OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, May 11, 2016


 उत्तराखण्ड् - भूरिमतं रावदनुकूलम्।

नवदिल्ली> राष्ट्रियानिश्चितत्वं विद्यमाने उत्तराखण्डराज्ये ह्यः भूरि-मतदानप्रक्रिया प्रचलिता। हरीष् रावतस्य नेतृत्वयुक्ताय कोण्ग्रस् सर्वकाराय ३३ सामाजिकानां सहयोगः लब्ध इति अनौद्योगिकसूचना अस्ति। मतदान-प्रक्रियायाः फलम् अद्य सर्वोच्चन्यायालये समर्पयिष्यते। तत् संशोध्य अद्य एव फलप्रख्यापनं भविष्यति।

द्विसहस्रं धनपञ्चीकृताधारिका (Account) प्रमाणेन साकं पानमा रेखा प्रसारिता।

वाषिङ्टण् > विश्व-राष्ट्रिय-नेता सहितानां प्रमुखाणां कुबेराणां  धनपञ्चीकृताधारिका प्रकाशिता। इयं रेखा अन्तर्जाले द्रष्टुं शक्यते। यू.एस् राष्ट्रकेन्द्रीकृतः अन्वेषणात्मकपत्रकारिता समित्या (ऐ सि ऐ जे)एव द्विसहस्राणं प्रमुखाणां जनानां आर्थिक विनिमयरेखा प्रकाशिताि।
रष्यायाः राष्ट्रपतिः व्लाटिमिर् पुटिन्, चीनायाः राष्ट्रपतिः षि चिन् पिङ् प्रभृतयः राष्ट्रप्रमुखाः सप्तति संख्याकाः राष्ट्राणाम्  अष्टविंशत्यधिकाः नेतारः अन्ये कुबेराश्च धनं निक्षिप्तवन्तः। पञ्चसहस्रं भारतीयकुबेराश्च पट्टिकायां सन्ति।

 पलास्तिकोपयोगः- नियन्त्रणं कठिनम्।

          
     बंगलूरु> बंगलूरुनगरे नगरसभापरिधौ पलास्तिक वस्तूनि सकाशं स्वीकृतानि चेत् दण्डनव्यवहारः कठिनः। बंगलूरु बृहत्महानगरपालिकाध्यक्षेण एन् मञ्जुनाथेन एतत् अधिकृत्य निर्देशः विज्ञापितः। पञ्चाशत् रुप्यकाणि दण्डन धनत्‍वेन स्वीकर्तुं  उद्योगस्थेभ्यः निर्देशः लब्धः अस्ति। अग्रिमदिने एव नियमोऽयं प्रबलम् आप्नोति।

Tuesday, May 10, 2016

वधभीत्या - सन्दर्शनं त्यक्तम्।

           नवदहली>  वधभीत्या कॉण्ग्रस् नेतुः राहुल् गान्धिनः दक्षिणभारत राज्यानां सन्दर्शनं त्यक्तम् । विविधेषु निर्वाचनयोगेषु भागभाक्त्वकरणाय दक्षिणभारतस्य पुतुच्चेरी ,तमिल्नाडु, केरलम् इत्यादि राज्यानां सन्दर्शनं निश्चितमासीत्। तदेव वधभीत्या इदानीं त्यक्तं वर्तते।
जलादाने अधिक्षेपः ; कूपखननद्वारा दलितस्य प्रतिक्रिया। 

नाग् पूर् >यदा सार्वजनीनकूपात् जलं स्वीकर्तुमुद्युक्ता स्वपत्नी सवर्णजातीयेन अधिक्षिप्ता अभवत् तदा सन्तप्तहृदयः दलितयुवकः स्वयमेव कूपान्तरं खनित्वा ग्रामीणेभ्यः समर्प्य प्रतिक्रियां कृतवान्।
  महाराष्ट्रायां वाषिम् जनपदे कलम्बेश्वरग्रामे वसन् बाप्पु रावु ताजने ४० दिनानि अनुस्यूतं कर्म कृत्वा उच्चजातीयस्य अधिक्षेपं तरति स्म।
  गतमार्च् मासे एव घटनायाः आरम्भः। ताज्ने वर्यस्य गृहसमीपस्थाः त्रयः कूपाः एकः नालिकाकूपश्च शुष्काः जाताः। नातिदूरस्थात् सार्वजनीनकूपात् जलमानेतुं गतवती तस्य पत्नी आक्षिप्ता प्रत्यागतवती। अपमाननेन व्रणितहृदयः रावु ताजने झटित्येव समीपस्थं मालेगाव् नगरं गत्वा कूपखननोपकरणानि  क्रीत्वा आनीय एकहोराभ्यन्तरे एव स्वभूमौ कूपखननम् आरब्धवान्। उन्मत्त इति विचिन्त्य भार्या प्रातिवेशिकाश्च किमपि साहाय्यं न कृतवन्तः। तथापि ४० दिनैः कूपखननं सफलीकृत्य ग्रामवासिभ्यः यथेष्टं जलमदात्।
  ग्रामीणानां कृते जलसौलभ्यमेव स्वलक्ष्यः आसीदिति बिरुदपठनं पूर्तीकृतेन दिनवैतनिकेन उक्तम्।
विवाहमंगलाशंसकेभ्यः कृतज्ञताप्रकाशनं बालवृक्षदानेन।

