OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 24, 2015

तीव्रवादान् विरुध्य तीव्रवादिनेतु: कार् यानम् अग्निसात्करोत्।
गासियाबाद् - तीव्रवादान् विरुध्य  तीव्रवादि नेतु: दावूद् इब्राहिमस्य कार् यानम् अग्निसात्करोत्। हिन्दुमहासभायाः प्रवर्तकाः गासियाबादस्य इन्दिरा पुरा देशे जनानां पुरतः कारयानम् अग्निसात् कृत्वा तेषां प्रतिषेधः ज्ञापितवन्तः। दावूदस्य डि नाम संस्थायाः भीषणिमगणयन् एव प्रतिषेधः कृतवन्तः। 

क्रिस्तुमस् पर्वणः निरोधः 
  
ब्रूणे - अस्य राष्ट्रस्य नेता सुल्त्तान् हसनल् बोलक्कय्या एव क्रिस्तुमस् आघोषाय निरोधानां कृतवान् जानुवरी मासस्य 16 दिने  दक्षिणपूर्व एष्यायां बार्णियो द्वीपे विद्यमानं राष्ट्रमेतत्।
-
 गतवर्षेषु अपि एतादृश निरोधः आसीत्। 4,20,000 जनाः अत्र वसन्ति्। तस्मिन् प्रतिशतं द्वात्रिंशत् जनाः विविधधर्मावलम्बिनः सन्ति

 भारत-पाक् विदेशविभाग सचिवानां चर्चा

नवदिल्ली-भारत-पाक् देशयोः विदेशविभागसचिवानां उभयाभिमुखं जानुवरीमासस्य 16 दिने भविष्यति। पाक्क् प्रधानमन्त्रिणः विदेशविभागस्य निदेशकेन सर्ताज् असीसेन निर्दिष्टा इयं चर्चा इस्लामबादे प्रचलिष्यते। विदेशकार्यमन्त्रिण्या: सुषमा स्वराजस्य पाक्क् प्रथानमन्त्रिणा सह सम्पन्ने मेलने एवायं निश्चयः जातः


 बालनीतिविधेयकं राज्यसभया अङ्गीकृतम्।

नवदिल्ली - गुरुतरापराधान् क्रियमाणाः १६-१८ मध्ये वयस्काः कुमारकाः प्रौढा इव नैतिकविचारविधेयाः भवितुं सप्तसंवत्सरपर्यन्तं कारागृहवासं च व्यस्थापयितुम् उद्दिष्टं  बालनीतिभेदगतिविधेयकं राज्यसभया अपि अङ्गीकृतम्।पूर्वमेव लोकसभया अङ्गीकृतमिदं विधेयकं राष्ट्रपतेः हस्ताक्षरविन्यासेन नियमः भविष्यति।

नरेन्द्रमोदी मोस्को प्राप्तः।
Image for the news resultमोस्को - दिनद्वयात्मकरष्यासन्दर्शनाय भारतप्रधानमन्त्री नरेन्द्रमोदी मोस्कोनगरं प्राप्तवान्। तत्र नुक्कावो-२ विमाननिलये  मोदिवर्यः रष्यासैन्यस्य " गार्ड् आफ ओणर्" विन्यासेन स्वीकृतः।राष्ट्रपतिः व्लादिमिर् पुतिन् महोदयः रात्रिभोजनेन सह सत्कारं समर्पितवान्। अद्य द्वावपि राष्ट्रनेतारौ उभयपक्षचर्चां कृत्वा आणवोर्जः राष्ट्ररक्षा इन्धनम् इत्यादिषु मण्डलेषु अनुबद्धेषु हस्ताक्षरं करिष्यतः।ततः मोदीवर्यः रष्यस्थान् भारतवंशजान् अभिसंबुद्धिं करिष्यति।

Wednesday, December 23, 2015


 केजरिवालाय उच्च न्यायालयेन सुचना प्रेषिता।
नवदिल्ली - धनमन्त्रिणं अरुण् जैतट्लीं विरुद्ध्य व्याज अलीक आरोपणे दिल्ल्याः मुख्यमन्त्रिणे  केजरिवालाय उच्च न्यायालयेन सुचना  प्रेषिता। केजरिवालं विहाय पञ्च आम आदमी नेतृभ्यः सुचना  प्रेषिता। वारत्रयाभ्यन्तरेण प्रत्युत्तरं दादव्यमस्ति। दिल्ली क्रिक्कट् संस्थादलान् सम्बन्ध्य व्याज अलीकारोपणे 10 कोटि रुप्यकाणां अभिमाननष्टस्य मूल्यमिति: जैट्लिना पञ्चीकृतः ।

 बस् यानं विमाने घट्टितम् 
कोल्क्कत्त-  कोल्क्कात्तायां  राज्यान्तरीयव्योमयान निलये  बस् यानं विमानेन सह घट्टितम्।  जेट्ट् एयर् वेय्सस्य भवति बस् यानम्। एयर् इन्त्यायाः स्थगिते विमाने आसीत् घट्टनम्। तस्मिन् समये विमाने यात्रिकाः नासीत्। विमान गृहे सुरक्षायाः अभावः अस्ति इति अनया दुर्घटनया सूच्यते।


