हर्दिक् पटेलस्य नेतृत्वे प्रचालिते प्रक्षोभे सम्पन्ने द्रव्यनाशे न्यायालयेन आशङ्का उल्लेखिता।
OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
marquee
Thursday, February 25, 2016
हर्दिक् पटेलस्य नेतृत्वे प्रचालिते प्रक्षोभे सम्पन्ने द्रव्यनाशे न्यायालयेन आशङ्का उल्लेखिता।
Wednesday, February 24, 2016
चेन्नै > राज्ये दश विपक्षसामाजिकाः त्यागपत्रं समर्प्य जयललितायाः ए ऐ ए डि एम् के दलेन सह युक्तवन्तः। विजयकान्तस्य डिएंडिके दलात् ८ सामाजिकानां त्यागपत्रसमर्पणात् तस्य विपक्षनेतृस्थानं विनष्टम्। तान् विना पुतिय तमिष़कं पिएंके दलाभ्याम् एकैकः अपि शासनपक्षे युक्तः।
कस्यापि दलस्य विपक्षनेतृस्थानाय अर्हता नास्ति इदानीम्।
एकस्मै रेल्यानाय नवषष्टि वर्षस्य प्रतीक्षा।
नवदिल्ली > भारतं स्वतन्त्रतां प्राप्य नवषष्टि वर्षाणि अतीतानि। किन्तु आसां राज्ये विद्यमान बंग्लादेश् राष्ट्रस्य सीमाप्रान्तेषु वासमानेभ्यः जनेभ्यः ऎदंप्राथम्येन ह्यः नूतनमेकं रेल्यानम् प्राप्नोत्। सिल्च्चर् - नवदेहली-पूर्वोत्तर-सम्पर्ककान्ति एक्स्प्रेस इति नाम्ना प्रथितं रेल्यानम् रेल्यानविभागस्य मन्त्रीणा श्री सुरेष्प्रभुणा स्वस्य इच्छया,प्रयत्नेन च सफलीकृतः। रेल्यानमिदं रेल्यानमन्त्रालयस्य चरित्रे सुवर्णाक्षरैः रेखयति एव।
कचार् इति कथ्यमान भारतस्य सीमामण्डलात् राष्ट्रस्य राजधानीं नवदेहलीं प्राप्तुं एतावता रेल्यानस्य सेवनं नासीत्। प्रदेशोfयं प्रसिद्धः प्रधानश्चास्ति इति आश्चर्य सत्य विषयः त्रिपुरा,मणिप्पूर्,मिसोरां,एतेषां त्रयाणां राज्यानां प्रवेशनमार्गः भवति एषः प्रदेशः। स्वतन्त्रतान्तोलने एतस्मात् प्रदेशात् बहूनां भागभागित्वमासीदिति श्रद्धेयः विषयः। तथापि कस्मात् एतावत्कालं रेल्यानस्य अभाव इति प्रश्ने सति सर्वे मौनं भजन्ति।
ह्यः सिल्च्चल् रेल्याननिस्थानकात् केन्द्रमन्त्रिणा सुरेष्प्रभुणा यानस्यास्य प्रथमयात्रायै हरितपताकां प्रदर्श्य अनुमतिं अयच्छत।
२०२० तमे वर्षे भारतस्य पूर्वोत्तर राज्येभ्यः नवदेहल्यै रेल्यानानां यात्रा आरभ्यते इति प्रभुणा स्पष्टं सूचितम्। २०१७-१९ वर्षेभ्यः आसां, मणिप्पूर्, अरुणाचल्प्रदेश्,त्रिपुरा राज्येभ्यः बोड्गेज् रेल् सर्क्यूट् भविष्यति इत्यपि तेन प्रख्यापितम्।
भारते रेल्यानविभागस्य विकसनस्य प्रत्यक्षोदाहरणमेव एतत्। एते निर्णयाः भारतीय रेल्यानविभागस्य मकुटे सुवर्णाक्षरत्वेन रेखयति।
