वाषिङ्टण् >वायुमलिनीकरणेन प्रतिवर्षम् आगोलतले 5.5 दशलक्षाधिकाः जनाः मृताः। तेषु 55%जनाःभारतीयाः भवन्ति इति गवेषकैः सूचितः।
आगामि दशकद्वयानां वर्षाणां मध्ये वायुमलिनीकरणं नियन्त्रणविधेयः भवितव्यम् । नोचेत् मलिनीकरणेन मरणसंख्या इतोप्यधिकं भविष्यति इति गवेषकैः सूच्यन्ते। भारतं, चैना, यु एस्, कानडा आदीनां राष्ट्राणां गवेषकाः अनुसन्धाने भागभाजः अभवन्।
व्यवसायशालाभ्यः, यानेभ्यः जायमानया वातकप्रसारणेन परिस्थितिः मलिनं भविष्यति । किन्तु भारते पचनार्थम् इन्धनोपयोगेन मलिनीकरणं भविष्यति। चैनाराष्ट्रे तु शिला- इन्धनानां(Charcoal) उपयोगेन वायुः प्रदूष्यते।
एरणाकुलम् > रक्तफलमेव षैलजायाः वटिकायाः तारम् । गृहवाटिकायां मासत्रयेण शतंकिलोमितं रक्तफलं अनया गृहण्या उत्पाद्यते । चेरायी माडत्तिड़्कल् षैलजा राजेशस्य शाकोद्यानं मुनंबं ग्रामस्य मातृकाशाकोद्यनमेव। जैवोर्वरकमुपयुज्य गृहस्योपरि, शकोद्यानं निर्मितम्। न केवलं रक्तफलं किन्तु कारवेलम्, भेण्डः, गृजानकं, कोलीफ्लवर्, आद्रकम्, सूरणः आदीनां अपि च विविधानां मरिचानां शेखरः चअत्र दृष्टुं शक्यते। जैवोर्वरकेन निर्मितानां शाकानाम् उपयोगेन मनसि सन्तोषः जायते इति षैलजा वदन्ति । 2014 तमे, 15 तमे च वर्षे उत्तमकृषकपुरस्कारदानेन आद्रिता भवति षैलजा।
नवदिल्ली - राष्ट्रे गतैकवर्षाभ्यन्तरे २००० कोटिरूप्यकाणां व्याजमुद्रितरुप्यकाणि प्राप्ता इति भारतीय रिसर्व् बान्क्।१००० रूप्यकाणां चीका एव प्राप्ताः। अतः 2AQ, 8AC धारावाहिकसंख्यानां चीकाः न विनिमययोग्याः इति आरक्षकवित्तकोषाधिकृतैः आदिष्टम्।
अनन्तपुरं - भारतराज्यसभायां केरलात् जायमानेषु त्रिषु रिक्तस्थानेषु एकैके स्थाने कोण्ग्रस् दलं जनतादलं(यू) सिपिएम् दलं च स्पर्धिष्यते।
कोच्ची - ट्राफिक् इति एकेनैव चलच्चित्रेण मलयालचलच्चित्रमण्डलस्य दिशानिर्णयं कृतवान् प्रसिद्धः निदेशकः राजेष् पिल्लै दिवंगतः। यकृत्संबन्धरोगेण कोच्ची आतुरालये आसीत्तस्यान्त्यः।