OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, March 14, 2016

अखिल-केरळवेदप्रघोषण सम्मेलनं सम्पूर्णम् ।

कालटी > प्रञ्चम्या अखिल -केरळ-वेदप्रघोषण-सम्मेलनम् ह्यः सम्पूर्णताम् प्राप। अशीति (८० ) संख्यकाः वेदपण्डिताः पञ्चसप्तति (७५) संख्यकाः वेदविद्यार्थिनः च अस्मिन् मेलने भागभाजः अभवन्। केरलेषु विद्यमानेषु वेदविद्यापीठेषु पठन्तः छात्राः ऐते। केरलशैल्यां द्राविडशैल्यां च वेदाध्ययनं कृतवन्तः छात्राः वेदचतुष्टयात्‌ संहितां पठित्वा देवताप्रीत्यर्थं समर्पितवन्तः।
प्रभाते दशवादने श्रृङ्गेरिमठस्य शासकेन डा. वि.आर्.  गौरीशङ्कर् महोदयेन सम्मेलनम् उद्घाटनं कृतम्। सायं चतुर्वादने सम्पन्ने समादरणसभायां तैक्काट् वैदिकः केशवन् नम्पूतिरि महोदयः प्रशस्तिपत्रेण २५००० रुप्यकाणां लघुभाण्डेन च सम्मानितः। केरलस्य ऋग्वेदपण्डितेषु प्रथमगणनीयः भवति एषः। केरळे आयोज्यमानेषु यज्ञेषु एषः बहुवारम् आचर्यत्वेन स्वीकृतः आसीत्।

 पाक् अधीनेषु काश्मीरेषु चीनासैनिकानां सान्निध्यम्।

श्रीनगरम् > पाकिस्थानेन अधिनिवेशितकाश्मीरेषु चीना राष्ट्रस्य पीप्पिल् लिबरेषन् आर्मि सैनिकान् अपश्यन् इति विज्ञप्तिः। अतः सीम्नि सुरक्षा वर्धिता। नौगां सेक्टर् परिसरे चीनायाः उन्नतसैनिकोद्योगिनः दृष्टः इति च भारतीय-सैनिकैः विज्ञापितः। किन्तु नियन्त्रित रेखायां स्थानीय सौकर्यान् वर्धियितुमेव ते अगताः इति पाकिस्थानेन कृतम् 'भाष्यम्'' | गतदिने जम्मू-कश्मीरस्य पान् गोङ्‌ तटाक पर्यन्तं निलीयागतः चीनासैनिकाः इन्दो-टिबट्टन् सेनया पालायिताः आसन्।

Sunday, March 13, 2016

विश्वसांस्कृतिकोत्सवस्य शुभारंभः।

नवदिल्ली > जीवनकलायाः पञ्चत्रिंशत् (३५) तम वर्षस्य वैशिष्ट्यप्रकाशनमिव विश्वसांस्कृतिकोत्सवः नवदिल्यां यमुनानद्यास्तीरे भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोडीवर्येण समुद्घाटितः। विश्वसंस्कृतेः विपुलतायां सहस्राधिकैः नर्तकैः सङ्गीतज्ञैः सम्पूर्णयां वेदिकायां दीपप्रज्वालनं कृत्वा भाषमाणः मोडिवर्यः कलाकाराणां कुम्भमेलेयं इति अवदत्। भारतस्य सांस्कृतिकपरम्परां विश्वं अत्यत्भुतेन पश्यन्ति। जीवनकला द्वारा भारतं कीदृशम् इति लोकः ज्ञातवन्तः इति च अवदत्I श्री श्री रविशङ्करमहोदयस्य अनुग्रहभाषणं हर्षारवेण सह जनैः स्वीकृतम्। राष्ट्रान्तरसमस्यायाः परिहारः भवति जीवनकला इति जीवन कलायाः आचार्यः अवदत्। यू.ए. ई. सांस्कृतिकमन्त्री षैख् नह्यान् बिन् मुबारक् अल् नह्यान् वेदिकायां विशिष्टतया विराजमानः आसीत्। सहस्राधिकानां पण्डितानां वेद मन्त्रघोषेण मुखरितायां वेदिकायां वैदेशिकाः कलाकाराः अपि नाट्यादिकं प्रदर्शितवन्तः।

केरळ संस्कृताध्यापक फेडरेषन् - संस्कृताध्यापन-दीक्षायाम्।
कोट्टयम् > केरळसंस्कृताध्यापक फेडरेषन् नामिकायाः संस्थायाः जिल्लास्तरीय मेलनमासीत् ह्यः। मेळने प्रमुखः कार्यक्रमः अध्यापनोपकरणानां वितरणमेव आसीत्। लोकनीत्यनुसारं वेतनमधिकृत्या चर्चा एव प्रचलन्ति अन्येषाम् श्रमिकदलानां मेलने। किन्तु संस्कृताध्यापकाः अध्यापन-कौशलं वर्धयितुमुद्दिश्य बहूनि पाठनोपकराणि निर्मितानि। तानि एव अध्यापकमेलने वितरति च। आदर्शभूतानि प्रवर्तनानि कृतानि ते। कोट्टयम् कुमरनल्लूर् देवीविलासं विद्यालये आयोजिते मेलने राज्यस्तरीय आयोजकसचिवेन सनल् चन्द्रन् पुन्नाट् महाभागेन  ग्रीः01.16 Sanskrit On live नामिका चित्रमुद्रिका (DVD) युव साहितीपुरस्कारजेत्रिणे आर्याम्बिकायै दत्वा उद्घाटिता।

तेषां पाठनोपकरणानि
💿गीः .01.16 Sanskrit on live (DVD)
⭕Academic videos for UP classes. ⭕Sanskrit albums.⭕Amarakosam PDF and audio.
⭕Sanskrit Dictionaries.
⭕E-Books.
⭕Sanskrit related news & videos.
⭕Sanskrit posters.
⭕160 ayurveda related slides.
⭕Sanskrit related power  presentations. (Academic).
⭕Advertisement videos (Sanskrit).
⭕Sanskrit songs.


