपि बहुभिः पत्रसम्पादकैः विद्वद्भिश्च संस्कृतपत्रकारिताविषये स्वस्वविचाराः शोधलेखाश्च प्रस्तुताः।
वार्तामुक्तकानि
  • नवदिल्ली>नवदिल्ली - भाजपा नेता तथा भूतपूर्वः क्रिकेट क्रीडकः नवज्योतिसिङ् सिद्दुः राज्यसभासामाजिकत्वं त्यक्तवान्। भाजपा दलाङ्गत्वं च तेन उपेक्षितम्। आम् आद्मीदलप्रवेश एव लक्ष्यः इति सूच्यते।
  • बंगलुरू >मंगलुरु आरक्षकदलस्य डि वै एस् पि उद्योगस्थः गणपतिः इत्यस्य आत्महत्याघटनायाम् आरोप हलणविधेयः कर्णाटकराज्यविकसनमन्त्री को जे जोर्ज् स्थानत्यागं कृतवान्। गणपतेः मरणविषये   जोर्जं तथा उन्नतारक्षकोद्योगस्थान् च विरुद्ध्य व्यवहारः  करणीयः इति न्यायालयस्य आदेशः जातः  आसीत्।
  • नवदिल्ली>नदीषु मलिनीकरणनिवारणं राज्यसर्वकाराणां धर्मः इति केन्द्रसर्वकारस्य पर्यावरणमन्त्रिणा राज्यसभायामुक्तम्।
  • अङ्कारा>तुर्कीराष्ट्रे सैनिक उद्ध्वंसनाय सहयोगं कृतवतां नवसहस्रं आरक्षकान् एकं प्रविश्याराज्यपालं २९ उन्नताधिकारिणश्च राष्ट्रपतिः तय्यिप् उर्दुगानः स्थानभ्रष्टान् अकरोत्।


देशीयपताकाम् अनादृतवान् : विजेन्द्रं प्रति अन्यायः।

 नवदहली > देशीयपताकाम् अनादृतवान् इति आक्षेपेण मुष्टियुद्धक्रीडकं विजेन्दर् सिंहं प्रति अन्यायः स्वीकृतः । गतदिने नवदहल्यां त्यागराजवेदिकायां आस्ट्रेलियाया: क्रीडकेन केरि होप्पेन सह संवृत्ते मत्सरे सः देशीयपताकाम् अवमानितवान् इत्येव अन्यायः। मत्सरेऽस्मिन् देशीयपताकायाः सादृश्ययुक्तं वस्त्रं धृत्वा विजेन्दरेण क्रीडितम्, एतदेव देशीयपताकायाः अवमाननं भवतीत्येव अन्यायः । नवदहल्यां न्यूअशोकनगरे आरक्षकालये उल्लास् इति नामक: जनः आक्षेपं समर्पितवान्।

गयायाम् स्फोटनम् - १० सैनिकाः हताः।
  गया > बीहार राज्ये चकर्बन्दा वनप्रदेशे एकस्मिन् स्फोटने १० कोब्रा सैनिकाः हताः, अनेके व्रणिताः च। मावोयिस्ट् भीकराणां मण्डलमेवेतत् । अत्र निरीक्षणं कुर्वतः सि आर् पि एफ् सङ्‌घस्य उपर्यैव स्फोटनं सञ्जातम्। मरणसंख्या इतोऽपि अधिका भविष्यतीति सूचनाः सन्ति। मण्डलेऽस्मिन् जागरूकतया भाव्यमिति अधिकृतैः सूचना दत्ता। 'इम्प्रोवैस्ड् एक्स्प्लोसीव् डिवैस्' स्फोटनमेव भीकरै: कृतं वर्तते।


 यु.ए.ई मध्ये लघुवेतनस्वीकर्तृभ्यः सन्तोषवार्ता।
 यु.ए.ई >  यु.ए.ई मध्ये २००० दिर्हात् न्यूनं वेतनं स्वीकर्तृभ्यः जनेभ्यः निशुल्कवासव्यवस्थां दृढीकर्तुं नियमः सम्पन्न:। २०१६ वर्षान्ते नियमः प्राबल्यं प्राप्नोति इति यु.ए.ई -मानवविभवशेषिमन्त्रालयेन सूचितम्। लघुवेतनस्वीकर्तृणां जनानां जीवनव्यवस्थाः अधिकृत्य विदग्धसमित्या कृतं पठनमेव नियमस्यास्य आधारः।

