OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, January 5, 2016

पठान् कोट् आक्रमणेषु जैषे-मुहम्मदस्य संबन्धः।
नवदिल्ली > पठान् कोट् व्योमनिलये जातम् आक्रमणं जैषे मुहम्मद् नाम आतङ्कवादिदलेन कृतम् इति ऊह्यते। पाकिस्थानम् आस्थानं कृत्वा  ततः एव आक्रमणाय निदेशः क्रियते। पठान्‌ कोट् संघट्टने मृतानां भीकराणां जैषे मुहम्मद् दलेन साकं संबन्धः अस्ति इत्यस्मिन् तु प्रमाणं लब्धम् ।
              प्रमाणानि गुप्तान्वेषणफलानि च पाकिस्थानाय दत्वा दलान् विरुध्य दण्डं स्वीकर्तुं भारतस्य  प्रेरणा भविष्यति। एतस्मिन् विषये पाकिस्थानस्य प्रवर्तनानि अनुसृत्य एव भारत पकिस्थानयोः सचिवयो: चर्चायाः गति: l

Monday, January 4, 2016

Image result for yogaविश्वविद्यालयेषु योग शास्त्रं-
यु.जि.सी व्यवस्थाम् आरब्धवन्तः
नवदेहली > राष्ट्रे विश्वविद्यालयेषु योग शास्त्रं पाठ्‌ये क्रमीकर्तुं यु.जि.सी व्यवस्थाम् आरब्धवन्तः । योगे विश्वस्मिन् सर्वत्र व्यापमाने सति प्रधानमन्त्रिणः नरेन्द्रमोदिवर्यस्य निर्देशेन एव अयं परिष्कार: ।  योगशास्त्रे  बि .ए ,एम्. ए  वर्गान्  आरब्धुमेव पद्धतिः ।


सि पि एम् नेतृत्वे धर्मातीत-योगप्रदर्शनम्।
कण्णूर् > सिपिएम् दलनेतृत्वे मन्त्र-प्रार्थनादिधार्मिकाचारान् विना सविशेषपाठ्यक्रममनुसृत्य सज्जानि योगासनानि प्रदर्शितानि। सूर्यनमस्कारसहितानि ३५ आसनानि मन्त्राणि ओङ्कारध्वनिं वा विना केवलं संगीतस्य अनुगमनेन अवतारितानि।

पठान्कोट्ट्व्योमनिलये पुनरपि संघट्टनम्
सैनिकाः वीरमृत्युं प्राप्तः।
नवदिल्ली > पठान्कोट्टव्योमनिलये इतःपरं भीकराः निलीयमानाः सन्तीति प्रत्यभिज्ञाय एन् एस् जि सैनिकैः कृते आक्रमणे पञ्च भीकराः हताः। प्रत्याक्रमणे सप्त सैनिका अपि वीरमृत्युं प्राप्ताः। तेष्वेकः केरलदेशीयः लफ्टनन्ट केणल् निरञ्जन् कुमारः (32)अस्ति।
कोमण्वेल्त् सुवर्णपतकजेता पत्ते सिंहः ,गुरुसेवकसिंहः, हवील्दार् कुल्वन्त् सिंह, जगदीशसिंहः  , सञजीव् कुमारः इत्येते मृत्युमुपगताः अन्ये सैनिकाः।

Sunday, January 3, 2016

पतान्‌ कोट् आक्रमणम् - सुषमया उन्नतस्तरीययोगः आयोजितः
नव दिल्ली > पतान् कोट् व्योम निलयाक्रमणस्य अनुभवेन सचिवानां योग: विदेश विभाग मन्त्रिणी सुषमा स्वराजेन आहूत:। दौ विदेश विभाग सचिवाै भारतस्य चत्वारि हैक्कग्मीषन जनाः च मिलिताः । भविष्यमाणं भारत पाकिस्थानयोः चर्चां अधिकृत्य च चिन्तितवन्तः।
संस्कृत-प्रभावः
 

