OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, January 25, 2016

दक्षिण भारतस्य अभिनेत्री कल्पना निर्याता

अभिनेत्री कल्पना अद्य प्रातः निर्याता। हृदयाघातेन मृता इति भिषग्वराः। हैदराबादे चलनचित्रे अभिनयं कुर्वती आसीत्। तेलुगु चित्रस्य  चित्रीकरणमेव आसीत् ।

पुरस्कारं प्रतिसमर्प्य कृषकाः।

नागपूर्> महाराष्ट्रराज्ये कृषकाणाम् आत्माहुतिवर्धने प्रतिषिध्य  विदर्भास्वदेशीयौ कृषकौ स्वकीयौ कृषिभूषण् पुरस्कारौ प्रतिसमर्पितवन्तौ। २०१५ तमे वत्सरे सहस्रं कृषकाः ऋणबाध्यतया आत्माहुतिं कृतवन्तः आसन्। आत्माहुतिप्रतिरोधाय सर्वकारेण किमपि न क्रियते इत्यारोप्य एव पुरस्कारप्रतिसमर्पणम्।

केरळेषु नदी संरक्षणाय अष्टकम्।

मलप्पुरम् > जनुवरिमासस्य 26 तमे दिने तिरुन्नावायायां भविष्यमाणे मामाङ्क-कार्यक्रमे अष्टकस्यास्य प्रथममालापनं भविष्यति।
केरलेषु विद्यमानासु नदीषु दीर्धतमा भवति इयं भारतप्पुष़ा अथवा निळा नदी। अस्याः नद्याः तीरे एव प्रसिद्धं मामाङ्कमहोत्सवं संञ्चालयन्ति स्म। अस्मिन् वर्षे आयोज्यमाने मामाङ्क स्मारकमेलने  आष़्वाञ्चेरि तम्प्राक्कल्, सामूतिरि राजः, वल्लुवनाट् राजः , अक्कित्तं इत्येते च सभामञ्चम् अलङ्करिष्यन्ति। तेषां सन्निध्ये सङ्गीतात्मकतया निळाष्टकस्य आलपनं भविष्यति।
दानीं निळा नद्याः अवस्था दयनीया। जलप्रवाहः अतिन्यूनः च। नदी संरक्षण मुद्दिश्य, निला नद्याः पवित्राम् आध्यात्मिकीं विशुद्धिं च प्रकीर्त्य निलाष्टकं रचितम्। निलाविचारवेदिः इत्याख्यायाः समितेः नेतृत्वे एव अष्टकस्य रचनाऽभवत्। पि. रमेश् नम्पीशन्  एव निलाष्टकस्य रचयिता। कविरयं चालियपुरं सर्वकारीयोच्चविद्यालये संस्कृताध्यापकः। संस्कृते एम्. ए, बि एड्ड् समाप्य संस्कृतपत्रकारितायाम् एम् फिल् अपि अनेन सम्पादितम्। संस्कृतभारत्याः बिहारः, तमिलनाट्, प्रान्तयोः दायित्वमपि अस्मिन् निरूढमासीत्। नदी संरक्षणीया  इति आशयप्रचरणमुद्दिश्य एव इदं गानरचना अनेन कविना कृता वर्तते।

Sunday, January 24, 2016

आणवभीतिः - दक्षिणकोरियाया राष्ट्रपञ्चकानां उपस्थितिः आहूतः।

सोल्> अत्तर कोरियायाः आणाव योजनाम् अधिकृत्य विचिन्तनाय कोरियायाः राष्ट्रपतिना पार्क् ह्यून्है वर्येण उत्तरकोरियां विहाय अन्यानां राष्ट्रपञ्चकानाम् उपस्थितियोगः निमन्त्रितःl   जनुवरि ६ दिनाङ्के उत्तर कोरियया कृतान् आणवायुधपरीक्षणान् विरुध्य उपरोधम् आयोजयतुं चीना - अमेरिक्का राष्ट्रयोः मध्ये चर्चां प्रचलन् अस्ति। आस्मिन् सन्दर्भे दक्षिण कोरियायाः इयं चर्चा प्राधान्यमर्हति।