दुर्घटं कालव्यतियानं ज्ञातुं रेल् यानेषु रडार् सज्जीकरणम् ।
नवदहली > रेल् यात्रिकाणां सौकर्याय परिष्करणैः साकं केन्द्ररेल्मन्त्रालयः।  यात्रिकाणां सुरक्षाक्रमीकरणानि आधारीकृत्य अनेकानि परिष्करणानि रेल् मन्त्रालयेन स्वीक्रियन्ते। इदानीं रेल्यानयन्त्रेषु 'रडार्'उपकरणं संस्थाप्य दुर्घटं कालभेदं प्रतिरोद्धुं रेल् मन्त्रालयस्य पर्यालोचना। रडार् उपकरण सहिताः इन्फ्रारेड् चलनचित्रग्राहिकाः संस्थापयितुमेव उद्दिश्यते। अस्य सज्जीकरणस्य मुख्यं लक्ष्यं दुर्घटकालभेदैः रेल्यानचालकानां संभाव्यमानानां दृश्यसमस्यानां परिहार: एव। 'त्रैनेत्र' इत्येव सज्जीकरणस्यास्य नाम दत्तं वर्तते।

 ए.टि.एम् मध्ये 'ऐरिस् पास्वेड्' इति नूतनसंविधानेन सह स्वकार्यवित्तकोशाः ।
          चेन्नै > ए.टि.एम् मध्ये  दृश्यफलकदर्शनेन धनं स्वीकर्तुं योग्या व्यवस्था स्वकार्यवित्तकोशैः क्रियते। इदानीं ए.टि.एम् मध्ये गूढसंख्यायाः टङ्कनात् परमेव धनं लभ्यते। किन्तु 'ऐरिस् पास्वेड्' इति नूतनसज्जीकरणेन दृश्यफलकदर्शनमात्रे एव धनस्वीकरणं साध्यते इति विदग्धैः सूचितम्। डि.सि.बि, आक्सिस्, कोटक् महीन्द्रा इत्यादिभिः स्वकार्यवित्तकोशैः एव नूतनं संविधानं परीक्ष्यते।

 काश्मीरसङ्घर्षः-पृष्ठतः पाकिस्तान् इति राजनाथसिंहः 
नवदहली > काश्मीरे इदानीं सञ्जायमानेभ्यः सङ्घर्षेभ्यः पाकिस्तानस्य सहयोगः अस्तीति केन्द्र आभ्यन्तरसचिवः राजनाथसिंहः अवदत्। हिस्बुल् मुजाहिदीन् भीकरस्य बुर्हान् वानेः वधात्परं काश्मीरे सङ्घर्षः अनुस्यूततया वर्तते। एते सङ्घर्षाः पाकिस्तानस्य सहयोगेनैव भवन्ति, अवसरः अयम् अन्यथाकर्तुमेव पाकिस्तानस्य श्रमः इति राजनाथसिंहेन प्रस्तावितम्।वधसहितैः पञ्चदशाधिकैः अन्यायैः आरोपितः एव बुर्हान् वानिः इत्येतत् मा विस्मरतु इत्यपि तेन स्मारितम्। काश्मीरे विद्यासम्पन्नान् युवकान् अपि आतङ्गवादप्रवर्तनाय प्रेरितवान् आसीत् हतः भीकरः इति सूचनाः आसन्।

कालिदासशाकुन्तलं कावालसोपाने पुनर्जातम्।
अनन्तपुरी - प्रणयतीव्रतां विरहवेदनां पुनःसमागमं च मेलयित्वा कालिदासस्य अभिज्ञानशाकुन्तलस्य रङ्गमण्डपे पुनर्जनिः। संस्कृतनाटकाचार्यस्य यशःशरीरस्य कावालं नारायणप्पणिक्कर् वर्यस्य "सोपानम्" इति नाटकाभ्यासपरिशीलनकेन्द्रेण एव इदं नाटकं  वेदिकामानीतम्!कावालवर्येण  निदेशनं  कृते  अस्मिन् नाटके  चलच्चित्रनटी मञ्जू वार्यरः शकुन्तलाम् अवतारितवती! मुख्यमन्त्री पिणराय् विजयः  नाटकावतरणस्य उद्घाटनं क़ृतवान् कावालं वर्यस्य देहवियोगात्परं पुत्रः  कावालं श्रीकुमारः पौत्री कल्याणी च नाटकस्य एकोपनं कृतवन्तौ! राजनैतिक सांस्कृतिक साहित्य कलामण्डलेषु प्रमुखाः नाटकमास्वदितुम् उपस्थिताः आसन्

