OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 13, 2015

दिल्ल्यां नूतनानां डीसल्कार् यानानां निरोधनम्।

नवदिल्ली - दिल्ल्यां नूतनानां डीसल् कार् यानानां पञ्जीकरणं देशीयहरितन्यायाधीशेन निरुद्धम्।दशवर्षाणां पुरातनत्वेन विद्यमानानां डीसल् यानानां पञ्जीकरणपरिष्करणमपि न्यायाधीशस्य आज्ञापत्रे  निरुद्धम्।
केन्द्र-राज्य सर्वकारौ डीसल् कार् यानानि न क्रीणात् इति च निर्दिष्टम्।

सौदिराष्ट्रे महिलानां स्पर्धा मतदानं च।

रियाद् - सौदिअरेब्यायाम् इदंप्रथमतया महिलाः सामाजिकनिर्वाचने स्पर्धितवत्यः मतदानं कृतवत्यः च।तत्र २८४ नगरसभामण्डलेषु गतदिने संवृत्ते निर्वाचने ९७९ वनिताभिः सहितं ६९१७ स्थानार्थिनः आसन्।
२०११ तमे वर्षे  तदानींतनस्य अब्दुल्लाराजस्य शासन काले व महिलानां स्पर्धायै मतदानाय च अनुमतिः दत्ता

Saturday, December 12, 2015

अमङ्गलं मङ्गला- एकस्प्रस्I

नव दिल्ली-  केरलस्य स्वाभिमाने भवतः केरला मङ्गला इति नामके द्वे रेल् याने । केरलतः बहवः जनाः ताभ्यां यानाभ्यां यात्रां कुर्वन्तिI तत्र यात्रिकाणां कृते अवश्यसौकर्याणि अपि न सन्तिI दुष्टान्नं शुचित्वरहितः यानान्तर्भागः  क्षालनाय दुर्लभं जलम् उपयोगेन नाशोन्मुखा शय्या जङ्‌गमदूरवाण्याः कृते विद्युत्प्रदानाय विद्युत्स्थानस्य अभावः दौर्लभ्यता च शय्या श्रेण्यां अधुनापि वर्तन्ते। यथाकालं यात्राशुल्कं वर्धन्ते तथा केरलानां यात्राक्ळेशः अपि।

Thursday, December 10, 2015

पञ्चमा राष्ट्रिय-पत्रकार सङ्गोष्ठ्याः उद्घाटनसभा-विविध दृश्यानि 

शारदा पत्रिकायाः संपादकाय श्री वसन्त अनन्त गाड्गिल् महोदयाय उत्तम संस्कृतपत्रकार पुरस्कारं सम्मानयति।
संनिधिः - अक्षरधाम्नःसाधु वर्यौ डा. साधु भद्रेशदासमहाराजः षट्-दर्शनाचार्यः साधु श्रुति प्रकाशदासमहाराजः, पद्मश्री आचार्य: डा रमाकान्तशुक्ल, डा बलदेवानन्द सागरः,डा संपदानन्द मिश्रः, प्रो. हिमांशु पोटा,  डा चन्द्रभूषण झा च ।

पञ्चमा राष्ट्रिय-पत्रकार सङ्गोष्ठी - नवदिल्याम्।

नवदिल्ली- संस्कृतं संस्कारयति विश्वम् इत्युद्घोषयन् संस्कृतपत्रकार सङ्घ: बि. ए. पि. एस् स्वामिनारायणशोधसंसथा च संयुक्ततया आयोज्यमानः पञ्चम: राष्टियसंगोष्ठी अद्य दशवादने समारभत । पद्मश्री: आचार्य: डा. रमाकान्त शुक्लवर्यस्य अध्यक्ष्ये आरब्धमाने महामेलने संस्कृतलोकस्य प्रियभाजनं डा. बलदेवानन्दसागर: स्वागतं व्याहरत् । सारङ्गपुरस्य अक्षरधाम - शोधसंस्थायाः अध्यक्षः डा. साधु भद्रेशदास महोदयः मुख्यातिथितिः आसीत्। गन्धिनगरस्य आर्षसंशोधन केन्द्रस्य निदेशकः षड् - दर्शनाचार्य: साधु: श्रुति प्रकाशदास-महाराजः उद्घाटनभाषणमकरोत् । सारस्वतातिथ्ये लाल् बहादूर् राष्ट्रिय-संस्कृत विश्वविद्यालयस्य कुलपति: प्रो. रमेशकुमार पाण्डेय: अवर्तयत्  च। ११ दिने सायं सङ्गोष्ठी संपूर्णं भविष्यति। आभारतं विद्यमानाः संस्कृतपत्रकाराः दिन द्वयं यावत् अत्र भागभाजः भविष्यन्ति।