 भीकरविरुद्ध-प्रक्रियासु १४ युवानः गृहीताः।

नवदिल्ली> राष्ट्रिय अन्वेषणसंस्थया (NIA) सुरक्षा सेनाभ्यः च पञ्चसु राज्येषु कृतासु भीकरविरुद्ध-प्रक्रियासु १४ युवानः गृहीताः। भारतेषु इस्लामिकस्टेट् भीकरदलवत् आक्रमणाय पद्धतयः आविष्कृताः इति सूचनया ऐते गृहीताः। एतेषु भूरिजनाः सोफ्ट् वेर् विज्ञानिनः भवन्ति। IS समान-आशयस्थः जानूदुल् खलीदे हिन्द इति दलानां अङ्गः एते इति अनुमीयते।

 'बार् 'उत्कोचविषये मन्त्रिणः बाबोः स्थानमपि विनष्टम्।

कोच्ची - मदिरालयविक्रयणं संबध्य आर्थिकभ्रष्टाचारविषये केरलस्य एक्सैस् विभागस्य मन्त्री के बाबुवर्यः त्यागपत्रं  समर्पितवान्। बाबुवर्यंमधिकृत्य उन्नीते आरोपणे अन्वेषणमावश्यकमिति नीतिपीठस्य परामर्शानुसारमेव त्यागपत्रसमर्पणम्।

Saturday, January 23, 2016

निर्वाचनमुद्दिश्य उद्घाटनानि 

कोच्चि > केरलेषु आगामिनि निर्वाचनमुद्दिश्य उद्घाटन महामहाः आयोज्यन्ते
तादृशानाम् उद्घानानां उद्घानमिव आसीत् कोच्चि नगर-रयिल् यानस्य परीक्षणधावनम्। अत्र मुख्यमन्त्रिणा उम्मन् चाण्डी वर्येण पताकानुमतिः(Flag-off) अकरोत्। मुट्टम् नाम स्थले रयिल् अङ्गणे आसीत् उद्घाटनम्।  किन्तु इदानीम् अपि रेल् निर्माणं प्रचलन्नस्ति। योजना: अपूर्णत्वे  सति उद्घाटनम् इति दृष्ट्वा  अपहसन्ति बुधजनाः 
इदानीम् अपि रेल् निर्माणं प्रचलन्नस्ति


इदानीम् अपि रेल् निर्माणं प्रचलन्नस्ति




प्रियमानसम् संस्कृत-चलच्चित्रम्

त्रिशूर् ,केरलम् > प्रियमानसम् संस्कृत-चलच्चित्रस्य निशुल्कप्रदर्शनं २०१६ जनुवरि २६ तमे दिनाङ्के इरिङ्ङालक्कुटा अक्करा मूवीस् चलच्चित्रगृहे भविष्यति। 
अद्य सुभासचन्द्रबसु महोदयस्य 119 तमाः जन्मदिनम् 

जीव्यांस्च शरदश्शतम्। 
भारताभिमानिनां मनसि भास्वरचन्द्र इव प्रकाश्यते।
भारत माता जयतु
वन्दे मातरम् वन्दे मातरम्

Friday, January 22, 2016

Special Campaign For Sanskrit

आयुर्वेदात् संस्कृतभाषा बहिष्कृता भविष्यति। 
Please file your Opinion For Sanskrit
कोच्चि > आयुर्वेदस्य आत्मभूतं संस्कृतम् अचिरादेव आयुर्वेद पाठ्यप्रणालीतः निष्कासितं स्यात्।
BAMS यदा आरब्धः तस्मिन् सन्दर्भे त्रीणि पत्राणि (3×100=300 अङ्काः) वाचिक  (viva) परीक्षायां (3×50=150 अङ्काः) च आसन् ।  पुनः पत्र द्वयं भवतु  इति निर्णीतं (2×100=200 अड्काः) पश्चात् वाचिक परीक्षाया: अङ्कः 50 इति न्यूनमकरोत् च। 2012 आरभ्य वाचिकपरीक्षा निष्कासिता । नूतन-प्रणालीमुपयुज्य षण्मासात्परं संस्कृतपठनं नास्ति। पठनार्थं किं पुस्तकम्  पठनीयमिति निदेश अपि नास्ति। एवं अचिरात्  संस्कृतभाषा आयुर्वेदाध्ययन-प्रणालीतः बहिष्कृता भविष्यति।

To See Syllabus- Click here (Syllabus)
To File your Opinion- Click here (Your OPINION)
Our Opinion
1. Establish Sanskrit Papers into Two instead of One
2. Viva may be re-instated for more effective learning as in former Years

