OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 14, 2016

 पुनरपि भारतीय:           
दुबाई : -  क्रिकट् इति जनप्रियक्रीडायाः अध्यक्षस्थाने पुनरपि भारतीयस्य आरोहणम्‌।  ह्यः दुबाईराष्ट्रे संवृत्ते अन्ताराष्ट्रक्रिकट्समितेः निर्वाचनयोगे भारतीयस्य शशाङ्क्मनोहरस्य चयनं  अभवत्। ऐककण्ठेनैव अन्ताराष्ट्रक्रिकट्समितेः प्रथम स्वतन्त्राध्यक्षरूपेण शशाङ्क्मनोहरस्य चयनं कृतम्। ऐ सि सि समितेः परिष्कृतनियमानुसारं अध्यक्षस्थानं स्वतन्त्रमेकं स्थानं भवति । अत एव गतदिने शशाङ्क्मनोहरेण भारतीयक्रिकट्समितेः अध्यक्षस्थानं त्यक्तमासीत् । सर्वेभ्यः ऐ सि सि  निर्वाहकेभ्यः    तथा बि सि सि ऐ निर्वाहकेभ्यः च शशाङ्क्मनोहरः कृतज्ञतां न्यवेदयत् । अपि च क्रिकट् क्रीडायाः औन्नत्यै स्वशक्त्यनुगुणं प्रयत्नं करिष्यतीति सूचितम्।

 राष्ट्रे अवश्यसाधनानां मूल्यवर्धनम् : जनाः आशङ्कायाम् 
                  नव देहली :- राष्ट्रस्य सम्पद्घटना अतिदुर्घटावस्थां प्राप्नोति। राष्ट्रे व्यावसायिकोत्पादनं गण्यतया शोषयत् वर्तते। धनबाहुल्यं एप्रिल् मासे ५.३९% इति वर्धितम्। उत्पादने १.२% स्य न्यूनत्वमभवत्। खननमण्डले वर्धनं केवलं ०.१७% एव। मूलधनसामग्रीणाम् उत्पादने १५.४% स्य शोषणमभवत्। तथापि विद्युदुत्पादने ११.३७% स्य वर्धनमभवत्। भक्ष्यसाधनानां मूल्यवर्धनमेव धनबाहुल्यस्य कारणमित्येव आर्थिकविदग्धानाम् अभिप्रायः। तथापि भारतीय रिसर्व बाङ्‌क् अधिकारिणः आयस्यानुपाते न्यूनत्वं नैव करिष्यन्ति इत्यपि श्रूयते।


निर्वाचन-प्रचारणम् अद्य समाप्यते। 

कोच्ची > केरळे सर्वेषु मण्डलेषु  विधानसभानिर्वाचनस्य शब्दप्रचारणम् अद्य सायं षड्वादने समाप्यते। निर्वाचनप्रक्रिया सोमवासरे भविष्यति। मतगणना १९ तमे दिनाङ्के प्रचलिष्यति।
   अधुनातनशासनपक्षः कोण्ग्रस् दलनेतृत्वे यू डि एफ् पक्षः, विमतपक्षः सि पि एम् नेतृत्वे एल् डि एफ् पक्षः , तृतीयपक्षत्वेन बि जे पि नेतृत्वे एन् डि ए पक्षश्च जाज्वल्यमानं प्रचारणमेव कृतवन्तः।प्रायेण सर्वेष्वपि मण्डलेषु त्रिकोणस्पर्धायाः प्रतीतिरजायत च।

 सम्पूर्णविकसनं लक्ष्यीकृत्य केन्द्रसर्वकारः
                    नवदहली :- राष्ट्रस्य सर्वेषु मण्डलेष्वपि विकसनं लक्ष्यीकृत्य केन्द्रसर्वकारस्य परिष्करणव्यवहाराः। इदानीं राष्ट्रे उपयुज्यमानं पञ्चवत्सरपद्धतिसम्प्रदायं त्यक्वा पञ्चदशसंवत्सरात्मककालं लक्ष्यीकृत्य पद्धतीनां परियोजनाय केन्द्रसर्वकारस्य उद्यमः। राष्ट्रस्य आधारमण्डलानि केन्द्रीकृत्य विकसनप्रवर्तनानाम् आसूत्रणाय निर्देशः स्वीकृतः वर्तते। सम्पूर्णविकसनाय दीर्घकालवीक्षणम् आवश्यकम्, अत एव पञ्चवत्सरपद्धतिसम्प्रदायम् उपेक्ष्य पञ्चदशसंवत्सरात्मककालं लक्ष्यीकृत्य पद्धतीनाम् आसूत्रणं क्रियते इति सर्वकारः विशदीकरोति। तदर्थम् एकां देशीयविकसनरेखां सर्वकारपक्षतः प्रस्तौति। तत्र च सामाजिक-आर्थिक-प्रतिरोध-सुरक्षामण्डलानां प्रामुख्यं दीयते। वर्षत्रयाणामन्तरे प्रवर्तनानाम् अवलोकनमपि कृत्वा अनुबन्धान्तर-प्रवर्तनानाम् आसूत्रणमपि करिष्यति। पञ्चवत्सरपद्धतिसम्प्रदायः आगामिनि मार्च् मासे पर्यवसति।

