OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 16, 2016

भारतीयविद्याभवने संस्कृतपठनवर्गः आरब्धः। 

 कोच्ची >भारतीयविद्याभवन् संस्थायाः कलाभारति नामके कोच्ची केन्द्रे संस्कृतपठनवर्गः आरब्धः। प्रोफेसर. अच्युतमेनोन् वर्यस्य नेतृत्वे प्रतिसप्ताहं दिनद्वये- सोममङ्गलवासरयोः - सायं पञ्चवादने कक्ष्या आरभ्यते। वयोभेदं विना संस्कृतपिपठिषूणां प्रवेशः अस्ति। सरलयारीत्या भाषां स्वायत्तीकर्तुं शक्यमाना ललिता पाठ्यपद्धतिरेव उपयुज्यते। संबन्धाय दूरवाणी - 0484- 2383451 , 9447179087.

विजयमल्या प्रख्यापितापराधी। 

मुम्बई >आर्थिक ऋणविषये राष्ट्रं त्यक्तः मदिराव्यापारी विजयमल्या सविशेषन्यायालयेन प्रख्यापितापराधिरूपेण प्रख्यापितः। ऐ डि बि ऐ बाङ्कात् स्वीकृतानां नवशतं कोटिरूप्यकाणं प्रत्यर्पणं न कृतमिति विषये एन्फोर्स्मेन्ट् डयरक्टरेट् संस्थायाः अभ्यर्थनाप्रकारेणैव न्यायालयस्य अयं क्रियाविधिः।
  इदानीं लण्टनम् अधिवसन्तं मल्यं गृहीतुं राष्ट्रान्तरान्वेषणसंघस्य इन्टर्पोल् इत्यस्य साहाय्यम् अर्थितं च।

 विद्यालयगणवस्त्रं विभिन्नं न स्यात्। 

अनन्तपुरी > एकस्मिन् विद्यालये विभिन्नदिनेषु विभिन्नं गणवेषं  धर्तुम् आगामीसंवत्सरादारभ्य अनुमतिं न दास्यतीति सार्वजनीनशैक्षिकनिर्देशिकायाः आदेशः। राज्यस्तरीय बालाधिकारसंस्थायाः निर्देशानुसारमेवायमादेशः।
  संवत्सरत्रयाभ्यन्तरे गणवेषस्य परिवर्तनं न साध्यम्।

Wednesday, June 15, 2016

सोपानम्-03 SRK HSS Meenchanda, Kozhikkod, News Reading 15-06-2016

यन्त्रवत्कृतमत्स्यबन्धननिरोधः (Trolling) आरब्धः।

कोल्लम् > केरळे ४७ दिनात्मकमत्स्यबन्धननिरोधः आरब्धः। यन्त्रवत्कृतनौकाः उपयुज्य समुद्रान्तर्भागेषु मत्स्यबन्धनं मत्स्यप्रजननप्रक्रियां प्रतिकूलतया बाधते। अत एव प्रजननकाल इति निर्णीते मण्सूण् काले मत्स्यबन्धने निरोधः आविष्कृतः। 
    किन्तु परम्परागतधीवरैः नियन्त्रणमङ्गीकृत्य मत्स्यबन्धनाय अनुमतिः अस्ति। जूण् १५ दिनाङ्कादारभ्य जूलाय् ३१ पर्यन्तमेव निरोधनम्।

Monday, June 13, 2016

कोप्पा अमेरिक्कातः ब्रसील् बहिर्गतम्। 

मसाच्चुसेट्स् >कोप्पा अमेरिक्का पादकन्दुकक्रीडातः पेरु राष्ट्ं प्रति पराजितः ब्रसीलदेशः अन्तिमचतुर्थांशम् अप्राप्य बहिर्गतः।  पेरु राष्ट्रेणार्जितं कन्दुकलक्ष्यं  विवादात्मकमासीत्। पेरोः क्रीडकस्य रौल् रुड्डियास् नामकस्य हस्तं संस्पृश्य एव कन्दुकः जाले पतितः इति विदग्धैः उच्यते। तत्तु विवाकेन न निर्णीतं च। एतत् ब्रसील् दुरन्ताय अभवत्।

उन्मादक वस्तूनां विनिमयमधिकृत्य ज्ञापितेभ्यः मूल्यस्य प्रतिशतं पञ्च  (५% ) लप्स्यते - ऋषिराजसिंहः