संस्कृतेन प्रभावितः मुख्यमन्त्री।

विदर्भा >महाराष्ट्रराज्ये संस्कृत -अकादमी 'गठिता'(प्रारभेत) भवति इति मुख्यमन्त्रिणा देवेन्द्र फडणवीस महोदयेन उद्घोषितम्। ह्य:संस्कृतभारत्या: विदर्भप्रान्तीयसम्मेलने मुख्यातिथिरूपेण उपस्थित: आसीत् मुख्यमन्त्री। शालेयसंस्कृतशिक्षणक्षेत्रे अपि परिवर्तनम् करिष्यति इत्यपि तेन प्रतिपादितम्।

१०३तमस्य भारतीयविज्ञानसम्मेलनस्य कर्णाटकराज्ये मैसूरुनगरे श्रीगणेशः श्रीमोदिनः पाणिपद्माभ्याम्। व्यासनद्यां हैदराबादस्य २४बी.टैक-छात्राणां प्रवाहदुर्घटनाम् आलक्ष्य तेषां परिवारेभ्यः प्रत्येकस्मै विंशतिलक्ष्यरूप्यकात्मकः क्षतिपूर्तिराशिः।

Saturday, January 2, 2016

पञ्चाबे व्योमसेनायाः निलये भीकराणाम् आक्रमणम् ।
terrorअमृतसर: > सैनिकानां वेषं धृत्वा आगताः भीकराः सेनानिलयम् झटिति प्राप्ता:। रात्रौ त्रिवादने आरब्धम् आक्रमणं अधुनापि प्रचलति। भीकरेषु द्वौ मारितौ: । प्रदेशवासी टाक्सी चालकः अपि मारितः। अतीवसुरक्षासंरक्षिते पतान् कोट् व्योम सेनानिलये एव आसीत् भीकरचतुष्टयानाम् आक्रमणम्।
भीकराणां आक्रमणाय साध्यता अस्ति इति रहस्यान्वेषणविभागैः सूचना दत्ता आसीत्। तथापि असंभाव्यं  यत् तत्‌  जातम् इत्यस्मात् सुरक्षायाः क्षमता न्यूनतमा इति परिगण्यते ।

Friday, January 1, 2016

निर्वाचने - दत्तवचनानि पालयितुं स्मारयित्वा मोदिं प्रति हसारे..



नव दिल्ली > निर्वाचनकाले जनेभ्यः दत्तवचनानि पालयितुम् स्मारयित्वा अण्णा हसारे महाभागेन प्रधानमन्त्रिणे मोदिवर्याय प्रत्रं प्रेषितम्। गुप्तं धनं प्रत्यानयनाय अलीकरहित भारतनिर्माणाय लोकसभायाः निर्वाचनसन्दर्भे जनेभ्यः वाग्दत्तवान् मोदिवर्यः

कोण्ग्रस् सर्वकारस्य शासनकाले सर्वत्र अलीकानि आसीत् हस्ते धनं न ददाति चेत् कार्यालयेभ्यः सेवनानि लब्धुमर्हता नासीत्। जनाः भवतः वाचं निशम्य भवन्तं निर्वाचितः । किन्तु अधुनापि अवस्थान्तरं नास्ति। UPA -मोदि सर्वकारयोः मिथः भेद: नास्ति इति च हसरेमहाशयेन पत्रे लिखितःअस्ति।

अन्तरीक्षमलिनीकरणात्‌  दिल्ली रक्षितः

दिल्ली > ए.ए.पि सर्वकारस्य अन्तरीक्षमालिन्यमोचन याेजनायां केन्द्रसर्वकारः अपि भागभाजः अभवत् ।
प्रथम - दित्व सङ्ख्यक वाहनानि दिनद्वयेषु  एकस्मिन्  दिने वीथिषु चालनीयानि इति  आशये  प्रभावितः केन्द्र सर्वकारेण अपि तदनुसृत्य निदेश: प्रख्यापितः ।  १५ दिनानि यावत् निरीक्षणं कृत्वा भविष्यत्काले अवलोकयतुं निश्चितम्। 