 पञ्चम्याः राष्ट्रिय-संस्कृत-पत्रकार-संगोष्ठ्याः समूह-चित्र-त्रयम् 
महिला पत्रकारिण्यः अक्षरधाम्नि

 अक्षरधाम्नः अध्यक्षः डा. साधु भद्रेशदास महाराजेन सह  संस्कृत पत्रकाराः

 संस्कृत-पत्रकाराः


केरले संस्कृत अक्कादमी आरन्भणीया
-डो बलदेवानन्दसागरः।
कोष़िक्कोट् - केरलराज्ये संस्कृत अक्कादमी आरम्भणीया इति सुप्रसिद्धः संस्कृतवार्ताप्रवाचकः डो. बलदेवानन्दसागरः निरदिशत्।केरलस्य सार्वजनिकशिक्षाविभागेन "संस्कृतं सांस्कृतिकनवोत्थानाय" इत्यस्मिन् विषये सञ्चालिते देशीयसंगोष्ठ्यां मुख्यप्रभाषणं कुर्वन्नासीत् सागरवर्यः।
इदानींतनकालीयं सांस्कृतिकापचयम् अपाकर्तुं संस्कृतशिक्षणम् अपेक्षणीयमिति तेनोक्तम्।

समाजे विद्यमानानां बहूनां धर्मच्युतीनां मूलहेतुः मानविकमूल्यानाम् अभावो भवति।मानविकमूल्यानां प्रचारः संरक्षणं च संस्कृतपठनेनैव सिद्ध्यति।संस्कृतेनैव संस्कृतिः इत्यतः संस्कृतभाषायै अक्काादमीसंस्थापनम् अनिवार्यम्।बलदेवानन्दवर्यः उद्घोषितवान्।
जिल्लापञ्चायत्त् समित्याः अध्यक्षः बाबू परश्शेरीवर्यः सम्मेलनस्य उद्घाटनं कृतवान्। डि डि ई डो गिरीष् चोलयिल् अध्यक्षस्थानमलंकृतवान्।
संस्कृतविभागस्य सविशेषाधिकारी (Special officer)डो. टि डि सुनीतीदेवी HSS प्रविश्या उपनिर्देशकः के गोकुलकृष्णः कोष़िक्कोट् विश्वविद्यालयस्य संस्कृत विभागाध्यक्षा के के गीताकुमारी केरल संस्कृत अध्यापक फेडरेषन् इति संस्थायाः मुख्यकार्यदर्शी टि के सन्तोष् कुमारः राज्याध्यक्षः वेेणु चोव्वल्लूर् इत्यादयः प्रभाषणमकुर्वन्।सम्मेलनान्ते कर्णभारम् इति संस्कृतनाटकस्य  रङ्गमञ्जे अवतरणमपि आयोजितम्।

झार्खण्ड् हरियाना राज्ययोः रेल्यानदुर्घटना -१५ मरणानि।

राञ्ची/पल्वार् - झार्खण्ड् राज्ये हरियानाराज्ये च संवृत्ते धूमयानदुर्घटनाद्वये १५ जनाः हताः।
झार्खण्डे राञ्चीनगरात् ७० कि मी दूरे भूर्कुण्टानिस्थानस् य समीपे पालकशून्ये समतलतरणे(level cross) धूम-कार् यानयोः संघट्टने १४ कार्यानयात्रिकाः मृताः। हरियानायां पल्वाल्प्रदेशे धूमयानयोः मिथः संघट्टने एकः यानचालकः मृतः।