कोच्ची >विवाहाघोषे  अनुग्रहीतुम् आगतवन्तेभ्यः बालवृक्षान् प्रदत्वा वधूवरौ कृतज्ञतां प्रकाशितवन्तौ। केरले एवायम् अत्यपूर्वः विवाहाघोषः सम्पन्नः। एरणाकुळं जिल्लायां मष़ुवन्नूर् कूटश्शेरि भवने रामन् नायर् सरस्वती अम्बा इत्यनयोः पुत्रस्य सुभाषस्य , वलम्पूर् इटमनगृहे अजयकुमार् शकुन्तळा दम्पत्योः पुत्र्याः निवेदितायाः च माङ्गल्यवेदिकायामेव बालवृक्षाः अतिथिभ्यः सम्माननरूपेण प्रदत्ताः। अर्णवृक्षः महागणिः मांसरोहिणी आमलकी अरिष्टः इत्यादीन् ७००संख्याकान् वृक्षान् दत्वा तौ समाजे मार्गदर्शकौ जातौ।

Monday, May 9, 2016

देशीयनेतारः प्राप्नुवन्तः ; केरळे निर्वाचनप्रचारणम् ऊर्जितम्।

कोच्ची > केरळराज्ये विधानसभानिर्वाचनप्रचारणं तस्य परकाष्ठां प्राप्नोति। प्रधानमन्त्रिसहिताः केन्द्रनेतारः राज्यं प्राप्नुवन्तः सन्ति। प्रधानमन्त्री नरेन्द्रमोदी कासरगोड् , आलप्रुष़ा तिरुवनन्तपुरं जनपदेषु पर्यटनं कृत्वा भा.ज.पा.दलनेतृत्वे एन् डि ए सख्याय प्रचारणमकरोत्। सि.पि एम् दलस्य कार्यदर्शिप्रमुखः सीतारां यच्चूरी , कोण्ग्रस् दलस्य प्रवर्तकसमिति सदस्यः ए के आन्टणिः च केरलस्य विविधजनपदेषु प्रचरणं कुर्वन्तौ स्तः। कोण्ग्रस् देशीयाध्यक्षा सोणियागान्धी अद्य आगच्छति। तृशिवपेरूर् तिरुवनन्तपुरं जनपदयोः प्रचारणं करिष्यति। उपाध्यायक्षः राहुल् गान्धी श्व आरभ्य दिनत्रयं केरलेषु विविधमण्डलेषु यू डि एफ् प्रत्याशिनेभ्यः प्रचरणं करिष्यति। बीहारस्य मुख्यमन्त्री नितीष्कुमारः, भूतपूर्व प्रधानमन्त्री एछ् डि देवगौडा , राजनाथसिंहः, स्मृति इरानी इत्यादयः केन्द्रमन्त्रिणश्च स्वस्वप्रत्याशिनेभ्यः प्रचरणं कृत्वा प्रतिनिवर्तितवन्तः।

आक्रमितः चेत् आणवशस्त्रम् उपयोक्तुं निर्बधाः भवामः - उत्तरकोरिया।

पोङ्‌ याङ्‌ > राष्ट्रस्य प्रशासने बाह्यप्रवेशः चेत् आणवायुधस्य प्रयोगः भविष्यति इति उत्तर कोरियायाः किं जोङ्‌ उन् वर्येण उक्तम्।आणवायुधस्य निर्व्यापने बद्धश्रद्धाः च पञ्चत्रिंशत् वर्षा नन्तरम् आयोज्यमाने दलानां मेलने भाषमाणः आसीत् सः दरिद्र-राष्ट्रस्य आर्थिकावस्थाम् उपरि आनयतुं पञ्चवत्सरस्य योजाना अपि तेन अवतारिता। आयुधं प्रतिरोधाय इति वदति चोदपि तस्मिन् भीतिदः स्वरः अस्ति इति राष्ट्रान्तर-माध्यमाः वदन्ति।

अगस्टा वेस्ट्लान्ट् हेलिकाप्टर् विनिमये दण्डनव्यवहारं स्वीकर्तुं मोदी अशक्तः - केज्रिवाल्              
नवदहली> अगस्टा वेस्ट्लान्ट् हेलिकाप्टर् विनिमये उन्नीतानां दुर्व्यवहाराणामाधारेण कोण्ग्रस् अध्यक्षां सोणियां प्रति कमपि दण्डनव्यवहारं स्वीकर्तुं मोदिनः धैर्यः नास्ति इति दहली मुख्यमन्त्री  अरविन्द केज्रिवाल् । विनिमयेऽस्मिन् जाते दुर्व्यवहारे  इट्टलीस्थन्यायालयेन कोण्ग्रस् दलस्य सोणियागान्धी, अहम्मद् पट्टेल् सहितानां नेतृणाम् उपरि परामर्शः कृतःआसीत्। परन्‍तु भारतस्य प्रधानमन्त्री मोदी अन्वेषणे  एकपदमपि अग्रे गन्तुम् अशक्तः एव इति  केज्रिवाल् दहल्यामवदत्।