पदोन्नत्यै आरक्षणं नार्हताभवेत्- सर्वोच्चन्यायालयः।

नवदिल्ली > सर्वकारवृत्तिषु उन्नतस्थानं प्राप्तुम्  पट्टिकापरिगणितजाति - पट्टिकापरिगणितवर्गाणाम् विद्यमानारक्षणम् नानुवर्तनीयमिति सर्वोच्चन्यायालयः। विविधसर्वकारवृत्तिषु पट्टिकजातिवर्ग-विभागेभ्यः आनुपातिकं प्रातिनिध्यं न लभत इति परिदेवनं परिगणयन्नासीत्  न्यायालयः।

सूर्याघातेन पीड्यन्ते कर्मकराः

पालक्काट् (केरळम्) >भारतस्य विविधेषु राज्येषु सूर्यातपेन तापः वर्धितःI गतदिने  केरलस्य पालक्काट् जिल्लायां त्रयः सूर्याघातेन  दाहिताः। अतः कर्मकाराः मध्याह्ने  घण्डात्रयम् आतपात् दूरे भवितव्यम् इति स्वास्थ्यमन्त्रालयेन उद्बोधितम्।

Saturday, March 12, 2016


 उत्तरप्रदेशे वाहनदुर्घटना - सामाजिकः मृतः। 

लख्नौ> उत्तरप्रदेशराज्ये संपन्ने कार् यानदुर्घटनायां समाजवादी दलीयः नियमसभासामाजिकः द्वौ सुहृदौ च मृताः ।मन्त्रिवर्यस्य शिवपालयादवस्य पुत्रस्य विवाहानन्तरं प्रतिनिवृत्ते सति मोरादाबाद् जिल्लायां बिल्लारी मण्डलस्य प्रतिनिधिः मुहम्मद इर्फानः तस्य यानचालकः मित्रं च कालपुरीं गताः।

विजय् मल्या १८ तमे दिनाङ्के उपस्थातव्यः। 

नवदिल्ली - राष्ट्रात् पलायितः मदिराराजः विजय् मल्यः मार्च् १८ तमे दिनाङ्के  एन्फोर्स्मेन्ट् डयरक्टरेट् संस्थायाः पुरतः उपस्थातव्यः इति निर्दिष्टम्। किन्तु मया अवगूहनं न कृतम्, अन्ताराष्ट्रवणिक् इत्यतः राष्ट्रान्तरगमनं स्वाभाविकमिति मल्येन ट्विटर् माध्यमे लिखितम् ।

ए के आन्टणि , वीरेन्द्रकुमारः , सोमप्रसादः च राज्यसभासामाजिकाः भविष्यन्ति । 

अनन्तपुरी > ए के आन्टणिः एम् पि वीरेन्द्रकुमारः के सोमप्रसादः च केरलात् राज्यसभासदस्याः भविष्यन्ति। ह्यः नामनिर्देशपत्रिकासमर्पणे पूर्तीकृते पत्रिकान्तराणि न समर्पितानि। अतः मतदानविनियोगं विनैव ते त्रयः विजयिनः इति प्रख्यापयिष्यन्ते ।केरलात् त्रीणि रिक्तस्थानानि सन्ति ।
पञ्चदिनवयस्काय शिशवे 'पान्कार्ड् 'अलभत ।

पटना - बीहारराज्ये केवलं पञ्चदिनवयस्का बालिका पान् कार्डपत्रस्य स्वामिनी । पटना स्वदेशीयस्य कुमार् सजलस्य पुत्री आषी फेब्रुवरी २१ तमदिनाङ्के जनिमलभत । २६तम दिनाङ्के एव पान् कार्ड् पत्रमपि अलभत । राष्ट्रे न्यूनातिन्यूनतमे वयसि पान्कार्ड् लाभेन वैशिष्ट्यं प्राप्नोत्ययं शिशुः । जननात् परं सप्तमे दिने लब्धपत्रकः जय्पूर् स्वदेशीयः आर्यन् चौधरी आसीत् अद्यावधि इदं स्थानमलंकरोति स्म ।

Thursday, March 10, 2016

संस्कृतं विना मलयाळभाषायाः उन्नतिः न भविष्यति-संस्कृतछात्राः।


भाषापितुः जन्मगृहे सादरं संस्कृतछात्राः
मलप्पुरं (केरलम्) > मलयाळ भाषायाः पितुः तुञ्चत्त् रामानुजाचार्यस्य जन्मगृहं दृष्ट्वा  छात्राः विस्मिताः। वेङ्ङरा उपजिल्लायाः संस्कृत कौण्सिल् द्वारा आयोजिता  अध्ययनयात्रा भाषापितुः गृहदर्शनाय आसीत्। तत्र विद्यमानायां प्रदर्शिन्यां मलयाल भाषायाः कृते योगदानं कृतवतां महात्मनां चित्राणि लघु-जीवन-चरितानि च प्रदर्शितानि। प्रदर्शितानां सर्वानां महात्मनां सुचरिते ते संस्कृतपण्डिताः इति प्रमाणः दृश्यते। संस्कृतज्ञा: एव मलयालभाषाप्रवीणाः अभवन् इति प्रदर्शिनीतः ज्ञात्वा  छात्राः विस्मिताः।
भारतस्य गतिनिर्णयोपग्रहं भ्रमणपथं प्राप्तम् ।

चेन्नै > भारतस्य षष्ठं गतिनिर्णयोपग्रहं ऐ आर् एन् एस् एस् - १ एफ् भ्रमणपथं प्राप्य प्रवर्तनम् आरब्धम् । पि एस् एल् वि - सि ३२ इति विक्षेपणवाहनेन उपग्रहं लक्ष्यस्थानं नीतम् ।
विक्षेपणदौत्यस्य विजये प्रधानमन्त्री नरेन्द्रमोदी शास्त्रज्ञान् अभिनन्दितवान् ।
तमिल् नाडुराज्ये श्रीहरिक्कोट्टायां सतीष् धवान् बहिराकाशगवेषणकेन्द्रात् ह्यः अपराह्ने उपग्रहं विक्षिप्तम्। स्थलजलाकाशमार्गेभ्यः सञ्चारेभ्यः साहाय्यं प्रददाति इति गतिनिर्णयोपग्रहाणां प्रधानदौत्यम् ।