Wednesday, December 9, 2015

नाषणल् हेराल्ड् विषये संसद्स्तंभनम्।

नवदिल्ली - नाषणल् हेराल्ड् इति वार्तापत्रिकासंबन्धविषये भारतीयसंसदः सभाद्वयमपि स्तंभितम्। सभाकार्यक्रमाः स्थगिताः चl
विषयम् उन्नीतुं लोकसभाध्यक्षा सुमित्रा महाजनः राज्यसभाध्यक्षःहमीद् अन्सारी च बहुवारम् कोण्ग्रस्दलाङ्गान् आमन्त्रयत् तथापि तदनङ्गीकृत्य एव ते सभास्तम्भनं कृतवन्तः।एतद्विषये केन्द्रसर्वकारेण प्रतीकारः क्रियते इति कोण्ग्रस् दलस्य आरोपः।

मुम्बईनगरप्रान्तप्रदेशे अग्नि बाधा - द्वौ मृतौ।

मुम्बई - पश्चिमनगरस्य समीपे कान्तिवलीनाम्नि प्रान्तप्रदेशे संवृत्तायामग्निबाधायां द्वौ मृतौ।बहवः आहताः।शताधिकानि कुटीराणि भस्मसात्कृतानि।
कान्तिवलिप्रदेशस्य पूर्वस्यां दिशि अक्कुर्लिमार्गे दामुनगर् प्रविश्यायां ह्यः मध्याह्ने १२.३० वादने अग्निबाधा सञ्जाता।मार्गः कृश इति कारणेन रक्षाप्रवर्तनं दुष्करमभवत्।अस्मिन् सन्दर्भे अनिलकोशानां स्फोटनानि दुरनतस्य तीव्रतामवर्धत।
१६ अग्निशमनयन्त्राणां साहाय्येन आरक्षकाः द्रुतकर्मसेना च रक्षाप्रवर्तनम् अकुर्वन्।

नाटकाचार्यः एस् रामानुजम् अन्तर्यातः।

तञ्चावूर् - दक्षिणभारतस्य नाटकवेदिकाभ्यः नूतनं दिशाबोधं दत्वा नाटकसङ्कल्पने आमूलाग्रं नवपरिवर्तनम् आनीय नाटकरामानुजम् इति विख्यातः आचार्यः एस् रामानुजं कालयवनिकाम् अन्तर्दधौ।८० वयस्क आसीत्।प्राचीन-आधुनिकनाटकानि सहितं मलयालं हिन्दी आङ्गलं तमिल् भाषासु ५० परं नाटकानां निदेशनं अनेन कृतम्।२००८ तमे वर्षे केन्द्र संगीत नाटक अकादम्याः अनुदानं २००२तमे केरलसंगीतनाटकअकादम्याः अनुदानं च अस्मै दत्तमस्ति।
  १९३५तमे तमिल्नाटुराज्ये तञ्चावूर् समीपे नाङ्कुनेरी प्रदेशे लब्धजन्मा अयम् आङ्गलभाषायाम् आचार्यबिरुदं देशीयनाटकविद्यालयात् डिप्लोमा बिरुदं च सम्पाद्य गान्धिग्राम् ग्रामीण सर्वकलाशालायां शिक्षकः अभवत्।ततः तृश्शिवपेरूर् नाटकविद्यालये सहनिर्देशको भूत्वा अनन्तरं तञ्चावूर् तमिल् विश्वविद्यालये नाटकविभागस्य अध्यक्ष अभूत्।तञ्चावूरे तप्पाट्टसदृशानां पारम्पर्यकलारूपाणां पुनरुज्जीवनाय अक्षीणम् अयतत।कैरलीनाटकाचार्यस्य जि शङ्करप्पिल्लामहोदयस्य सहप्रवर्तकः चासीदयम्।

केरले विश्वविद्यालयेषु अनध्यापकनियुक्तिः पि एस् सि द्वारा।

अनन्तपुरी - केरलराज्ये सर्वेषु विश्वविद्यालयेषु अनध्यापकानां नियुक्तिं केरल पब्लिक् सर्वीस् कम्मीषन् (KPSC)संस्थाद्वारा  कर्तुमुद्दिष्टं प्रमाणपत्रं(Bill) केरलनियमसभया अङ्गीकृतम् उत्तीर्णं च।इदानीम् अध्यापकनियुक्तिः यू जि सि व्यवस्थाः अनुसृत्य अनध्यापकनियुक्तिः विश्वविद्यालयैः निश्चितं व्यवस्थानुसारं च क्रियते।प्रमाणपत्रस्य विधिप्राप्त्यनन्तरं पि एस् सि द्वारा परीक्षां सञ्चाल्य विरच्यमानायाः श्रेणीपट्टिकायाः एव अनध्यापकसेवकानां नियुक्तिः भविष्यति।