त्रिपुराराज्येषु विद्यालयेषु योग शास्त्राध्यनम्

अगर्तल > पाठ्यपद्धत्यां योगासनमपि सन्निवेश्य त्रिपुरा राज्यस्य सर्वकारः आदर्शराज्यः अभवत्। अत्र सि पि एम् सर्वकारः शासनं कुर्वन्नस्ति। प्रथमकक्ष्यातः अष्टमकक्ष्या पर्यन्तं अद्य आरभ्य योगापरिशीलनस्य शुभारम्भ: |
एतत् अनुशासनमधिकृत्य शिक्षामन्त्रिणा तपन् वर्येण उक्तः I
प्रथमश्रेण्यां शतं विद्यालयेषु आरम्भं कृत्वा पुनः नगरेषु ग्रामेषु आदिवासि जनविभागानां प्रदेशेषु च प्रसारयितुमुद्दिश्यते इत्यपि तेनोक्तम्।
छात्राणां शरीरस्य मनसः च स्वास्थ्य वर्धनमेव अनेन उद्धिश्यते । शैशवे एव योगाध्ययनेन धर्मनिष्ठानां नवयुवकानां निर्माणमेव संभवति।

राज्यस्य संपूर्णेषु विद्यालयेषु योगाध्यापकानां नियुक्तिः विलम्बं विना भविष्यति। मुख्यमन्त्री माणिक् सर्कारस्य नेतृत्वेन विराजमानेन मन्त्रिसभायोगेन निश्चयमिदं स्वीकृतम्।

Thursday, December 31, 2015

प्रधान वार्ता: 31-12-2015

प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य दिल्लीमेरठ-एक्सप्रेसवे इति मार्गपरियोजनायाः शिलान्यासो विधास्यते।

म्याँमारदेशे त्रिदेशीयराजमार्गमालक्ष्य एकोनसप्ततिः सेतूनां निर्माणाय केन्द्रीयमन्त्रिमण्डलेन स्वीकृतिर्दत्ता।

मोदिनो लाहौरयात्रया समुत्साहितो नवाज़शरीफ़ो ब्रवीति यद् भारतपाकिस्तानाभ्यां वैरत्यागस्य कालः खलु समागतः।

मावोवादिनः स्वाधीनतायां आगता:

राय्पूर् > छत्तीस्गड् राज्ये मावो वादिनः सर्वकारस्य पुरतः अधीनाः। सर्वकारेण आयोजिता स्वाधीनता योजनायां एव २३ संख्याका: भीकरवादिनः तेषां आशयान्‌ विहाय राष्ट्रस्य भागभाजः अभवन् । तेषु षट् जनाः कुटुं कोन्द्र स्वदेशीयाः। बियास् पुरतः एकादशसंख्यकाः चन्द्रगिरीतः पञ्चजनाः च स्वाधीनतायाम् आगता : I बस्तर् देशे आयोजिते राली मेलने लब्धः आशयः मनसः परिवर्तनाय कारणभूतः अभवत् इति ते वदन्ति। गत सप्ताहे ७० जनाः सुख्मदेशे स्व - आशयान् त्यक्त्वा आगतवन्तः आसन्।