सौद्यां जंगमदूरवाणीमण्डले अपि 'निताखत् ' नियमः।

कोच्ची > सौदीराष्ट्रे जंगमदूरवाणीवाणिज्यरंगे 'निताखत्' इति स्वदेशीवत्करणानुशासनं प्रवृत्तिपथमागच्छति जंगमदूरवाणीनां विक्रयः ,  सम्यगीकरणम् इत्यादिषु मण्डलेषु पूर्णतया स्वदेशिवत्करणमेव लक्ष्यम् । षण्मासाभ्यन्तरे एतन्मण्डलस्थान् विदेशीयान् अपाकर्तुं सौदी कर्ममन्त्रालयस्य निर्देशः अस्ति । यदि अनुशासनं प्राबल्यं भविष्यति तर्हि दशसहस्रशानां विशिष्य केरलीयानां  वृत्तयः नष्टाः भविष्यन्ति । यतः जंगमदूरवाणीवाणिज्यमण्डले ९०% भारतीयाः वृत्तिं कुर्वन्तः सन्ति। तेषु अर्धसंख्याधिकाः केरलीयाः च ।
यु.ए.इ राष्ट्रे अतिवृष्टिः

दुबाय् > वर्षाकालस्य जलसमृद्धिमुत्पादयन् यू.ए.इ राष्ट्रेषु सर्वत्र वृष्टिः। अबुदाबि, दुबाय्,षार्ज नगरेषु विद्युल्लतया सह पतितः वृष्टिः महान् क्लेशः उत्पद्यत। प्रवाहः स्तगितः इत्यनेन यानानां गमनागमनः स्तंभितः। प्रातः पञ्चवादनात् पूर्वं वृष्टिरारब्धा। अत एव कार्यालयेषु विद्यालयेषु च गन्तुं जनाः क्लेशिताः



अपराधिनाम् अवगूहनं निरोद्धुं बीहार् सर्वकारः ।


पट्ना - राज्ये संसद्सामाजिकसहिताः प्रजाः अपराधं कृत्वा अवगूहनप्रवणतां निरोद्धुं तादृशानां द्रव्याणि स्वायत्तीकर्तुं नितीष् मार्  सर्वकारस्य निश्चयः फलप्राप्तिमधिगच्छति । सप्ताहद्वयाभ्यन्तरे १२ अधिकानां निष्ठुरापराधिनां कोटिशः रूप्यकाणां सम्पदः सर्वकाराधीनतां प्राप्ताः ।
नवाड् मण्डलात् सामाजिकः राबरीदेवीमन्त्रिसभायां भूतपूर्वमन्त्री च राजवल्लभः यादवः एव अन्तिमत्वेन क्रियाविधिविधेयः जातः । अपराधिनः कियन्तः प्रमुखाः भवन्तु परिरक्षा न भवन्ति इति सन्देशं दातुं नितीष् वर्यस्य सर्वकारः प्राप्तः अभवत् ।अतः संघटितापराधाश्च न्यूनीकृता इति सर्वकारवृत्तैः उक्तम् ।

भारतं विरुद्ध्य पाक् स्थानीय भीकरदलानाम् आक्रमणः वर्धितः।

नवदिल्ली> भारतं विरुद्‌ध्य पाकिस्थाने विद्यमानानां भीकर-दलानाम् आक्रमणः वर्धितः इति भारत सर्वकारः। एता दृशान् सङ्घान् निरोद्धुं  यू.एन् प्रति न्य वेदयिष्यते इति विदेशकार्य सहमन्त्रि: विके सिंहः लोकसभायाम् अवदत्‌। पाक् भीकरप्रमुखाः हाफिस् सय्यिद्, सक्कियूर् रह्मान् लख्वी प्रभृतीनां नाम उद्‌धृत्य विशदतयाआसीत् भाषणम् ।

मेत्रान् तटाक-कटमक्कुटि विवादादेशौ प्रतिनिवर्तितौ।

अनन्तपुरी>कोट्टयं जिल्लायां मेत्रान् तटाकं एरणाकुलं जिल्लायां कटमक्कुटी व्रीहीकेदारं च मृत्तिकया पूरयितुम् अनुमतिं दीयमानौ केरलसर्वकारस्य आदेशौ प्रतिनिवर्तितौ। निर्वाचने समीपमागते आदेशौ विवादाय कारणीभूतौ इत्यतः एव निराकरणस्य आधार इति मुख्यमन्त्रिणा उक्तम् ।

केरले नूतनं राजनैतिकदलं रूपवत्कृतम्।

कोच्ची > केरले जनाधिपत्यकेरलाकोण्ग्रस् इति नाम्नि नूतनं राष्ट्रियदलं रूपवत्कृतम् ।के एम् माणि वर्यस्य केरलकोण्ग्रस् --एम् दलात् बहिरागतवन्तः विमतनेतारः अस्य दलस्य रूपवत्करणे भागभागित्वं कृतवन्तः । फ्रान्सिस् जोर्ज् वर्यः अध्यक्षः भविष्यति । दलस्य रूपवत्करणसम्मेलने डो. के सि जोसफः, अड्व. आन्टणि राजुः, पि सि जोसफः इत्यादयः नेतार अपि सन्निहिताः आसन् ।

Wednesday, March 9, 2016

लघु संस्कृत-चलन-चित्राणि जायान्ते।
नीतिष् गोपिवर्यस्य द्वितीयं चलनचित्रम् अन्नदाता प्रकाश्यते अद्य सामोदम्।