अष्टमे नेह्रु बहिर्गतः

                जय्पूर्:- राजस्थानस्य अष्टमकक्ष्यायाः सामूहिक शास्त्रपाठपुस्तकात् भारतस्य प्रथम प्रधानमन्त्रिणं   जवहर्लाल्नेह्रुं अधिकृत्य प्रतिपादनं किमपि नास्ति। परन्तु महात्मागान्धी, सुभाष् चन्द्रबोस्, वीरसवर्करः, भगत् सिंहः, बालगंगाधरतिलकः, लाला लज्पत्रायः इत्येतेषां स्वतन्त्रता- समरनायकानां प्रतिपादनं पुस्तकेऽस्मिन् अस्त्येव। स्वतन्त्र भारतस्य प्रथम प्रधानमन्त्रिं अनुक्त्वा एव पुस्तकं रचितं दृश्यते। राजस्थान् पुस्तक मण्डलस्य कृते स्टेट् इन्स्टिट्यूट् ओफ् एडुकेषन् रिसर्च एण्ट् ट्रैनिङ् एव पुस्तकरचनाम् अकरोत्। पुस्तकम् इत.पर्यन्तं विपण्यां नैव आगतम्। किन्तु अन्तर्जाले पुस्तकं दत्तं वर्तते। विषयेऽस्मिन् सर्वकारपक्षतः किमपि स्थिरीकरणं न लब्धम्।

Sunday, May 8, 2016

 निर्वाचनम् - बाह्यनिरीक्षणं नियन्त्रितम् ।                   
अनन्तपुरी>  निर्वाचनप्रक्रियायाः साध्यमानेऽस्मिन् काले निर्वाचनसम्बन्धिकतया बाह्यनिरीक्षणम् अभिप्रायप्रकाशनं च नियन्त्रितं भवति। जनप्रतिनिधि-नियमस्य १२६(१) बि प्रमाणानुसारमेव नियन्त्रणम्। नियन्त्रणसम्बन्धं विज्ञापनं केन्द्रनिर्वाचनसमित्या कृतं वर्तते।

'संपूर्णं मद्यनिरोधनम्
 दशवर्षाणि आवश्यकानि किम्?' नितीष्‌ कुमारः

कोष़िक्कोड् (केरळम )> बीहार् राज्ये मद्यनिरोधनं पदपदानुसम्बन्धिकतया निरोधितुं निश्चितः आसीत् । किन्तु केवलं पञ्चदिनाभ्यन्तरे एव निरोधनं संपूर्णं जातम्। तस्य कारणं जनपक्षतः आनुकूल्यमेव इति  कोष़िक्कोड् मण्डले संवृत्ते यु डि एफ् दलस्य निर्वाचनयोगे बीहार् मुख्यसचिवेन नितीष्‌कुमारेण अभिप्रेतम्। अतः संपूर्णमद्यनिरोधनाय दशवर्षकालं प्रतीक्षा करणीया वा इति केरलसर्वकारः चिन्तयतु इति सः अवदत् ।संपूर्णमद्यनिरोधनविषये भा ज पा दलस्य अभिप्रायं प्रकटयतु इत्यपि तेन आह्वानं कृतम्‌ ।

 वस्त्रनिर्माणशालायाम् अग्निबाधा - त्रयः मृताः।

                     लुधियाना (पञ्जाब्) > लुधियानायां राहोण् मार्गे प्रवर्तमाने यन्त्रागारे ह्यः प्रभाते जातायाम् अग्निबाधायां महान् नष्टः। त्रयः कर्मकराः मृताः। संपूर्णतया अग्नौ दग्धानां मृतदेहानां प्रत्यभिज्ञानम् एतावता अशक्तं भवति। अग्निबाधायाः कारणं व्यक्तं न भवति। नगरसभायाः अग्निशमनविभागस्य ११ संघानां कठिनप्रयत्नेनैव अग्ने: शमनमभवत्।

कवि: रमेशपाण्डेय: कारदुर्घटनायां दिवंगत:।
 दुःखदघटना -संस्कृतभारत्या: मध्यभारतप्रान्तस्य सहसम्पर्कप्रमुख: "कालिदासो जने जने ..." गीतस्य रचयिता श्रीरमेशपाण्डेय: तस्य पुत्रश्च अद्य कारदुर्घटनायां दिवंगतौ ।
 ' योगश्चित्तवृत्तिनिरोधः' विद्यालयेषु योगः मुख्यविषय:

नवदहली> राष्ट्रे सर्वेषु विद्यालयेषु योगपठनम् अभ्यासः च मुख्यविषयः भवतु इति केन्द्र आयुष्मन्त्रिणः श्रीपद् यशोनाय्क्महोदयस्य निर्देशः। अस्मिन् अध्ययनवर्षे एव पाठ्यपद्धत्यां योगपठनम् अन्तर्भवतु इति केन्द्रमानव विभवशेषिमन्त्रालयेन सर्वेभ्यः राज्येभ्यः निर्देशः दत्तः अस्ति।

 के वि तोमस् पुनरपि पि ए सि अध्यक्षः
 नवदहली>लोसभायाः चरित्रे प्रथमतया एव एकः सामाजिकः अविरामं वारत्रयं एकस्याः एव लोकसभायाःपि ए सि समितेः अध्यक्षस्थानम् आवहति। के वि तोमसस्य सामूहिक-राष्ट्रियजीवने अयमङ्गीकारः असूयावहः इति राष्ट्रियचिन्तकानाम् अभिप्रायः।  इतःपूर्वं १४,१५ लोकसभयोः मुरलीमनोहरजोषी महोदय: पञ्चवारम् पि ए सि समितेः अध्यक्षः आसीत्। समित्यां भा ज पा दलस्य भूरिपक्षत्वं न्यूनं चेदपि एतावता विविधानां ५० वृत्तान्तरेखाणाम् ऐक्यकण्ठेनैव अनुमतिः दत्ता वर्तते।