अनन्तपुरी > केरळेषु उन्मादकवस्तूनां विनिमयं प्रतिरोद्धुं एक्सैस् कम्मीषणरः ऋषि राजसिंहः सम्मानं प्रख्यापितवान् । एतदनुसारं गोप्य रूपेण उन्मादवस्तूनां विनिमयमधिकृत्य ज्ञापनीयम् । इदानीं भारतस्य विभिन्नप्रदेशेषु विद्यमानेषु कलाशालायाः तथा विद्यालयस्य च परिसरेषु उन्मादवस्तूनां विक्रयः प्रचलति।

उड्ता पञ्चाबस्य प्रदर्शनानुमतिः। 

मुम्बई > ' उड्ता पञ्चाब् ' इति हिन्दी चलच्चित्राय मुम्बई उच्चन्यायालयः प्रदर्शनाङ्गीकारम् अदात्। अभिषेक् चौबे वर्यस्य निदेशकत्वे सिद्धतामाप्तस्य चलच्चित्रस्य  ८९ दृश्यानि वर्ज्यानि इति कारणेन युक्तियुक्तविवेचननिर्वाहकसंघः (Senser board) प्रदर्शनानुमतिं  निराकृतवानासीत्।
  एतद्विरुध्य निर्मातृभिः समर्पितायां याचिकायामेव उच्चन्यायालयस्य अनुकूलविधिः।
'करमन नदीं' शुद्धं कर्तुं विद्यालयछात्राः

अनन्तपुरी > नदीजल संरक्षणाय कटिबद्धाः विद्यालयछात्राः नदी संरक्षण प्रवर्तनानि आरब्धानि । केरळ राज्ये अनन्तपुर्याः समीपदेशे विद्यमाने कण्डमण् कटव् 'भविष्या' विद्यालयस्य छात्राः एव एते कुशला:। जूण् मासस्य पञ्चम दिने एते छात्राः परिस्थिति संरक्षणशपथं स्वीकृतवन्तः। विद्यालयस्य समीपे प्रवहन्तीं नदीरक्षणाय नद्याः पार्श्वयोः तृण- वेणु सस्यादीनी रोपितुमारब्धाः। एक किलोमीट्टरमितं दूरं उभयतः नद्याः संरक्षणं , जनानां उद्‌बोधनं च छात्राणां योजनायां वर्तते। विख्यातः परिस्थिति प्रवर्तकः राजशेखरयेशुदासः एव छात्राणां मार्गदर्शी । मथुर-वैगा नद्याः पुनरुज्जीवन प्रक्रियायाः नेता भवति एषः महानुभावः । भवतु - प्रकृति संरक्षणाय यावच्छक्यं तावत्‌ करिष्यामः।
 कलाभवन् मणेः मरणे सि बि ऐ अन्वेषणम्। 

अनन्तपुरी >मासत्रयात्पूर्वं अस्वाभाविकमरणभूतस्य सुप्रसिद्धचलच्चित्रनटस्य कलाभवन्मणेः मरणकारणं सि बि ऐ. संस्थया अन्वेष्टुं  केरलसर्वकारेण निश्चितः। राज्यस्य आरक्षणसेनायाः अधिपः लोकनाथ बह्रा वर्यः प्रस्तुतविषये अनुकूलनिर्देशं  समर्पितवान्।
  मणिवर्यस्य अस्वाभाविकमरणं हत्येति दृढनिश्चये  तस्य अनुजः आर् एल् वि रामकृष्णः सि बी ऐ अन्वेषणाय सर्वकाराय आवेदनं समर्पितवानासीत्।
   बान्धवानाम् आवेदनं मणेः प्रसिद्धिं च परिगण्य केन्द्रतल रहस्यान्वेषणाय सर्वकारेण निश्चितमस्ति।

विजयमल्यायाः १४११ कोटि रूप्यकाणां द्रव्याणि स्वायत्तीक्रियन्ते। 

मुम्बई >ऋणबाध्यताविषये विदेशं पलायितस्य विजयमल्यस्य १४११ कोटि रूप्यकाणां स्थावरजंगमद्रव्य़ाणि एन्फोर्समेन्ट् डयरक्टरेट् संस्थया सर्वकाराय स्वायत्तीकृतानि।
  ३४कोटि रूप्यकाणां बाङ्कनिक्षेपः, बंगलुरु मुम्बई नररस्थयोः एकैकः वास समुच्चयः, चेन्नैसमीपे ४.५ एकर् परिमिता वाणिज्योपयोगयोग्या भूमिः , कुटक् प्रदेशे २८.७५ एकर् परिमितं काफीक्षेत्रम् इत्यादीनां  द्रव्याणां सर्वस्वदण्डनमेव कारितम्।