वाषिड़्टण् > अत्याधुनीक डिजिट्टल् छायाग्रहण्या सह रष्यायाः विमानं यु.एस् राष्ट्रस्य उपरि उड्डयितुम् अनुज्ञां प्राप्तुं श्रमं करिष्यति। चतुस्त्रिंशत् (३४)राष्ट्रेण संयुक्ततया हस्ताक्षरं कृतं भवति "सार्वजनिक -आकाशसन्धिं " रष्या- यु एस् राष्ट्रयोः भागभागित्वेन भवतः। किन्तु निरीक्षणविमानडयनाय रष्याराष्ट्रं प्रति अनुमतिं ददाति चेत् यु.एस् राष्ट्रस्य रहस्यनि ज्ञातुम् उपकारकं भवेत् इति यु.एस् राष्ट्रस्य रहस्यान्वेषणवृन्तेन शासनाधिकारिण: निर्देशं दत्तः। ये राष्ट्राः सन्धौ हस्ताक्षरं कृतवन्तः तेषां राष्ट्स्योपरि , आयुधं विना डयनाय, उपकारकाणि विज्ञापनानि दानाय च अनुमति: अनया आकाशसन्धिना लब्धः। किन्तु रष्याराष्ट्रः नूतनसाड़्केतिकविद्यया तेषां स्वार्थे प्रयोगं करिष्यति इत्यनेन विरुद्धफलप्राप्तिः एव भविष्यतीति यु.एस् रहस्यविभागस्य शड़्का ।
Tuesday, February 23, 2016
नवदिल्ली > पौराणिक-विज्ञान-अध्ययनाय केन्द्रसर्वकारस्य शैक्षिकसंस्थासु प्रत्येकविभागः आरभते। शैक्षिक मन्त्रालयेन नियुक्तः एन् . गोपालस्वामी ऐ.ए.एस् वर्यस्य अध्यक्षत्वेन आसीनः समित्या एव निर्दिष्टः।
भुवपूर्व प्रधानमन्त्रिणा ए.बी वाज् पेयी महोदयेन आरब्धा पद्धतिरासीदियम् ।
संस्कृत भाषायाः संवर्धनमुद्दिश्य दशवर्षाणां कृते इदानीम् आयोजितः अस्ति ।
विश्वविद्यालयेषु ऐच्छिकरूपेण पठतुं तथा छात्रवृत्तिः दातुं चं समित्या निर्दिष्टः अस्ति।
यू.जि.सि तलेषु संस्कृतं ऐच्छिक रूपेण स्वीकर्तुं अन्यैः विषयैः सह समन्वयितुं च 'कम्मीषनेन' निर्दिष्टम्। संस्कृत-साहित्यस्य वैज्ञानिकाध्ययनं सुगमया रीत्या निर्वोढुं, विविधान् आधुनिकान् विषयान् इव संस्कृत साहित्ये विद्यमानानाम् अनुसन्धानाय एव ' सेल्ल' ।
योगाभ्यासे विश्वासम् अर्पयित्वा वियट्नाम्।
हिनोयि > युद्धेन विनष्टं जनानाम् आरोग्यं योगाभ्यासेन संप्राप्तुं शक्यते इति वियट्नाम् । जनाः सर्वे योगाध्ययने संप्रीताः विशिष्य महिलाः अपि। यु.एन् संस्थायाः निर्देशमनुसृत्य वियट्नां राष्ट्रे कृतस्य योगदिनाचरणस्य अनन्तरफलमेव एतत्।
गतवर्षे जूण् मासस्य 21 तमे दिनाड़्के योगदिनत्वेन आचरितेस्मिन् समये राष्ट्रस्य दश प्रविश्यायां परिशीलनं आयोजितवन्तः। रोगनिवारणाय योगः पर्याप्तः भवतीति ज्ञानमेव योगपरिशीलनायोजनस्य कारणम्। युद्धेन विनष्टम् शारीरिक -मानसिकारोग्यस्य दृढीकरणाय उत्तमौषधं भवति योगाध्ययनमिति परिशीलकैः अभिप्रयन्ति।
यद्यपि पूर्वकालादारभ्य विविधेषु राष्ट्रेषु योगशिक्षणमासन् तथापि गतवर्षस्य योगदिनाचरणेनैेव नूतनान्दोलनं जातम् । आरोग्यकार्ये तथा आकारसौष्टवे च श्रद्धालवः भवन्ति वियट्नां जनाः। अनेके भारतीय-योगाचार्याः इदानीम् आचार्यरूपेण वियट्नां देशं प्राप्ताः।
श्रीनगरं - त्रयदिनात्मकस्य संघट्टनस्य अन्ते जम्मु कश्मीर पांपोर् प्रदेशे भवने निलीयमानाः त्रयोपि भीकराः सैन्येन हताः। तेषां मृतशरीराणि ह्यः दृष्टानि। सैनिककार्यक्रमाः समाप्ताः।
लष्कर् इ तोय्बा प्रवर्तकाः भवन्ति भीकरा इति सि आर् पि एफ् निर्देशकः प्रकाश् मिश्रा अवदत्।