भारत-नेप्पालबन्धे भ्रंशः।
नवदिल्ली> गतकाले सुसम्पन्नः भारत - नेप्पालराष्ट्रयोः परस्परबन्धः भ्रंशते। नेप्पालस्य राष्ट्रपतेः बिन्द्यादेवी भण्डारीवर्यस्य निर्दिष्टं भारतसन्दर्शनं निरस्तम्। किञ्च भारतस्थानपतिः दीपकुमार् उपाध्यायः प्रत्याह्वयते स्म। परन्तु घटनाद्वयस्यापि कारणं न स्पष्टीकृतम्।
    नेप्पालराजनैतिकदलेषु विद्यमानाः आभ्यन्तरविषयाः एव कम्म्यूणिस्ट् दलस्य नेतृत्वे विद्यमानस्य सर्वकारस्य निर्णयस्यास्य कारणमिति निरीक्षकाणां मतम्। स्थानप्राप्त्यनन्तरं राष्ट्रपतेः बिद्यादेवी वर्यस्य प्रथमभारतसन्दर्शनमेव अन्त्यनिमिषे निरस्तमभवत्।

Saturday, May 7, 2016

'नीट्' विषये पुनरपि आश्वासवचनानि 

     नवदेह्ली : - वैद्यपठनमण्डले देशीयैकीकृतप्रवेशनपरीक्षायाः पूर्वमेव प्रवेशनपरीक्षाम् आयोजितेभ्यः राज्येभ्यः उच्चतर न्यायालयपक्षतः आश्वासवचनानि। नियमस्य आधारेण राज्याणां प्रवेशनपरीक्षाणां साधुतायै अन्यं  कमपि मार्गं प्रस्तौतुम्‌ उच्चतरन्यायालयेन केन्द्र सर्वकाराय निर्देशः दत्त:। ' नीट् ' विषये उच्चतरन्यायालयेन अप्रैल् २८ दिनाङके एव निर्देश: दत्त: वर्तते। ततः पूर्वमेव विविधैः राज्यैः प्रवेशनपरीक्षा समापिता ।

 श्रीशङ्करकुलदेवमन्दिरे कनकधारायज्ञः अद्य आरभते। 
कोच्ची> अद्वैतवेदान्त-प्रतिष्ठापकस्य श्रीशङ्कराचार्यस्य जन्मना विश्वविख्याते कालटिग्रामे स्वकुलदेवतास्थाने श्रीकृष्णमन्दिरे मेय् ७ आरभ्य ११ पर्यन्तं कनकधारायज्ञः प्रचलति।
 बाल्यकाले भिक्षार्थं किञ्चित् निष्किञ्नगृहं प्राप्ताय शङ्कराय गृहिण्याः शुष्कामलकमेवालभत। गृहस्य दौर्भिक्षं प्रत्यभिज्ञातः शङ्करः तत्रैव स्थित्वा ऐश्वर्यदेवतां महालक्ष्मीं संस्तुत्य कनकधारास्तवं विरच्य प्रार्थयामास। स्तवेन प्रसीदा देवी सुवर्णामलकानि वर्षयित्वा तत्कुटुम्बम् अनुगृह्णाति स्म  इत्यैतिह्यः।
  तदनुस्मारयन् आयोजिते कनकधारायज्ञे लक्ष्मीदेव्याः प्राणप्रतिष्ठां कृतानि स्फटिकयुक्तानि सुवर्ण-रजतामलकानि १००८ वारं कनकधारास्तोत्रजपैः पवित्रीकृत्य भक्तजनेभ्यः अक्षयतृतीयादिने  प्रदास्यन्ते।    MORE

स्त्रीजनानां सुरक्षाविषये केन्द्रसर्वकारस्य आशङ्का

  कोल्लम् > पेरुम्बावूरे संवृत्ते नियम-विद्यार्थिन्याः जिषायाः दारुणवध सम्बन्धे विषये अन्वेषणाय केन्द्रान्वेषणसंघः सज्जः इति केन्द्राभ्यन्तरमन्त्रिणा राजनाथ सिंहेन अभिप्रेतम्‌। केरलसर्वकार पक्षतः अभ्यर्थना लब्धा चेत् अन्वेषणदायित्‍वं निर्वोढुं सि बि ऐ सज्जः इति कोल्लम् मण्डले संवृत्‍ते भा जा पा दलस्य निर्वाचनयोगे मन्त्रिणा उक्तम्। केरलेषु स्त्रीजनानां सुरक्षाविषये केन्द्रसर्वकारस्य आशङ्का वर्तते इत्यपि तेन सूचितम्।