Thursday, January 21, 2016

 नेताजीवर्यमधिकृत्य रेखा बहिरागच्छति।
नव दिल्ली > नेताजी सुभास् चन्द्रबोसमधिकृत्य लभ्यमानः वार्तासञ्चयः प्रधानमन्त्रिणा नरेन्द्रमोदिवर्योण श्वः आरभ्य प्रकाशयिष्यते। श्वः बसुमहोदयस्य जन्मवार्षिकदिनमेव।
अस्य महोदयस्य निधनमधिकृत्य  ब्रिट्टीष् अन्तर्जाले १९४५ तमे मृतिमगात् इति सूच्यते।

श्री डि श्रीमान् नम्पूतिरि: दिवङ्गत:।
कोच्चि > संस्कृत पण्डितः कवि: च असौ डि. श्रीमान् नम्पूतिरिः वार्धक्य सहजया अस्वास्थ्येन पीडितः आसीत्।
१०८ उपनिषदः , भागवतम् कविता च अनेन लिखिताः।
श्रीमान् नम्पूतिरिः तस्य कलासपर्यां पूर्तीकृत्य गतवान् इति संस्कृत क्षेत्रस्य दुःखस्य कारणम् । केरल संस्कृताध्यापक फेडरेषन्  देलन महोदयस्य निधने तेषां व्यसनं प्रकाशयन् ।





नटनविस्मया मृणाळिनी साराभायी कालयवनिकायां विलीना।
Image result for mrinalini sarabhaiहैदराबाद् > भारतस्य नृत्तदेवता इति विख्याता मृणालिनी साराभायी - ९७ -तमे वयसि वार्धक्या सहजया अस्वास्थ्येन दिवंगता। हैदराबादे स्वगृहे ह्यः प्रभाते अन्त्यमभवत्। कथाकेलिं भरतनाट्यं च आधुनिककालानुसृतं परिष्कृत्य विदेशेषु अवतार्य प्रशस्तिमवाप। रवीन्द्रनाथठक्कुरस्य शिष्या आसीत्। तस्य चण्डालिका इति काव्यस्य नृत्तभाष्यं कृत्वा प्रशस्तिसोपानमारोहितवती। तया विरचितेषु ग्रन्थेषु भरतनाट्यसंबन्धाः त्रयः हार्ट् आफ वोय्स् इति आत्मकथा च प्रसिद्धाः भवन्ति। प्रशस्तः बहिराकाशशास्त्रज्ञः विक्रम साराभायी एतस्याः पतिरासीत्। प्रसिद्धा नर्तकी मल्लिकासाराभायी पुत्री चास्ति।


निषामस्य ३८ संवत्सराणां करागारवासः।

तृश्शूर् - भवनसमुच्चयस्य सुरक्षासेवकं चन्द्रबोसं अतिनिष्ठुरतया जधान इति विषये अपराधी मुहम्मद् निषामः ३८ संवत्सराणां कारागृहवासेन ७१ लक्षं रूप्यकाणाम् अार्थिकदण्डेन च दण्डितः।
दलितछात्रस्य आत्माहुतिः - केन्द्रमन्त्रिणः त्यागपत्राय सम्मर्दः शक्तः।

हैदराबाद> हैदराबाद् सर्वकलाशालायां दलितछात्रस्य रोहित् वेमुल नामकस्य आत्माहुतिविषये केन्द्रमन्त्रिणः बणटारु दत्तात्रेयस्य स्थानत्यागाय सम्मर्दः शक्तः अभवत्। तं विरुद्ध्य व्यवहारः कृतः इत्यतः केन्द्रमन्त्रिसभातः सः निष्कासितव्य इति कोण्ग्रस् दलेन संयुक्तान्दोलनसमित्या च निर्दिष्टम्।
ह्यः अपि कलालयपरिसरः संघर्षपूरितः आसीत्। तत्र निरोधनाज्ञा विज्ञापिता।

 तृशिवपेरूरे भूचलनम् ।

तृश्शूर्> केरले  तृश्शूर् नगरसमीपे तलोर् प्रदेशे लघुभूकम्पः । मापिन्यां ३.४ अङ्कितः भूकम्पः मङ्गलवासरे अतिप्रभाते जातः।जनापायः न ज्ञापितः।
 