अद्य सूर्यग्रहणम् । भारते भागिकतया।


नव दिल्ली> अद्य भागिकतया भारते सूर्यग्रहणं द्रष्टुं शक्यते। बुधवासरे प्रभाते भारतस्य उत्तरपूर्वभागेषु ग्रहणं द्रष्टुं शक्यते। चन्द्रग्रहणमपि भविष्यति। इन्तोनेष्यायां पसफिक्समुद्रस्य विविध भागेषु च पूर्णतया सूर्यग्रहणम् द्रष्टुं शक्यते। ४.४९ वादनतः ग्रहणस्य आरम्भः। दिल्ल्यां६.४० वादने ४ मिनिट्ट् काल दैर्घ्ये सूर्य ग्रहणं द्रष्टुं शक्यते। २०१९ तमे दिसंबर् मासे २६ दिनाङ्के एव समीपस्थं सूर्यग्रहणम्।




भविष्यनिधेः करः प्रतिनिवर्तितः।

नवदिल्ली > कर्मकराणां भविष्यनिधेःधनाहरणवेलायां  निक्षेपस्य ६०% करविधेयं कर्तुं आयव्ययपत्रकनिर्देशः केन्द्रसर्वकारेण प्रतिनिवर्तितः। निर्देशं विरुध्य कार्मिकसंघानां प्रतिषेधः आसीत्। अतः धनमन्त्रिणा अरुण् जेट्ली महाभागेन निर्देशः प्रतिनिवर्तितः I  समयेfस्मिन् राष्ट्रिय-विरमितकालधनार्जनयोजनायां (NPS) करः न भवेत् इति च तेन महाभोगन उक्तम्।

Tuesday, March 8, 2016

ऐ.एस्. विरुद्ध्य बि.५२ यु५२ युद्धविमानम्

वाषिङ्‌टण् > ऎ.एस् विरुद्‌ध्य युद्धं शक्तीकर्तुम् आणवशेषियुक्तः बि-५२ युद्धविमानानि उपयुज्य महता विस्फोटकेनआक्रमणं कर्तुं यू.एस् राष्ट्रेण निश्चितम्। एप्रिल् मासात्‌ आरभ्य आक्रमणम् आरप्स्यते। कति विमानानि आक्रमणे भागभाजः भविष्यन्ति इति तैः नोक्तम्।

उच्चन्यायालयानां न्यायाधिपानां नियुक्तेः मानदण्डः कौशलं, सत्यनिष्ठता च भवितव्यम्।

नवदिल्ली > राष्ट्रेषु उच्चन्यायालयानां नियुक्तेः मानदण्डः कौशलं सत्यनिष्ठता च परिगण्य भवितव्यम् इति केन्द्रसर्वकारः। सेवनकालप्रौढतां परिगण्य एव नियुक्तिः  मा भवतु इति केन्द्रविदेशकार्यमन्त्रिणी सुषमा स्वराजस्य नेतृत्वे आयोज्यमाना केन्द्रीयमन्त्रिसभा-समित्या समर्पितायां लघुनिदेशपत्रिकायां व्यक्तीक्रियते। न्यायाधिप-नियुक्तिमधिकृत्य अभिमतानि प्रकाशयितुम् उच्चतर न्यायालयस्य न्यायाधिपेन केन्द्रसर्वकारः आदिष्टः आसीत्।

Monday, March 7, 2016

१० भीकराः भारते । महती जाग्रता ।

नवदिल्ली>पाकिस्तानात् १० भीकराः भारतं प्राप्ताः इति गुप्तान्वेषणसूचनामनुसृत्य गुजरात् राज्ये दिल्यां च महान् जाग्रतानिर्देशः कृतः ।
  लष्कर् ई तोय्बा , जय्षे मुहम्मद् भीकराः कच् प्रविश्याद्वारा गुजरात् राज्यं ततः दिल्लीं च प्रविष्टाः इति सूचनां पाकिस्तानस्य सुरक्षोपदेष्टा निवृत्तः लफ्. जनरल्  नसीर् खान् जनूजावर्य एव भारतस्य देशीयसुरक्षोपदेष्टारं अजित् डोवलं प्रति विज्ञापितवान् । कच्च् प्रदेशे कोटेश्वरसमुद्रतीरे उपेक्षिता कापि नौका तीर सुरक्षासैन्यस्य दृष्टिमागता आसीत्। भारते शिवरात्र्याघोषस्य कालः इत्यतः प्राक्सूचना अतीव गौरवं सम्पद्यते ।

कलाभवन् मणिः दिवंगतः।

कोच्ची> केरळस्य सुप्रसिद्धः चलच्चित्रनटः कलाभवन् मणिः ( ४५) कोच्चीनगरस्थे आतुरालये दिवंगतः। यकृत्संबन्धरोगस्य चिकित्सायामासीत्।
हास्यनटरूपेण आरभ्य स्वभावनटः नायकः इत्यादिवेषैः अभिवृद्धिं प्राप्य प्रतिनायकवेषपर्यन्तं ह्रस्वकालेन मलयालं विना तमिल् तेलुगू भाषाचित्रेषु अपि सः स्वनटनकौशलं प्रादर्शयत् । ग्रामीणगीतकानि स्वकीयशैल्या अवतार्य सार्वजनीनं कर्तुं तस्य अनन्यसाधारणं पाटवमासीत्।
कलाभवन् मणिवर्यस्य आकस्मिकमरणं कैरळीचलच्चित्रलोकस्य महान् नष्टः भवति।

Sunday, March 6, 2016

अद्य एकं क्षुद्रग्रहं भूमेः समीपतः गमिष्यति। 

वाषिङ्टण् > २०१३ टि. एक्स् ६८ इति क्षुद्रग्रहः एव भूदर्शनं कृत्वा गम्यमानं ग्रहं । २४००० कि.मी मितपर्यन्तेन दूरेन गम्यमानं ग्रहं भीतिः कदापि न उद्पाद्यते इति नासायाः गवेषकैः उक्तम्।

सर्वशिक्षा अभियानस्य केरलराज्यस्तरीय श्रेष्ठोत्सव चित्राणि
ऐन्द्रजालस्य साहाय्येन वेज्ञानिक-गणितशास्त्राध्ययनाय नूतना पद्धतिः।