 भूमानचित्रस्य वक्रता - दण्डः कठिनः। 
   नवदहली> भारतस्य भूमानचित्रस्य रेखीकरणे वक्रता कापि अस्ति चेत् इतः परं दण्डनव्यवस्था कठिना भवेदिति सर्वकारः। सामूहिकमाध्यमेषु अपि बहुत्र मानचित्रेषु जम्मू काश्मीरस्य स्थानं पाकिस्थाने तथा अरुणाचलप्रदेशस्य स्थानं चैनायां च रेखीकृतं दृश्यते। अतः वक्रतया चित्रीकरणं सप्तवर्षाणां कारागारवासः १०० कोटि रूप्यकाणाम् धनरूप दण्डश्च बाधकमिति सर्वकारेण सूचितम्। अपि च भूमानचित्राणां क्रयविक्रयणाय सर्वकारस्य अनुमतिरपि आवश्यकी। इतःपरं सामूहिकमाध्यमेषु मानचित्राणां प्रसारणे सर्वैरपि श्रद्धा देया एव।

समुद्रजलात् शुद्धजलम् - शास्त्रम् नत्वा राष्ट्रम्।

       
   मुंबई> जलदौर्लभ्यम् अनुभवतां जनानां समाश्वासाय शास्त्रलोकस्य नूतनं योगदानम्। समुद्रजलात् पानयोग्यं शुद्धजलं निर्मितवतां 'बाबा अट्टोमिक् रिसर्च् सेन्टर्'स्थानां शास्त्रज्ञानां योगदानं राष्ट्रे जलदौर्लभ्यम् अनुभवतां प्रदेशानां कृते आश्वासयुक्तं जातम्। प्रतिदिनं ६०,००००० लिटर् जलं शुद्धीकृत्य जलदौर्लभ्यम् अनुभूयमानेषु राज्येषु वितरणाय सज्जं भवति इति तेषाम् अभिप्रायः। तमिल्नाट् राज्ये कल्पाक्कं देशे स्थापिते यन्त्रागारे जलशुद्धीकरणं क्रियमाणं वर्तते। कूटंकुलम् आणवनिलये एवं शुद्धीकृतं जलमेव उपयुज्यते। एवं शुद्धीकृते जले लवणांशः नास्ति एव इति जनाः अभिप्रेतवन्तः च।


 बङ्गाल् राज्ये सि पि एम् + काण्‌ग्रेस् दलम्   
नवदहली >बङ्गाल् राज्ये निर्वाचनप्रक्रियायां सि पि एम् -काण्‌ग्रेस् दलेन अधिकारः प्राप्यते इति निरीक्षणम्। बङ्गाले निर्वाचन प्रक्रियायाः समापनात्परं कृते निरीक्षणे एव अयमभिप्रायः आगतः। इस्लां प्रसिद्धीकरणेन 'मिल्ली गसटट्' दलेन कृतेऽस्मिन् निरीक्षणे सि पि एम् -काण्‌ग्रेस् दलेन १६४ मण्डलेषु विजयः प्राप्यते इति उक्तम्‌। तृणमूलदलस्य १२६ मण्डलेषु जयः भविष्यति इति निरीक्षणं सूचयति।

उत्तराखण्डे भूरिमति नर्णयार्थं सर्वोच्चन्यायालयः।
नवदिल्ली> उत्तराखण्डविधानसभायां मेय् १० दिनाङ्के भूरिमतनिर्णयं कारयितुं सर्वोच्चन्यायालयेन आदेशः कृतः। बहिष्कृतः कोण्ग्रस् दलीयमुख्यमन्त्री हरीष् रावत् तद्दिने विधानसभायां विश्वासमतदानं मार्गयितुमर्हति। अयोग्यानां विमतसामाजिकानां मतदानं उच्च न्यायालयस्य विधिमपेक्षते इति न्यायाधिपयोः दीपक् मिश्रः शिवकीर्तिः इत्यनयोः नीतिपीठेन स्पष्टीकृतम्। विमतसामाजिकानां याचिकां न्यायालयेन अद्य परिगण्यते।

Friday, May 6, 2016

 कूप्यां एव जीव वायुः 

नव देल्ली> लोके विद्यमानेषु उत्तमः जीववायुः इत्युक्त्वा वैट्टली एयर् इति कूपीसंभृतः वायुः भारतस्य भूखण्टे अवतारितः।  दूषितेन अन्तरीक्षवायुना पीडितानि नगराणि एव तेषां लक्ष्यस्थानम्। विश्व-स्वास्थ्य-संस्थायाः श्रेणीकरणे वायूदूषणेन प्रथमस्थाने वर्तमानः देल्ली नगरः एव  तेषां लक्ष्यम्। 3 लिट्टर् 8 लिट्टर् कूप्पि एव इदनीम् लभते। क्रमानुसारं वायोः मूल्यः ₹ 1450, ₹ 2800 च। एकवारं श्वसनं कर्तुं ₹12.50 आवश्यकमिति। चीनायाम् जनैः ओन् लैन् द्वारा द्वादशसहस्रं कूपीवायुः स्वीकृताः आसन् । 

Sanskrit Dramma   संस्कृतनाटकम
बंगाले निर्वाचनं समाप्तम्।

कोल्कोत्ता > पश्चिमबंगराज्ये निर्वाचनप्रक्रिया समाप्ता। ह्यः षष्ठम् अन्तिमम्  च चरणमासीत्। तत्र ८४.२४% सम्मतिदायकाः मतदानं कृतवन्तः।
  निर्वाचनस्य अन्तिमचरणं प्रायेण शान्तिसमन्वितमासीत्। कुच् बीहार् मेदिनिपुरं जनपदेषु २५ मण्डलेष्वेव ह्यः निर्वाचनं सम्पन्नम्। आहत्य २९४ मण्डलानि सन्ति। मतगणनप्रक्रिया मेय् १९ तमे दिने भविष्यति।
११ तालिबान् जनानां पाक्किस्थाने मृत्युदण्डः 