समूह योग विदेशेऽपि
दुबाय् -  अबुदाबी नगरे योगत्तोण् इति नाम्नि समूह योगप्रदर्शनम् आयोजितम्। अबुदाबी मुशिरिश् पार्क्क् मध्ये 25राष्ट्रेभ्यः षट्शताधिका: जनाः योगाचरणाय मिलिताः। आर्ट ओफ़् लिविङ्ग् अबुदाबी केन्द्रेण आयोजितः इदं मेलनम् । राष्ट्रान्तर - परिशीलक: हसन् टफ़्ति: परिशीलनस्य नेतृस्थाने आसीत् । विद्यालयछात्राः अपि भागभाजः आसन् ।

शबरिगिरौ महान् भक्तजनसम्मर्दः -३२ आहताः।
शबरिगरिः - दक्षिणभारतस्य महातीर्थाटनकेन्द्रे शबरिगिरौ भक्तजनप्रवाहः वर्धते।गतदिने सन्निधाने सञ्जाते भक्तजनसम्मर्दे ३२ अय्यप्पाः आहताः। क्रिस्मस् कालीनविरामदिनानि , वातावरणानुकूलतया तमिळनाट् राज्यात् समागतभक्तजनबाहुल्यं च सम्मर्दकारणानि जातानि। अन्यथा शबरिगिरौ च वातावतरणं भक्तानुकूलं एव वर्तते।


शर्माजी पुरस्कारः श्री टी के सन्तोष् कुमाराय 

तोटुपुषा - संस्कृतभाषा प्रचरणमण्डले नूतनाविष्कारैः प्रवर्तमानायाः संस्कृतभारत्याः केरल घटकेन विश्वसंस्कृतप्रतिष्ठानेन संस्कृताध्यापकानां कृते प्रतिवर्षम् शर्माजी पुरस्कारः दीयते । विद्यालयाध्यापनेन साकं सामाजिकप्ररिवर्तनाय अपि कार्यं कुर्वतां संस्कृताध्यापकानां कृते  एव अयं पुरस्कारः दीयते । केरले संस्कृतप्रतिष्ठानस्य आरम्भकालकार्यकर्ता संस्कृतप्रचारकः कविः पण्डितः इत्यादि रूपेण विख्यातस्य कृष्णशर्मणः स्मरणार्थमेव अयं पुरस्कारः दीयते ।

     अस्य वर्षस्य शर्माजी पुरस्काराय टी. के सन्तोष्कुमार: चितः इति पुरस्कारनिर्णयसमित्या सूचितम् । 
केरल संस्कृताध्यापक फेडरेषन् कार्यदर्शी   कोषिक्कोड् नन्मण्डा करुणारां यु पि विद्यालये संस्कृताध्यापकश्च भवति सन्तोष्कुमारः।  १०००१  रूप्यकाणि प्रशस्तिफलकम् च अस्मिन् पुरस्कारे अन्तर्भवति । २६ दिनाङ्के तोडुपुषायां प्रचलतः राज्यशिक्षकप्रशिक्षणशिबिरस्य समापनसम्मेलने  विश्वसंस्कृतप्रतिष्ठानस्य रक्षाधिकारी तथा अन्तर्देशीय संस्कृत कण्सल्टन्  पण्डितरत्‍नं डो.जी. गङ्गाधरन् नायर् पुरस्कारं दास्यति । डा . एम्. पि उण्णिकृष्णन् , डा.पि.के.शङ्करनारायणः , डा इ .एन् . ईश्वरः इत्येतेषां समितिरेव पुरस्काराय सन्तोष् कुमारं  चितवती । 
अशोकन्  पुरनाट्टुकरा , सुरेन्द्रन् कटक्कोट् , रामचन्द्रन् ए .के. , डा . कोरमङ्गलं कृष्णकुमारः , सि .एन् . सोया , पद्‌मनाभशर्मा इत्येते एव पूर्वम् शर्माजी पुरस्कारं प्राप्तवन्तः ।

Tuesday, December 22, 2015

 केरले जतुकृषकाः महत्सङ्कटे। 

कोट्टयम् - केरलराज्ये जतुकृषिः महान्तं प्रतिकूलसन्धिम् उपगच्छति। संवत्सरेभ्यः अनुवर्तमानं मूल्यशोषणमेव कारणम्। दिनंप्रति जतुमूल्यस्य अधःपतनम् अनुवर्तते। अतः ह्रस्वक्षेत्रस्वामिनः कृषकाः च्यावनात् प्रतिनिवृत्ताः। वर्षत्रयात्पूर्वं एककिलोपरिमितस्य जतोः मूल्यं २०० रूप्यकाण्यासन्। किन्तु इदानीं ९०- ९२ रूप्यकाणि कृषकः लभन्ते। जतुविपण्याः मान्द्यम् इतरविपणिमण्डलानि अपि प्रतिकूलेन बाधते।
रेल् यात्रा दुरितपूर्णा


