संस्कृतवार्तावतरणपरिशीलने शिल्पशाला आरब्धा।
कोच्ची > छात्रेषु नूतनं दिशाबोधं जनयन् संस्कृतभाषायां वार्तावतरणे त्रिदिनात्मकशिल्पशाला चेङ्ङमनाट् सरस्वतीविद्यानिकेतन् विद्यालये समारब्धा। सम्प्रतिवार्तायाः सर्वशिक्षा अभियानस्य च संयुक्ताभिमुख्ये प्रचाल्यमानाम् इयं शिल्पशाला अाकाशवाण्याः कोच्ची निलयस्य निदेशकेन डो. बालकृष्णन् कोय्याल् वर्येण उद्घाटिता। संस्कृतभाषापठनद्वारा भारतसंस्कृतेः स्वांशीकरणं कार्यमिति बालकृष्णन् वर्येण उक्तम्।
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEjsRLzYmS0kbIzSVrlOsfn0_-MyeAyh9C-XD7cCbiov1i_-CJ5PWD43m2vS8630J6TGw76dUTs7SKSZ7cRhuoN9ugxwoUFc2TiJI4-f-r8Fu3X7S871KRWL4LFZv-Mg81arv-TX9458CvHd/s640-rw/news+logo.jpg)
![]() |
ssa logo sanskrit |
संप्रतिवार्तायाः मुख्यसंपादकः अय्यम्पुष़ा हरिकुमारः पत्रिकामधिकृत्य विशदीकृतवान्। एस् एस् ए जिल्ला कार्यक्रमाधिकारी एस् सन्तोष्कुमारः स्वागतं, पत्रिकायाः निदेशकसमित्यंगः एस् रविकुमारः कृतज्ञतां च व्याजहार।
उज्जयिन्यां सिहंस्थ-पूर्ण-कुम्भ-मेला आकाशवाण्याःप्रसारणम् अद्य।
नवदिल्ली >साम्प्रतं महाकाल-नगर्याम् उज्जयिन्यां सिहंस्थ-पूर्ण-कुम्भ-मेला प्रवर्तते। जगति भारतीय-धार्मिक-आध्यात्मिक-परम् परासु
च ऐतिहासिक-पर्वेदं सर्वेषामपि कृते शुभदं सुखदं च स्यादिति भावनया
प्रवर्तमानायाः अस्याः मेलायाः सुबहु महत्वं वर्तते इति जानन्ति विद्वान्सः
वार्ताहराः साधकाः निष्ठावन्तोsत्रभवन्तो भवन्तश्च। परश्वः अर्थात्
२०७३-विक्रम-संवत्सरस्य चैत्र-वैशाख-मासयोः पूर्णिमायां [२२-०४-२०१६]
प्रथमं शाहिस्नान-पर्व भविता।
एनमवसरम्
अभिलक्ष्य आकाशवाण्याः विदेश-प्रसारण-विभागेन {Indian Overseas Services
of All India Radio, New Delhi} विशिष्टं साक्षात्संभाषणम् अद्य सायं
प्रसार्यते। भारतीय-संस्कृत-पत्रकार-सङ् घस्य
महासचिवेन साक्षात्संभाषमाणः श्रीला.ब.शा.रा.सं.विद्यापीठस्य कुलपतिः
भा.सं.प.संघस्य उपाध्यक्षः च प्रो.रमेशकुमार-पाण्डेयः सिंहस्थ-कुम्भस्य
विस्तृतम् ऐतिहासिकं ज्यौतिषं सांस्कृतिकम् आध्यात्मिकञ्च महत्वं
ख्यापितवान्। चित्रस्थः प्रसारणाधिकारी श्री डी.थोमस् एतादृशान् अपरान्
कार्यक्रमान् प्रसारयितुं समुत्सहते इत्यस्ति सुखकरी वार्ता।"