इस्लामाबाद्‌> पाकिस्थानस्य सैनिकन्यायालयेन एकादश संख्यकाः तालिबान् भीकराः मृत्युदण्डः लब्धः।
वधः, अपहारः, आरक्षकान् प्रति आक्रमणम्, सार्वजनिक संस्थायाः नाशः च एतैः अनुिष्ठतताः। पेषावारे १५० संख्यकाः विद्यालय-छात्राः २०१४ तमे वर्षे तालिबान् दलेन हताः असन्। तदनन्तरमेव सैनिक-न्यायालयः संस्थापितः।

Thursday, May 5, 2016

उत्तराखण्डे मुख्यन्यायाधिपस्य स्थानचलनम्।

नवदिल्ली - उत्तराखण्डे उच्चन्यायालयस्य मुख्यन्यायाधिपः ज. के एम् जोसफः , येन राज्ये केन्द्रसर्वकारेण आयोजितं राष्ट्रपतिशासनं निरस्तं , चलितस्थानः अभवत्। हैदराबादे आन्ध्राप्रदेशस्य मुख्यन्यायाधिपरूपेणैव स्थानचलनम्।
  उत्तराखण्डे राष्ट्रपतिशासनम् आयोजितवन्तं केन्द्रसर्वकारं ज. जोसफः रूक्षतया विमृश्य एव क्रियाविधिं निरोधते स्म।

Wednesday, May 4, 2016

मल्यस्य त्यागपत्रम् अस्वीकृतं,बहिष्कर्तुम् अभियाचना। 


नवदिल्ली >विवादमद्यव्यापारिणः विजयमल्यस्य राज्यसभांगत्वत्यागपत्रं सभाध्यक्षेण हमीद् अन्सारिणा तिरस्कृतम्। त्यागपत्रसमर्पणं यथाविधिः नासीदिति कार्यालयवृत्तैरुक्तम्।
परन्तु मल्यं  बहिष्कर्तुं सभायाः सदाचारसमितिः अभ्ययाचत।
 वासयोग्यानां ग्रहाणां दर्शनं  वैञ्ज्ञानिकलोकं प्रतीक्षायाम् 
          पारीस्> राष्ट्रान्तरीयगवेषणसङ्घस्य पठने जीव-वासयोग्यानां त्रयाणाम् अन्यग्रहणां दर्शनम्। भूमेः ४० प्रकाशवर्षाणां दूरे कस्यचित् कृशनक्षत्रस्य जीवसाध्यतामण्डले एव त्रयाणां ग्रहाणां सञ्चारः। भूमेः बहिः उषितुं अत्यधिकम् अनुकूलसाहचर्ययुक्ताः एव एते ग्रहाः इति गवेषकसङ्घानाम् अभिमतः। 'यूरोप्यन् ओर्गनैसेषन् फोर् अस्ट्रोणमिकल् रिसर्च्' इति सङ्‌घस्य वैज्ञनिकाः एव गवेषणकार्यस्य नेतृत्‍वं वहन्ति।

 व्याज मैदा- अन्वेषणाय मद्रास् उच्च न्यायालयस्य आदेशः।

चेन्नै > गोधूमोत्पन्नायां मैदायाम् आपत्कराणि रासवस्तूनि योजयन्ति इति आरोपणमन्वेष्टुं भक्ष्यसुरक्षा अधिकारिणः मद्रास् उच्चन्यायालयेन आदिष्टाः। आरोपणं सत्यं चेत् दोषारोपितान् विरुध्य शीघ्रं अनन्तरक्रिया स्वीकरणीया इति च आदिष्टा।
मैदायाः श्वेतवर्णकरणाय अलोक्सन् नाम रासवस्तुम् उपयुज्यते इति सार्वजनीनपरीवादे आसीत् श्रेष्ठ न्यायाधिशयोः एस्‌. के कौल् न्याय- एम् के सुन्दरेश् प्रमुखयोः पीठिकातः अयं निदेशः। मासत्रयाभ्यन्तरेण अन्वेषणं  समापनीयम्।
रासयुक्त मैदायाः उपयोगः मनुष्याणां आग्नेयग्रन्थिं नाशयति। आग्नेयग्रन्थेः नाशः मधुमेहस्य मूलकारणमेव अतः अस्मिन् परीवादे प्राधान्यमस्ति इति न्यायालयेन निरीक्षितः।