असुलभ दृश्यानि








Friday, May 13, 2016

लिबिया देशात्  ९ परिवाराः प्रत्यागतवन्तः। 

कोच्ची >आभ्यन्तरसंघर्षे दुरितमनूतवन्तः २९ संख्याकाः नव परिवाराः लिबियादेशात् मातृदेशं  प्राप्तवन्तः। भीतिसङ्कुलं तद्देशं  त्यक्त्वा जन्मदेशस्य स्नेहोष्मलताप्राप्तौ निसीममानन्दमनुभूयमानाः सन्ति ते।
  १८ संख्याकाः केरलीयाः कोच्ची अन्ताराष्ट्रविमाननिलये ११संख्याकाः तमिल् देशीयाः  चेन्नै विमाननिलये च प्राप्तवन्तः।
  लिबियादेशे ट्रिप्पोलिमध्ये साविया आतुरालये कर्मकराः ते आभ्यन्तर -संधर्षे पृथक्भूताः भवन्ति स्म। जलाहारवस्त्रादिकं विना नरकतुल्यजीवनमेव यापयन्ति स्म।

 मलिनीकरणम् -आशङ्कामुत्पाद्य भारतस्य नगराण्यपि।

                    जनीवा :- विश्वारोग्यसमितेः पठने विश्वे अत्यधिकं मलिनीकरणम् उत्पद्यमानेषु नगरेषु चत्वारि नगराणि भारते एव। भारतस्य ग्वालियोर् ,अलहबाद् ,पाट्ना, राजपूर् इत्यदीन्येव चत्वारि नगराणि। इरान् राष्ट्रस्य साबूल् एव मलिनीकृतनगरेषु प्रथमम्। परिस्थितेः मलिनीकरणं   हृदय-श्वासकोशसम्बन्धानाम् अनेकानां रोगाणां कारणं भवतीत्यवस्थायां विश्वारोग्यसमितिः आशङ्कां न्यवेदयत् ।
 दुरन्तनिवारणनिधि: वर्धिता

नवदहली:>राष्ट्रस्य दुरन्तनिवारणनिधिः २०२० वर्ष पर्यन्तं ६१,००० कोटिं वर्धिता। लोकसभायां केन्द्रकृषिमन्त्रिणा राधामोहनसिंहेन एव वर्धनकार्यं ज्ञापितम्। राष्ट्रे इदानीं भक्ष्यसुरक्षानियमस्य समुचितं सञ्चालनं सर्वकारेण क्रियमाणमस्ति। अपि च दुरितमनुभवतोः महाराष्ट्रा-कर्णाटकराज्ययोः अधिकं भक्ष्यधान्यमपि केन्द्रसर्वकारेण  अङ्गीकृतमस्ति।

राष्ट्रपतिः वारणासी पुण्यपत्तने ।
    
 वारणासी >दिनद्वयस्य सन्दर्शनाय अद्य राष्ट्रपतिः प्रणाब् मुखर्जी वर्यः वारणासीं प्राप्नोति। वारणास्यां सः बनारस् हिन्दुविश्वविद्यालयं सन्दर्श्य छात्रान् अभिसंबोध्य प्रभाषणं करिष्यति।  श्व: प्रभाते वारणास्यां प्रचाल्यमाने अनुष्ठाने ' दशासमय् घट्‌ट्‌ गङ्‌गासमाप्त्याम् ' भागभाक्त्वं करिष्यति। अपि च काशी विश्वनाथमन्दिरदर्शनं राष्ट्रपतिना करिष्यति इति मण्डलीय वृत्तान्त-ज्ञापनाधिकारिणा सूचितम्।


क्रीडावार्ताः
होक्की क्रीडकेभ्यः  'अर्जुनपुरस्कारः'

           
  नवदहली> होक्की महिलासंघनेता ऋतु राणी, वि आर् रघुनाथः, धरं सिंह: प्रभृदिभ्यः क्रीडकेभ्यः अर्जुनपुरस्कारदानाय होक्की इंडिया केन्द्रकायिकमन्त्रालयं न्यवेदयत् । राष्ट्रस्य कायिकमण्डलं प्रति  दत्तस्य आजीवनयोगदानस्य कृते दीयमानाय ध्यान् चन्द् पुरस्काराय सिल्वनस् डोव्वुङस्य नाम एवं द्रोणाचार्यपुरस्काराय परिशीलकस्य सि के कुमारस्य नाम च होक्की इंडिया न्यवेदयत् ।

Thursday, May 12, 2016

उत्तराखण्डे राष्ट्रपतिशासनं निवर्तितम्। 

नवदिल्ली >सार्धैकमासस्य नैतिकयुद्धस्य राजनैतिकानिश्चितत्वस्य चान्ते उत्तराखण्डराज्ये वर्तमानं राष्ट्रपतिशासनं निराकुरुत। हरीष् रावतस्य नेतृत्वे कोण्ग्रस् सर्वकारस्य अधिकार स्थानं प्रत्यागच्छति।
  रावतः भूरिमतं प्राप्त इति सर्वोच्चन्यायालयेन  विज्ञापितम्। तदनन्तरमेव राष्ट्रपतिशासनं निराकर्तुं राष्ट्रपतिम् अभ्ययाचत।