Wednesday, December 30, 2015

जल-शुद्धीकरणाय नूतनसंयुक्तः - न्युनव्ययेन ।
 
 न्यूयोर्क् > जलमालिन्यानि निमिषाभ्यन्तरेण शुद्धीकर्तुम् शक्त: राससंयुक्तः अमेरिकाराष्ट्रस्य गवेषकैः निर्मिताः। अल्पेन व्ययेन जलं मालिन्यात् मुक्तं कर्तुं शक्याते इति  कूपी जलवाणिज्ये गृहेषुजलशुद्धीकरणाय व्ययः न्यूनीकतुं सहायक एव।
कोर्णल् विश्वविद्यालयस्य गवेषकैः पर्यवेषिता इयं विद्या । सितायाः बृहदाकारा तन्मात्रा(सैक्लोडेक्स्ट्रिन्) भवति अयं संयुक्तेषु एक:I आक्टिवेटड् कारबण् सङ्केत:भवति इदानीं उपयुज्यमाना विद्या। एतस्याः काचन अंशेन सितांश: च निवेश्य निर्मीतः अयं संयुक्तः निमिषान्तरेण जलं शुद्धीकरोति इति गवेषकानां नेता प्रोफ. विल् डिच्चल् महोदय: अवदत् । जलप्रवाहः नालिकायाः प्रवाह: अपि अनेन शुद्धीकर्तुं शक्यते अविकसितेषु राज्येषु पानीयजलसमस्यायाः परिहारवत्  विराजते अयम् । लोकेषु आश्वासदायका इयं वार्ता :।


पाकिस्तानाय चारवृत्तिः
व्योमसेनायाः उद्योगस्थ: गृहीतः। 
नवदेहली - ऐ .एस् . ऐ इति पाक् रहस्यान्वेषण संस्थायै चारवृत्तिः कृता  इति कारणेन व्योमसेना उद्योगस्थः गृहीतः। रञ्जित् इति व्योमसेना उद्योगस्थः देहली आरक्षकदलेन पञ्जाबतः गृहीतः । सोमवासरे गृहीतः अयं देहल्यां पड्याल न्यायालये उपस्थापितः।
पञ्जाबे भट्टिन्डायामेव अयं नियुक्तः आसीत् । भारतीय प्रतिरोध रहस्यानि ई-पत्र द्वारा लघुसन्देशद्वारा च अनेन पाकिस्तानाय दत्तानि। एतदधिकृत्य ज्ञाते सति अयं कार्यात् बहिष्कृतः  आसीत्। सामूहिकमाध्यमद्वारा परिचिता काचित् युवतिरेव एतं चारवृत्तिं प्रति आकर्षितवती।

Tuesday, December 29, 2015

काश्मीरे केन्द्रसर्वकारः सफलतां याति।
  
नवदेहली > केन्द्रसर्वकारस्य विकसन योजना: भीकरान् विरुध्य सुरक्षासेनया कृतानि कार्याणि च कश्मीरे फलप्रदानि भवन्ति इति वृत्तम् । तत्र भीकरप्रवर्तनस्य प्ररिमाणे न्यूनता अस्ति इति सुरक्षा विभागेन सूचितम् । 
कश्मीरे केन्द्रसर्वकारेण कृताः विकसनपद्धतयः अस्मिन् मुख्यं स्थानम् आवहति |

चीनायां सुरक्षादलेभ्यः अधिकारविस्तृतिः ।

बैजिङ्> सुरक्षादलेभ्य: विस्तृतान् अधिकारान् दत्वा भीकरान् विरुद्ध्य नूतन नियमाय चीनायाम् अङ्गीकारः। एतादृश भीकर-विरुद्ध नियमः चीनया ऐदंप्राथम्येन निर्मितः। कम्यूजणिस्ट् दलेन प्रथमम् अङ्गीकृत्य NPC स्टान्टिङ् कम्मट्याः पुरतः समर्पितः अयं नियम: समित्याः १५९ अङ्गानां अनुज्ञया अङ्गीकृतःI अनेन नियमेन राष्ट्रस्य बहिः अपि भीकरान्‌ विरुद्ध्य आक्रमणाय सैन्येभ्यः सायुध -आरक्षकदलेभ्यश्च अधिकारः अस्तिI तिबत् विभागे अपि नियमस्य प्राबल्यम् अस्तिI नूतन नियम: अमेरिकराष्ट्रेण निरसितः I स्वाभिमत प्रकाशनाय बाधा भवति अनेन नियमेन इति अमेरिका राष्ट्रेण निरीक्ष्यते। अनेन नियमेन स्वतन्त्रतायाः ध्वंसनमेव भविष्यति इति अमेरिकायाः मतम्।