Tuesday, May 3, 2016

लोकभाषायाः व्याकरणमपि संस्कृतभाषाया रचितः - डा. चान्द किरण सलूजा।

डाँ. चान्द किरण सलूजा महाभागस्य भाषणम्
कोची > लोकेषु विद्यमानासु भाषासु व्याकरणनियमानि संस्कृतभाषायाः उपलब्धानि इति द्वितीयः संस्कृत -कम्मीषन् डाँ. चान्द किरण सलूजा महाभागेन उक्तम्। आङ्गलभाषायां "N" शब्दस्य विविधेषु पदेषु उच्चारणं भिन्नम् अस्ति, किन्तु उच्चारण नियमः नास्ति। किन्तु अङ्गलेयपदस्य उच्चारण काले आङ्गलेयं संस्कृत-भाषायाः नियमान् अनुसरन्ति च । संस्कृत-उच्चारण-नियमानुसारं 'तोर्लि' इति सूत्रं उद्धृत्य उदाहरणसहितमासीत् तस्य भाषणम्।
संस्कृत-संवर्धन-प्रतिष्ठानेन आयोज्यमाना एकदिनात्मिकायां शिल्पशालायां भाषमाणः आसीत् सः। केरलस्य विविधेभ्यः मण्डलेभ्यः वैज्ञानिकाः, संस्कृत-कार्यकर्तारः, भिषग्वराः, शिक्षकाः, टङ्कणज्ञाः, पत्रकाराश्च अस्मिन् भागभाजिनः आसन्।
अस्याः शिल्पशालायाः उद्‌घाटनम् संस्कृत भाषायाः अन्तर्देशीय कण्सल्टन्ट डा. पण्डितरत्नं जि. गङ्गाधरन् नायर् महोदयः कृतवान् । संस्कृतभारत्याः अखिलभारतीय सङ्घटनामन्त्री वाचस्पति प. नन्दकुमारः अध्यक्ष: आसीत्। श्री शङ्कराचार्य विश्वविद्यालयस्य साहित्यविभागाध्यक्षः डॉ. धर्मराज अटाट्, ब्रह्मस्वं मठाध्यक्षः परमेश्‍वरन् नम्पूतिरि, डा. एम्.वी नटेशः, डा. सि एन् नील कप्ठः, डा. ई. एन् ईश्वरन् इत्यादयः च उपस्थिताः आसन्।


पञ्च वर्षाभ्यन्तरेण बंगलूरु वासाय अयोग्यः भविष्यति।

बंगलूरु > भारत वैज्ञानिक संस्था (IISC) सूचयति यत् पञ्च वर्षाभ्यन्तरेण बंगलूरु नगरे वासः वायूप्रदूषणेन दुष्करं भविष्यति। गत चत्वारिंशत् वर्षं यावत्  वृक्षछेनं अनुवर्तते अत्र। वृक्षच्छेदनं कृत्वा हर्म्यनिर्माणं प्रतिशतं पञ्चविंशत्युत्तर पञ्च शतम् (५२५% ) आधिक्यं दृश्यते। हरिताभा ७८% न्यूना।

जलाशयाः ७९% न्यूनाः । एतस्याः अवस्थाः
नगरमिदानीं नरकवत् भाति इति प्रोफसर् टि. वि रामचन्द्रः अवदत्। समुद्रात् उपरि ३००० पदेषु विद्यमानायां नगरे नदी नास्ति चेदपि ६०० संख्याधिकाः
जलाशयाः आसन् । शतंकिलोमीट्टर् दूरे विद्यमाने कावेरी नद्याः जलमेव अत्र आनयति। कावेरी नदी तु इदानीं दुर्दशायां च । जनसंख्या इदानीं कोटी चI त्वरितपरिहारः आवश्यकः इति, अनुसन्धानानन्तरं IISC सूचयति।

संस्कृतं सरलमिति घोषयित्वा विश्वसंस्कृतप्रतिष्ठानस्य राज्यस्तरीयसम्मेळनं समाप्तम्।

कोच्ची> भारतस्य सांस्कृतिकभाषारूपेण परिलसत् संस्कृतं सामान्यजनैरपि दैनंदिनभाषणाय समर्थमिति उद्घोषयन् संस्कृतभारत्याः केरळीयघटकस्य विश्वसंस्कृत-प्रतिष्ठानस्य ३६तम राज्यस्तरीयसम्मेलनं एरणाकुळं जिल्लायां मुवाट्टुपुष़ासमीपस्थे तिरुवुंपिलाव् मन्दिराङ्कणे सम्पन्नम्।
   प्रतिनिधिसभां श्रीधरीयं निदेशकप्रमुखः डो. एन् पि पि नम्पूतिरिवर्यः उद्घाटनं कृतवान्। प्रतिष्ठानस्य राज्याध्यक्षः डो. एम् पि उण्णिकृष्णः आध्यक्ष्यमवहत्। पण्डितरत्नं डो. जि गंगाधरन् नायर् मुख्यभाषणमकरोत्। संस्कृतभारत्याः अखिलभारतीयसंयोजकः वाचस्पतिः प. नन्दकुमारः वि श्रीकुमारः, पि के राजेष् कुमारः इत्येते प्रभाषणकुर्वन्।
  सायाह्ने संवृत्तस्य संस्कृतकलासन्ध्या-कुटुम्बसंगमस्य उद्घाटनं प्रख्यातेन संस्कृतचलच्चित्रनिदेशकेन विनोद् मङ्करा वर्येण कृतम्।ततःपरं कोयिलाण्टी 'भास अक्कादम्याः' एम् के सुरेष् बाबुना अवतारितं कर्णभारं संस्कृतनाटकं आस्वादकहृदयान् अभिभवति स्म।