 जलदौर्लभ्यम् - द्रुतव्यवहारः स्वीकरणीयः- उच्चतरन्यायालयः




  नवदहली> राष्ट्रे विविधेषु राज्येषु अनुभूयमानं जलदौर्लभ्यम् परिहर्तुं द्रुतव्यवहारं स्वीकर्तुम् केन्द्रसर्वकारं निर्दिश्य उच्चतरन्यायालयः।    केन्द्रकार्षिकमन्त्रालयं सप्ताहे एकवारं जलदौर्लभ्यस्य काठिन्यं अनुभूयमानानां बीहार्, गुजरात्, हरियाना इत्यादिराज्यानाम् उन्नतोद्योगस्थान् सम्मिल्य अवलोकनयोगः कार्यः इति उच्चतरन्यायालयेन निर्दिष्टम्। एवमेव कृषिनाशं अभिमुखीकृतेभ्यः कृषकेभ्यः उपशान्तिधनविनियोगाय सर्वकारसमितेः प्रवर्तनमपि शक्तं भवतु इत्यपि केन्द्रसर्वकारम् उच्चतरन्यायालयेन निर्दिष्टं भवति।

 'सम्भाषणभङ्गः, उपशान्तिधनाय उपभोक्तारः अर्हाः' - उच्चतरन्यायालयः।

    
   नवदहली> जंगमदूरवाणीम् उपयुज्य सम्भाषणमध्ये आह्वानभङ्गः जातः चेत् प्रक्षेपणसेवनदातृभिः जनेभ्यः उपशान्तिधनं दातव्यमिति उच्चतरन्यायालयस्य निर्देशः। उपशान्तिधनव्यवहारात् मोचनम् उन्नीय वोडफोन्, रिलयन्स्, ऐडिया इत्यादयः २१ प्रक्षेपणसंघाः उच्चतरन्यायालये निवेदनं समर्पितवन्तः आसन्। तेषां निवेदनस्य पर्यालोचन-वेलायामेव उच्चतर-न्यायालयेन अयं नूतन: निर्देश: कृतः। तथापि राष्ट्रे प्रक्षेपणाधिकारनियन्त्रणसमितेः (ट्राय् ) प्रवर्तनं कार्यक्षमं भवतु इत्यपि उच्चतरन्यायालयेन निर्दिष्टम्।

पुनरपि  आतङ्गवादिनाम् आक्रमणम्- सैनिकः मृतः

   जम्मूकाष्मीरः> जम्मूकाष्मीरे कुप्वारायाम् आतङ्गवादिनां सान्निध्यमस्तीति सूचनामनुसृत्‍य हनसारा मण्डलेषु वालसरवनेषु अन्वेषणं कृतस्य सुरक्षासैन्यस्योपरि आतङ्गवादिनाम् आक्रमणम्। सैन्येन प्रत्याक्रमणं च कृतम्। आक्रमणप्रत्याक्रमणयोः एकः सैनिकः मृतः वर्तते। आतङ्गवादिनां वासस्थानात् विविधानि शस्त्राणि स्फोटकवस्तूनि च लब्धानि सन्ति।
 चलनचित्रम्  'इति वार्ताः' 
मेय्-मासस्य 14 दिने विमोचयिष्यते।  
कोच्ची >केरळेषु इदानीम् संस्कृतस्य समीचीन वातावरणमेव। सर्वेषु कोणेषु संस्कृतस्य कृते प्रयतन्ते। संस्कृत-छात्रेभ्यः रसकराणि बालपुस्तकानि चलनचित्राणि च निर्मीयन्ते। संस्कृतप्रेमिणः संस्कृताय सदा सज्जाः इति वक्तव्यम्।
अस्ति कश्चित् विशेषः,- ति वार्ताः नाम लघु संस्कृतचलनचित्रस्य छायाग्रहणं सम्पन्नम्। के एस् सन्तोष् कुमारेण रचना, छायाग्रहणं, सूत्रधारणं च कृतम्। कालटी राजेष् कुमारेण संभाषणरचना कृता च। श्रीमत्या प्रीता वर्यया संपादनं कृत्वा अस्मिन् मासस्य 14 दिने मूवाट्टुपुषादेशे सायं प्रदर्शनार्थं बहिः प्रेषष्यते।  

Wednesday, May 11, 2016


 उत्तराखण्ड् - भूरिमतं रावदनुकूलम्।

नवदिल्ली> राष्ट्रियानिश्चितत्वं विद्यमाने उत्तराखण्डराज्ये ह्यः भूरि-मतदानप्रक्रिया प्रचलिता। हरीष् रावतस्य नेतृत्वयुक्ताय कोण्ग्रस् सर्वकाराय ३३ सामाजिकानां सहयोगः लब्ध इति अनौद्योगिकसूचना अस्ति। मतदान-प्रक्रियायाः फलम् अद्य सर्वोच्चन्यायालये समर्पयिष्यते। तत् संशोध्य अद्य एव फलप्रख्यापनं भविष्यति।