मार्च्मासादारभ्य परिष्कृतं वेतनम्।

अनन्तपुरी> केरलेषु सर्वकारसेवकेभ्यः अध्यापकेभ्यश्च समित्या निर्दिष्टं परिष्कृतं वेतनं मार्च् मासादारभ्य दातुं निर्णीतम्।२०१४ जूलायीतः आरभ्य भूतकालप्राबल्यमस्ति। परिष्करणमनुसृत्य वेतने २००० - १२००० रूप्यकाणां वृद्धिःभविष्यति।
 
ओडीषायां १५० सागरकूर्माः हताः।

भुवनेश्वर् > ओडीषाराज्यस्य पुरीसमुद्रतीरे कुलविनाशभीषणिम् अभिमुखीकुर्वन्तः ओलिव् रिड्लि वंशीयाः १५० समुद्रकूर्माः संघीभूय मरणं प्राप्ताः। कारणमव्यक्तं वर्तते। अनधिकृतैः धीवरैः हताः इति सन्देहः अस्ति।

Wednesday, January 20, 2016

आयुर्वेदात् संस्कृतभाषा बहिष्कृता भविष्यति। 


कोच्चि > आयुर्वेदस्य आत्मभूतं संस्कृतम् अचिरादेव आयुर्वेद पाठ्यप्रणालीतः निष्कासितं स्यात्।
BAMS यदा आरब्धः तस्मिन् सन्दर्भे त्रीणि पत्राणि (3×100=300 अङ्काः) वाचिक  (viva) परीक्षायां (3×50=150 अङ्काः) च आसन् ।  पुनः पत्र द्वयं भवतु  इति निर्णीतं (2×100=200 अड्काः) पश्चात् वाचिक परीक्षाया: अङ्कः 50 इति न्यूनमकरोत् च। 2012 आरभ्य वाचिकपरीक्षा निष्कासिता । नूतन-प्रणालीमुपयुज्य षण्मासात्परं संस्कृतपठनं नास्ति। पठनार्थं किं पुस्तकम्  पठनीयमिति निदेश अपि नास्ति। एवं अचिरात्  संस्कृतभाषा आयुर्वेदाध्ययन-प्रणालीतः बहिष्कृता भविष्यति।

Click here for   Syllabus
Please file your Opinion  Click here (YOUR OPINION)
1. Establish Sanskrit Papers into two insted of One.
2. Viva may be re instated for more effective learning as in former years.

 एष्याया: बृहत्तरः विद्यालयकलेत्‍सव: केरल राज्ये अनन्तपुरे आरब्ध:।

मलयालमनोरमया ग्रहीतः वीडियो चित्रम्‌।

Tuesday, January 19, 2016

भारतस्य आत्मानम् द्रेष्टुं संस्कृतभाषा ज्ञेयः - बिषप्प् मार्. जोसफ़् कल्लरङ्गाट्

पाला अतिरूपताया: बिषप्प्  मार्. जोसफ़् कल्लरङ्गाट् महोदयः ग्रन्थानां विमोचनं करोति

      पाला (केरलम् ) > संस्कृतपण्डितः रेव. डा. डा. जेक्कब् कत्तयक्कल् महाभागेन अनूदिता: भर्तृहरेः नीतिशतकस्य  वैराग्यशतकस्य  शृंगारशतकस्य  च विमोचन सन्दर्भे भाषमाणः आसीत् सः। संस्कृतभाषा मानवान् शान्तस्वभावशुद्धतायां च नेष्यति इति च अनेन महाभागेन उक्तः
नूतनविज्ञानस्य सदुपयोगः कथं करणीयमिति आदर्शभावेन प्रदर्शयन्ति अत्र - आण्ड्रोयिड् जङ्गमदूरवाणिमुपयुज्य इमानि पुस्तकानि DTP पुटविन्यासः च कृत्वा प्रकाशिताः इत्येव वैशिष्ट्यम्। 
इतः पर्यन्तं शताधिकानां पुस्तकानां रचना अनेन महाभागेन कृतः अस्य 101, 102, 103 तमानि पुस्तकानि इमानि

आकाशे कुसुमोत्पत्तिः।

          वाषिङ्टण् > आकाशकुसुममिति कविसङ्कल्पः याथार्थ्यमभवत्। बहिराकाशे इदंप्रथमतया कुसुमं विकसितम्। अन्तराष्ट्र वहिराकाशनिलयस्य सस्य परीक्षणशालायां सीनिया नामकं सस्यं पुष्पितम्।
बहिराकाशनिलये कृत्रिमसंविधानेन एव सस्यस्य परिपालनम्।सूर्यप्रकाशस्य स्थाने रक्तनीलहरितवर्णाऩि एल् ई डि दीपानि उपयुक्तानि। बहिराकाशशास्त्रे सुप्रधानविजयः इति नासया प्रख्यापितम्।