Sunday, June 12, 2016

वर्षाकाले पादत्राणं पादकवचं च मा धृत।

कोच्ची > केरळेषु वर्षाकाले छात्राः गणवेषेन सह  पादत्राणं पादकवचं च धर्तुं बलात् न प्रेरयितव्याः इति केरळानां बालाधिकार संरक्षणसंस्थया निर्दिष्टम्। राज्ये सर्वेषां विद्यालयानाधिकारिणां कृते सूचनां दातुं सार्वजनिक शिक्षानिर्देशकः सचिवः सि बि एस् सि अधिकारिणः इत्यादीन् प्रति संस्थाध्यक्षा शोभा कोशी निरदिशत्।

डीसल् वाहननियन्त्रणम् - उच्चन्यायालयः निराकुरुत।

कोच्चि >डीसल् तैलवाहनानां देशीयहरितन्यायाधिकरणेन कृतं नियन्त्रणं केरळ उच्चन्यायालयेन निराकृतम्। दशसंवत्सराधिकपुरातनानां डीसल् वाहनानां केरलेषु मुख्यषण्णगरेषु कारितं नियन्त्रणमेव उच्चन्यायालयेन निराकृतम्।

अफ्गानिस्ताने भारतीया अपहृता।

काबूल् >अफ्गानिस्तानस्य राजधान्यां काबूल् नगरे सामाजिकप्रवर्तनं कुर्वन्ती भारतीया अज्ञातैः अपहृता।
सर्वकारेतरसंघटस्य आगाखान् डवलप्मेन्ट् नेट्वर्क् नामकस्य कार्यकर्त्री जूडित् डिसूसा एव अपहृता। तया सह तस्याः सुरक्षाभटः यानचालकश्च अपहृतौ। कोल्कत्ता स्वदेशिनी भवति जूडित् डिसूसा।
  तस्याः मोचनाय प्रयत्नं कुर्वन्नस्तीति भारतीयनयतन्त्रकार्यायनेन प्रस्तावितम्।

Saturday, June 11, 2016

 भारतात् चोरितानि वस्तूनि अमेरिक्कया प्रतिदत्तानि। 

वाषिङ्टण् >भारतात् चोरणं कृत्वा अमेरिक्कां प्राप्ताः   द्विसहस्रं संवत्सराणां पुरातनत्वमर्हन्तः विग्रहाः प्रतिमाश्च सहिताः द्विशतं करकौशलसामग्र्यः भारताय प्रतिदत्ताः। सहस्रलक्षं डोलर् मूल्ययुक्तानि एतानि वस्तूनि अमेरिक्कायां सन्दर्शनं कुर्वन् भारतप्रधानमन्त्री नरेन्द्रमोदी राष्ट्राय स्वीकृतवान्।
   कांस्य- टेराक्कोट्टा इत्यादिभिः निर्मितानि एतानि भारतस्य आराधनालयेभ्यः चोरितानि भवन्ति। चेन्नै नगरस्थात् महेश्वरमन्दिरात् मुष्णीता योगिनः कवेश्च माणिक्कवाचकरस्य (ए डि ८५० - १२५०) प्रतिमा भवति मूल्यतमा। अस्याः मूल्यं १० कोटि रूप्यकाणि  इति गण्यते।
   अमेरिक्कायाः महामनस्कतायै मोदिवर्यः धन्यवादं प्रस्तौति स्म।

Friday, June 10, 2016

 भारतराष्ट्राय मेक्सिकोराष्ट्रस्य सहयोगः 

मेक्सिकोसिट्टि> विश्वस्य आणववितरणसंघे अङ्गत्वसम्पादनाय भारतराष्ट्रं प्रति मेक्सिकोराष्ट्रस्यापि सहयोगः।   भारतप्रधानमन्त्रिणः नरेन्द्रमोदिनः मेक्सिकोराष्ट्रस्य सन्दर्शनवेलायाम् मेक्सिको राष्ट्रपतिना एतत् प्रस्तावितम्‌। सन्दर्शनानुबन्धिकतया नरेन्द्रमोदिनः कृते मेक्सिकोदेशीये व्योमयानसङ्‌केते राजकीयस्वीकरणमेव सज्जीकृतमासीत् । व्योमयानसङ्‌केते मोदीं स्वीकर्तुं विदेशकार्यसचिवः क्लौडियो रूयिस् सन्निहितः आसीत् । बुधवासरे अमेरिकायाः राष्ट्रप्रतिनिधिसभायां प्रभाषणानन्तरमेव मोदिना मेक्सिको सन्दर्शितम्। आणववितरणसंघे अंगत्वसम्पादनाय अमेरिका सहितानि बहूनि राष्ट्राणि भारतं प्रति सहयोगं न्यवेदयन् वर्तते।