द्विसहस्रं धनपञ्चीकृताधारिका (Account) प्रमाणेन साकं पानमा रेखा प्रसारिता।

वाषिङ्टण् > विश्व-राष्ट्रिय-नेता सहितानां प्रमुखाणां कुबेराणां  धनपञ्चीकृताधारिका प्रकाशिता। इयं रेखा अन्तर्जाले द्रष्टुं शक्यते। यू.एस् राष्ट्रकेन्द्रीकृतः अन्वेषणात्मकपत्रकारिता समित्या (ऐ सि ऐ जे)एव द्विसहस्राणं प्रमुखाणां जनानां आर्थिक विनिमयरेखा प्रकाशिताि।
रष्यायाः राष्ट्रपतिः व्लाटिमिर् पुटिन्, चीनायाः राष्ट्रपतिः षि चिन् पिङ् प्रभृतयः राष्ट्रप्रमुखाः सप्तति संख्याकाः राष्ट्राणाम्  अष्टविंशत्यधिकाः नेतारः अन्ये कुबेराश्च धनं निक्षिप्तवन्तः। पञ्चसहस्रं भारतीयकुबेराश्च पट्टिकायां सन्ति।

 पलास्तिकोपयोगः- नियन्त्रणं कठिनम्।

          
     बंगलूरु> बंगलूरुनगरे नगरसभापरिधौ पलास्तिक वस्तूनि सकाशं स्वीकृतानि चेत् दण्डनव्यवहारः कठिनः। बंगलूरु बृहत्महानगरपालिकाध्यक्षेण एन् मञ्जुनाथेन एतत् अधिकृत्य निर्देशः विज्ञापितः। पञ्चाशत् रुप्यकाणि दण्डन धनत्‍वेन स्वीकर्तुं  उद्योगस्थेभ्यः निर्देशः लब्धः अस्ति। अग्रिमदिने एव नियमोऽयं प्रबलम् आप्नोति।

Tuesday, May 10, 2016

वधभीत्या - सन्दर्शनं त्यक्तम्।

           नवदहली>  वधभीत्या कॉण्ग्रस् नेतुः राहुल् गान्धिनः दक्षिणभारत राज्यानां सन्दर्शनं त्यक्तम् । विविधेषु निर्वाचनयोगेषु भागभाक्त्वकरणाय दक्षिणभारतस्य पुतुच्चेरी ,तमिल्नाडु, केरलम् इत्यादि राज्यानां सन्दर्शनं निश्चितमासीत्। तदेव वधभीत्या इदानीं त्यक्तं वर्तते।
जलादाने अधिक्षेपः ; कूपखननद्वारा दलितस्य प्रतिक्रिया। 

नाग् पूर् >यदा सार्वजनीनकूपात् जलं स्वीकर्तुमुद्युक्ता स्वपत्नी सवर्णजातीयेन अधिक्षिप्ता अभवत् तदा सन्तप्तहृदयः दलितयुवकः स्वयमेव कूपान्तरं खनित्वा ग्रामीणेभ्यः समर्प्य प्रतिक्रियां कृतवान्।
  महाराष्ट्रायां वाषिम् जनपदे कलम्बेश्वरग्रामे वसन् बाप्पु रावु ताजने ४० दिनानि अनुस्यूतं कर्म कृत्वा उच्चजातीयस्य अधिक्षेपं तरति स्म।
  गतमार्च् मासे एव घटनायाः आरम्भः। ताज्ने वर्यस्य गृहसमीपस्थाः त्रयः कूपाः एकः नालिकाकूपश्च शुष्काः जाताः। नातिदूरस्थात् सार्वजनीनकूपात् जलमानेतुं गतवती तस्य पत्नी आक्षिप्ता प्रत्यागतवती। अपमाननेन व्रणितहृदयः रावु ताजने झटित्येव समीपस्थं मालेगाव् नगरं गत्वा कूपखननोपकरणानि  क्रीत्वा आनीय एकहोराभ्यन्तरे एव स्वभूमौ कूपखननम् आरब्धवान्। उन्मत्त इति विचिन्त्य भार्या प्रातिवेशिकाश्च किमपि साहाय्यं न कृतवन्तः। तथापि ४० दिनैः कूपखननं सफलीकृत्य ग्रामवासिभ्यः यथेष्टं जलमदात्।
  ग्रामीणानां कृते जलसौलभ्यमेव स्वलक्ष्यः आसीदिति बिरुदपठनं पूर्तीकृतेन दिनवैतनिकेन उक्तम्।
विवाहमंगलाशंसकेभ्यः कृतज्ञताप्रकाशनं बालवृक्षदानेन।

कोच्ची >विवाहाघोषे  अनुग्रहीतुम् आगतवन्तेभ्यः बालवृक्षान् प्रदत्वा वधूवरौ कृतज्ञतां प्रकाशितवन्तौ। केरले एवायम् अत्यपूर्वः विवाहाघोषः सम्पन्नः। एरणाकुळं जिल्लायां मष़ुवन्नूर् कूटश्शेरि भवने रामन् नायर् सरस्वती अम्बा इत्यनयोः पुत्रस्य सुभाषस्य , वलम्पूर् इटमनगृहे अजयकुमार् शकुन्तळा दम्पत्योः पुत्र्याः निवेदितायाः च माङ्गल्यवेदिकायामेव बालवृक्षाः अतिथिभ्यः सम्माननरूपेण प्रदत्ताः। अर्णवृक्षः महागणिः मांसरोहिणी आमलकी अरिष्टः इत्यादीन् ७००संख्याकान् वृक्षान् दत्वा तौ समाजे मार्गदर्शकौ जातौ।