नव दिल्ली-  केरलस्य स्वाभिमाने भवतः केरला मङ्गला इति नामके द्वे रेल् याने । केरलतः बहवः जनाः ताभ्यां यानाभ्यां यात्रां कुर्वन्तिI तत्र यात्रिकाणां कृते अवश्यसौकर्याणि अपि न सन्तिI दुष्टान्नं शुचित्वरहितः यानान्तर्भागः  क्षालनाय दुर्लभं जलम् उपयोगेन नाशोन्मुखा शय्या जङ्‌गमदूरवाण्याः कृते विद्युत्प्रदानाय विद्युत्स्थानस्य अभावः दौर्लभ्यता च शय्या श्रेण्यां अधुनापि वर्तन्ते। यथाकालं यात्राशुल्कं वर्धन्ते तथा केरलानां यात्राक्ळेशः अपि।


जनानां कृते निर्वाचितै: नेतृभिः किमपि करणीयम्


नवदिल्ली - जनानां कृते निर्वाचितेभिः नेतृभिः किमपि करणीयः इति केरल राज्यस्य अभिनेता इन्नसेन्ट महोदयः अवदत्।  अधुना लोकसभायां सदस्यः भवति अयं महानुभावः। स्वकीय आतुरालयेषु जनान् क्लेशयन्ति अर्बुदरोगस्य औषधाणां कृते अधिकं मूल्यम् स्वीक्रियन्ते इति च सः लोकसभायाम् अवदत्। मम विषये अपि मूल्यं सोढव्याधिकं चेत् सामान्य जनेभ्यः इदं अप्राप्यमेव। अस्मदीयानां कर्तव्यम् अन्येषां महानसेषु किं अस्ति इति दृष्टुं न , जनोपयुक्तानि  प्रवर्तनानि नेतृभिः करणीयानि इति च सः अवदत् ।
 अमृतभाषा संस्कृतम्


उद्घाटनं - पेरुवा गीतामन्दिर् मठाधिपतिः वेदानन्द सरस्वती
कोच्ची- संस्कृतम् अमृतभाषा भवति इति पेरुवा गीतामन्दिर् मठाधिपतिः वेदानन्द सरस्वती अवदत्।
तोडुपुष़ा कुमारमङ्गलम्  एम् .के .एन् एम्.एच् .एस् .एस् . मध्ये विश्वसंस्कृतप्रतिष्टानद्वारा आयोजित शिक्षक - प्रशिक्षण- शिबिरस्य उद्‌घाटनं कृत्वा भाषमाण आसीत् सः।
तपस्या अध्यक्षः प्रोफ़ पि जि हरिदासः अध्यक्ष आसीत्।
संस्कृतभारत्याः राज्याध्यक्षः एम् पि उण्णिकृष्णः भाषणं कृतवान्।
पि नारायणः मुख्यातिथिः आसीत् । केरलक्षेत्रसंरक्षणसमिति अध्यक्षः  स्वामी अय्यप्पदासः मुख्यभाषणं कृतवान्। कुमारमङ्गलम् पञ्चायत् अध्यक्षः निसार् पष़ेरी , एम् .के .एन् एम्.एच् .एस् .एस् . प्राचार्यः के . अनिलः, विश्वसंस्कृतप्रतिष्ठानस्य कार्यदर्शी वि श्रीकुमारः , पञ्चायत् अङ्ग: उषाराजशेखरः धनेष्कुमारः , एम् . जी .राजशेखरः इत्येते भाषणं कृतवन्तः । शिबिरं २७ दिनाङ्के समाप्तिमेष्यति।

Monday, December 21, 2015

विश्वविद्यालयेन दर्शितं जनोपकारकं विज्ञानं विरुध्य  कीटनाशिनी निर्मातारः।
vegi washकोच्चि - विषलिप्तेभ्यः शाकाफ़लादिभ्य: रासकीटनाशिनीनां अंशान् क्षालयितुं केरल-कार्षिकविश्वविद्यालयेन निर्म्मितः जैवोत्पन्नः भवति वेजि वाष्। (VEGI VASH) विश्वविद्यालयेन सुस्थापितं  जनोपकारकं विज्ञानं विरुध्य कीटनाशिनी निर्मातृृणाम् 'क्रोप् केयर्' नाम सङ्घः  विश्वविद्यालयस्य उप-कुलपतये सूचनां प्रेषितवन्तः।
केरलेषु विपण्यां विक्रीयमानानि  शाकादीनि विशलिप्ताः तेन कारणेन जनाः अर्बुदादिभिः रोगैः बाधिताः च। निरोधिताः कीटनाशिन्यः अधुनापि तमिल् नाडु राज्यस्य विपणिषु सुलभाः। केरलेषु उपयुज्यमानेषु शाकासु प्रतिशतनवतिपर्यन्तं 90% अपि तमिल् नाडु देशात् आगच्छति ।
संस्कृत- प्रशिक्षण- शिबिरविशेष: (केरळतः)

संस्कृतेन क्रीडा


संस्कृतेन क्रीडा
चैनाराष्ट्रे भूपातः - २२ अदृश्याः।

बेय्जिङ् - दक्षिणचीनायां षेन् षान् नगरे गतदिने संवृत्ते भूपाते २२जनाः अदृश्याः अभवन्। नगरस्थे व्यावसायिकोद्यान एव दुरन्तः सञ्जातः। तत्र २२ भवनानि पूर्णतया मृदन्तर्भूतानि। अदृष्टेषु १७ पुरुषाः ५ महिलाश्च अन्तर्भवन्ति।
समीपस्थात् वप्रात् अशास्त्रीयं मृद्घननमेव दुरन्तकारणमिति उच्यते।