Monday, February 22, 2016
बालुशेरि (केरळम्) > राष्ट्रिय संस्कृतसंस्थानस्य ( डीम्ड् यूनिवेर्सिट्टी न्यूदिल्ली ) साहाय्येन सह, बालुशशेरी देशे कालिकट् आदर्शसंस्कृतविद्यापीठे 25,26 दिनाड़्कयोः साहित्य वेदान्त योगादिषु द्विदिन संगोष्ठी सज्जीकरिष्यति इति आयोजकैः उक्तम् । राष्ट्रपतेः संस्कृतपण्डित जेत्रा, संस्कृत विद्यापीठं प्रबन्धकसमित्याः कार्यकर्त्रा वराहं चन्द्रशेखरन् नायर् महोदयेन मेलनस्य उद्धाटनं करिष्यति । विविधेषु विषयेषु चेनै कृष्णमाचार्य, योगामन्तिरस्य डयरक्टर् डा. एम् जयरामन् ,पय्यनूर् सर्वकारीय विश्वविद्यालयात् विरमितः प्रोफ. पि मनोहरन्, कालटी श्री शड़्कराचार्य संस्कृत विश्वविद्यलयात् निवृत्तः प्रोफ. के.पि श्रीदेवी, शृंगेरी राजीव् गान्धी कांबस् उपदेशक विभागाध्यक्षः प्रोफ.महाबलेश्वर् पि.भट् , कालटी श्री शड़्काराचार्य संस्कृत विश्वविद्यालयस्य प्रोफ.वि वसन्तकुमारी इत्यादः प्रबन्धावतरणं करिष्यन्ति । बिरुदानन्दर छात्राः, गवेषकछात्राः च प्रबन्धावतरणं करिष्यन्ति।
नूतन नेप्पाल् भारत रेल्मार्गः,ऊर्जस्य तथा मार्गस्य च विकासाय परस्पर साहायश्च भविष्यति।
Sunday, February 21, 2016
संगणकीय-भाषाविज्ञान-क्षेत्रे संस्कृतम्।
- नवदिल्ली >"दिल्ली-विश्वविद्यालयस्य दक्षिण-परिसरस्थस्य श्रीमोतीलाल-नेहरू-महाविद्यालयस्य संस्कृत-विभागेन आयोजिते एकस्मिन् संस्कृत-कार्यक्रमे बहुविधाः प्रकल्पाः समुपकल्पिताः|कार्यक्रमारम्भे जवाहरलाल-नेहरुविश्वविद्यालयस्य संस्कृताध्ययन-विशिष्ट-केन्द्रस्य अध्यक्षेण प्राचार्येण गिरीशनाथ-झा-वर्येण पी-पी-टी-माध्यमेन संगणकीय-भाषाविज्ञान-क्षेत्रे संस्कृतमाधृत्य विधीयमानानि कार्याणि विशदीकृतानि | अवसरेsस्मिन् तेन एतदपि प्रदर्शितं यत् न केवलं भारतीय-भाषाणाम् , अपि च, कासाञ्चन योरोपीय-भाषाणामपि पोषिकास्ति पाणिनीया संस्कृत-भाषा | आधुनिकं संगणकीय-भाषाविज्ञानं साम्प्रतं सन्दर्भेsस्मिन् अनेकाः शोध-परियोजनाः अङ्गीकृत्य सुबहूनि कार्याणि विदधाति | एतदनु स्पर्धा-द्वयं [श्लोकोच्चारणं प्रश्नमन्चेति] सम्पन्नम्, ययोः विभिन्न-महाविद्यालयीयच्छात्रैः छात्रीभिश्च सोत्साहं सहभागित्वं निर्व्यूढम् | निर्णायक-त्रयेण [बलदेवानन्द-सागर-पंकजमिश्र-विकासेति] स्पर्धाद्वयस्य निर्णायक-भूमिका अनुष्ठिता | समग्रमपि कार्यक्रम-संयोजनं डो.कौशल्या-महाभागया सुष्ठुतया सम्पादितम् |"
Saturday, February 20, 2016
बीहारुराज्यस्य रोह्तास् मण्डलस्य न्यायाधिपेन गतसप्ताहे अतिविशिष्टामेकाम् आज्ञां प्रख्यापिता। भगवतः हनुमतः साक्षादुपस्थितिः न्यायालये भवेदिति न्यायाधिपेन उद्घोषिता। मार्गविस्ताराय हनुमान्मन्दिरस्य पतनं कारणीयम् इति राज्यमार्गसंरक्षणविभागेन दत्ते दूषणे एव इयमाज्ञा प्रख्यापिता।मार्गस्य उपघातेनैव पञ्चमुख शिलायाः उपस्थितिः इत्यस्मात् शिलायाः पतनेनैव मार्गस्य विस्तारः साध्यः इति मार्गसंरक्षणविभागेन न्यायालये व्यवह्रतम्।