Monday, May 9, 2016

देशीयनेतारः प्राप्नुवन्तः ; केरळे निर्वाचनप्रचारणम् ऊर्जितम्।

कोच्ची > केरळराज्ये विधानसभानिर्वाचनप्रचारणं तस्य परकाष्ठां प्राप्नोति। प्रधानमन्त्रिसहिताः केन्द्रनेतारः राज्यं प्राप्नुवन्तः सन्ति। प्रधानमन्त्री नरेन्द्रमोदी कासरगोड् , आलप्रुष़ा तिरुवनन्तपुरं जनपदेषु पर्यटनं कृत्वा भा.ज.पा.दलनेतृत्वे एन् डि ए सख्याय प्रचारणमकरोत्। सि.पि एम् दलस्य कार्यदर्शिप्रमुखः सीतारां यच्चूरी , कोण्ग्रस् दलस्य प्रवर्तकसमिति सदस्यः ए के आन्टणिः च केरलस्य विविधजनपदेषु प्रचरणं कुर्वन्तौ स्तः। कोण्ग्रस् देशीयाध्यक्षा सोणियागान्धी अद्य आगच्छति। तृशिवपेरूर् तिरुवनन्तपुरं जनपदयोः प्रचारणं करिष्यति। उपाध्यायक्षः राहुल् गान्धी श्व आरभ्य दिनत्रयं केरलेषु विविधमण्डलेषु यू डि एफ् प्रत्याशिनेभ्यः प्रचरणं करिष्यति। बीहारस्य मुख्यमन्त्री नितीष्कुमारः, भूतपूर्व प्रधानमन्त्री एछ् डि देवगौडा , राजनाथसिंहः, स्मृति इरानी इत्यादयः केन्द्रमन्त्रिणश्च स्वस्वप्रत्याशिनेभ्यः प्रचरणं कृत्वा प्रतिनिवर्तितवन्तः।

आक्रमितः चेत् आणवशस्त्रम् उपयोक्तुं निर्बधाः भवामः - उत्तरकोरिया।

पोङ्‌ याङ्‌ > राष्ट्रस्य प्रशासने बाह्यप्रवेशः चेत् आणवायुधस्य प्रयोगः भविष्यति इति उत्तर कोरियायाः किं जोङ्‌ उन् वर्येण उक्तम्।आणवायुधस्य निर्व्यापने बद्धश्रद्धाः च पञ्चत्रिंशत् वर्षा नन्तरम् आयोज्यमाने दलानां मेलने भाषमाणः आसीत् सः दरिद्र-राष्ट्रस्य आर्थिकावस्थाम् उपरि आनयतुं पञ्चवत्सरस्य योजाना अपि तेन अवतारिता। आयुधं प्रतिरोधाय इति वदति चोदपि तस्मिन् भीतिदः स्वरः अस्ति इति राष्ट्रान्तर-माध्यमाः वदन्ति।

अगस्टा वेस्ट्लान्ट् हेलिकाप्टर् विनिमये दण्डनव्यवहारं स्वीकर्तुं मोदी अशक्तः - केज्रिवाल्              
नवदहली> अगस्टा वेस्ट्लान्ट् हेलिकाप्टर् विनिमये उन्नीतानां दुर्व्यवहाराणामाधारेण कोण्ग्रस् अध्यक्षां सोणियां प्रति कमपि दण्डनव्यवहारं स्वीकर्तुं मोदिनः धैर्यः नास्ति इति दहली मुख्यमन्त्री  अरविन्द केज्रिवाल् । विनिमयेऽस्मिन् जाते दुर्व्यवहारे  इट्टलीस्थन्यायालयेन कोण्ग्रस् दलस्य सोणियागान्धी, अहम्मद् पट्टेल् सहितानां नेतृणाम् उपरि परामर्शः कृतःआसीत्। परन्‍तु भारतस्य प्रधानमन्त्री मोदी अन्वेषणे  एकपदमपि अग्रे गन्तुम् अशक्तः एव इति  केज्रिवाल् दहल्यामवदत्।

अष्टमे नेह्रु बहिर्गतः

                जय्पूर्:- राजस्थानस्य अष्टमकक्ष्यायाः सामूहिक शास्त्रपाठपुस्तकात् भारतस्य प्रथम प्रधानमन्त्रिणं   जवहर्लाल्नेह्रुं अधिकृत्य प्रतिपादनं किमपि नास्ति। परन्तु महात्मागान्धी, सुभाष् चन्द्रबोस्, वीरसवर्करः, भगत् सिंहः, बालगंगाधरतिलकः, लाला लज्पत्रायः इत्येतेषां स्वतन्त्रता- समरनायकानां प्रतिपादनं पुस्तकेऽस्मिन् अस्त्येव। स्वतन्त्र भारतस्य प्रथम प्रधानमन्त्रिं अनुक्त्वा एव पुस्तकं रचितं दृश्यते। राजस्थान् पुस्तक मण्डलस्य कृते स्टेट् इन्स्टिट्यूट् ओफ् एडुकेषन् रिसर्च एण्ट् ट्रैनिङ् एव पुस्तकरचनाम् अकरोत्। पुस्तकम् इत.पर्यन्तं विपण्यां नैव आगतम्। किन्तु अन्तर्जाले पुस्तकं दत्तं वर्तते। विषयेऽस्मिन् सर्वकारपक्षतः किमपि स्थिरीकरणं न लब्धम्।