केरले संस्कृतप्रशिक्षणशिबिरः प्रचलति

संस्कृतं किमर्थम् इति विषये प. नन्दकुमारः

Sunday, December 20, 2015



अप्रौढापराधी मोचितः ; युवत्याः पितरौ आरक्षकरक्षणे।

नवदिल्ली - दिल्ल्यां संघटितबलात्कारविषये दण्डनविधेयः अप्राप्तव्ववहारः अपराधी कौमारसंरक्षणावासात् मोचितः सन् गूढस्थानं नीतः। सुरक्षाकारणेन स्थानं न व्यक्तीकृतम्। किन्तु सः न मोचनीयः  इत्याक्रोश्य प्रतिषेधं कृतवन्तौ युवत्याः पितरौ आरक्षकैः गृहीतौ।


देशीयविद्यालयीयकायिकमेला केरले ।

 कोच्ची - भारतस्य छात्राणां कायिकमेलां चालयितुं केरलं सन्नद्धमिति केन्द्रसर्वकाराय न्यवेदयत्। जनवरिमासस्य अन्तिमवारे कोष़िक्कोट् नगरं केन्द्रीकृत्य चालयितुं राज्यसर्वकारस्य निर्णय अभवत्।मेलाचालनाय केन्द्रसर्वकारात् आर्थिकसाहाय्यमपि अपेक्षितम्।सिद्धताम् अवलोकयितुं मंगलवासरे मन्त्रिणां नेतृत्वे कोष़िक्कोट् मध्ये प्रथमोपवेशनं भविष्यति।


मेट्रो रेल् योजनायाः  पट्टिका यानं 

जनवरी 2 दिने कोच्चीं प्राप्स्यते  

 श्रीसिट्टि- केन्द्रमन्त्रिणा वेङ्कय्य नायिटु महाभागेन केरलमन्त्रिणे आर्याटन् मुहम्मदाय श्री सिट्टि मध्ये यानपेटिकां दास्यते। तिस्रः पट्टिका पेटिकाः प्रथमतया दास्यते। तत् उपयुज्य फ़िब्रवरि मासे परीक्षण धावनं करिष्यते। श्री सिट्टिमध्ये विद्यमानाया: अल्स्तों संस्थायाः कर्मशालायां निर्माणं प्रचलन्नस्ति


सोणियायै राहुलाय च प्रतिभूतिः।
नवदिल्ली - नाषणल् हेराल्ड् विषये कोण्ग्रस् अध्यक्षायै सोणियागान्धी महाभागायै उपाध्यक्षाय राहुल्गान्धिमहाभागाय च दिल्ली पाट्याला हौस् न्यायालयेन निरुपाधिका  प्रतिभूतिः दत्ता।
सोणियागान्धिन्यै अग्रगण्यः कोण्ग्रस् नेता ए के आन्टणीवर्यः राहुल्गान्धिने प्रियङ्कागान्धी च दोषारोपितयोः दत्तवाक् दायिनौ अभूताम्। विषयः फेब्रुवरिमासस्य २० तमदिनाङ्के पुनः परिगण्यते।

Saturday, December 19, 2015

 रष्यातः मिसैल् प्रतिरोधतन्त्रं क्रेतुं 
सर्वकारस्य अनुमतिः।

नवदिल्ली- भारतस्य व्योमबलमण्डलम् अधिकं सुरक्षितं कर्तुं रष्यादेशतः व्योममिसैल् प्रतिरोधतन्त्रं क्रेतुं सर्वकारेण अनुमतिः  दत्ता। एतदधिकृत्य डिफन्स् फिक्सेषन् समितेः निर्देश एव सर्वकारेण अङ्गीकृतः । ४०० कि .मि. दूरस्थितान्यपि शत्रु विमानानि मिसैल् शस्त्राणि च नाशयितुं सशक्तानि पञ्च अत्याधुनिक एस् ४०० ड्रयम्फ् तन्त्राणि एव स्वीक्रियन्ते । प्रधानमन्त्रिण: नरेन्द्रमोदिनः रष्या सन्दर्शनवेलायाम् एतदधिकृत्य निश्चयः भविष्यति ।

दिल्ली संघटितबलात्कारः-
बालकापराधी मोचयते।

नवदिल्ली - दिल्ली संघटितबलात्कारविषये दण्डनकालं पूर्तीकरिष्यमाणः कौमारवयस्कः अपराधी श्वः मोचयते। तस्य मोचनं निरोद्धुम् इदानीन्तननीतिन्यायव्यवस्थायां नियमः नास्तीति मुख्यन्यायाधिपः जि रोहिणी न्याया. जयन्तनाथः इत्येताभ्यां विहितम्।
कुम्मनं राजशेखरः भा.ज.पा अध्यक्षः