क्षेपणायुध-विक्रयं लक्ष्यीकृत्य भारतम्

         नवदहली> वियट्नां सहितेभ्यः राष्ट्रेभ्यः नूतनं क्रूस् क्षेपणायुधसंविधानं विक्रेतुं भारतसर्वकारस्य पर्यालोचना। भारत-रष्या  संयुक्तसंविधानेन निर्मितं 'ब्रह्मोस्' क्षेपणायुधं पञ्चदशपरिमितेभ्यः राष्ट्रेभ्यः विक्रेतुं सर्वकारेण निर्णयः स्वीकृतः। अन्येभ्यः राष्ट्रेभ्यः अत्यधिकम् आयुधं स्वीक्रियमाणेन भारतराष्ट्रेण अनेन आयुधविक्रयणेन मण्डलेऽस्मिन् महान् लाभः एव प्रतीक्ष्यते। एतदनुसृत्य वियट्नां, इन्डोनेष्या, चिली , ब्रसील्, दक्षिणाफ्रिक्का इत्यादिभ्यः पञ्च राष्ट्रेभ्यः क्षेपणायुधविक्रयणाय ब्रह्मोस् एय्रो स्पेस् संघं प्रति प्रधानमन्त्रिणा निर्देशः दत्तः वर्तते।

 शासनसंविधानं भारतसर्वकारस्य विशुद्धग्रन्थः - नरेन्द्रमोदी।

न्यूयोर्क्> भारतस्य शासनसंहिता सर्वकारस्य विशुद्धग्रन्थ इति परिगण्यते इति प्रधानमन्त्री नरेन्द्रमोदी। अमेरिक्कायां विधानसभायाः संयुक्तसम्मेलम् अभिसंबुद्ध्य भाषमाणः आसीत् मोदिवर्यः।
 अमेरिक्कायाः जनाधिपत्यसविशेषताः बहुनां राष्ट्राणां प्रचोदनाय अभवन्निति तेनोक्तम्। तथा महात्मागान्धिनः अहिंसासिद्धान्ते मार्टिन् लूथर् किङ् वर्यः अपि आकृष्टः अभवदिति मोदिवर्यः प्रस्तौति स्म।

'विराम: अधुना नास्ति'-धोनी
नवदहली> क्रिकट्क्रीडा मण्डलात् स्वविरामम् अधिकृत्य मनः उद्घाट्य भारतस्य एकदिनक्रिकट्संघनेता महेन्द्रसिंहधोनी। क्रीडायां धावनादिषु अंशेषु क्लेशमनुभूयमाने अवसरे विराममधिकृत्य चिन्त्यते इति त्रिपञ्चाशत् वयस्क: सः अवदत्। स्वनेतृस्थानविषये बि सी सी ऐ अधिकारिभिः एव अन्तिमनिर्णय: स्वीक्रियते इत्यपि सूचितम्।

Thursday, June 9, 2016

मण्सूण् वर्षाकालः सम्प्राप्तः। 

कोच्ची > प्रतीक्ष्यमाणः मण्सूण् वर्षाकालः केरळं प्राप्तः। ह्यः राज्ये सर्वत्र महती वृष्टिः लब्धा। बहुत्र व्यापकनाशनष्टाः अभवन्।
  कोट्टयं जिल्लायां विद्यालय भवनं भग्नमभवत्। छात्राः सुरक्षिताः। एरणाकुलं नगरे सर्वे निम्नप्रदेशाः वारिपूरिताः जाताः। गतागतावरोध अपि सञ्जातः।

Wednesday, June 8, 2016

सोपानम्-02


सम्प्रतिवार्तांतां अधिकृत्‍य  कालटी श्री शङ्कराचार्य  विश्वविद्यालयस्य उप कुलपतिः डॉ. एं सि दिलीपकुमारमहोदयः।