Tuesday, July 19, 2016

भारतस्य महाम्मादीयानां चिन्तया पाकिस्थानः व्याकुलो मास्तु - राजनाथसिंहः
नव दिली >भारतस्य माहम्मदीयान् प्रति चिन्तया पाकिस्थानस्य व्याकुलतायाः आवश्यकता नास्ति। तथा क्रैस्तवान् माहम्मदीयान् च पालयितुं भारतं सज्जम् इति च राजनाथसिंहः अवदत्। काश्मीरस्य संघर्षाणां कारकः पाकिस्थानः एव। अस्माकं राष्ट्रम् अस्थिरं कर्तुम् उद्युक्तान् प्रति विना सन्धिं युद्धं कुर्मः, तथापि सामान्य जनान् प्रति सौम्यभावेन आनुकूल्यं दद्मः। आतङ्गवादिनान् प्रतिरोद्धुं राजनैतिकदलानि एकभावनया एकीभूय्य स्थातव्याः इति च राजनाथ सिंहेन उक्तम्। काश्मीरस्य संघर्षान् प्रति लोकसभायां कृतयां चर्चायां उत्तरं दत्तवानासीत् सः।

आन्डमान्‌ समुद्रस्य अधः अपूर्वः धातुनिक्षेपः
                         कवरत्ती > आन्डमान्‌ समुद्रस्य अधः विद्यमानम् अपूर्वं धातुनिक्षेपं स्थिरीकृत्य भारतीयः शास्त्रसङ्घः। जियोलजिकल् सर्वेय् ओफ् इन्ड्यायाः त्रयोदशाङ्गसङ्घः एव गवेषणम् अकरोत्। सङ्‌घस्थाः सप्त जनाः केरलीयाः भवन्ति। जियोलजिकल् सर्वेय् ओफ् इन्ड्यायाः समुद्ररत्नाकर् इति नामिकया पर्यवेक्षणमहानौकया कृतैः परीक्षणैरेव अपूर्वधातुनिषेपमधिकृत्य सूचनाः लब्धाः वर्तन्ते। रिमोट्ली ओप्परेषणल् वेहिकिल् उपयुज्य १००० मीटर् अधः कृतेन परीक्षणेन लान्तनं, सिरियं, नियोडीमियं इत्यादीनां बहूनां लोहानां स्रोतसः अयण् माङ्गनीस् इत्यस्य अनेकेषां फलकानां सान्निध्यम् अनुभूतम्। अतीव व्यावसायिकप्राधान्यमर्हतः अयण् माङ्गनीस् इत्यस्य सान्निध्यं साङ्केतिकमण्डले महते परिवर्तनाय निदानं स्यात्।

बि सि सि ऐ समग्रपरिवर्तनाय लोधासमित्याः प्रवादः सर्वोच्चन्यायालयेन अङ्गीकृतः।
नवदिल्ली - भारतीय क्रिकेट् नियन्त्रणपरिषदि समग्रं परिवर्तनम् अपेक्षमाणः न्याय. आर् एम् लोधा समित्याः प्रवादः सर्वोच्चन्यायालयेन अंगीकृतः। सप्ततिवयस्कातीताः, मन्त्रिणः, सर्वकारीयोद्योगस्थाश्च धुरन्धरत्वं न वहेयुः इत्यादीनि प्रमुखानि प्रबोधनानि।

केरलस्य मलप्पुरं जिल्लायां 'कोलरा' रोगः।
कुट्टिप्पुरम् >केरलस्य आतुरालयेषु  कोलरा रोगस्य निरीक्षणाय निर्देशः। अतिसारेण आतुरालयं ये प्रविशन्ति तेषां कोलरा रोगनिरीक्षणाय  प्रत्येकनिर्देशः कृतः स्वास्थ्यविभागेन। मलप्पुरं मण्डले 5 जनानां कोलराबाधा स्थिरीकृता। आतुरालयानां कृते कर्शननिर्देशः दत्तः इति  आरोग्यविभागनिदेशकः डा आर्  रमेशवर्येण सूचितम्।

Monday, July 18, 2016

काश्मीरे वार्तापत्राणां निरोधः
 श्रीनगर् > काश्मीरे सङ्घर्षबाधितमण्डलेषु वार्तापत्राणां मुद्रणं वितरणं च निरोधितम्। दिनत्रयाणां निरोधः एव प्रख्यापितः वर्तते। विविधेषु माध्यमस्थापनेषु मुद्रणालयेषु च आरक्षकैः अप्रख्यापितपरिशोधनां कृत्वा वार्तापत्राणां लेखानां च प्रतिकृतयः स्वीकृतवन्तः। एतासु काश्मीरे प्रचुरप्रचारं प्राप्तस्य 'ग्रेट्टर् कश्मीर्' नामकस्य पत्रस्य ५०००० प्रतिकृतयः अपि अन्तर्भूताः च। सङ्घर्षबाधितमण्डलेषु स्वस्थतां पुनःस्थापतयितुमेव एतत् निरोधनमिति सर्वकारवक्त्रा नयीम् अक्तरेण उक्तम्। किन्तु निरोधनं प्रतिनिवर्तनीयम् इत्युक्त्वा विविधेभ्यः मण्डलेभ्यः प्रतिषेधः आरब्धःवर्तते।