भीकराक्रमणे ६ सि आर् पि एफ् भटाः आहताः।

श्रीनगरं - सि आर् पि एफ् भटानां वाहनव्यूहं प्रति संवृत्ते भीकराक्रमणे ६ सेनांगाः क्षताः अभवन्।श्रीनगरात् ५० कि मी दूरे अज्ञाताः भीकराः शतघ्निनिभिः आक्रमणं कृतवन्तः।वाहनव्यूहः जम्मूतः श्रीनगरं प्रति सञ्चरन्नासीत्।
आहताः भटाः अनन्तनागस्थम् आतुरालयं प्रवेशिताः।भीकरान् गृहीतुम् अन्वेषणम् आरब्धम्।

मुम्बईनगरप्रान्तप्रदेशे अग्नि बाधा - द्वौ मृतौ।

मुम्बई - पश्चिमनगरस्य समीपे कान्तिवलीनाम्नि प्रान्तप्रदेशे संवृत्तायामग्निबाधायां द्वौ मृतौ।बहवः आहताः।शताधिकानि कुटीराणि भस्मसात्कृतानि।
कान्तिवलिप्रदेशस्य पूर्वस्यां दिशि अक्कुर्लिमार्गे दामुनगर् प्रविश्यायां ह्यः मध्याह्ने १२.३० वादने अग्निबाधा सञ्जाता।मार्गः कृश इति कारणेन रक्षाप्रवर्तनं दुष्करमभवत्।अस्मिन् सन्दर्भे अनिलकोशानां स्फोटनानि दुरनतस्य तीव्रतामवर्धत।
१६ अग्निशमनयन्त्राणां साहाय्येन आरक्षकाः द्रुतकर्मसेना च रक्षाप्रवर्तनम् अकुर्वन्।

ऐ एस् संस्थां नाशयिष्यति - ओबामा।

वाशिङ्टण् - इस्लामिक् स्टेट्(ऐ एस्) इति भीकरसंस्थायाः उन्मूलनाशं करिष्यतीति अमेरिक्काध्यक्षस्य ओबामावर्यस्य शपथः।कालिफोर्णियाप्रदेशे संवृत्तायाः संघहत्यायाः अनन्तरमेव ओबामावर्येण स्वमतं कठिनीकृतम्।
'वैट् हौस'स्थात् कार्यालयात् राष्ट्रम् अभिसंबोधयन् भीकरतायाः भीषणिः यथार्थमिति स अंगीकृतवान्।किन्तु भीकरताविरुद्धप्रयत्ने भागभागं कृतवतां राष्ट्राणां साहाय्येन अमेरिक्का विजयं प्राप्स्यति इति ओबामा उक्तवान्।

एष़ुत्तच्छन् पुरस्कारः डो. पुतुश्शेरी रामचन्द्राय।


अनन्तपुरी - केरलसर्वकारस्य परमोन्नतः साहित्यपुरस्कारः एष़ुत्तच्छन् पुरस्कारः प्रमुखभाषानिरूपकाय डो. पुतुश्शेरी रामचन्द्राय लभते।सम्माने १.५लक्षं रूप्यकाणि प्रशंसापत्रं फलकं च अन्तर्भवन्ति।
कविः भाषागवेषकः अद्ध्यापकः निरूपकः इत्यादिमण्डलेषु प्रसिद्धो भवति डो पुतुश्शेरी।मलयालसाहित्याय तस्य समग्रयोगदानमधिकृत्य एवायं पुरस्कारः।