सोपानम्-02 


वार्तावतारका- नम्यालक्ष्मी आर् , महाकवि जी.स्मारकविद्यालयः नायत्तोट् 

 मुम्बई भीकराक्रमणे पाकिस्तानस्य भागभागित्वं चैना अंगीकरोति। 

होङ्कोङ् > अष्टोत्तरद्विसहस्रतमे संवत्सरे दुरापन्ने मुम्बई भीकराक्रमणे पाकिस्तानस्य भागभागित्वं इदंप्रथमतया चीनाराष्ट्रेण अङ्गीकृतम्। 
  चीनायाः सि सि टि वि - ९ नामके  सर्वकारीयदूरदर्शने समीपकाले सम्प्रेषिते प्रलेखने एव २००८ नवंबर् मासस्य षड्विंशति तथा नवविंशति दिनाङ्कयोः मुम्बय्यां दुरापन्ने भीकराक्रमणे लष्कर् ई तोय्बायाः पाकिस्ताने तस्याः सहकारिणां च भागभागित्वं व्यक्तीकृतम् अस्ति।

Tuesday, June 7, 2016


प्रधानमन्त्री स्विट्सर्लान्ट् देशे। 

भारतप्रधानमन्त्री नरेन्द्रमोदी खत्तर् सन्दर्शनं पूर्तीकृत्य स्विट्सर्लान्ट् देशं प्राप्तवान्। तत्र हृद्यं स्वीकरणं लब्धम्।
  अलीकधनं भवति राष्ट्रद्वयेनापि अभिमुखीक्रियमाणः विषयः इति प्रधानमन्त्रिणा उक्तम्। द्वयोरपि राष्ट्रयोः सहकारित्वं दृढीकर्तुं क्रियाविधिः स्वीकरिष्यते।
   मोदिवर्यः अद्य अमेरिक्का राष्ट्रपतिना ओबामावर्येण सह मेलिष्यति।


यूरोचषकः दशमदिनाङ्के आरप्स्यते। 
पारीस् - यूरोप्यन् पादकन्दुकस्पर्धाभ्यः शुक्रवासरे शुभारम्भः। फ्रान्स् मध्ये प्रचाल्यमाने यूरोचषके चतुर्विंशति राष्ट्राणि स्पर्धिष्यन्ते।


 विषमयशाकादीनां विपणनं विरुद्ध्य कर्कशक्रियाविधिः केरळस्य मुख्यमन्त्री । 
अनन्तपुरी >केरळेषु विषमयशाकादीनां विक्रयः न अङ्गीक्रियतेति मुख्यमन्त्रिणा पिणराय् विजयेन प्रस्तुतम्। एतदर्थं प्रत्यवेक्षणं कर्कशं करिष्यतीति तेनोक्तम्। 
  कार्षिकमण्डले स्वयंपर्याप्ततां प्राप्तुं पञ्चाशत् सहस्रं हेक्टर् परिमितेषु केदारेष्वपि जैवशाकाकृषिः आरप्स्यते।

 छात्राणां प्रतिवासरीयवार्तावतरणं - अस्मिन् वासरे नम्यालक्ष्मी। 

कोच्ची >विद्यालयीयछात्राणां संस्कृशैक्षिकोत्कर्षस्य अभिवृद्धये  ' सम्प्रतिवार्ता'याः आभिमुख्ये आरब्धे संस्कृतवार्तावतरणकार्यक्रमे अस्मिन् वासरे नम्यालक्ष्मी . आर् वार्ताः अवतारयति। एरणाकुलं जनपदे नायत्तोट् प्रदेशस्थे महाकवि 'जि' स्मारक सर्वकार उच्चतरविद्यालये विद्यार्थिनी भवत्येषा। 

   २०१६ जूण् प्रथमे दिने एव छात्राणां कृते सम्प्रतिवार्तायाः नूतनकार्यक्रमः आरब्धः।

Monday, June 6, 2016

 मुम्बय्यां बस् दुर्घटना - सप्तदश जनाः मृताः।

             
   -  मुंबई-पूने त्वरित देशीयमार्गे  ह्यः संवृत्तायां  मार्गदुर्घटनायां  सप्तदश जना: मृताः , बहवः  व्रणिताः च। मृतेषु त्रयोदश  पुरुषाः चतस्रः वनिताः च अन्तर्भवन्ति। द्वयोः  कार् यानयोः  मध्ये  बस् यानस्य घट्टनेनैव अपघातः संवृत्तः। आघातानन्तरं लोकयानं  समीपस्थं विंशति  मीटर् परिमितं गर्तम् अपतत्। अपघाते व्रणितान् जनान् पनवेलनगरस्थं आतुरालयं प्राविशत्।