नवदेहली कुम्मनं राजशेखरः भा.ज.पा दलस्य केरलराज्याध्यक्षः जातः। बुधवासरे नवदेहल्यां जाते भा.ज.पा मेलने एव निश्चयोऽयं जातः। अधुना हिन्दु ऐक्यवेदी राज्यकार्यदर्शी  भवति अयम् । अधुनातनाध्यक्षः वि मुरलीधरः भा.ज.पा  निर्वाचनसमितेः संयोजकः भविष्यति ।

समुद्रात् बलेन अपनीताः भारतीयाः सुरक्षिताः इति सुषमा स्वराज्

नवदिल्ली - नैजीर्या देशात् समुद्रात् बलेन अपनीताः भारतीयाः सुरक्षिताः इति विदेशकार्यमन्त्रिणी सुषमा स्वराज: अवदत्। पञ्च जनाः अपनीता: इति वार्ता गुरुवासरे ट्वीट्टर् मध्ये आगता एतान् प्रतिलब्तुं नैजीर्यायाः सर्वकारः श्रमं कुर्वन्ति ।


गूगिल् सि ओ सुन्दर् पिच्चाय् प्रधनमन्त्रिणम् अमिलत्

नवदिल्ली- सेप्तंबर मासे सिलिक्कण्वालि संदर्शनवेलायां गूगिल् संस्थायाः स्थानमपि प्रधानमंत्रिणा मोदिवर्येण सन्दर्शितः आसीत्। भारतस्य रयिल् निस्थानेषु वै फ़ै सौकर्यसंविधानाय तस्मिन् सन्दर्भे निश्चितः च। तद् अधिकृत्य धारणां स्फ़ुटीकर्तुम् आसीत् ह्यस्तन: मेलनम् ।
प्रातः केन्द्रधनमन्त्री  अरुण् जैट्ली महोदयम् अमिलत्।  भारतस्य ग्रामेषु अन्तर्जालस्य उपलब्धिः वनितामुद्दिश्य अन्तर्जाल-साक्षरतायोजना च पिच्चाय् महाभागेन ह्यः उक्तः वर्षत्रयाभ्यन्तरेण योजनेयं पूर्णा भविष्यति। गूगिल् संस्थायाः प्रधानस्थानीयै: सह आसीत् तस्य भारत संदर्शनम् ।

Friday, December 18, 2015

अध्यापकसम्पुटः - १:४५ अनुपातः उच्चन्यायालयेन निरुद्धः।

कोच्ची - केरलेषु  आर्थिकोत्तेजित (aided) विद्यालयेषु अध्यापकनियुक्त्यर्थं १:४५ इति अध्यापक - विद्यार्थि अनुपातः पालनीयः इति सर्वकारव्यवस्था उच्चन्यायालयेन निरुद्धा। प्राथमिक शिक्षायै निम्नस्तरे (LP) १:३० ,उपरितरप्राथमिकस्तरे (UP) १:३५ इति केन्द्रीय शैक्षिकार्हतानियमस्य आधारे नियुक्तिः करणीयेति न्यायालयेनोक्तम्।
२०१५-१६ अध्ययनवर्षादारभ्य केरलसर्वकारेण आरब्धा अध्यापकसम्पुटव्यवस्था एव न्यायाधीशेन के विनोद् चन्द्रेण निरस्ता।

42 तमः जवहर्लाल् नेहरू राष्ट्रीय वैज्ञानिक -गणित -पारिस्थितिक प्रदर्शनम्- प्रचलन्नस्ति केरले

गोश्रीपुरं (कोच्चि ) प्रदर्शने अस्मिन् 211संख्यकानि प्रदर्शनवस्तूनि ,195 विद्यालयानां भागभाजित्वः 33राज्यानां केन्द्रशासितप्रदेशानां सहभागित्वं च अत्र वैशिष्ट्यम् । अतिरिक्ततया दशसङ्ख्यायाः विविध संस्थायाः प्रदर्षनोटजानि च अत्र विपुलतया सन्ति। छात्रेषु वैज्ञानिकं आभिमुख्यं वर्धयितुमुद्दिश्य क्रियमाणम् एतत् प्रदर्शनं 1972तमे आरब्धम् आसीत्। गतवर्षे चण्डीगर् देशे प्रदर्शनं आयोजितम् आसीत्। केरल सर्वकारस्य सहकारितया राष्ट्रिय शैक्षिक अनुसन्धान प्रशिक्षण-परिषदा एतत् प्रदर्शनम् आयोजितम्। केरले एरणाकुलं जिलायां मुवाट्टुपुषा  नाम प्रदेशे विद्यमानायाः निर्मला कलाशालायाः अङ्कणे दिसंबर मासस्य 22 दिनपर्यन्तं प्रदर्शनं दृष्टुम् अवकाशः अस्ति।

Thursday, December 17, 2015

Sanskrit Journalism -V

 पि एस् एल् वि विक्षेपणे विजयीभूता:

श्रीहरिक्कोतट्ट :   उपग्रहचतुष्टयेन सह पी एस् एल् वि सी 29 भ्रमण पथं प्राप्तवान् 550 किलो मीट्टर् दूरे सञ्चारपथे उपग्रहान् नीत्वा भूस्थिरपथेषु विक्षिप्तः