प्रधानमन्त्री कौशल् योजनायै मन्त्रिसभाङ्गीकारः
      नवदहली > वर्षचतुष्टयाभ्यन्तरे १ कोटिजनेभ्यः नैपुण्यपरिशीलनं लक्ष्यीकृत्य आयोजिता 'प्रधानमन्त्री कौशल् योजना' केन्द्रमन्त्रिसभया अङ्गीकृता। प्रधानमन्त्रिणः आध्यक्षे संवृत्ते योगे एव अनुमतिः लब्‍धा। अस्याः पद्धतेः १२००० कोटि रुप्यकाणां व्ययः प्रतीक्ष्यते। ६० लक्षं युवकेभ्यः नूतनं परिशीलनं दीयते। रेकग्नेषन् ओफ् प्रयोर् लेणिङ् इत्यस्य परिशीलनं पूर्तीकृतेभ्यः ४० लक्षं जनेभ्यः प्रमाणपत्रमपि दीयते।


 गुजराते पुनरपि भूकम्पः।
  अहम्मदाबाद् > दक्षिणगुजराते भूकम्पः सञ्जातः। रिक्टर्  स्केल् मध्ये ४.७ इति तीव्रतां सूचितः भूकम्पः श्वः दिने ९.२४ वादने एव सञ्जातः। सूरत् तः १४ किमी. दूरे आसीत् भूकम्पस्य प्रभवकेन्द्रम्। रन्धेर्,अम्रेली,सवर्कुण्डला, अदाजन् इत्यादिषु मण्डलेष्वपि भूकम्पः अनुभूतः।

प्रोफ. अरुमानूर् निर्मलानन्दः दिवंगतः। 
अनन्तपुरी >संस्कृतवेदान्तपण्डितः , साहित्यकारः , सांस्कृतिक-जीवकारुण्यप्रवर्तकश्च प्रोफ. अरुमानूर् निर्मलानन्दः - ६७ - निर्यातः। अनन्तपुरी सर्वकारीय संस्कृत कलालये आचार्य आसीत्। मिश्रविवाहसंघस्य केरलराज्यसचिवः भारतीय रेड् क्रोस् संस्थायाः राज्यसचिवप्रमुखः देशीयोपाध्यक्षः , भारतीयसंस्कृतभाषाप्रचारणसमित्याः देशीयाध्यक्षः इति बहूनां संघटनानां नेतृस्थानमलंकृतवानयं महानुभावः।  श्रीशङ्करस्य सम्पूर्णकृतीनां विवर्तनं व्याख्यानं च कृतवानयं षेक्स्पियर् कालिदासः भासः इत्यादीनां कृतीः अपि भाषान्तरीकरणं कृतवान्। *केरळश्रीपुरस्कारः केन्द्रसर्वकारस्य संस्कृतभाषापण्डितपुरस्कारः मानवसेवापुरस्कारः इत्यादयः चत्वारिंशदधिकाः पुरस्काराः अनेन लब्धाः।

Sunday, July 17, 2016

मल्लयुद्धे विजयेन्द्रविजयः एव विजयी
नवदिल्ली > वृत्त्यात्मकमल्लयुद्धे (Professional Boxing) भारतस्य विजेन्द्र सिंहः अनुस्यूततया सप्तमवारं विजयसोपानं प्राप्तवान्। दिल्ल्यां त्यागराज कायिकसौधे सम्पन्ने आस्ट्रेलिया स्वदेशीयं केरि होप् नामकं पराजित्य एव विजेन्द्रः किरीटं प्राप्तवान्। वृत्त्यधिष्ठित मल्लयुद्धस्पर्धासु विजेन्दर् सिंहस्य प्रथमकिरीटलाभः एषः।

भारतीयछात्राः सुरक्षिताः
 नवदहली > तुर्कीराष्ट्रे प्रचाल्यमानायाः विद्यालयकायिकमेलायाः भागभागिनः भारतीयछात्राः सुरक्षिताः इति विदेशकार्यसचिवया सुषमास्वराजमहोदयया उक्तम्। ट्विट्टर् सामूहिकमाध्यमद्वारा एव वृत्तान्तोऽयं सूचितः। तुर्कीराष्ट्रे ट्राब्सण् देशे भवति कायिकमेला। भारतराष्ट्रात् १४८ छात्राः विद्यालयकायिकमेलायां भागभाक्त्वं स्वीकुर्वन्ति। एतैः साकं ३८ उद्योगस्थाः च सन्ति। सर्वे सुरक्षिताः इति अधिकारिणः सूचयन्ति। जूलै १८ दिनाङ्के मेलां समाप्य सङ्‌घः प्रतिनिवर्तयिष्यति।