अनन्तपुरी > केरळेषु सर्वशिक्षा अभियानेन वैज्ञानिक-गणितशास्त्रयोः अध्ययनाय ऐन्द्रजालस्य साह्येन नूतना पद्धतिः आविष्कृता। केरळ माजिक् अक्काडमि संस्थायाः सहकारितया एव इयं योजनायाः आविष्कारः। ऐन्द्रजालिकेन गोपिनाथ मुतुकाट् महाभागेन सर्वशिक्षा अभियानस्य श्रेष्ठोत्सवस्य सायन्तन कार्यक्रमेषु प्रख्यापिता। ह्यः रात्रौ अध्यापक-छत्रानां पुरतः ऐद्रजालप्रदर्शनम् कुर्वन्नासीत्‌ अयं महाभागः। सर्वशिक्षा अभियानस्य राज्यस्तरीय-योजनायाः निदेशकः डा. ई.पि.मोहन् दासः, राज्यस्तरीय-कार्याक्रम-निदेशकाः जिल्लास्तरीय निदेशकाः च अस्मिन् कार्यक्रमे भागभाजः आसन्।


भविष्यनिधिकरनिर्देशं निराकुर्यात्।

नवदिल्ली - कर्मकराणां भविष्यनिधेः प्रत्याहरणार्थं  करः दातव्यः इति आयकरनिर्देशं निराकर्तुं प्रधानमन्त्री नरेन्द्रमोदी वित्तमन्त्रिणं अरुण् जय्ट् लि वर्यं प्रति आदिशत् । राष्ट्रे सर्वत्र विविधकर्मकरसंघटनेभ्यः उन्नीतेन महता प्रतिषेधेनैव मोदीवर्यस्य निर्देशः जातः।


विंशतिवर्षाभ्यन्तरे बृहत्तर उपरोधेन ऐक्यराष्ट्रसभा।

न्यूयोर्क् >उत्तरकोरियायाः उपरि ऐक्यराष्ट्रसभया सुशक्तः उपरोधःप्रख्यापितः।विंशतिवर्षाभ्यन्तरे प्रथमतया एव ईदृशः एकः उपरोधः।आणवपरीक्षणे ऐक्यराष्ट्रसभयाः निर्देशाः न पालिताः इत्यस्मातेव उपरोधः कल्पितः। सभायाः अनुमतिं विना चतुर्थ अग्निबाणः विक्षेपितः उत्तरकोरिया इत्येतत् सभां प्रकोपितः।
अनेन निरोधनेन कोरियायाः विभिन्न मेखलासु अनेकाः समस्या भविष्यन्ति।  क्रयविक्रये कोरियायाः अवसराः न्यूनीभवति।
उत्तरकोरियायः वस्तूनि सुशक्तपरिशोधनया एव विक्रयणाय आपणेषु प्राप्य्सति।

Saturday, March 5, 2016

सर्वशिक्षा अभियानस्यश्रेष्ठोत्सवस्य समारम्भः

अनन्तपुरी >सर्वशिक्षा अभियानस्य केरळराज्यस्तरीय श्रोष्ठोत्सवस्य अद्य  शुभारम्भः। अनन्तपुर्याम्  एस्.एम्.वि उच्चतर-विद्यालये केरळराज्यस्य शिक्षामन्त्रिणा अब्दुरब् महोदयेन उत्सवोfयम् उद्‌घाटितः। उत्सवेfस्मिन् डा.ए सम्पत्त् (MP)वर्यः मुख्यभाषणं कृतवान्। आरोग्य-देवस्वं विभागयोः मन्त्रिणा शिवकुमारेण अध्यक्षभाषणं कृतम्। केरळस्य सार्वजनिक विद्यालयानां श्रेष्ठतायाः प्रदर्शनमेव दिनद्वय कार्यक्रमेषु मुख्यतमम्। एतदर्थं सज्जीकृते वेदिकाचतुष्टये छात्राणां वैशिष्ट्यप्रदर्शनानि प्रचलन्ति। इतर विद्यालयापेक्षया सार्वजनिक-विद्यालयेषु औत्कृष्ट्यम् अधिकमस्ति इति उत्सवोfयं प्रमाणम्।



निर्वाचनकाहलम् अध्वनत्।

दिल्ली > भारते चतुर्षु राज्येषु एकस्मिन् केन्द्रशासनप्रदेशेषु च जनविधेः दिनाङ्काः प्रख्यापिताः । केरलं तमिल् नाट् पश्चिमबंगाल् आसाम् इत्येतेषु राज्येषु पोण्टिच्चेरि केन्द्रशासनप्रदेशे च ८२५ मण्डलेषु निर्वाचनं भविष्यति । असमराज्ये एप्रिल् ४, ११ दिनाङ्कयोः सोपानद्वयेन निर्वाचनं भविष्यति ।बंगालराज्ये एप्रिल् ४ आरभ्य मेय् ५ पर्यन्तं सोपानषट्केन ,केरले मेय् १६ दिनाङ्के एकेनैव सोपानेन च निर्वाचनं भविष्यति ।

  विद्यालयेषु २२० अध्ययनदिनानि निश्चयेन भावितव्यानि उच्चन्यायालयः।

कोच्ची > केरले विद्यालयेषु आगामि अध्ययनवर्षादारभ्य २२०  साध्यायदिनानि लभ्यमानानि भवितव्यानि इति केरल उच्चन्यायालयेन आदिष्टम्।
केरलस्य शैक्षिकव्यवस्थायां तथा केन्द्रीय विद्याभ्यासाधिकारनियमे च निष्कर्षा अस्ति। तदनुसृत्य आगामी वर्षादारभ्य  मेला - मूल्यनिर्णयादिषु क्रमीकरणम् आवश्यकमिति  न्यायाधीशेन विनोदचन्द्रेण आदिष्टम्।