संस्कृतं भाषा इत्यर्थे- डा. बलदेवानन्दसागर: 
   


भीकरतां विरोद्धुम् इस्लामिकराष्ट्रसख्यसेना।

रियाद् - भीकरतां विरुद्ध्य युद्धं कर्तुं सौदी अरेब्याराष्ट्रस्य नेतृत्वे ३४ इस्लामिकराष्ट्राणां सख्यसेनां रूपवत्करोति। रियाद् नगरम् आस्थानत्वेन प्रवर्तनमारभ्यमाणे इस्लामिक् मिलिटरि अलयन्स् इत्याख्ये संघे पाकिस्तानः अपि अङ्गः अस्ति।
आतङ्कवादस्य आमूलनिर्माजनं सख्यसेनायाः लक्ष्यमिति सौदीयुवराजः रक्षामन्त्री च मुहम्मद् बिन् सल्मान् अवदत्।


 दिल्लीमुख्यमन्त्रिणः कार्यालयसमुच्चये सि बि ऐ आपातः; राजनैतिकमण्डलं प्रक्षुब्धम्।

दिल्ली - दिल्लीमुख्यमन्त्रिणः अरविन्द् केज्रिवाल् महोदयस्य कार्यालयसमुच्चये केन्द्रीय रहस्यान्वेषणसंस्थायाः CBI) आपातः। राजनैतिकप्रतिकारबुद्ध्या आयोजितं कर्म इत्यारोप्य प्रधानमन्त्रिणं नरेन्द्रमोदिनं केन्द्रसर्वकारं च केज्रिवाल् महाशयः अतिरूक्षेण व्यमर्शयत्।
किन्तु मुख्यमन्त्रिणः मुख्यकार्यदर्शिनः राजेन्द्रकुमारस्य कार्यालये तं लक्षीकृतं भ्रष्टाचारान्वेषणं पुरस्कृत्य एव अापात इति सि बि ऐ वृत्तैरुक्तम्। अस्मिन् विषये लोकसभा प्रक्षुब्धा जाता। राज्यसभायामपि कार्यक्रमाः स्तंभिताः अभवन्।

Wednesday, December 16, 2015

सिंहपुरम् (सिङ्गपुर् )राज्यस्य उपग्रहान् नेतुं
 भारतस्य पी एस् एल् वि -सि २९
चेन्नै - सिंहपुरराज्यस्य उपग्रहपञ्चकेन सह भारतस्य पि एस् एल् वि सि २९   बुधवासरे अन्तरीक्षम्  उद्‌गच्छति । 400 किलोग्रां मितः टेलियोस् - अनेन एकः उपग्रहः द्वौ मैक्रो उपग्रहौ , त्रयः नानो उपग्रहाः च विक्षिप्यन्ते। अन्त्राप्रदेशस्यश्रीहरिक्कोट्ट सतीश् धवान् बहिराकाशकेन्द्रस्य प्रथमा विक्षेपण वेदिकाभ्यः सायं षट् वादने विक्षिप्यते ।
ISRO
सिंहपुरस्य एन्.टि विश्वविद्यालयस्य  123 किलो मितः प्रकृतिनिरीक्षणोपग्रहः भवति। वेलोक्स् सी ऐ, 13 किलो भारेण मितः वेलोक्स् - II, अतनोक्स्  - 1, सिंहपुर राष्ट्रिय विश्वविद्यालयस्य केन्त्रिड्ज् - 1, ग्लासिय एते अन्याः उपग्रहाः टेलियोसः  - रिमोत् सेन्सिङ्ग् निरीक्षणोपग्रहः भवति। 550 कि मी दूरं भ्रमन् अन्तरं 670 किलो मितः उपग्रहपञ्चकान् भ्रमणपथं नेष्यते ।
ISRO



श्रीनारायणगुरुवर्यः केरलस्य आध्यामनेता

- मोडिवर्यः 

शिवगिरः - आदि शङ्करस्य अद्वैत सिद्धान्तान् अनुगम्य केरलान् नीतवान् श्री नारायणगुरुः इति मोडिवर्येण उक्तः। समूहे आपदि पतिते सति अभ्युत्थानाय महात्मनः उदेति इति हिन्दुधर्मस्य विशेष विश्वासः। तद्वद् केरले अवतरितः महापुरुषः भवति गुरुदेवः इति मोदिवर्येण स्पषष्टीकृतम्। शिवगिर्याश्रमेषु  भाषमाणः आसीत् सः।  5.15 वादने आश्रममागतं प्रधानमन्त्रिणं सन्यासिनः सम्यक् स्वीकृतवन्तः।

भा ज पा शासने राष्ट्रस्य महती प्रगतिः - प्रधानमन्त्री।

तृश्शिवपेरूर् - भारते भाजपा दलस्य नेतृत्वे नूतनसर्वकारस्य अधिकारप्राप्त्यनन्तरं व्यावसायिक-कार्षिकादिषु मण्डलेषु राष्ट्रस्य महती अभिवृद्धिः सञ्जाता इति प्रधानमन्त्री नरेन्द्रमोदी प्रास्तूयत। केरले तृश्शूर् जनपदे भाजपादलेन आयोजिते सम्मेलने प्रभाषणं कुर्वन्नासीत् मोदिवर्यः।
  २०१४ तमे संवत्सरे राष्ट्रस्य व्यावसायिकवृद्धिः -२.७% आसीत्। २०१५ ओक्टोबर् मासे ९.२%वृद्धिः अभवत्। राष्ट्रे विदेशनिक्षेपः ४०% अवर्धत। मोदिवर्यस्य प्रभाषणं राज्याध्यक्षेण वि. मुरलीधरेण अनूदितम्।