डेविस् कप् - भारतस्य विजयः
  चण्डीगड् > डेविस् कप् टेन्नीस् परम्परायां द्वन्द्वविभागे दक्षिणकोरियायाः उपरि भारतस्य विजयः।भारताय लियाण्डर् पेस् रोहन्‌ बोप्पणा सख्यमेव विजयं प्रापयत्। तथा च परम्परायां भारतं ३-० इत्यनुपाते अग्रे भवति। परम्परायाः प्रथमदिने भारताय रामकुमार् रामनाथः साकेतमेयनेनिः च विजयिनौ आस्ताम्।

 राष्ट्रसुरक्षायै राज्यसहकरणम् अनिवार्यम्- प्रधानमन्त्री      नवदहली > राष्ट्रसुरक्षायै विविधानां राज्यानां सहकरणम् अनिवार्यम् इति प्रधानमन्त्रिणा नरेन्द्र मोदिना उक्तम्। राष्ट्रपतिभवने सञ्चालिते अन्तःराज्यसमितेः योगे प्रभाषयन् आसीत् सः। राष्ट्रस्य आभ्यन्तरसुरक्षायै विविधैः राज्यैः सम्पाद्यमानानां रहस्यान्वेषणवृत्तान्तानां परस्परं विनिमयः आवश्यकः इति मुख्यसचिवान् प्रधानमन्त्री सूचितवान्। तदर्थम् अन्वेषणसङघानाम् एकोपनं, अन्वेषणात्मककार्ये नूतनं समीपनं, साङ्केतिकविद्यायाः आर्जनं, अङ्गबलवर्धनं, कार्यशेषिवर्धनम् इत्यादिषु कार्येषु नैरन्तर्यश्रद्धा आवश्यकी - प्रधानमन्त्रिणा सूचितम्। राष्ट्रस्य सर्वे मुख्यसचिवाः समित्याम् अङ्गाः भवन्ति।

औषधपरिशोधनायै सप्ताङ्गसमितिः
तिरुवनन्तपुरम् > केरलेषु आरोग्यमण्डले परिवर्तनैः सह सर्वकारः। स्वास्थ्यमण्डले स्वकार्यातुरालयानाम् अनियन्त्रितविनिमयं प्रतिरोद्धुं सर्वकारस्य निर्णयः। राज्ये नूतनतया निर्मीयमानानाम् औषधानां तथा आविष्क्रियमाणानां चिकित्सासम्प्रदायानां च कार्यक्षमतां परिशोधयितुं सप्ताङ्गसमितिः सर्वकारेण रूपीकृता। समित्यां राज्यस्य विदग्धाः चिकित्सकाः अन्तर्भूताः इति सूचना अस्ति। आरोग्यमण्डले विविधैः स्वकार्यातुरालयैः स्वेच्छया एव चिकित्सासम्प्रदायाःऔषधाः च आविष्क्रियन्ते, तदर्थं तैः स्वीक्रियमाणं धनमपि अत्यधिकमेव। सर्वकारस्य नूतनः निर्णयः सामान्यजनेभ्यः आश्वासदायकः भवति।
राष्ट्रे कालवर्षः वेगेन समागतः । 
नवदहली > राष्ट्रे कालवर्षः पूर्वकालापेक्षया वेगेन समागतः इति केन्द्रकालावस्थानिरीक्षणकेन्द्रम्। राष्ट्रस्य समस्तमपि मण्डलं कालेऽस्मिन् वर्षेण अनुगृहीतः इति केन्द्रेण अभिप्रेतम्। कालेऽस्मिन् राष्ट्रे ४% अधिकः वर्षः लब्धः वर्तते। राजस्थानस्य पश्चिमभागेषु कच् मण्डले च विलम्बेनैव कालवर्ष: आरब्धः। तथापि वर्षाकालः अनुकूलतया एवेति केन्द्रेण उक्तम्।

गतिमानं तरणं कृत्वा टालगो
 आग्रा> राष्ट्रे वेगस्य विषये इतः आरभ्य टालगो रेलयानं पुरतः। प्रतिघण्डं १८० कि.मी दूरं टालगो रेलयानेन प्राप्तम्। इतः पूर्वं राष्ट्रस्य अतिवेगयानं गतिमान् एक्स्प्रेस् आसीत् । स्पानिष् सङ्‌घः एव टालगो यानस्य निर्माता। यानस्य द्वितीये परीक्षणसञ्चारे ३९ निमेषैः ८६ कि.मी दूरम् एकेन घण्डेन प्राप्तम् वर्तते। मथुरा-पालवाल् रेलमार्गेण आसीत् सञ्चारः। डीसल् इन्धनयन्त्रयुक्तेऽस्मिन् याने ९ भागाः (coach ) सन्ति। अलुमिनियम् उपयुज्य निर्मितस्य यानस्यास्य भारः अन्यानि यानान्यपेक्षया न्यूनः भवति । अत एव ऊर्जलाभोऽपि यानस्यास्य उपयोगेन शक्यते।
 