नरेन्द्रमोदी पुनरपि अमेरिकायाम्

 वाषिङ्टण्> त्रिदिनसन्दर्शनाय प्रधानमन्त्री नरेन्द्रमोदी १वः अमेरिकां प्राप्स्यति। एतत् मोदिनः चतुर्थम् अमेरिका सन्दर्शनं भवति । सन्दर्शनवेलायां बहुषु सुप्रधान विषयेषु अध्यक्षेण बराक् ओबामेन सह चर्चां करिष्यतीति 'वैट्हौस्'उद्योगस्थाः उक्तवन्त: । सुरक्षा, प्रतिरोधमण्डलस्य सहकरणं ,आर्थिकपुरोगतये श्रद्धेयांशाः, कालावस्थाव्यतियानं इत्यादिषु विषयेषु उभयोः राष्ट्रयोः मध्ये चर्चा भविष्यतीति सूचना । अपि च मोदिनः गतवर्षस्य अमेरिका सन्दर्शनेन द्वयोरपि राष्ट्रयोः परस्परसहकरणे महती पुरोगतिः जाता इति 'वैट्‌हौस्' विशदयति।


सेतुः (DAM)  सुरक्षा : - देशीयस्तरसमितिः आविष्क्रियते

            नवदेहली> राष्ट्रे विद्यमानानां जलसंभरणीनां सुरक्षा क्रमीकरणाय देशीयस्तरीया काचित् समितिः रूपीकर्तुं केन्द्रजलविभवमन्त्रालयस्य पर्यालोचना । एतदर्थं केन्द्रजलविभवमन्त्रालयेन जलसंभरणीसुरक्षानियमपत्रिका आसूत्रिता वर्तते।जलसंभरणी निर्माणं, नदीजलविनियोगे सहकरणम् इत्यादिषु विषयेषु विविधानां राज्यानां मध्ये संभूतानां तर्काणां परिहारः एव नियमपत्रिकायाः मुख्यं लक्ष्यम्। केन्द्रमन्त्रिसभायाः अनुमतेः परं पत्रिकामिमां अनुमतये लोकसभायां समर्पयिष्यति।

राज्यस्तरीया अध्यापक योग्यतापरीक्षा।
उच्चतरविद्यालयेषु अध्यापकनियमनाय सर्वकारैः प्रचाल्यमाना राज्यस्तरीययोग्यतापरीक्षा सेट् जुलाई31तमे भविष्यति ।
विस्तृतविवरणपत्रं पाठ्यक्रमश्च ला ब शा केन्द्राणां अन्तर्जालशृड़्खलासु उपलभ्यन्ते । बिरुदानन्तरबिरुदपरीक्षायां  न्यूनातिन्यूनं 50% अड़्काः अथवा तत्तुल्यता तथा शिक्षकबिरुदं च अनिवार्या योग्यता । दुर्लभविषयेषु बिरुदानन्तरबिरुदधारिणः शिक्षकबिरुदानिवार्यतायाः बहिष्कृताः। एल् टी टी सीं/डी एच् टीं विहाय अन्याः योग्यताः बी एड् तुल्याः इति न परिगण्यन्ते। पट्टिकजाति पट्टिकवर्ग विभागानां बिरुदानन्तरबिरुदे 5% अड़्कानां आश्वासः लभते। अनिवार्ययोग्यतासु एकैवास्ति चेदपि परीक्षा लेखनसाध्या। बिरुदानन्तरबिरुदार्जिताः शिक्षकबिरुदस्य अन्तिमवर्षपठितारः भवेयुः । अन्तिमवर्ष बि बि पठितृणां बी एड् योग्यता अवश्यं भवेत् । नियमानुसारं परीक्षार्थिनः बि बि/ बि एड्  योग्यतायाः प्रमाणपत्रं फलप्रख्यापनदिनाड़्कादेकवर्षाभ्यन्तरे न समर्पयन्ति  चेत् विजयिनत्वेन न परिगणयन्ति ।