दशलक्षाधिकानाम् आयवताम्  आर्थिकसहायं न लभते।

नवदिल्ली > येषां वार्षिकायः दशलक्षरूप्यकाणामधिकं जायते तेषां  अनलकोषार्थसाहाय्यं निरोद्धुं केन्द्रसर्वकारेण निश्चितम्। आगामी जनवरिमासादारभ्य पचनवातकाय अर्थसाहाय्यम् अभिलषन्तः उपभोक्तारः आयः दशलक्षात् न्यूनमिति सत्यवाङ्मूलं समर्पयेयुः।अर्थसाहाय्यम् अर्हतावतां परिमितं कर्तुमेव एतादृशं नियन्त्रणम्।   
    

Sunday, December 27, 2015

तुळू भाषा अङ्गीकृता स्यात्।


कासर्कोट् - अंगीकृतभाषा भवितुं तुळू भाषायाः प्रयत्नः साफल्यं प्राप्नोति।भारत संविधानस्य अष्टमपट्टिकासूचीमध्ये (Schedule) सूचिताङ्गीकृत भाषाणांमध्ये तुळू नाम भाषां च अन्तस्स्थापयितुं निर्णयः स्वीकृत: । दक्षिणभारतस्य पञ्चसु द्राविडभाषासु प्रधानभूता तुळू ३८तम भाषारूपेण पट्टिकायां स्थानं प्राप्तवती। केन्द्रगृहमन्त्रालयस्य अधीने वर्तमानया समित्या एव अन्तिमनिश्चयः स्वीकरणीयः।



सि. पि. एम्य् देशीय  प्लीनम् सम्मेलनम् आरब्धम् I


कोल्कोत्ता - अधिकारभ्रष्टेषु राज्येषु प्रत्यागमनस्य काहलं घोषयित्वा कम्म्यूणिस्ट् पार्टि आफ् इन्डिया(मार्क्सिस्ट्) दलस्य (सि पि एम्) देशीयप्लीनं सम्मेलनं कोल्कोत्तायां ब्रिगेड् मैताने आरब्धम्।३५ संवत्सरेभ्यःपरमेव दलस्य प्लीनं सम्मेलनं प्रचलति। विविधमण्डलेषु अनुवर्तमानाः नयरूपवत्करणचर्चाः अत्र भविष्यन्ति।
       