संस्कृतकृतीनां संरक्षणाय श्रीशङ्कराचार्य विश्वविद्यालये नूतनपद्धतिः। 


कालटी >शैक्षणिकश्रेष्ठतायै अग्रिमस्थानं दत्वा संस्कृतभाषाविकासाय विविधाः पद्धत्यः आसूत्रणं क्रियन्ते कालटी श्री शङ्कराचार्य संस्कृतविश्वविद्यालयेन । प्रचाल्यमानवर्षस्य आयव्ययपत्रके भाषापोषणाय बह्व्यः पद्धत्यः सन्ति। 
केरलेषु विद्यमानानां संस्कृतकृतीनां संरक्षणाय * ई डाटा बेङ्क् * रूपवत्करिष्यति । एतदर्थम् आयव्ययपत्रके धनव्यवस्था अस्ति । 
    संस्कृतपोषणाय निर्दिष्टमानाः इतराः पद्धत्यः । प्राचीनसंस्कृतग्रन्थान्  छात्राणां  सामान्यजनानां च उपयोगार्थं  व्ववस्थां  करिष्यति । श्रेष्ठकृतीनां प्रलेखनं कृत्वा संरक्षिष्यति । विद्योचितकर्ममण्डलस्य कार्यक्षमतां दृढीकर्तुं तथा उत्कर्षयितुं च निरीक्षणसमितिं रूपवत्करिष्यति । विश्वविद्यालयस्य प्रादेशिककेन्द्राणि श्रेष्ठत्वप्राप्तिम् अवाप्स्यन्ति। तिरुवनन्तपुरं , तिरूर् , पय्यन्नूर् प्रादेशिककेन्द्राणि गवेषणकेन्द्ररूपेण उद्धरिष्यति । 
  संस्कृतभाषाव्यापनाय प्रादेशिकशासनसमितीनां सहकरणेन संस्कृतपठनपद्धतिः आयव्यपत्रके निर्दिष्टा अस्ति । पन्मना, एट्टुमानूर् केन्द्रयोः संस्कृतं जनरल्  संस्कृतं साहित्यं बिरुदपाठ्यपद्धतीसहिताः नूतनाः पाठ्यपद्धत्यः निर्दिष्टाः । इदानीं प्रचाल्यमानानि निर्माणप्रवर्तनानि पूर्तीकरिष्यन्ति। 
  १८३.५८ कोटिरूप्यकाणाम् आयः १९६.५० कोटिरूप्यकाणां व्ययः १२.९२ कोटिरूप्यकाणां न्यूनतां च प्रदर्शकं पत्रकं आर्थिकसमित्यध्यक्षः डो एड्वेर्ड् एडेष़त् वर्येण अवतारितम् । विश्वविद्यालयस्य उपकुलपतिः डो. एम् सि दिलीप् कुमारः अध्यक्षः अभवत्।

 मार्टिन् क्रो दिवंगतः

वेल्लिङ्टण् - लोकोत्तरक्रिकट्  क्रीडकेषु अन्यतमः न्यूसिलान्ट् राष्ट्रस्य भूतपूर्वः क्रिकट्नायकः मार्टिन् क्रो वर्यः ( ५३ ) अर्बुदरोगबाधया निर्यातः। दृक्साक्षिविवरणकर्ता  क्रीडालेखकः उपदेशकः इत्यादिरूपेण स्वस्य प्रागत्भ्यं प्रदर्शितवान्। क्रिकट्क्रीडा समयहन्त्री इत्याक्षेपं परिहर्तुं २० - २० इत्याशयः अनेनैव आविष्कृतः। स्वराष्ट्राय क्रीडितासु ७७
निकषस्पर्धासु १७ शतकानि १८ अर्धशतकानि, तथा १४३ एकदिनेषु ४ शतकानि ३४ अर्धशतकानि च तस्य क्रिकेट जीवने भूषणानि अभवन् ।


 प्रवहद्विश्वविद्यालयः कोच्चीतः निर्गतः। 

कोच्ची >छात्रैः अध्यापकैश्च सहितं १००० परं जनैः अमेरिक्कातः शनिवासरे कोच्चीं प्राप्ता एम् वि वेल्ड् ओडीसी इति आडम्बरमहानौका प्रतिनिवृत्ता।
जनवरी ७ तमे दिने अमेरिक्कायां सान्डियागो नौकानिलयात् प्रस्थिता ओडीसी जप्पान् चैना  वियट्नाम् सिङ्कपूर् बर्मा इत्येषां राष्ट्राणां सन्दर्शनानन्तपमेव भारते कोच्चीं प्राप्ता। यात्रिकाः अत्र  विविधराज्येषु सन्दर्शनं कृत्वा  तत्रस्थेषु सामाजिकाचारादिषु अवबोधं लब्धवन्तः।

Friday, March 4, 2016

 भारतस्य रेल्यानविभागस्य अन्तर्जालः नाशितः।

नवदेहली> भारतस्य  अतिशक्तस्य ऱेल्यानविभागस्य रेयिल्नेट्  मैक्रोसायिट् इति विख्यतस्य अन्तर्जालस्यैव भग्नः आदङ्गवादिभिः कृतः।जिगाद्मध्यॆ भागभागित्वं ऊढुं तैः सन्देशमपि तत्र स्थापितमासीत्।
अमेररि्कायाः तथा  सख्यकक्षीणां  च पराजयाय  साहाय्यमपि ते प्रार्थिताः।सर्वकारस्याधीने विद्यमानस्यैकस्य अन्तर्जालस्य नाशः अल्खायिदादलैः प्रथमतया  क्रीयते।

बङ्गुलूरु नगरे कर्षित्रत्वेन ( tractor)कर्षकानां भिन्नान्दोलनम्।

बाङ्गलूरु>बाङ्गलूरु नगरे नूतनान्तोलनशैल्या कृषकाः। कर्षित्वेन बाङ्गुलूरु नगरे केचन कृषकाः ह्यः मार्गान् स्तम्बिधाः। जलक्षामस्य स्वागत परिहारः आवश्यकः इत्युक्त्वा कोलार्,चिक्बल्लापूर् मण्डलेभ्यः आगताः शताधिकाः कृषकाः स्व यानेन कर्षित्रत्वेन प्रधानमार्गान् निश्चलिताः। यानानि नगरात् बहिर्स्थापयितुं आरक्षकैः कृते परिश्रमे कोलाहलः जातः। कृषकाणां नूतनान्तोलनम् अद्य बहुचर्चमाणः विषयः। कोलार् चिक्बेल्लापूर् इत्यनयोः मण्डलयोः जलक्षामस्य उचित परिहारः शीघ्रमेव भवेत् इति कथ्यमानाः शताधिकाः कृषकाः कार्यक्रमे अस्मिन् भागम् ऊढवन्तः।