Monday, January 18, 2016

 जङ्गमदूरवाण्या: सहायेन लेखनं कृत्‍वा निर्मितानि पुस्तकानि अद्य मुक्तानि भविष्यन्ति।
कोट्टयम् > भर्तृहरेः नीतिशतम् वैराग्यशतकम् श्रृङ्गारशतकम्‌ च  कैरल्याम् अनुवादं कृत्वा प्रकाशयन्ते । त्रयाणां ग्रन्थानाम् टङ्गणक्रिया (DTP) तथा पुटविन्यास: च (layout)  जङ्गमदूरवाणीमुपयुज्य आसीत्। अनेन मार्गेण प्रकाश्यमानः प्रथमः अनुवादग्रन्थः भवति इयं  सुभाषितग्रन्थावली।  ग्रन्थस्य लेखनादिकार्याणि  सम्प्रति वार्तया कृता। पुनर्वाचनाय  कागदलेशोऽपि नोपयुक्तः।  ग्रन्थकारः  मान्यवरः साधु. डा-डा. जेक्कब् कट्टय्कल् महोदयः अमेरिका राष्ट्रे उषित्वा सम्प्रति वार्तायाः  ओण्  लैन् सौकर्यमुपयुक्तवान्। अस्य महात्मनः 101, 102, 103-तमाः ग्रन्थाः भवन्ति। ग्रन्थानां मुद्रणम् कोट्टयं गुड् षेपेर्ट् मुद्रणालयेन कृत:।  अद्य मध्याह्ने द्विवादने  केरलेषु प्रसिद्धां भरणङ्ङानं  क्रैस्तवदेवालयस्य परिकर-प्रकोष्ठे (parish hall ) अभिवन्द्य बिषप् डा. जोसफ् कल्लरङ्ङाट् साधुवर्येण  प्रकाशयिष्यन्ते । 





सुधीन्द्रतीर्थस्वामिनः गंगातटे समाधिं प्रापुः। 

हरिद्वारः - गैडसारस्वतब्राह्मणसमुदायस्य आत्मीयाचार्यः तथा काशिमठाधिपतिः स्वामी सुधीन्द्रतीर्थः गंगाायां व्यासश्रमे समाधिं प्राप। मुम्बैयां आतुरालये चिकित्सितः सःस्वस्य देहवियोगः हरिद्वारे आश्रमे भवेदिति इच्छानुसारं शनिवासरे हरिद्वारम् आनीतवान् आसीत्।
रविवासरे प्रभाते १.३० वादने देहवियोग अभवत्।
  व्यासश्रमे व्यासमन्दिरस्य दक्षिणपार्श्वे स्वामिनः समाधिस्थानं सज्जीकृतम्। स्वामिशिष्यस्य उत्तराधिकारिणः संयमीन्द्रतीर्थस्य कार्मिकत्त्वे समाधिसमारोहः समारब्धः। काशिमठस्य गुरुपरम्परायाः समाधिविधिमनुसृत्य आसन् कार्यक्रमाः। सहस्रशः भक्ताः मन्त्रजपसहितं सन्निहिताः अभवन्।

Sunday, January 17, 2016

हर्षस्य विषय: - 😀😀😀
अद्य संस्कृतस्य तृतीयचलचित्रस्य "प्रियमानसस्य" प्रसारणं लोकसभा चैनल स्थाने 2:00 pm भविष्यति।
सूचनां सर्वत्र प्रेषयन्तु , (forward) कुर्वन्तु इति भवतां संस्कृतप्रचारे योगदानम् ।

केरले नैतिक अकादमी उद्घाटिता।

कोच्ची - केरलराज्ये इदंप्रथमतया जुडीष्यल् अक्कादमी संस्थापिता। तस्याः उद्घाटनं भारतस्य सर्वोच्चन्यायाधिपः टि एस् ठाक्कूर् वर्यः निरवहत्।
राज्ये नीतिनिर्वहणस्य कार्यक्षमतां गुणवैशिष्ट्यं च दृढीकर्तुमेव नैतिक अकादमी स्थापिता। कोच्ची अन्ताराष्ट्र विमाननिलयस्य समीपे अत्ताणीप्रदेशे स्थापिताया‌ अकादम्याः उद्घाटनसमारोहे मुख्यमन्त्री उम्मन् चाण्टिवर्यः केन्द्रमन्त्री डि वि सदानन्दगौडावर्यः केरलस्य उच्चन्यायालयस्य मुख्यन्यायाधिपः अशोकभूषणवर्यः इत्यादयः सन्निहिताः।