अफ्गानसंसद् नरेन्द्रमोदिना उद्घाटिता।
narendra modi, Ashraf ghani, modi in kabul, modi ghani meeting, india afghanistan deals, modi in afghanistan, modi opens afghan parliament, vajpayee block , new afghan parliament , modii address afghan parliament, india news, afghanistan news, modi in kabul news, latest newsअंबुजा - अफ्गानिस्तान् राष्ट्राय भारतेन निर्मीय दत्तं नवीनं संसद्भवनं भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अफ्गानस्य राष्ट्रपतिः मुहम्मद् अषरफ् गनी च मिलित्वा  उद्घाटितवन्तौ। उभयोः राष्ट्रयोः परस्परसौहृदस्य सहकरणस्य च प्रतीकः अस्ति नवीनं संसद्मन्दिरमिति मोदिवर्यः अवोचत्। उभयराष्ट्रसौहृदस्य शाक्तीकरणमुद्दिश्य २००७ तमे संवत्सरे नूतनसंसद्भवनं निर्मीय दातुं भारतं निश्चिकाय।६०० कोटि रूप्यकाणां निर्माणव्ययः अभवत्।भवनसमुच्चये अन्यतमविभागस्य भारतस्य भूतपूर्वप्रधानमन्त्रिणः अटल् बिहारी वाजपेयिवर्यस्य नामकरणाय निश्चय अपि कृतः।
मोदिनः अप्रतीक्षितं पाक्-सन्दर्शनम्
शुभप्रतिक्षायाः भूमिका सञ्जाता।
 भारत-पाक् विदेशविभाग सचिवानां उभयाभिमुखं जानुवरीमासस्य 15 दिने भविष्यति
नवदिल्ली - भारतस्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः अप्रतीक्षितेन पाकिस्तानसन्दर्शनेन राष्ट्रयोर्मध्ये  शुभप्रतीक्षा सञ्जाता। विदेशाविभागकर्यकार्यदर्शिनो: मेलन पर्यालोचनं जनुवरि १५ दिनाङ्के इस्लामबादनगरे स्यात्। ततः समग्रचर्चायाः दिनाङ्कादिकं विज्ञापयिष्यति। मोदिनः रष्यासन्दर्शनं समाप्य प्रत्यागमनवेलायामेव पाक्-सन्दर्शनं जवेन निश्चितम्। लाहोर् विमाननिलये पाकिस्तानस्य प्रधानमन्त्री नवास् षरीफः मोदिनं स्वीकृतवान्। ततः एकघण्डां यावत् चर्चा कृता। रात्रावेव मोदिवर्यः दिल्लीं प्राप्तवान्। 


शर्माजी पुरस्कारेण  श्री टी के सन्तोष् कुमार: सम्मानितः
तोटुपुषा (केरलम्)- संस्कृतभाषा प्रचरणमण्डले नूतनाविष्कारैः प्रवर्तमानायाः संस्कृतभारत्याः केरलविभागेन विश्वसंस्कृतप्रतिष्ठानेन संस्कृताध्यापकानां कृते प्रतिवर्षम् शर्माजी पुरस्कारः दीयते । विद्यालयाध्यापनेन साकं सामाजिकप्ररिवर्तनाय अपि कार्यं कुर्वतां संस्कृताध्यापकानां कृते  एव अयं पुरस्कारः दीयते । अस्य वर्षस्य शर्माजी पुरस्काराय चितःटी. के सन्तोष्कुमार: केरल संस्कृताध्यापक फेडरेषन् कार्यदर्शी तथा कोषिक्कोड् नन्मण्डा करुणारां यु पि विद्यालयस्य संस्कृताध्यापकश्च भवति।
विश्वसंस्कृतप्रतिष्ठानस्य रक्षाधिकारी तथा अन्तर्देशीय संस्कृत कण्सल्टन्ट   पण्डितरत्‍नं डो.जी. गङ्गाधरन् नायर् महोदयः श्री.टी. के. सन्तोष्कुमाराय पुरस्कारं ददाति। १०००१ रूप्यकाणि प्रशस्तिफलकम् च अस्मिन् पुरस्कारे अन्तर्भवति । पुरस्कार: संस्कृत अद्यापक फ़ेटरेशन् संस्थाया: लब्धः अङ्गीकारमिति मन्ये इति संतोष् वर्यः प्रत्यवदत् ।
संस्कृतस्य कृते निस्वार्थ सेवनम् कृतवानयं इति गङ्गाधर महाभागेन उक्तम् ।