Monday, May 2, 2016

सौरयूथे लाङ्गूलहीनं नक्षत्रम् 

वाषिङ्टण् >सौरयूथस्य धूमकेतुगणे अन्तर्भूतं चेदपि लाङ्गूलं नास्ति इति वैशिष्ट्येन एकः धूमकेतुः। अमुं धूमकेतुम् अधिकृत्य पठनं कर्तुम् उद्युक्ताः सन्तः अमेरिकायाः हावा विश्वविद्यालयस्य शास्त्रज्ञा:। सौरयूथस्य उद्भवः, परिणाम: इत्येतेषां गहनविषयाणां पठनाय अत्यन्तं सहायकं भवति नूतनमेतत् दर्शनम्। नक्षत्रस्य अस्य नाम सि-२०१४-एस् ३, भ्रमणसमयः ८६० वर्षाणि च भवन्ति।
मोदी शासने सम्मिश्रप्रतिकरणम्
पुनरपि प्रधानमन्त्री भवतु इति ७०%जनाः 
'सि एम् एस् रिसेर्च हौस्'अनुसन्धान संस्था
नवदेहली >द्वाभ्यां वर्षाभ्यां मोदिशासनेन राष्ट्रे प्रत्येकं परिवर्तनं किमपि न जातम् इति पठनवृत्तान्तरेखा। 'सि एम् एस् रिसेर्च हौस्' इति सङ्धेन कृते पठने जनजीवने प्रत्येकं परिवर्तनं किमपि न जातमिति ४९% जनाः अभिप्रेतवन्तः। जनजीवनं अधिकतया कष्टतां प्राप्तम् इति १५% जनानाम् अभिमतः इति पठनं रेखीकरोति। अवश्यवस्तूनां मूल्यवर्धनं, उद्योगाभावः इत्येतासां समस्यानां परिहरणे मोदिशासनम् अशक्तमेव। केन्द्रपद्वतीनां निर्वहणं कार्यक्षमं न भवति इत्यपि पठनं अभिप्रैति। परन्तु नरेन्द्रमोदी राष्ट्रतात्पर्यं, विकसनं च लक्षीकृत्य एव अग्रे गच्छति इत्यपि जनाः अभिप्रयन्ति इत्यपि पठनं रेखीकरोति।

नीट् परीक्षायाः प्रथमश्रेणी सम्पन्ना।
कोच्ची > राष्ट्रस्य वैद्य - दन्त वैद्यशिक्षापद्धत्याः एकीकृत देशीय योग्यता परीक्षा (NEET) विविधकेन्द्रेषु सम्पन्ना। केरळे अनन्तपुरी कोच्ची कोष़क्कोट् नगरेषु शतपर्यन्तं केन्द्रेषु परीक्षा चालिता।
  छात्राः रक्षितारश्च अखिल भारतपरीक्षां स्वागतं कुर्वन्त्यपि सिद्धतार्थं समयलेशः अभवदिति आक्षेपः वर्तते।
नरेन्द्रमोदी प्रथमश्रेण्याम् एव

 अहम्मदाबाद् > प्रधानमन्त्रिणः नरेन्द्रमोदिनः  अध्ययनयोग्यता विषये उन्नीतस्य आक्षेपस्य तात्कालिकविराम:। नरेन्द्रमोदिना गुजरात् विश्वविद्यालयात् राष्ट्रमीमांसायां ६२.३% अङ्‌कान्‌ प्राप्य बिरुदानन्तरबिरुदं प्राप्तम् इति कुलपतिना एं एन् पट्टेल् महोदयेन स्थिरीकृतम्। केन्द्रीय वृत्तान्तज्ञापनाधिकारसमितेः आदेशमनुसृत्य एव कुलपतिना स्थिरीकरणं दतं वर्तते। मोदिन: बिरुदमपि नास्तीति दिल्ली मुख्यसचिवेन अरविन्दकेज्रिवालेन आक्षेपः उन्नीतः आसीत्।

 मुष्टियुद्धे भारतीयरत्नस्य जैत्रयात्रा

लण्डण् >उद्योगात्मके मुष्टियुद्धे भारतीयरत्नस्य विजेन्दर् सिंहस्य पञ्चमः अविरामविजयः। लण्डणे संवृत्तायां क्रीडायां फ्रञ्च् क्रीडकं माटियोस् रोयरं विना प्रयासं विजेन्दरः पराजितवान्। पञ्चमपङ्क्त्याः पूर्वमेव विजेन्दरः विजयपथं प्राप्य उद्योगात्मकेऽस्मिन् मण्डले स्वशक्तिम्  प्रादर्शयत्।

 उत्तर-खण्डे 1500 ग्रामाः दावाग्निभीत्याम्।

डोराडूण् > उत्तराखण्डे १५०० ग्रामाः दावाग्नेः भत्याम् इत्यनेन भारत-सर्वकारेण जाग्रतायै  निर्दिष्टः। दुरन्त-निवारणसेनायाः त्रयः सङ्‌खाः तत्र नियुक्ताः वर्तन्ते। षट्संख्यकाः जनाः दुरन्ते मृताः। तेषु द्वौ स्त्रियौ।

यावत्कालं विविधासु प्रविश्यासु त्रिसहस्र-'एक्कर्' मितः भूमिः अग्निना ज्वालिता। राज्यस्य पञ्चाशत् भागेभ्यः अग्निः व्याप्नोति।शुक्रवासरे रात्रौ अपि अग्निः नियन्त्रणाधीना इत्यनेन ग्रामीणौ:  स्वगृहात् सुरक्षितस्थानानि प्रविष्टानि। एम्  ऐ- १७ लम्बक विमानस्य  (Helicopter) साहाय्येन अग्निं शामयितुं प्रयत्नः अनुवर्तते।