समाना एका आज्ञा बहु सरास् मण्डलस्य न्यायालयेनापि पूर्वं प्रख्यापिता आसीत्।
एतदर्थं वंगदेशे तृणमूलसर्वकारं बहिष्कर्तुं भाजपादलं पृथक्कर्तुं च जनकीयदलं प्रख्यापितम्
नवदिल्ली > राष्ट्रपतिशासनं वर्तमाने अरुणाचल्प्रदेशे नूतनसर्वकाररूपवत्करणकार्यविधिं विरुद्ध्य स्वीकृताम् अभिवृत्तिं सर्वोच्चन्यायालयः निराकुरुत। एतेन तत्र नूतनसर्वकाराय मार्गः प्रकाशितः।
अरुणाचलप्रदेशे राष्ट्रपतिशासनं निराकर्तुं राष्ट्रपतिं न्यवेदयितुं केन्द्रमन्त्रिसभया निश्चितमासीत्। कोण्ग्रस्दलविमतस्य कलिखो पुलस्य नेतृत्वे सर्वकाररूपवत्करणाय प्रयत्न एव अरुणाचले वर्तते।
सेहोर् (मध्यप्रदेशम्) > राज्येषु सर्वत्र उत्तमगुणयुक्तानि कार्षिकोत्पन्नानि विक्रयणाय केन्द्रसर्वकारेण आयोजिता अन्त्रर्जालविपणिः एप्रिल् मासस्य १४ दिनाङ्के आरप्स्यते इति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रख्यापितः। विविधकार्षिकक्षेम पद्धति द्वारा २०२२ वर्षात् पूर्वं कृषकाणां आयः द्विगुणितम् भविष्यति। विविधानां राज्यानां ५८५ कार्षिक वितरणकेन्द्रान् अन्तर्जालेन बद्ध्वा जंगमदूरवाणी द्वारा अधिक मूल्यम् यत्र लभते तत्र विक्रयणस्य संविधानं भवति एतत् I वर्षद्वयाभ्यन्तरे एतस्य प्रथमघट्टस्य पूर्तिः भविष्यति ।
नव दिल्ली >उच्चोत्तर न्यायालयस्य निदेशान् विगणयन् पाट्याल न्यायालयं प्रति अभिभाषकाः प्रतिषेध-पथसञ्चलनम् कृत बन्तः I गतदिने न्यायालय चत्वरे जायमाने घटनायाः कारणभूतस्य अभिभाषकस्य नेतृत्वे एव प्रकटनम् अभवत् । तस्मिन् समये न्यायालय: एस् ए आर् गीलानेः जाम्यावेदनं परिगणयन् आसीत्। प१चात् आवेदनं निरस्तम्। भारतविरुद्धमुद्रावाक्यघोषणमेव गीलाने: उपरि आरोपितः दोष: ।
भारत विरुद्ध संघानां प्रवर्तना नि निरोधनी यानि, जे एन् यु पिध !, जे एन् यु कृते दीय मानं साहाय्यादि कं निरोधनीयम, जे एन् यु मध्ये राष्ट्रद्रोहप्रवर्तनानि एव सन्ति इत्यादीनि प्रधानमुद्रावाक्यानि आसन् । मुद्रावाक्यानि उद्घोषयन् अभिभाषकाः न्यायालयस्य पुरतः प्रतिषेधं अकुर्वन् । समुचितरीत्या नीतिनिर्वहणाय अभिभाषकाः एतादृशप्रर्वतनेभ्यः प्रतिनिवर्तनीया: भवेयुः इति गतदिने न्यायालयेन अभिप्रेतम् आसीत्। अभिभाषका: प्रकोपनपरान् अभिप्रायान् मा कुर्यु: इत्यपि न्यायालयेन सूचितमासीत् । किन्तु एतत्सर्वं निराकृत्य एव अभिभाषकैः प्रतिषेध: कृतः ।
इट्टानगरं >अरुणाचल्प्रदेश् राज्ये कोण्ग्रस् दलस्य विमतपक्षनेता कलिखो पुल् नूतनमुख्यमन्त्रिरूपेण अधिकारं प्राप्तवान् । केन्द्रमन्त्रिसभायाः आदेशानुसारं ह्यः राष्ट्रपतिशासनं निराकृतमासीत् ।