विवादप्रतिरूपाभिनेत्री पाकिस्तानदेशीया खन्डील् बलोच्ची हता।  
मुल्टान् > विवादप्रतिरूपाभिनेत्री खन्डील् बलोच्ची (२६ वयः) गोलिका प्रहारेण हता। स्वसोदरेणैव वधः कृतः वर्तते। दुरभिमानः एव वधस्य कारणमिति सूचना। बलोच्च्यायाः नग्नचलनचित्राणि फेस्बुक् सामूहिकमाध्यमेन प्रचरितानि आसन् । तेन सोदरः दुःखितः आसीत् । नग्नताप्रदर्शनेभ्यः सा प्रतिनिवर्तनीया इति सोदरेण अभ्यर्थितमासीत् ।किन्तु एतत् अवगणय्य पुनरपि प्रतिरूपाभिनयरङ्गे खन्डील् बलोच्या: प्रदर्शनानि आगतानि । एतदेव वधस्य प्रेरणा जाता इति पाक्माध्यमानि सूचयन्ति।

Saturday, July 16, 2016

राकेष् कुमार् चतुर्वेदी सि बि एस् ई अध्यक्षः। 
नवदिल्ली > मध्यप्रदेशतः १९८७ संवत्सरपरिशीलिताङ्गः (cadre) राकेष् कुमार् चतुर्वेदी सि बि एस् ई अध्यक्षपदे केन्द्रसर्वकारेण नियुक्तः।


केरळात् अप्रत्यक्षाः परिवाराः कुत्रगताः? 
नवदिल्ली >केरळात् अप्रत्यक्षाः परिवाराः भीकरसंस्थाम् इस्लामिक् स्टेट् इत्याख्यां प्राप्तवन्तः इति सन्देहमधिकृत्य विदेशकार्यमन्त्रालयस्य सकाशे कापि सूचना नास्तीति विदेशकार्यवक्त्रा विकास् स्वरूपेण उक्तम्। अयं विषयः सुरक्षासेनया अन्वेष्टव्य इति च तेनोक्तम्।

फ्रान्स् देशे पुनरपि भीकराक्रमणम् - ८४ मरणानि। 
नीस् - फ्रान्स् राष्ट्रस्य नीस् नामके समुद्रतटनगरे देशीयदिनाघोषाणां मध्ये जनसञ्चयं प्रति लोरियानं बलेन चालयित्वा चतुरशीति जनान् अमारयत्। शताधिकाः जनाः आहताः। तेषु ५० जनानाम् अवस्था गुरुतरेण वर्तते।
   ३१ वयस्कः  टुणीष्या देशीयो भवति आक्रमणकारी। अतिशीघ्रमागतं ट्रक् यानं जनान् घट्टनेन पातयित्वा किलोमीटर् द्वयपरिमितं सञ्चरति स्म इति दृक्साक्षिभिरुक्तम्।
भीकराक्रमणं भवति नीस् प्रदेशे संवृत्तमिति फ्रान्स् राष्ट्रपतिः  अवोचत्।

अरुणाचले  नाटकीयव्यवहारः - पेम खण्डुः नूतनमुख्यमन्त्री। 
नवदिल्ली >अरुणाचलप्रदेशे नाटकीयव्यवहारेण सर्वोच्चन्यायालयेन  प्रत्यानीतः कोण्ग्रस् सर्वकारः नेतृत्वस्य नाटकीयव्यवहारस्य चर्चायाः चान्ते प्रतिसन्धिं परिहृतवान्। इदानींतनमुख्यमन्त्रिणं नबां तुक्कीवर्यं परिवर्त्य युवनेतारं पेमा  खण्डुं विधानसभानेतृरूपेण चित्वा ४४ कोण्ग्रस् सामाजिकानां समर्थनं दृढीकृतम्। 
   विमतसामाजिकानाम् अभिमतं परिगणय्य एव नेतृत्वपरिवर्तनम् अजायत।  कोण्ग्रस् सामाजिकाः राज्यपालं समेत्य नूतननेतरि स्वेषां सहयोगं समर्थितवन्तः।  अतः विश्वासमतगणना न स्यात्।