Monday, December 14, 2015

अद्य आरभ्य दिनद्वयं प्रधानमन्त्री केरले।

कोच्ची -दिनद्वयात्मकं केरलसन्दर्शनार्थं भारतस्य प्रधानमन्त्री नरेन्द्र मोदी अद्य कोच्चीं प्राप्नोति। प्रधानमन्त्रिपदप्राप्त्यनन्तरं मोदिनः प्रथमं सन्दर्शनमिदम्।
सोमवासरे सायं ४.१० वादने कोच्ची नाविकविमाननिलयं प्रापस्मानाय मोदीवर्याय केरलसर्वकारः स्वीकरणं प्रदास्यति। ततः तृश्शिवपेरूर् नगरे भा ज पा दलेन आयोज्यमाने सम्मेलने प्रभाषणं करिष्यति। पुनः कोच्चीं प्रतिनिवृत्य नगरस्थे ताज्मलबार् भवनसमुच्चये वासः।
अपरेद्युः प्रभाते ऐ एन् एस् विक्रमादित्य इति विमानवाहिनिमहानौकायां त्रयाणां सेनाविभागानां सम्मेलने भागभागित्वं कृत्वा कोल्लं नगरे भूतपूर्वस्य मुख्यमन्त्रिणः आर् शङ्कर् महोदयस्य प्रतिमायाः अनाच्छादनं करिष्यति। ततः श्रीनारायणगुरोः समाधिस्थानभूतं शिवगिरिं संद्रष्टुं वर्कलां गमिष्यति। तदनन्तरम् अनन्तपुरस्थात् व्योमनिलयात् दिल्लीं प्रतिगमिष्यति।

Sunday, December 13, 2015

दिल्ल्यां नूतनानां डीसल्कार् यानानां निरोधनम्।

नवदिल्ली - दिल्ल्यां नूतनानां डीसल् कार् यानानां पञ्जीकरणं देशीयहरितन्यायाधीशेन निरुद्धम्।दशवर्षाणां पुरातनत्वेन विद्यमानानां डीसल् यानानां पञ्जीकरणपरिष्करणमपि न्यायाधीशस्य आज्ञापत्रे  निरुद्धम्।
केन्द्र-राज्य सर्वकारौ डीसल् कार् यानानि न क्रीणात् इति च निर्दिष्टम्।

सौदिराष्ट्रे महिलानां स्पर्धा मतदानं च।

रियाद् - सौदिअरेब्यायाम् इदंप्रथमतया महिलाः सामाजिकनिर्वाचने स्पर्धितवत्यः मतदानं कृतवत्यः च।तत्र २८४ नगरसभामण्डलेषु गतदिने संवृत्ते निर्वाचने ९७९ वनिताभिः सहितं ६९१७ स्थानार्थिनः आसन्।
२०११ तमे वर्षे  तदानींतनस्य अब्दुल्लाराजस्य शासन काले व महिलानां स्पर्धायै मतदानाय च अनुमतिः दत्ता

Saturday, December 12, 2015

अमङ्गलं मङ्गला- एकस्प्रस्I

नव दिल्ली-  केरलस्य स्वाभिमाने भवतः केरला मङ्गला इति नामके द्वे रेल् याने । केरलतः बहवः जनाः ताभ्यां यानाभ्यां यात्रां कुर्वन्तिI तत्र यात्रिकाणां कृते अवश्यसौकर्याणि अपि न सन्तिI दुष्टान्नं शुचित्वरहितः यानान्तर्भागः  क्षालनाय दुर्लभं जलम् उपयोगेन नाशोन्मुखा शय्या जङ्‌गमदूरवाण्याः कृते विद्युत्प्रदानाय विद्युत्स्थानस्य अभावः दौर्लभ्यता च शय्या श्रेण्यां अधुनापि वर्तन्ते। यथाकालं यात्राशुल्कं वर्धन्ते तथा केरलानां यात्राक्ळेशः अपि।

Thursday, December 10, 2015

पञ्चमा राष्ट्रिय-पत्रकार सङ्गोष्ठ्याः उद्घाटनसभा-विविध दृश्यानि 

शारदा पत्रिकायाः संपादकाय श्री वसन्त अनन्त गाड्गिल् महोदयाय उत्तम संस्कृतपत्रकार पुरस्कारं सम्मानयति।
संनिधिः - अक्षरधाम्नःसाधु वर्यौ डा. साधु भद्रेशदासमहाराजः षट्-दर्शनाचार्यः साधु श्रुति प्रकाशदासमहाराजः, पद्मश्री आचार्य: डा रमाकान्तशुक्ल, डा बलदेवानन्द सागरः,डा संपदानन्द मिश्रः, प्रो. हिमांशु पोटा,  डा चन्द्रभूषण झा च ।