६०अङ्गयुक्तसभायां कोण्.विमतैः भाजपासामाजिकैः सहितं ३१ सामाजिकानां समर्थनं कलिखोवर्याय अस्ति।
कोच्ची > नालिकया गृहाणि प्रति पचनवातकं प्राप्यमाणा शोभनपचनवातकपद्धतिः (स्मार्ट् ग्यास्) नामिका सिटि ग्यास् पद्धतिः दक्षिणभारते इदंप्रथमतया अद्य प्रारभते। कलमश्शेरी सर्वकारीयारोग्य कलालये केरलमुख्यमन्त्रिणा उम्मन् चाण्टिवर्येण उद्घाटनं क्रियते।
इन्ड्यन् ओयिल् कोर्परेषन् तथा अदानि ग्यास् च मिलित्वा संरम्भः ऐ ओ ए जि कम्पनी अस्ति अस्य प्रायोजकाः।
दंडगोलपचनवातकमपेक्ष्य सुरक्षितमस्ति नालिकावातकम्। तथा न्यूनमूल्यं च भवति।
Friday, February 19, 2016
अष्टमिसैल् शस्त्राणि रडार् सौकर्यं च अस्थापयत् इति उपग्रहचित्रेभ्यः व्यक्तमिति पाश्चात्यमाध्यमैः सूचितम्। मेखलायाः सीमाविषयिकतर्कस्य परिहाराय कियाविधि: स्वीकरणीया इति अमेरिकायाः राष्ट्रपतिना बराक् ओबामया पूर्वम् अभिप्रेतम् आसीत्I ततः अग्रिमदिने एव चैना २०० कि .मि पर्यन्तं आक्रमणयोग्यानि मिसेल्शस्त्राणि अस्थापयत् । किन्तु चैनया आरोपणमिदं निरस्तम्।
किं जोड़्ड़् उन् नेन व्यक्तः इति दक्षिणकोरियाराष्ट्रस्य गोप्यसंघस्य विज्ञापनः । अण्वायुध परीक्षणात्परम् उत्तरकोरियराष्ट्रस्य गूढचर्चायां उपस्थितः सेनूरिसंस्थानेतेन व्यक्तः इयं वार्ता।
नवदिल्ली युवकेषु राष्ट्रप्रेमम् अभिवर्धयितुं विश्वविद्यालयेषु राष्ट्रपताका निश्चयेन उन्नेतव्या इति केन्द्रसर्वकारस्य निर्देशः।४६ विद्यालयानां उपकुलपतिभिः साकं मानवशेषिविभवमन्त्रिणी स्मृति इरान्या कृतायां चर्चायामयं निर्णयः। २०७ पादपरिमितं ध्वजं संस्थाप्य तस्मिन् पताका उन्नेतव्या।
जेएन् यू विश्वविद्यालये भारतविरुद्धमुद्रावाक्यघोषणानन्तरं सञ्जातेषु विषयेषु रजधानीनगरे प्रक्षुब्धे एव केन्द्रसर्वकारस्य अयं निश्चयः।
Thursday, February 18, 2016
कविना गिरीष्पुलियूर् महोदयेन कृतम् मुख्यभाषणम् । 'संस्कृताभिमानिनः भाषणम्' |
जिल्लापञ्चायदध्यक्षा के जगदम्मा उद्घाटनं करोति। |
१८ प्रभाते नववादने राज्याध्यक्षः वेणु चोव्वल्लूर् वर्यः पताकोन्नयनम् अकरोत्। ततः प्रवृत्तमानं सम्मेलनं जिल्लापञ्चायदध्यक्षा के जगदम्मा उद्घाटनम् अकरोत्। दशवादने प्रतिनिधिसम्मेलनं भूतपूर्वः राज्यस्तरीयकार्यदर्शिप्मुखः कटय्कोट् सुरेन्द्रः उद्घाटयिष्यति। अनन्तरं नूतनशासनसमित्याः निर्वाचनकार्यक्रमाणि अभवन्।
६वादने सांस्कृतिकसम्मेलनं कोल्लं नगरसभायाः उपाध्यक्षया विजया फ्रान्सिस् वर्यया उद्घाटनं करिष्यते।तस्मिन्नवसरे प्रशस्तः कविः गिरीष् पुलियूर् मुख्यभाषणं करिष्यति। तत्र विविधमण्डलेषु लब्धपुरस्काराः अध्यापकप्रतिभाः समादरिष्यन्ते।