जे एन् यू तथा छात्रसमाजं प्रति उच्चन्यायालयस्य विमर्शः।

नवदिल्ली - जेएन् यू छात्रनेतुः कनय्यकुमारस्य प्रतिभूत्यनुमति आदेशपत्रे सर्वकलाशालां तथा छात्रसमूहं प्रति उच्चन्यायालयस्य विमर्शः। जे एन् यू अङ्कणे श्रुतानां देशविरुद्धघोषणानाम् आधारभूतानां चिन्तां कार्यक्रमे भागभाक्तृृणां मनोभावं च मौलिकाधिकारस्याधारे संरक्षितुं  न शक्यते इति न्यायालयेन व्यक्तीकृतम्। कलालयाङ्कणेषु संवर्धमाने देशविरुद्धमनोभावे  न्याय.प्रतिभाराणी वर्यायाः अध्यक्षत्वेन न्यायासनेन आशङ्का प्रकाशिता ।

Thursday, March 3, 2016


 कार्षिक - ग्रामीण आधारमण्डलेभ्यः आयव्ययपत्रकम्

 नवदिल्ली> कार्षिक ग्रामीणमण्डलेषु आधारविकासाय प्राधान्यं दीयमानं भारतस्य आयव्ययपत्रकं वित्तमन्त्रिणा अरुण् जय्ट् ली वर्येण लोकसभायाम् अवतारितम्। कार्षिकमण्डलस्य प्रगत्यर्थं कर्षकक्षेमाय च गतवर्षमपेक्ष्य द्विगुणितभागः विहितः। पञ्चसंवत्सरैः कृषकानाम् आयं द्विगुणीकर्तुम् आयव्ययपत्रके विभावनमस्ति। किन्तु सामान्यानां करदायकानाम् आश्वासः न लभते । आयकरस्य अनुपाते अपहारे च परिष्करणं प्रतीक्षितं चेदपि नाभवत्।

केरले कण्णूर् विमाननिलये परीक्षण उड्डयनं संवृत्तम्।

कण्णूर् > केरले कण्णूर् अन्ताराष्ट्र विमाननिलये  प्रथमं परीक्षण उड्डयनं सम्पन्नम्। व्योमसेनायाः डोणियर् द्वे द्वे अष्ट इति विमानं उड्डयन परीक्षणमकरोत् । यात्राविमानं सप्तंबर् मासे कण्णूर् निलये अवतरिष्यति इति सम्मेलनम् उद्घाटनं कुर्वन् मुख्यमन्त्री उम्मन् चाण्टी अवदत्।

तेलङ्कानसीमायां ८ मावोवादिनः हताः।

हैदराबाद् - तेलङ्कान- छत्तीस्गड् सीमायां वनप्रदेशे ८ मावोवादिनः सविशेषदौत्यसेनया गोलिकाशस्त्रेण हताः । निहतेषु ५ महिला अन्तर्भवन्ति। तेलङ्कानायां खम्मं जिल्लासमीपं चिन्तवाड कानने एव इयं घटना ।
कानने मावोवादिनः सम्मिलन्तीति गुप्तसूचनामनुसृत्य आरक्षकविभागस्य ग्रेहण्ट् नामिका मावोविरुद्धसेना काननं प्राप्य संघट्टनम् अकरोत्।

 कनय्याकुमारस्य प्रतिभूतिः लब्धा।

नवदिल्ली - देशद्रोहारोपणविधेयः जे एम् यू छात्रनेता कनय्यकुमारः दिल्ली उच्चन्यायालयात् षण्मासानां प्रतिभूतिं लब्धवान्।फेब्रुवरि १२ तमदिनाङ्के गृहीतस्य तस्य १९ दिनानन्तरमेव प्रतिभूतिः लब्धः । अन्वेषणसमाप्तिं यावत् देशविरुद्धसदृशप्रवृत्तिषु प्रत्यक्षतया परोक्षतया वा भागभागित्वं न कर्तव्यमिति न्यायालयेन आदिष्टम्।

अफ्गानिस्थाने भारतीय स्थानपति कार्यालयं प्रति आक्रमणं- ६ हताः।

काबूल् - अफ्गानिस्तान् देशस्य जलालाबाद् प्रविश्यायां  भारतस्य स्थानपतिकार्यालयं प्रति संवृत्ते भीकराक्रमणे षट् जनाः निहताः । तेषु चत्वारः भीकराः, ये सुरक्षासेनया हताः ।
स्फोटकवस्तुसंपन्नं कार् यानं स्थानपतिकार्यालयाङ्कणं प्रवेशयितुमुद्यमे स्फोटनं प्रवृत्तमासीत्। कार्यालयस्य वातायनानि द्वाराणि च स्फोटने विशीर्णानि।
मृतेषु एकः रक्षिपुरुषः अपरा तद्देशवासिनी महिला च  भवति ।आक्रमणस्य उत्तरदायित्वं केनापि न स्वीकृतम् ।

 सुमात्रद्वीपे महद्भूचलनं - सूनामी विज्ञप्तिः निराकृता। 

जकार्ता - इन्डोनेष्या राष्ट्रे सुमात्रा द्वीपे रिक्टर् मापिन्यां ७.८ अङ्कितं भूचलनं ह्यः सञ्जातम् । सुनामीजाग्रतानिर्देशः दत्तः अपि परं निराकृतः।
पडाङ् नगरात् ८०८ कि मी दक्षिणपश्चिमपार्श्वे २४ कि मी अगाधे एव भूकम्पनस्य प्रभवकेन्द्रम्। नाशनष्टानि अधिकृत्य सूचनाः व्यक्ततया न लब्धाः ।