Saturday, December 26, 2015

सप्तम देशीय श्रीशङ्करनृत्तसंगीतोत्सवस्य अद्य शुभारम्भः ।

कालटी - केरलस्य अद्वतभूमिः कालटी तावत् अद्य आरभ्य पञ्च दिनं यावत् लोकप्रशस्तानां नृत्तसंगीतकलाकाराणां वैभवेन सम्पन्ना भविष्यति।
कालटी श्रीशङ्करनृत्तविद्यालयस्य नेतृत्वे आयोज्यमानः सप्तमः नृत्तोत्सवः डिसं.२६ - ३० पर्यन्तं श्रीशङ्करनाट्यमण्डपस्य समीपे सविशेषरीत्या कृतायां  २२५० चतुरश्रपादमितायां नृत्तवेदिकायां प्रचलिष्यति।
२६तमदिनाङ्के सायं ५.४०वादने प्रसिद्धः कथक् नर्तकः अषिं बन्धु भट्टाचार्यः,(कोल्कत्ता) कथक् नृत्तमवतारयति। २७ - सायं श्री रञ्जित् श्रीमति विज्ना (चेन्नै)इत्येताभ्याम् अवतार्यमाणं भरतनाट्यम् , २८ - सरिता मिश्रायाः (बङ्गलूरु)ओडीसी ,२९ -डो. द्रौपदी प्रवीण् ,डो . पद्मिनिकृष्णन् (केरलं) इत्येतयोः भरतनाट्यं-कुच्चिप्पुटी फ्यूषन्नृत्तं ,जयप्रभा मेनोन् (नवदिल्ली) महाभागाया: मोहिनियाट्टं , कलारत्नं दीपिका रड्डि (हैदराबाद्) वर्यायाः कुच्चिप्पुटी च भविष्यन्ति।समापनदिने - ३० -सायं कलाश्री सुनन्दा नायर् (मुंबई) महाभागया अवतार्यमाणं मोहिनियाट्टं च भविष्यति।

Prashikshana Shibiram

प्रशिक्षणस्य स्वानुभवकथनम्।



 परीक्षा क्रीडा द्वारा


 
*
कुमारमङ्गले प्रवर्तमाने शिक्षकप्रशिक्षणशिबिरे ह्यः परीक्षा आसीत् । परीक्षा कीदृशी भविष्यति इति भिया आगतानां शिक्षार्थिनां पुरतः विविधाभिः भाषाक्रीडाभि: आगत्य शिक्षकाः तान् आश्चर्यचकितान् कृतवन्तः ।

प्रशिक्षणे वररुचिगणः सरण्यां सरस्वतीगणः च प्रथमं स्थानं प्राप्तवन्तौ। प्रत्येकगणेन निर्मितानां भित्तिपत्रिकाणां प्रकाशनमपि जातम्। राष्ट्रियस्वयंसेवकसङ्घस्य सङ्घचालक : नारायनन् महोदयः आशंसाभाषणं कृतवान्।


वेदाः भारतसंस्कृतेः प्रभवकेन्द्राः -
भारतस्य राष्ट्रपतिः।

 हैदराबाद् - भारतस्य अमूल्यसंस्कृतेः परम्परायाः च स्रोतः भवति वेदाः इति भारतस्य राष्ट्रपतिना प्रणाब् मुखर्जिना उक्तःआन्ध्रराज्ये तिरुमलै तिरुप्पति देवस्थाने आयोजिते वेदपाठशालायाः उद्घाटनसन्दर्भे भाषमाणः आसीत् सः
अस्माकं धार्मिकतायाः आधारः वेदाः एव वेदे प्रतिपादिदाः अंशाः व्यक्तेः समूहस्य तथा राष्ट्रस्य च कल्याणाय कल्पन्ते सार्वजनीक साहोदर्यस्य संदेशः वेदाः प्रसरन्ति ज्ञान- बुधि- धारणा च वेदाध्ययनेन सम्भवति  इति च अनेन महात्मना उद्घोषितः । 

सौदी आतुरालये महादग्निबाधा -25 मरणानि।
जिद्दा- सौदी- यमन् राष्ट्रयोः सीमायां जिसान् प्रदेशे सौदीसर्वकारातुरालये संजाते अग्निदुरन्ते २५ जनाः मृताः। १०७ जनाः दग्धाश्च। अरब्वंशीयाः रुग्णाः तेषां सहायिनश्च दुरन्ते बलिभूताः।