१९ दिनाङ्के १० वादने विद्याभ्यास-संस्कृतसम्मेलने भारतसंसदङ्गः एन् के प्रेमचन्द्रः उद्घाटकः भविष्यति। देवस्वं बोर्ड् समित्यध्यक्षः प्रयार् गोपालकृष्णः मुख्यभाषणं करिष्यति। ११.३० वादने सेवननिवृत्तानाम् अध्यापकानां कृते आदरः।द्विवादने आरभ्यमानं सार्वजनीनसम्मेलनं केरलस्य गतागतमन्त्री तिरुवञ्चूर् राधाकृष्णः उद्घाटनं करिष्यति। नियमसभासामाजिकः मुल्लक्कर रत्नाकरः मुख्यभाषणं करिष्यति।
२०प्रभाते दशवादने राज्यसमित्याः उपवेशनं भविष्यति।
Wednesday, February 17, 2016
नासिक् - महाराष्ट्रायां नासिक् वाल्देवी जलबन्धस्य उपरि स्थित्वा सेल्फी नामकस्वामुखछायाचित्रचित्रीकरणाभ्यन्तरे जले पतित्वा द्वौ कलालयछात्रौ मृतौ। विनोदयात्रार्थमागतेषु दशछात्रेषु सौरव् जगन्नाथ (१८),अजिन्क्य बावुसाहेब् (१८)इत्येतौ एव जलसमाधिं प्राप्तवन्तौ।
सि.ऐ.ए अध्यक्षः।
वाषिड़्टण् > यु एस् राष्ट्रे पुनः भीकराक्रमणं भविष्यति इति गूढसंघानां विज्ञापनम् । गत नवंबर मासे पारीस् राष्ट्रे भवितः भीकराक्रमणस्य कारणं गुप्तान्वेषणसंघस्य जाग्रताराहित्यस्य फलमेव इति सि ऐ ए (सेन्ट्रल इन्टलिजन्स् एजनसि) अध्यक्षेण जोण् ब्रेननेन उक्तः।
यद्यपि पारीस् आक्रमणानन्तरं इस्लामिक् स्टेट् भीकाराणां पद्धदीनामधिकृत्य अवगमनाय क्लेशमस्ति तथापि ते यु एस् राष्ट्रम् आक्रमितुं सज्जा भवेत् इति शङ्का नास्ति; ब्रननेन अवदत्। आतंकवादिनः
नूतन आशयविनिमय-संविधानानि उपयुज्यन्ते। एतस्य भेदनं दुष्करं भवतीति रहस्यान्वेषणसंधस्य मतम्।
पारीस् भीकराक्रमणे १३० जनाः हताः। तेषु अष्टेषु मृत्यु योध्रृषु सप्त संख्याकाः फ्रञ्च् पौराः अभवन्। "ते सिरिया राष्ट्रं गत्वा शिक्षणं प्राप्तवन्तः- इति सि ऐ ए अध्यक्षः अवदत्। पाश्चात्यराष्ट्र-इस्लामिकराष्ट्रयोः मध्ये विद्वेषमुद्पाद्य भीकरप्रवर्तनानि आयोजयितुमेव आतंकवादिनां श्रमः। ,
यु एस् ऐतेषु राज्येषु अधीशत्व स्थपनाय श्रमं कुर्वन्तीति असत्य प्रचारणमपि भवेत्। ऐ एस् सङ्घः इदानीं रासायुधशक्तियुक्ताः, तेषां पाश्चात्यगमनं निवारणीयं च भवेत् इति ब्रेननेन उक्तः ।
नवदिल्ली >ओर्तडोक्स्, याकोबाय विभागयोः विवादैः अस्वस्थभूते कोलञ्चेरि क्रैस्तवदेवालये (केरलं) विभागद्वयस्यापि तात्कालिकाराधनासौकर्याय सर्वोच्चन्यायालयेन निर्दिष्टः।
केरलसंस्कृताध्यापकसमित्याः राज्यस्तरीयसम्मेलनं श्वः आरभते।
कोच्ची > केरलेषु संस्कृत-शिक्षामण्डले सारभूतैः योगदानैः संस्कृतप्रचारणे तथा संस्कृताध्यापकानां योगक्षेमे च अनुस्यूतं प्रवर्तमानायाः केरल संस्कृताध्यापक-फेडरेषन् नामिकायाः संस्थायाः ३८तमं राज्यस्तरीयसम्मेलनं जन्मभूमौ कोल्लं नगरे फिब्र. १८,१९ २० दिनाङ्केषु प्रचलिष्यति। उद्घाटनसम्मेलनेन सह प्रतिनिधि-सांस्कृतिक- विद्याभ्यास- संस्कृत-सेवननिवृत्तादरण- सार्वजनीनसम्मेलनानि एषु दिनेषु आयोजितानि।