Wednesday, March 2, 2016

विश्वस्य बृहदाकारकं व्यापारनगरं दुबाय् नगरे।

दुबाय् > दुबाय् नगरस्य कृते नूतना बृहत्तरा पद्वतिः आविष्कृता अस्ति। बृहदाकारकं निखिल-व्यापार-नगरम्। यू.ए.ई उपराष्ट्रपतिः, प्रधानमन्त्री तथा शासकः चअयं षेक् मुहम्मद् बिन् राषिद् अल्मक्त्तुं वर्येण पद्धतिः प्रख्यापिता।

पञ्चाशदधिक - पञ्चशत- लक्षं चतुरश्रपदे निर्मीयमानस्य नगरस्य त्रिंशत् ३० बिल्यन् दिर्हं व्ययः प्रतीक्ष्यते । दशवर्षाभ्यन्तरेण नगरनिर्मितिः भविष्यति। चतुर्भ्यः बृहत् भूखण्डेभ्यः पञ्चदशसहस्रं वणिज: अत्र भवेयुः। भारतीयानामपि अत्र अवसरः अस्ति। न केवलं मृत्तैलेन राष्ट्रपुरोगतिः शाक्यते। अतः आयः वर्धयितुं एतादृशः नूतनाविष्कारः अनिवार्यः इति हेल्सैल् सिट्टिं अवतार्य षैक्‌ मुहम्मदेन उक्तम्।

भविष्यनिधि आहरणे करः।, आदेशः पुनः परिशुध्यते। 

नवदिल्ली > कर्मकराणां भविष्यनिधेः धनाहरणवेलायां  निक्षेपस्य ६०% करविधेयं कर्तुं आयव्ययपत्रकनिर्देशः केन्द्रसर्वकारेण पुनःपरिशुध्यते। निर्देशं विरुध्य कार्मिकसंघानां प्रतिषेधः अजायत।इदानीँ भविष्यनिध्याहरणे कोपि करः न क्रियते। आयव्ययपत्रकनिर्देशं विरुध्य भारते सर्वत्र प्रक्षोभासूत्रणानि सम्पद्यन्ते।

कनय्यां विरुध्य दृश्यानि व्याजानि।

 नवदिल्ली > देशद्रोहापराधेन गृहीतं जे एन् यू छात्रनेतारं कनय्याकुमारं विरुध्य समर्पितेषु चलनदृश्येषु दृश्यद्वयं कृत्रिमेण निर्मितमिति  फोरन्सिक् आवेदनपत्रं बहिरागतम्। कनय्याकुमारस्य प्रतिभूति वि मुक्ति याचिकाश्रवणम् अद्य संपद्यते।
देशद्रोहापराधेन गृहीतौ उमर् खालिद् अनिर्बन् भट्टाचार्यौ १४ दिवसीयकारागारवासाय विहितौ ।

Tuesday, March 1, 2016

मधुमक्षिकाः चित्रशलभाश्च कुलक्षयभीत्याम्।

वाषिङ्टण् - सस्येषु परागवितरणं कुर्वन्तः  वनमधुपाः चित्रशलभाश्च वंशना शभीतिम् अभिमुखीकुर्वन्तीति ऐक्यराष्ट्रसभायाः शास्त्रपठनम् ।एतेषां प्राणिनां संरक्षणाय यत्किमपि न क्रियते चेत् मनुजानां भक्ष्यव्यवस्थां बाधयिष्यते इति विज्ञप्तिः। प्रतिवत्सरं लोकं सर्वतः खाद्यविभवानामुत्पादनाय प्रमुखं सोपानं भवति २०००० परं षड्पदानां परागरेणुवितरणम्। तेषु मधुमक्षिकाः चित्रशलभाश्च ४०% परिमितं कुलनाशभीतिं सम्मुखीकुर्वन्ति। किन्तु लघुपक्षिणां जतुकानां च स्थितिः ईषद्वरः भवति।
 कृषिरीतिषु संजातं परिवर्तनं कीटनाशिनीनामुपयोगः तृण-वनप्रदेशानां नशीकरणमित्यादयः षड्पदानां कुलनाशाय कारणमिति निर्णीतम्।



ओस्कार् पुरस्कारः- स्पोट् लैट् उत्तमचित्रम्, डियोप्रियो अभिनेता, ब्रि लारसण् अभिने'त्री।

लोस् आञ्चलस् > 88 तमः ओस्कार पुरस्काराणि प्रख्यापितः। टोम् मेकारत्तिना आविष्कृतं  ' स्पोट् लैट् ' उत्तम चित्रं भवति। आराधकैः प्रतीक्षमाण इव ' द रवनन्टि ' चित्रस्य प्रकटनाय लियनाडो डिकाप्रिय वर्येण  उत्तम अभिनेतुः स्थानं प्राप्तः।  ब्री लारसण् उत्तम अभिनेत्री च।
द रवरन्ट्  इति चित्रस्य संविधानेन आलजान् ट्रो   इनारित्तु संविधानकार्ये उन्नतस्थानं आवहन्ति। षट् पुरस्काराणि प्राप्य ' माड् माक्स् ' फ्यूरि रोट् च पुरस्कारपटिकायाम् अग्रिमस्थानं वहतः।  उत्तम संभाषणलेखनाय स्पोट् लैट् ( जोष् सिड़्ड़र् , टोम् मक्कारत्ति) अवलंबित संभाषणलेखनविभागे
द बिग् षोट्, ( चाल्स् रान्डोप्, आदं मके ) च पुरस्कृतौ।
मारक् रयलनस् ( ब्रिड्ज् ओफ् स्पैस् ) उत्तम सह अभिनेता , अलीषिय वाक्कान्डर्  ( द डानिष् गेल् ) उत्तमा सहाभिनेत्री च ।  अलीषयायाः प्रथम ओस्कार् पुरस्कारः भवति एतत्। भारतीयः आसिफ् कपाटिया पुनः जयिंस् गेरीस् येन च निर्मितौ ' एमि ' इति नामकं  डोक्युमेन्ट्रि चित्रम् उत्तम पुरस्कारं प्राप्तवान्। ' एमि 'नामिका गायिकायाः जीवनचरितं भवति अस्य प्रमेयः।