Friday, July 15, 2016

कृष्णधनम् - लक्षत्रयाणाम् उपरि विनिमयः निवारणीयः इति SIT
नवदिल्ली > कृष्णधनस्य निर्व्यापनमुद्दिश्य नूतननिर्देशान् समर्प्य अन्वेषण सङ्घः। विनिमयाय लक्षत्रयम्, हस्ते स्थापनाय पञ्चदश लक्षम् च परिधौ भवतः। इदानीं जनाः धनं गृहेषु पालयन्ति इति भूतपूर्व - न्यायाधीशेन एन् .बि .षा महोदयेन उक्ततम्। एतदधिकृत्या सर्वोच्च न्यायालये  पठनपत्रम् समर्पितम् । अधिकं धनं स्वपार्श्वे पालयितुम् इच्छुः आयकर विभागतः अनुमतिः स्वीकरणीयः इत्यपि व्यवस्था स्वीकरणीया इत्यपि निर्देशः पठनपत्रे अस्ति।

दिल्ल्यां मोहल्ला स्वास्थ्यकेन्द्राणि लोके सर्वत्र चर्च्यन्ते। 
नवदिल्ली > अरविन्द् केज्रिवाल् सर्वकारेण दिल्याम् आरब्धानि मोहल्ला इति स्वास्थ्यसेवनकेन्द्राणि राजधानिनिवासिभ्यः बहुभ्यः  निष्किञ्चनविभागेभ्यः आश्वासप्रदानि भवन्ति। शताधिकानि केन्द्राणि दिल्ल्यां सर्वत्र प्रवर्तन्ते। निश्शुल्कप्राथमिकपरिशोधना तथा आधारचिकित्सा रसक्रियाशोधना  न्यूनतममूल्ये औषधानि च अत्र लभन्ते। एतादृशानि स्वास्थ्यकेन्द्राणि न केवलं भारते किन्तु लोके सर्वत्र प्रसिद्धिमाप्नुवन्ति। वाषिङ्टण् पोस्ट् , चिक्कागो ट्रिब्यूण् , एन् डि टि वि , इ पि डब्ल्यू इत्यादयः माध्यमाः एतां पद्धतिम् आशंसन्ते स्म।

केरळे महानगरेषु डीसल् त्रिचक्रिकाणां निरोधः। 
कोच्ची - केरळे तिरुवनन्तपुरं कोच्ची कोष़िक्कोट् महानगरेषु इतःपरं नवीनाभ्यः  डीसल् तैलत्रिचक्रिकाभ्यः अनुमतिः न दातव्येति राज्यस्य यन्त्रवाहनविभागः सर्वकारं प्रति निरदिशत्। वर्तमानाः डीसल् त्रिचक्रिकाः क्रमानुगतेन एल् पि जि , सि एन् जि  इन्धनं प्रति परिवर्तनं करणीयाः इति च निर्देशः कृतः।
  डीसल् यानानि अधिकतया धूमेन वायु मलिनीकरणकारणानि इत्यतः एवायं परिष्कृतिः इति गतागतायोगकेन टोमिन् जे तच्चङ्करिणा उक्तम्।

आभारतं गङ्गाजलं पत्रालयद्वारा। 
कोच्ची > भारतस्य दक्षिणान्तेषु केरळेषु अपि पवित्रं गङ्गाजलं पत्रालयद्वारा अद्य आरभ्य गृहं प्राप्नोति। राष्ट्रव्यापकेण चितैः ८०० पत्रालयैः गंगाजलवितरणाय केन्द्रसर्वकारस्य पद्धतिः भवत्येषा।  ऋषिकेशः गंगोत्री स्थानाभ्यां संभृतं गंगाजलमेव वितरति। २०० मि.लि. , ५००मि.लि. परिमाणेषु पलास्तिक कूप्येषु एव वितरणयोग्यं जलं प्राप्तमस्ति।

Thursday, July 14, 2016

रियो ओलिम्पिक्स् - भारतस्य ४x४०० मीट्टर् वनिता रिले सङ्घाङ्गाः प्रख्यापिताः।

नवदिल्ली > रियो ओलिम्पिक्स् स्पर्धायाः कृते भारतस्य ४x४०० रिले गणेषु वनिता अङ्गानां नाम प्रख्यापितः। टिन्टु लूक्क, अनिल्डा तोमस्  , जिस्ना मात्यु प्रभृतयः गणे अन्तर्भवन्ति । अनु राघवः परित्यक्ता च।