Saturday, January 16, 2016

भीकराः भारतं प्रविष्टाः - जाग्रता निर्दिष्टा।

नवदिल्ली >६-१० संख्याकाः मुहम्मद जयषे भीकराः पाकिस्तानसीमामुल्लङ्घ्य गूढमार्गेण भारतं प्रविष्टा इति भारतजाग्रताविभागेन (इन्टलिजन्स् ब्यूरो) विज्ञापितम्। केन्द्र गृहमन्त्रिणा संचालिते उन्नततलसम्मेलने एव अयं विषयः विज्ञापितः। अतः राष्ट्रस्य प्रधानस्थानेषु स्थापनेषु च अतिसुरक्षां पालयितुम् आदिष्टम्।
यान दुर्घटना परिहाराय नूतना योजना ।

नवदेहली >  पञ्चवर्षाभ्यन्तरे मार्गापघातान् पञ्चाशत् प्रतिशतम् न्यूनीकर्तुम् पद्धत्या केन्द्रसर्वकारः। वर्षे सामान्यतया पञ्चलक्षम् वाहनापघाताः  राष्ट्रे जायन्ते। एषु सार्धैकलक्षम् अपघाताः व्रणाय जीवहानये च कारणीभवन्ति ।
केन्द्रगतागतमन्त्री नितिन् गडकरी वर्यः अवदत् ।
मार्गसुरक्षावाराघोषस्य अङ्गतया देहल्यां जातायां सङ्गोष्ठ्यां भाषमाणः आसीत् मन्त्री । अपघातान् न्यूनीकर्तुम् अधिकारिण: सेवासंस्थाः च सर्वकारेण सह मेलनीयम् इति तेन उक्तम् । तेषां संख्यान्यूनीकरणं कष्टसाध्यम् इत्यपि मन्त्रिणोक्तम् ।

उत्तर जाप्पान् राष्ट्रे भूकम्पः।

© earthquake.usgs.govटोक्यो > जाप्पानस्य उत्तरभागे होकैड नाम तीरदेशे आसीत् भूकम्पः।
गुरुवासरे १२.३० वादने जायमानस्य कम्पनस्य शाक्ति: ६.७ मितः। ४० निमेषः पर्यतं कम्पितः चेदपि अपायः नास्ति। अणुशक्तिनिलय : सुरक्षितः च।



सिक्किमः प्रथमजैवराष्ट्रं भविष्यति।

कोल्कोत्ता > भारतस्य प्रथमं सम्पूर्णं च जैवराज्यं भवितुं सिक्किमः सज्जते। ७५,००० हेक्टर् मितानि क्षेत्राणि सुस्थिरकार्षिकपद्धत्यनुयुज्यमानरीत्या परिष्कृत्य एव अयं विजयः प्राप्तः।गाङ्टोक् नगरे जन.१८ दिनाङ्के आयोज्यमाने कार्षिकसम्मेलने प्रधानमन्त्रिणा नरेन्द्रमोदिना अयं लाभः विज्ञापयिष्यते।

Friday, January 15, 2016

विद्यालयेषु रन्ध्रिकासम्प्रदायः (पञ्चिङ्) सम्पद्यते।
तोटुपुष़ा >  केरलराज्ये सर्वकारीय - आर्थिकोत्तेजितविद्यालयेषु रन्ध्रिकासम्प्रदायम् आविष्कर्तुं चिन्ता प्रवर्तते। अद्ध्यापकाः छात्राश्च अङ्गुलीमुद्रामुपयुज्य (अङ्गुलीवलय:) उपस्थितिं विलिख्यमाना रीतिः भवत्येषा। प्रथमतया इटुक्की जिल्लायां दश विद्यालयेषु परीक्षणरूपेण आविष्कर्तुमुद्दिश्यते।मासद्वयाभ्यन्तरे प्रवर्तनमारभ्यते। आगामिनि अध्ययनसंवत्सरे पूर्णतया प्रवर्तिष्यते।
रन्ध्रिकासमये एव अनन्तपुरिस्थिते सर्वशिक्षा अभियान् कार्यालये ज्ञातुं शक्यते।