Sunday, June 5, 2016

अफ्‌गान् राष्ट्रस्य परमोन्नतपुरस्कारः नरेन्द्रमोदीवर्याय

        
        हेरात्त्> - परमोन्नतं आमिर् अमानुल्लाखान् पुरस्कारम् नरेन्द्रमोदिने समर्प्य अफ्गान् राष्ट्रस्य आदर:Iअफ्गानिस्ताने  नूतनतया निर्मितस्य 'सल्मा डाम्' इत्यस्य उद्घाटनसमारोहे एव पुरस्कार समर्पणम् अभवत् ।भारतस्य सहयोगेनैव डाम् निर्मितं वर्तते।
अफ्गान्‌ राज्यस्य त्रिंशत् वर्षाणां स्वप्नस्य साक्षात्कारः एव जातः इति अफ्गान् राष्ट्रपतिना अष्रफ्खान् महोदयेन उक्तम्। डाम् उपयुज्य ४८ मेगावाट् विद्युदुत्पादनम् तथा ७५००० हेक्टर् भूमौ जलसेचनं च शक्यते।


मुष्टि-प्रहारक्रीडायाः   इतिहासः मुहम्मदलिः दिवङ्गतः



  लोस् आञ्चलस्> मुष्टिप्रहार -क्रीडकेतिहासः  मुहम्मदलिः   अमेरिकादेशे अरिसोणायाम्  दिवङ्गतः । चतुस्सप्ततिवयस्कः आसीत्। श्वासोच्छ्वसनप्रक्रियायां प्रतिबन्धमनुभूतः सः पूर्वदिनेषु चिकित्सायामासीत्। 'पार्किन्सण्' रोगबाधितः च  आसीत् ।'द ग्रेटेस्ट' , 'द पीप्प्ल्स् चाम्प्यन् ' इत्यादिभ्यां नामभ्यां विख्यातः सः विश्वकायिकमण्डले स्वप्रयत्नेन चिरप्रतिष्ठां सम्पादितवान् ।

क्रीडावार्ता

टेन्नीस् कायिकमण्डले   नवतारोदयः   

                                       पारीस् > स्पेयिन् देशीया गार्बैन् मुगुरुसा फ्रञ्च्ऑपण जेत्री । फ्रञ्च्ऑपण अन्तिमक्रीडायां चतुर्थस्थानीया गार्बैन् मुगुरुसा सेरीनाविल्यंसं ७-५ ,६-४ इति विन्यासे पराजितवती । तस्याः प्रथमः ग्रान्ट्स्लां पुरस्कारः एव अयम्।

Saturday, June 4, 2016

मथुरायां संधर्षः , भुशुण्डिप्रयोगः - २४ मरणानि। 

लख्नौ > उत्तरप्रदेशे मथुरायां जवाहर्बाग् उद्याने लंघकान् अपाकर्तुं सम्पद्यमाने प्रयत्ने महान् संघर्षः। गतदिने रात्रौ आरब्धे संघट्टने भुशुण्डिप्रयोगे च आरक्षकानामुन्नताधिकारी मुकुल् द्विवेदी , आरक्षकः सन्तोष् यादवः इत्येताभ्यां सहिताः २४ जनाः हताः। शताधिकाः व्रणिताः। ११६ महिलासहिताः ३२० जनाः आरक्षकैः गृहीताः।
    आसाद् वैदिक वैचारिक क्रान्ति सत्याग्रही इति संस्थायाः नेतृत्वे आसीत् उद्यानलङ्घनम्। नेताजी सुभाष् चन्द्रबोस् वर्यस्य यथार्थानुयायिनः इति स्वयम् अभिमानिनां संघः भवत्येषः। ३००० परिमितं जनाः संवत्सरद्वयं यावत् अत्र निवसन्ति।
  अलहबाद् उच्च न्यायालयस्य आदेशानुसारं एतान् इतः अपाकर्तुं प्राप्तान् आरक्षकान् ए के ४७ सहितैः आयुधैः लंघकाः आक्रमणं कृतवन्तः आसन्।

Friday, June 3, 2016

जर्मनी, फ्रान्स् देशयोः जलोपप्लवः। 
बर्लिन् >महती वृष्टिः इत्यतः जर्मनी फ्रान्स् इत्येतयोः यूरोप्यन् राष्ट्रयोः महान् जलोपप्लवः। मध्यफ्रान्स् नगरेषु अस्य शताब्दस्य बृहत्तमः जलोपप्लवः अनुभूयते। राजधानीनगरे अपि रेल् यानगतागतं वैद्युतवितरणं च स्थगितम्।
  जर्मनिराष्ट्रे ९ जनाः जलोपप्लवेन मृताः।