48 बालकर्मकराः मोचिताः।
हैदराबाद् > मैलार देवप्पल्ली देशस्थ मधुरक  निर्माणशालातः अष्ट चत्वारिंशत् (४८) बालिका बालकाः मोचिताः। दुरित पूर्णायाम् आवास व्यवस्थायां पीडिताः एते आरक्षकैः बालरक्षासंस्थया च रक्षिताः। तत्रत्येषु एकचत्वारिंशत् बालिकाः सप्तदशबालकाः च आसन्I तमिळ् नाट् आन्ध्रदेशीयाः भवन्ति एते। निर्माणशाला स्वामिनं विरुद्ध्य दण्डव्यवहारः स्वीकृतःI

 अरुणाचले राज्यपालेन भ्रष्टः सर्वकारः न्यायालयेन प्रत्यानीतः।
नवदिल्ली >अरुणाचलप्रदेशे षण्मासेभ्यः पूर्वं कोण्ग्रस्दलसर्वकारं स्थानभ्रष्टं कृतं राज्यपालस्य क्रियाविधिः सर्वोच्चन्यायालयेन निरस्तीकृतः। नबां तुक्कीवर्यस्य पूर्वभूतःं सर्वकारः न्यायालयेन पुनरवरोधितः। 
     उत्तराखण्डविषयस्य अनुवर्ततया केन्द्रसर्वकारं तथा भाजपादलं प्रति च लब्धमानः प्रत्याघातः भवति एतत्।

त्रिपुरायां मृत्तैलं न लभते
अगर्तला >त्रिपुरायां डीसल् पेट्रोल् तैलानां दौर्लभ्यः। असम् त्रिपुर सीमायां राजवीथी-४४ भग्नः इत्यतः लोरियानानि नागच्छन्ति। २०दिनैः प्रतिसन्धिः अनुवर्तते।

Wednesday, July 13, 2016

दक्षिणचीनासमुद्रे चीनायाः अधिकारो नास्तीति यू एन् न्यायालयः। 
हेग् - दक्षिणचीनासमुद्रमधिकृत्य फिलिप्पैन्स् राष्ट्रं प्रति  सीमाविवादे चीनादेशस्य प्रत्याघातः। तर्कमण्डले चीनायाः अधिकारः नास्तीति ऐक्यराष्ट्रसभान्यायालयस्य प्रमुख विधिः।
    किन्तु हेगस्थान्ताराष्ट्रन्यायालयस्य अयं  विधिः न मान्यतेति प्रस्तुतसमुद्रमण्डलस्य अधिकारीवयमेव, एतस्मिन् विषये न कोऽपि संदेहः इत्येव चीनादेशस्य दृढवादः।
सोपानम्-07 News Reading By Vismaya V. Menon DD Sabha High School N.Paravur

तेरेसा मेय् ब्रिट्टनस्य प्रधानमन्त्रिणी।
लण्टन् - ब्रिट्टन् देशस्य नूतना प्रधानमन्त्रिणी इदानींतन गृहमन्त्रिणी तेरेसा मेय् भविष्यति। ५९ वयस्का सा अद्य अधिकृतिं प्राप्नोति।  स्थानभ्रष्टस्य डेविड् कामरूणस्य अनुगामिनीयं ब्रिट्टनस्य जनाधिपत्यचरित्रे द्वितीया वनिता प्रधानमन्त्री भवति।



महाराष्ट्रायाम् अतिवृष्टिः -  सर्वनाशः; ४ मरणानि।
 नासिक् > उत्तरमहाराष्ट्रायां नासिक् नन्दूर् बार् जनपदयोः  त्रिदिनं यावत् अनुसूतमानया अतिवृष्ट्यागृहभग्नेन च चत्वारः जनाः मृताः। १७९ भवनानि भग्नानि। उपशतं धेनुमृगादयः जलप्रवाहे विनष्टाः।

 श्रीजेषः भारतहोक्कीनायकः।
नवदिल्ली> रियो ओलिम्पिक्स् महामहे भारतस्य होक्कीदलं केरलीयतारः पि आर् श्रीजेषः नेष्यति। ओलिम्पिक्स् होक्कीदलं नीयमानः प्रथमः केरलीयः इति बहुमतिरपि श्रीजेषेण करस्थीकृता। २०१४ तमे वर्षे इञ्चियोण् एष्यन् कायिकमेलायां सुवर्णपदकं सम्पादयित्वावा एव भारतम् ओलिम्पिक्स् योग्यतां प्राप्तम्। तदा पाकिस्तानं श्रीजेषस्य प्रभावे पराजित्य सुवर्णं प्राप्तम्। समीपकाले लण्टने सम्पन्ने चाम्प्यन्स् चषकस्पर्धासु भारतं प्रति जितचषकम् आनीतवानसौ । ऐदंप्राथम्येन अन्तिमचरणं प्राप्तं भारतं रजतपदकं स्वायत्तीकृतवच्च।