Thursday, January 14, 2016

अपत्यपालन विरामस्य निषेधः न स्यात् ।

नवदेहली  - केन्द्रसर्वकारस्य महिलाकर्मकर्यः न्यूनात् न्यूनं  पञ्च दिवसेभ्यः अपत्यपालन विरामाय निवेदनं दत्तं चेत् तस्य निषेधः न स्यात् इति केन्द्र पष्‌सणल् (नैज मन्त्रालयः ) मन्त्रालयेन उद्घुष्टम् ।
कर्म शिष्टमस्ति इति हेतोः निषेधः न स्यात् । किमपि विशिष्टं कार्यमस्ति चेदेव विरामनिषेधः स्यात् ......।

भारतं धार्मिकसौहार्दस्य केदारः - उपराष्ट्रपतिः।

मलप्पुरम् (केरलम्)>वसुधायाः सकलधर्माणां कुटुम्बकं भवति भारतमिति उपराष्ट्रपतिना हमीद् अन्सारि महोदयेन उद्घुष्टम्। पाणक्काट् स्ट्रेयिट् पात् अन्तर्देशीयविद्यालयस्य आभिमुख्ये आयोजितं मतमैत्रीसम्मेलनम् उद्घाटयन् भाषमाणः आसीदुपराष्ट्रपतिः।अस्माकं राष्ट्रं न केवलं विविधान् धर्मान् स्वीकरोति किन्तु ते धर्माः परस्परपूरकत्वेन प्रवर्तन्ते च। यदा सेन्ट् तोमसः मालिक् दिनारः च केरलं प्राप्तवन्तौ तदा सुमनसा स्वीकृत्य ताभ्याम् आराधनालयान् निर्मीय दत्तवन्तः।कोच्चीमध्ये मलबार् प्रान्ते च विद्यमानाःजूताः भारतस्य पौराणिकाः सन्ति।ते परस्परं व्यवहारं कृत्वा सांस्कृतिकवैविध्यैः सम्पुष्टाः अभवन्।उपराष्ट्रपतिना उक्तम्।

मसूदः गृहीतः।

इस्लामबाद् > पठान्कोट्ट् भीकराक्रमणस्य सूत्रधारः इति विचार्यमाणः जेय्षे मुहम्मद् संस्थायाः नेता मौलाना मसुद् असर् नामकः पाकिस्तानरक्षिपुरुषैः गृहीत इति सूचना।अस्मिन् विषये आधिकारिकस्थिरीकरणं न कृतम्। किन्तु जय्षे मुहम्मदस्य कार्यालयाः बन्धिताः बहवः प्रवर्तकाः गृहीताश्चेति पाक्प्रधानमन्त्रिणः नवास् षरीफस्य कार्यालयेन स्पष्टीकृतम्।

जे एफ् आर् जेक्कब् निर्यातः।

नवदिल्ली >  बङ्लादेश् राष्ट्रस्य जननकारणभूतस्य भारत-पाक्युद्धस्य भारतसेनानायकः लफ्टनन्ट् जनरल् जे एफ् आर् जेक्कबवर्यः -९२ - दिवंगतः।सैन्यात् विरमितः सः पञ्चाब् गोवा राज्ययोः राज्यपालकश्चासीत्।
बंगलादेशविमोचनयुद्धकाले भारतसैन्यस्य पूर्वकमाण्डन्ट्  विभागस्य नेता आसीत् जेक्कब्वर्यः। धाक्का प्रविश्यायां पाक्सैन्यस्य पराजय अस्य बुद्धिपूर्वकक्रियाविधेः फलमासीत्।

Wednesday, January 13, 2016

तिरुच्चेन्तूरे तिमिंगलाः मृताः।

तूत्तुक्कुटी > तमिळनाटुराज्ये तिरुच्चेन्तूर् समुद्रतीरे ४५ बलीन् वंशीयाः तिमिंगलाः मृत्युमुपगताः।२६० परिमिताः समुद्रान्तर्भागं गन्तुमशक्ताः तीरे एव वर्तमानाः जाताः। सोमवासरे मध्याह्नादारभ्य मत्स्याः तीरमुपागन्तुमारब्धाः इति धीवरैः उक्तम्।