१८ प्रभाते नववादने राज्याध्यक्षः वेणु चोव्वल्लूर् वर्यः पताकोन्नयनं करिष्यति। ततः प्रवृत्तमानं सम्मेलनं जिल्लापञ्चायदध्यक्षा के जगदम्मा उद्घाटनं करिष्यति। दशवादने प्रतिनिधिसम्मेलनं भूतपूर्वः राज्यस्तरीयकार्यदर्शिप्मुखः कटय्कोट् सुरेन्द्रः उद्घाटयिष्यति। अनन्तरं नूतनशासनसमित्याः निर्वाचनकार्यक्रमाणि भविष्यन्ति। ६वादने सांस्कृतिकसम्मेलनं कोल्लं नगरसभायाः उपाध्यक्षया विजया फ्रान्सिस् वर्यया उद्घाटनं करिष्यते।तस्मिन्नवसरे प्रशस्तः कविः गिरीष् पुलियूर् मुख्यभाषणं करिष्यति। तत्र विविधमण्डलेषु लब्धपुरस्काराः अध्यापकप्रतिभाः समादरिष्यन्ते।
१९ दिनाङ्के १० वादने विद्याभ्यास-संस्कृतसम्मेलने भारतसंसदङ्गः एन् के प्रेमचन्द्रः उद्घाटकः भविष्यति। देवस्वं बोर्ड् समित्यध्यक्षः प्रयार् गोपालकृष्णः मुख्यभाषणं करिष्यति। ११.३० वादने सेवननिवृत्तानाम् अध्यापकानां कृते आदरः।द्विवादने आरभ्यमानं सार्वजनीनसम्मेलनं केरलस्य गतागतमन्त्री तिरुवञ्चूर् राधाकृष्णः उद्घाटनं करिष्यति।नियमसभासामाजिकः मुल्लक्करा रत्नाकरः मुख्यभाषणं करिष्यति।
२०प्रभाते दशवादने राज्यसमित्याः उपवेशनं भविष्यति।
नासिक् - महाराष्ट्रायां नासिक् वाल्देवी जलबन्धस्य उपरि स्थित्वा सेल्फी नामकस्वार्थछायाचित्रचित्रीकरणाभ्यन्तरे जले पतित्वा द्वौ कलालयछात्रौ मृतौ।विनोदयात्रार्थमागतेषु दशछात्रेषु सौरव् जगन्नाथ (१८),अजिन्क्य बावुसाहेब् (१८)इत्यतौे एव जलसमाधिं प्राप्तवन्तौ
सि.ऐ.ए अध्यक्षः।
वाषिड़्टण् > यु एस् राष्ट्रे पुनः भीकराक्रमणं भविष्यति इति गूढसंघानां विज्ञापनम् । गत नवबंर मासे पारीस् राष्ट्रे भवितः भीकराक्रमणस्य कारणं गुप्तान्वेषणसंघस्य जाग्रताराहित्यस्य फलमेव इति सि ऐ ए (सेन्ट्रल इन्टलिजन्स् एजनसि) अध्यक्षेण जोण् ब्रेननेन उक्तः।
यद्यपि पारीस् आक्रमणानन्तरं इस्लामिक् स्टेट् भीकाराणां पद्धदीनामधिकृत्य अवगमनाय क्लेशमस्ति तथापि ते यु एस् राष्ट्रम् आक्रमितुं सज्जा भवेत् इति शङ्का नास्ति; ब्रननेन अवदत्। आतंकवादिनः
नूतन आशयविनिमय-संविधानानि उपयुज्यन्ते। एतस्य भेदनं दुष्करं भवतीति रहस्यान्वेषणसंधस्य मतम्।
पारीस् भीकराक्रमणे १३० जनाः हताः। तेषु अष्टेषु मृत्यु योध्रृषु सप्त संख्याकाः फ्रञ्च् पौराः अभवन्। "ते सिरिया राष्ट्रं गत्वा शिक्षणं प्राप्तवन्तः- इति सि ऐ ए अध्यक्षः अवदत्। पाश्चात्यराष्ट्र-इस्लामिकराष्ट्रयोः मध्ये विद्वेषमुद्पाद्य भीकरप्रवर्तनानि आयोजयितुमेव आतंकवादिनां श्रमः। ,
यु एस् ऐतेषु राज्येषु अधीशत्व स्थपनाय श्रमं कुर्वन्तीति असत्य प्रचारणमपि भवेत्। ऐ एस् सङ्घः इदानीं रासायुधशक्तियुक्ताः, तेषां पाश्चात्यगमनं निवारणीयं च भवेत् इति ब्रेननेन उक्तः ।