Sunday, May 8, 2016

 निर्वाचनम् - बाह्यनिरीक्षणं नियन्त्रितम् ।                   
अनन्तपुरी>  निर्वाचनप्रक्रियायाः साध्यमानेऽस्मिन् काले निर्वाचनसम्बन्धिकतया बाह्यनिरीक्षणम् अभिप्रायप्रकाशनं च नियन्त्रितं भवति। जनप्रतिनिधि-नियमस्य १२६(१) बि प्रमाणानुसारमेव नियन्त्रणम्। नियन्त्रणसम्बन्धं विज्ञापनं केन्द्रनिर्वाचनसमित्या कृतं वर्तते।

'संपूर्णं मद्यनिरोधनम्
 दशवर्षाणि आवश्यकानि किम्?' नितीष्‌ कुमारः

कोष़िक्कोड् (केरळम )> बीहार् राज्ये मद्यनिरोधनं पदपदानुसम्बन्धिकतया निरोधितुं निश्चितः आसीत् । किन्तु केवलं पञ्चदिनाभ्यन्तरे एव निरोधनं संपूर्णं जातम्। तस्य कारणं जनपक्षतः आनुकूल्यमेव इति  कोष़िक्कोड् मण्डले संवृत्ते यु डि एफ् दलस्य निर्वाचनयोगे बीहार् मुख्यसचिवेन नितीष्‌कुमारेण अभिप्रेतम्। अतः संपूर्णमद्यनिरोधनाय दशवर्षकालं प्रतीक्षा करणीया वा इति केरलसर्वकारः चिन्तयतु इति सः अवदत् ।संपूर्णमद्यनिरोधनविषये भा ज पा दलस्य अभिप्रायं प्रकटयतु इत्यपि तेन आह्वानं कृतम्‌ ।

 वस्त्रनिर्माणशालायाम् अग्निबाधा - त्रयः मृताः।

                     लुधियाना (पञ्जाब्) > लुधियानायां राहोण् मार्गे प्रवर्तमाने यन्त्रागारे ह्यः प्रभाते जातायाम् अग्निबाधायां महान् नष्टः। त्रयः कर्मकराः मृताः। संपूर्णतया अग्नौ दग्धानां मृतदेहानां प्रत्यभिज्ञानम् एतावता अशक्तं भवति। अग्निबाधायाः कारणं व्यक्तं न भवति। नगरसभायाः अग्निशमनविभागस्य ११ संघानां कठिनप्रयत्नेनैव अग्ने: शमनमभवत्।

कवि: रमेशपाण्डेय: कारदुर्घटनायां दिवंगत:।
 दुःखदघटना -संस्कृतभारत्या: मध्यभारतप्रान्तस्य सहसम्पर्कप्रमुख: "कालिदासो जने जने ..." गीतस्य रचयिता श्रीरमेशपाण्डेय: तस्य पुत्रश्च अद्य कारदुर्घटनायां दिवंगतौ ।
 ' योगश्चित्तवृत्तिनिरोधः' विद्यालयेषु योगः मुख्यविषय:

नवदहली> राष्ट्रे सर्वेषु विद्यालयेषु योगपठनम् अभ्यासः च मुख्यविषयः भवतु इति केन्द्र आयुष्मन्त्रिणः श्रीपद् यशोनाय्क्महोदयस्य निर्देशः। अस्मिन् अध्ययनवर्षे एव पाठ्यपद्धत्यां योगपठनम् अन्तर्भवतु इति केन्द्रमानव विभवशेषिमन्त्रालयेन सर्वेभ्यः राज्येभ्यः निर्देशः दत्तः अस्ति।

 के वि तोमस् पुनरपि पि ए सि अध्यक्षः
 नवदहली>लोसभायाः चरित्रे प्रथमतया एव एकः सामाजिकः अविरामं वारत्रयं एकस्याः एव लोकसभायाःपि ए सि समितेः अध्यक्षस्थानम् आवहति। के वि तोमसस्य सामूहिक-राष्ट्रियजीवने अयमङ्गीकारः असूयावहः इति राष्ट्रियचिन्तकानाम् अभिप्रायः।  इतःपूर्वं १४,१५ लोकसभयोः मुरलीमनोहरजोषी महोदय: पञ्चवारम् पि ए सि समितेः अध्यक्षः आसीत्। समित्यां भा ज पा दलस्य भूरिपक्षत्वं न्यूनं चेदपि एतावता विविधानां ५० वृत्तान्तरेखाणाम् ऐक्यकण्ठेनैव अनुमतिः दत्ता वर्तते।

भारत-नेप्पालबन्धे भ्रंशः।
नवदिल्ली> गतकाले सुसम्पन्नः भारत - नेप्पालराष्ट्रयोः परस्परबन्धः भ्रंशते। नेप्पालस्य राष्ट्रपतेः बिन्द्यादेवी भण्डारीवर्यस्य निर्दिष्टं भारतसन्दर्शनं निरस्तम्। किञ्च भारतस्थानपतिः दीपकुमार् उपाध्यायः प्रत्याह्वयते स्म। परन्तु घटनाद्वयस्यापि कारणं न स्पष्टीकृतम्।
    नेप्पालराजनैतिकदलेषु विद्यमानाः आभ्यन्तरविषयाः एव कम्म्यूणिस्ट् दलस्य नेतृत्वे विद्यमानस्य सर्वकारस्य निर्णयस्यास्य कारणमिति निरीक्षकाणां मतम्। स्थानप्राप्त्यनन्तरं राष्ट्रपतेः बिद्यादेवी वर्यस्य प्रथमभारतसन्दर्शनमेव अन्त्यनिमिषे निरस्तमभवत्।