पञ्चमा राष्ट्रिय-पत्रकार सङ्गोष्ठी - नवदिल्याम्।

नवदिल्ली- संस्कृतं संस्कारयति विश्वम् इत्युद्घोषयन् संस्कृतपत्रकार सङ्घ: बि. ए. पि. एस् स्वामिनारायणशोधसंसथा च संयुक्ततया आयोज्यमानः पञ्चम: राष्टियसंगोष्ठी अद्य दशवादने समारभत । पद्मश्री: आचार्य: डा. रमाकान्त शुक्लवर्यस्य अध्यक्ष्ये आरब्धमाने महामेलने संस्कृतलोकस्य प्रियभाजनं डा. बलदेवानन्दसागर: स्वागतं व्याहरत् । सारङ्गपुरस्य अक्षरधाम - शोधसंस्थायाः अध्यक्षः डा. साधु भद्रेशदास महोदयः मुख्यातिथितिः आसीत्। गन्धिनगरस्य आर्षसंशोधन केन्द्रस्य निदेशकः षड् - दर्शनाचार्य: साधु: श्रुति प्रकाशदास-महाराजः उद्घाटनभाषणमकरोत् । सारस्वतातिथ्ये लाल् बहादूर् राष्ट्रिय-संस्कृत विश्वविद्यालयस्य कुलपति: प्रो. रमेशकुमार पाण्डेय: अवर्तयत्  च। ११ दिने सायं सङ्गोष्ठी संपूर्णं भविष्यति। आभारतं विद्यमानाः संस्कृतपत्रकाराः दिन द्वयं यावत् अत्र भागभाजः भविष्यन्ति।

 पञ्चम्याः राष्ट्रिय-संस्कृत-पत्रकार-संगोष्ठ्याः समूह-चित्र-त्रयम् 
महिला पत्रकारिण्यः अक्षरधाम्नि

 अक्षरधाम्नः अध्यक्षः डा. साधु भद्रेशदास महाराजेन सह  संस्कृत पत्रकाराः

 संस्कृत-पत्रकाराः


केरले संस्कृत अक्कादमी आरन्भणीया
-डो बलदेवानन्दसागरः।
कोष़िक्कोट् - केरलराज्ये संस्कृत अक्कादमी आरम्भणीया इति सुप्रसिद्धः संस्कृतवार्ताप्रवाचकः डो. बलदेवानन्दसागरः निरदिशत्।केरलस्य सार्वजनिकशिक्षाविभागेन "संस्कृतं सांस्कृतिकनवोत्थानाय" इत्यस्मिन् विषये सञ्चालिते देशीयसंगोष्ठ्यां मुख्यप्रभाषणं कुर्वन्नासीत् सागरवर्यः।
इदानींतनकालीयं सांस्कृतिकापचयम् अपाकर्तुं संस्कृतशिक्षणम् अपेक्षणीयमिति तेनोक्तम्।

समाजे विद्यमानानां बहूनां धर्मच्युतीनां मूलहेतुः मानविकमूल्यानाम् अभावो भवति।मानविकमूल्यानां प्रचारः संरक्षणं च संस्कृतपठनेनैव सिद्ध्यति।संस्कृतेनैव संस्कृतिः इत्यतः संस्कृतभाषायै अक्काादमीसंस्थापनम् अनिवार्यम्।बलदेवानन्दवर्यः उद्घोषितवान्।
जिल्लापञ्चायत्त् समित्याः अध्यक्षः बाबू परश्शेरीवर्यः सम्मेलनस्य उद्घाटनं कृतवान्। डि डि ई डो गिरीष् चोलयिल् अध्यक्षस्थानमलंकृतवान्।
संस्कृतविभागस्य सविशेषाधिकारी (Special officer)डो. टि डि सुनीतीदेवी HSS प्रविश्या उपनिर्देशकः के गोकुलकृष्णः कोष़िक्कोट् विश्वविद्यालयस्य संस्कृत विभागाध्यक्षा के के गीताकुमारी केरल संस्कृत अध्यापक फेडरेषन् इति संस्थायाः मुख्यकार्यदर्शी टि के सन्तोष् कुमारः राज्याध्यक्षः वेेणु चोव्वल्लूर् इत्यादयः प्रभाषणमकुर्वन्।सम्मेलनान्ते कर्णभारम् इति संस्कृतनाटकस्य  रङ्गमञ्जे अवतरणमपि आयोजितम्।

झार्खण्ड् हरियाना राज्ययोः रेल्यानदुर्घटना -१५ मरणानि।

राञ्ची/पल्वार् - झार्खण्ड् राज्ये हरियानाराज्ये च संवृत्ते धूमयानदुर्घटनाद्वये १५ जनाः हताः।
झार्खण्डे राञ्चीनगरात् ७० कि मी दूरे भूर्कुण्टानिस्थानस् य समीपे पालकशून्ये समतलतरणे(level cross) धूम-कार् यानयोः संघट्टने १४ कार्यानयात्रिकाः मृताः। हरियानायां पल्वाल्प्रदेशे धूमयानयोः मिथः संघट्टने एकः यानचालकः मृतः।