नवदिल्ली >ओर्तडोक्स्, याकोबाय विभागयोः विवादैः अस्वस्थभूते कोलञ्चेरि क्रैस्तवदेवालये (केरलं) विभागद्वयस्यापि तात्कालिकाराधनासौकर्याय सर्वोच्चन्यायालयेन निर्दिष्टः।
Tuesday, February 16, 2016
नवदिल्ली - मृत्युदण्डितः अफ्सल् गुरुनामकः जवहर्लाल् नेह्रु विश्वविद्यालये (जे एन् यू) अनुस्मृतः इत्यस्मात् विश्वविद्यालयपरिसरः प्रक्षुब्धः जातः। विद्यार्थिनेता कनय्यकुमारः राष्ट्रद्रोहापराधित्वेन आरक्षकैः गृहीतः इति कारणेन राजधानीनगरं आन्दोलन संघर्षेषु निमग्नमभवत्।
कनय्यकुमारस्य मोचनमुन्नीय विद्यार्थिनः अनिश्चितकालान्दोलनम् आरब्धवन्तः। अफ्सल् गुरु अनुस्मरणाय ऐ.एस् संस्थायाः साहाय्यं लब्धमित्यारोप्य आसीत् संघर्षस्य प्रारंभः।
रमादी इदानीं सैन्यस्य पूर्णाऽधीना भवति इति इराख् सैन्यः अवदत्।
अनन्तपुरी - दिवंगतस्य कैरलीकवेः ओ एन् वि कुरुप् महोदयस्य स्मरणार्थं राजनगर्यां तस्य प्रतिमां स्थापयिष्यति। जन्मदेशे चवरायां ओ एन् वि कवितानां दृश्याविष्कारेण कलाग्रामं च स्थापयिष्यति। केरलनियमसभायां संवृत्ते अनुस्मरणसम्मेलने मुख्यमन्त्रिणा एवमुद्घोषितम्।
Monday, February 15, 2016
Sunday, February 14, 2016
श्रीनगरम् > काश्मीरस्य कुप्वारा जनपदे सीमारेखायाः समीपे संवृत्ते संघट्टने पञ्च भीकरान् भारतसैन्यं हन्ति स्म। द्वौ भटावपि निहतौ। चौक्की बाल् प्रविश्यायां कस्मिंश्चित् गृहे भीकराःनिलीय वर्तमाना इति ज्ञात्वा एव सुरक्षासेना अत्र प्राप्ताः।
न्यूदिल्ली > मुम्बै भीकराक्रमणस्य सूत्रधारः डेविड् कोल् मान् हेड्लेः वाक्यमनुसृत्य पाक्किस्थानं भीकरराष्ट्रत्वेन प्रख्यापनीयमिति बि. जे.पि दलानां मतम् । तदर्थं नूतनकार्याणि नय तन्त्रेषु स्वीकरणीयानि । पाक् गुप्तचराणां संस्थया आदड़्कवादीनां सीमलड़्घने प्रोत्साहनं करोतीति हेड्लेः उक्त्या व्यक्तः। लोकराष्ट्रणां मध्ये पाक्किस्तानं निराकर्तुं भारतं श्रद्धालुः भवेयमिति भा.ज.पा. दलस्य देशीयकार्यकर्ता सिद्धार्थनाथ सिंहेन उक्तः।
इस्रत् जहानायाः कलहमृत्युः निर्वाचनवेलायाम् अद्यतनविपक्षस्य अनुकूलं यथा, तथा परिणामयितुं ते ऐच्छन्। इस्रत् जहाना लष्कर् तोयिबायाः 'सन्नद्धमृत्युयोद्ध्री' इति हेड्लिना निर्दिष्टम्। गुजरात्त् देशे इस्रत् गोलिकाप्रहरणेन कारणं विना मारिता इति कुप्रचारः आसीत्।
ज्ञानपीठ-पद्मविभूषण-पद्मश्रीपुरस्कारैःआदृतः आसीत्। महाकविकालिदासस्य जीवनचरितमुपजीव्य विरचितम् उज्जयिनीकाव्यमवलम्ब्य तस्मै ज्ञानपीठपुरस्कारः दत्तः। कैरलीचलच्चित्रगानशाखायामपि अस्य योगदानं महत्तरमासीत्। १३ वारं उत्तमगानरचयितुः पुरस्कारेण आदृतः।त्रिवारं देशीयपुरस्कारमपि प्राप्तः।