Saturday, May 7, 2016

'नीट्' विषये पुनरपि आश्वासवचनानि 

     नवदेह्ली : - वैद्यपठनमण्डले देशीयैकीकृतप्रवेशनपरीक्षायाः पूर्वमेव प्रवेशनपरीक्षाम् आयोजितेभ्यः राज्येभ्यः उच्चतर न्यायालयपक्षतः आश्वासवचनानि। नियमस्य आधारेण राज्याणां प्रवेशनपरीक्षाणां साधुतायै अन्यं  कमपि मार्गं प्रस्तौतुम्‌ उच्चतरन्यायालयेन केन्द्र सर्वकाराय निर्देशः दत्त:। ' नीट् ' विषये उच्चतरन्यायालयेन अप्रैल् २८ दिनाङके एव निर्देश: दत्त: वर्तते। ततः पूर्वमेव विविधैः राज्यैः प्रवेशनपरीक्षा समापिता ।

 श्रीशङ्करकुलदेवमन्दिरे कनकधारायज्ञः अद्य आरभते। 
कोच्ची> अद्वैतवेदान्त-प्रतिष्ठापकस्य श्रीशङ्कराचार्यस्य जन्मना विश्वविख्याते कालटिग्रामे स्वकुलदेवतास्थाने श्रीकृष्णमन्दिरे मेय् ७ आरभ्य ११ पर्यन्तं कनकधारायज्ञः प्रचलति।
 बाल्यकाले भिक्षार्थं किञ्चित् निष्किञ्नगृहं प्राप्ताय शङ्कराय गृहिण्याः शुष्कामलकमेवालभत। गृहस्य दौर्भिक्षं प्रत्यभिज्ञातः शङ्करः तत्रैव स्थित्वा ऐश्वर्यदेवतां महालक्ष्मीं संस्तुत्य कनकधारास्तवं विरच्य प्रार्थयामास। स्तवेन प्रसीदा देवी सुवर्णामलकानि वर्षयित्वा तत्कुटुम्बम् अनुगृह्णाति स्म  इत्यैतिह्यः।
  तदनुस्मारयन् आयोजिते कनकधारायज्ञे लक्ष्मीदेव्याः प्राणप्रतिष्ठां कृतानि स्फटिकयुक्तानि सुवर्ण-रजतामलकानि १००८ वारं कनकधारास्तोत्रजपैः पवित्रीकृत्य भक्तजनेभ्यः अक्षयतृतीयादिने  प्रदास्यन्ते।    MORE

स्त्रीजनानां सुरक्षाविषये केन्द्रसर्वकारस्य आशङ्का

  कोल्लम् > पेरुम्बावूरे संवृत्ते नियम-विद्यार्थिन्याः जिषायाः दारुणवध सम्बन्धे विषये अन्वेषणाय केन्द्रान्वेषणसंघः सज्जः इति केन्द्राभ्यन्तरमन्त्रिणा राजनाथ सिंहेन अभिप्रेतम्‌। केरलसर्वकार पक्षतः अभ्यर्थना लब्धा चेत् अन्वेषणदायित्‍वं निर्वोढुं सि बि ऐ सज्जः इति कोल्लम् मण्डले संवृत्‍ते भा जा पा दलस्य निर्वाचनयोगे मन्त्रिणा उक्तम्। केरलेषु स्त्रीजनानां सुरक्षाविषये केन्द्रसर्वकारस्य आशङ्का वर्तते इत्यपि तेन सूचितम्।

 भूमानचित्रस्य वक्रता - दण्डः कठिनः। 
   नवदहली> भारतस्य भूमानचित्रस्य रेखीकरणे वक्रता कापि अस्ति चेत् इतः परं दण्डनव्यवस्था कठिना भवेदिति सर्वकारः। सामूहिकमाध्यमेषु अपि बहुत्र मानचित्रेषु जम्मू काश्मीरस्य स्थानं पाकिस्थाने तथा अरुणाचलप्रदेशस्य स्थानं चैनायां च रेखीकृतं दृश्यते। अतः वक्रतया चित्रीकरणं सप्तवर्षाणां कारागारवासः १०० कोटि रूप्यकाणाम् धनरूप दण्डश्च बाधकमिति सर्वकारेण सूचितम्। अपि च भूमानचित्राणां क्रयविक्रयणाय सर्वकारस्य अनुमतिरपि आवश्यकी। इतःपरं सामूहिकमाध्यमेषु मानचित्राणां प्रसारणे सर्वैरपि श्रद्धा देया एव।