केरळाय अधिकं भक्ष्यधान्यम्।

नवदिल्ली > केरळं तमिळ्नाट् नागालान्ट् इत्येतेषां राज्यानाम् अतिनिष्किञ्चनत्वपरिवारेभ्यः (बि पि एल् ) अधिकं भक्ष्यधान्यं केन्द्रसर्वकारात् लप्स्यते। एतदर्थं ४१८०० टण् परिमितं भोज्यधान्यानि अधिकतया दातुं निश्चितम्।


विशेष वार्ताः

अर्जुनशपथम् ।


कोच्ची >केरळराज्ये पूर्णवेदपुरी समीपे विद्यमाने  पूत्तोतोट्टा क्षेत्र प्रवेशनविळम्बर-मेम्मोरियल् विद्यालये  नवमकक्ष्याछात्रः   भवति अर्जुनःI पेरुम्पळं  द्वीपनिवासी सः प्रतिदिनं किलोमीटर्द्वयं प्लवनं कृत्वा एव विद्यालयं  गच्छतिI    विद्यालय-- आतुरालयादिभ्यः  द्वीपनिवासिनः पूत्तोट्टाम् एव  आश्रयन्ति। तेषां दुरितपरिहारार्थं  सेतुनिर्माणम् आवश्यकम्। सेतु निर्माणाय जनैः प्रक्षोभः प्रज्वालितः तथापि फलप्राप्तिः न अभवत्।   इदानीं अर्जुनः शपथं कृतवान् यत्   अस्याः समस्यायाः  परिहारः यदा भविष्यति तावत् पर्यन्तं जले प्लवनं कृत्वा एव विद्यालयं गच्छामि इतिI जनसञ्चयानां जनप्रतिनिधीनां च पुरतः जूण् मासस्य प्रथमदिनादारभ्य प्लवनं कृत्‍वा विद्यालयं गन्तुमारब्धवान्।

Thursday, June 2, 2016

केरळे विधानसभाङ्गानां शपथपाठ अद्य। 

अनन्तपुरी > १४ तम केरळविधानसभाङ्गानां सत्य प्रतिज्ञाकार्यक्रमः अद्य सम्पद्यते।वरिष्ठसामाजिकः एस् शर्मा अस्थायिसभानाथरूपेण निश्चितः अस्ति। तस्य समक्षे मुख्यमन्त्रिणा इतरमन्त्रिभिः सहिताः १४० सामाजिकाः शपथपाठं करिष्यन्ति।
 इदंप्रथमतया केरळविधानसभां भाजपादलस्य प्रतिनिधिः भविष्यतीति सविशेषताप्यस्ति। सामाजिकानां नामधेयानाम् अक्षरमालाक्रममनुसृत्यैव सत्यप्रतिज्ञा सम्पत्स्यते।

ऐ.एस्. दलं विरुद्‌ध्य हिन्दी गीतमपिI

 लन्टन्> स्फोटकानि तथा हिन्दी गीतानि अपि ब्रिट्टनस्य सैनिकाः आयुधवत् उपयुज्यन्ते । मनोवैज्ञानिकदिशानुसारं गीतानि ऐ.एस्.दलेभ्यः वर्ज्यानि। ऐ एस् दलेभ्यः गीतानि मनःशक्तिं नाशयितुमेव,  एतादृशानि गीतानुपयुज्य युद्धं कर्तुम् उद्युक्ताः । मनोवैज्ञानिकाधारेण ऐ.एस्. विरुद्ध्य युद्धं कर्तुं विशेषतया परिशीलताः सेनादलमपि अयोजितम् अस्तिI 'शरी अत्' नियमानां लङ्घनमेव संङ्‌गीतश्रवणम् अतः ऐ.एस्.भीकराः रोषेण रेडियो द्वारा तेषां विप्रतिपत्तिं प्रकटीकुर्वन्ति। तस्मिन् समये रेडियोतरङ्गस्य प्रभव-स्थानं ज्ञात्वा तान् गृहीतुं शक्नोनोति इति वदन्ति बिट्टनस्य सैनिकाः ।

Wednesday, June 1, 2016

सोपानम्-01 2016 June 1  Parvati J Govt. Girls UPS Ernakulam.