समुद्रजलात् शुद्धजलम् - शास्त्रम् नत्वा राष्ट्रम्।

       
   मुंबई> जलदौर्लभ्यम् अनुभवतां जनानां समाश्वासाय शास्त्रलोकस्य नूतनं योगदानम्। समुद्रजलात् पानयोग्यं शुद्धजलं निर्मितवतां 'बाबा अट्टोमिक् रिसर्च् सेन्टर्'स्थानां शास्त्रज्ञानां योगदानं राष्ट्रे जलदौर्लभ्यम् अनुभवतां प्रदेशानां कृते आश्वासयुक्तं जातम्। प्रतिदिनं ६०,००००० लिटर् जलं शुद्धीकृत्य जलदौर्लभ्यम् अनुभूयमानेषु राज्येषु वितरणाय सज्जं भवति इति तेषाम् अभिप्रायः। तमिल्नाट् राज्ये कल्पाक्कं देशे स्थापिते यन्त्रागारे जलशुद्धीकरणं क्रियमाणं वर्तते। कूटंकुलम् आणवनिलये एवं शुद्धीकृतं जलमेव उपयुज्यते। एवं शुद्धीकृते जले लवणांशः नास्ति एव इति जनाः अभिप्रेतवन्तः च।


 बङ्गाल् राज्ये सि पि एम् + काण्‌ग्रेस् दलम्   
नवदहली >बङ्गाल् राज्ये निर्वाचनप्रक्रियायां सि पि एम् -काण्‌ग्रेस् दलेन अधिकारः प्राप्यते इति निरीक्षणम्। बङ्गाले निर्वाचन प्रक्रियायाः समापनात्परं कृते निरीक्षणे एव अयमभिप्रायः आगतः। इस्लां प्रसिद्धीकरणेन 'मिल्ली गसटट्' दलेन कृतेऽस्मिन् निरीक्षणे सि पि एम् -काण्‌ग्रेस् दलेन १६४ मण्डलेषु विजयः प्राप्यते इति उक्तम्‌। तृणमूलदलस्य १२६ मण्डलेषु जयः भविष्यति इति निरीक्षणं सूचयति।

उत्तराखण्डे भूरिमति नर्णयार्थं सर्वोच्चन्यायालयः।
नवदिल्ली> उत्तराखण्डविधानसभायां मेय् १० दिनाङ्के भूरिमतनिर्णयं कारयितुं सर्वोच्चन्यायालयेन आदेशः कृतः। बहिष्कृतः कोण्ग्रस् दलीयमुख्यमन्त्री हरीष् रावत् तद्दिने विधानसभायां विश्वासमतदानं मार्गयितुमर्हति। अयोग्यानां विमतसामाजिकानां मतदानं उच्च न्यायालयस्य विधिमपेक्षते इति न्यायाधिपयोः दीपक् मिश्रः शिवकीर्तिः इत्यनयोः नीतिपीठेन स्पष्टीकृतम्। विमतसामाजिकानां याचिकां न्यायालयेन अद्य परिगण्यते।

Friday, May 6, 2016

 कूप्यां एव जीव वायुः 

नव देल्ली> लोके विद्यमानेषु उत्तमः जीववायुः इत्युक्त्वा वैट्टली एयर् इति कूपीसंभृतः वायुः भारतस्य भूखण्टे अवतारितः।  दूषितेन अन्तरीक्षवायुना पीडितानि नगराणि एव तेषां लक्ष्यस्थानम्। विश्व-स्वास्थ्य-संस्थायाः श्रेणीकरणे वायूदूषणेन प्रथमस्थाने वर्तमानः देल्ली नगरः एव  तेषां लक्ष्यम्। 3 लिट्टर् 8 लिट्टर् कूप्पि एव इदनीम् लभते। क्रमानुसारं वायोः मूल्यः ₹ 1450, ₹ 2800 च। एकवारं श्वसनं कर्तुं ₹12.50 आवश्यकमिति। चीनायाम् जनैः ओन् लैन् द्वारा द्वादशसहस्रं कूपीवायुः स्वीकृताः आसन् । 

Sanskrit Dramma   संस्कृतनाटकम
बंगाले निर्वाचनं समाप्तम्।

कोल्कोत्ता > पश्चिमबंगराज्ये निर्वाचनप्रक्रिया समाप्ता। ह्यः षष्ठम् अन्तिमम्  च चरणमासीत्। तत्र ८४.२४% सम्मतिदायकाः मतदानं कृतवन्तः।
  निर्वाचनस्य अन्तिमचरणं प्रायेण शान्तिसमन्वितमासीत्। कुच् बीहार् मेदिनिपुरं जनपदेषु २५ मण्डलेष्वेव ह्यः निर्वाचनं सम्पन्नम्। आहत्य २९४ मण्डलानि सन्ति। मतगणनप्रक्रिया मेय् १९ तमे दिने भविष्यति।
११ तालिबान् जनानां पाक्किस्थाने मृत्युदण्डः 

इस्लामाबाद्‌> पाकिस्थानस्य सैनिकन्यायालयेन एकादश संख्यकाः तालिबान् भीकराः मृत्युदण्डः लब्धः।
वधः, अपहारः, आरक्षकान् प्रति आक्रमणम्, सार्वजनिक संस्थायाः नाशः च एतैः अनुिष्ठतताः। पेषावारे १५० संख्यकाः विद्यालय-छात्राः २०१४ तमे वर्षे तालिबान् दलेन हताः असन्। तदनन्तरमेव सैनिक-न्यायालयः संस्थापितः।