Tuesday, December 8, 2015

लोक् पाल्  बिल्  दिल्ली मन्त्रिसभया अङ्गीकृतः।

निर्वाचनवेळायां आम आदमी दलेन उक्तः वाक् आसीत् लोकपाल इति।   

नवदिल्ली- अलीकान्  प्रतिरोद्धुं केजरिवालस्य दलेन उन्नीतः आशयः भवति एतत् ।  दिल्ली  गवर्णर् केन्द्र सर्वकारः च अङ्गीकरणीयः । तदनन्तरमेव  नियमस्य साधुता भविष्यति। यूनः अनेन प्रभावितः च। नियमपत्रिकायाः प्राबल्यः भविष्यति चेत्  ओंबुड्स्मानस्य अधिकार परिधिः इतोपि वर्धमानः भवेत् ।

चेन्नैनगरे सांक्रमिकरोगभीतिः।






चेन्नै - प्रलयदुरितेन विवशं चेन्नैनगरं सांक्रमिकरोगेभ्यःभीत्यां समजायत।यद्यपि वृष्ट्याः शमनमभुत्तथापि नगरे सर्वत्र प्रवाहरहितजलाकरस्य सान्निद्ध्यमेव व्याधिभीत्याः कारणम्।नगरहृदयेन प्रवहन्ती कूवं नदी नगरमालिन्यवाहिनी च वर्तते।अतः अतिवृष्ट्या सा तटोद्गामिनी अभवत्।मालिन्यानि नगरे सर्वत्र वितरति स्म।अपि च मार्गाणां नाशः रक्षाप्रवर्तनं दुष्करं कारयति स्म।
इतःपर्यन्तं ११ लक्षं जनाः सुरक्षितस्थानं नीताः।चेन्नै विमानपत्तने आभ्यन्तरयात्रासेवनम् आरब्धम्।





 

 

Monday, December 7, 2015

संस्कृतसंगोष्ठी 

 कलिकट् - सांस्कृतिकनवोत्थानाय संस्कृतम् इत्यस्मिन् विषये केरलसर्वकारस्य शिक्षा विभागेन कलिकट्टा नगरे देशीय सड़्गोष्ठी आयोज्यते। टागोर हाल मध्य दिसं 9 दिनाड़्के प्रातः10 वादने सड़्गोष्ठ्याः उद्धाटनं बलदेवानन्दसागरः करिष्यति।  डा. पि.के. धर्मपालन् , डि. पि. ए.  एम्. एस् .जया, डा.सुनीति देवी इत्यादयः भाषायाः करिष्यन्ति।       'कर्णभारम्' इति एकाड़्क नाटकमपि अस्य अड़्गतया वेदिकायाम् अवतरिष्यते।
 
सनातनधर्म परिषत्। 

कलिकट्  - अद्वैताश्रमस्य आचार्येण चिदानन्दपुरीखाभिना नगरस्य श्रीनारायणमण्डपे पञ्चदिवसीय धर्म परिषत् आयोजिता । प्रति वर्षं सञ्जाल्यमानायां परिषदिगणमान्य प्रवाचका भागभागिनः सन्ति । परिषदः कार्यक्रमेस्मिन् सहस्राधिकाः श्रोतारः वर्तन्ते। संस्कृतपठनस्य मार्गनिर्देशः अपि इतः दीयते।

मोदिनम् अपायीकर्तुं लष्कर् संघस्य उद्यमः विफलीकृतः।

 नवदिल्ली - भारतस्य प्रधानमन्त्रिणं नरेन्द्रमोदिनं जीवापायं कर्तुं पाकिस्तानस्थेन लष्कर् ई तोयिबा इत्यातङ्कवादिसंघेन आसूत्रिता पद्धतिः रहस्यान्वेषणसंस्थया भञ्जिता।
भारते भीकराक्रमणसाध्यता अस्तीति प्रधानमन्त्री तेषां मुख्यलक्ष्यम् इति च गुप्तचरदलेन पूर्वमेव प्रस्तुतमासीत्।ततःपरं दिल्ली आरक्षकसंघस्य गुप्तचरदलस्य च संयुक्तान्वेषणस्य अन्ते भीकराणां पद्धतिः पराजिता अभवत्।
भारत-पाक् बान्धवे नवजीवः।

 नवदिल्ली - भारत-पाकिस्तानराष्ट्रयोः परस्परबन्धुत्वे नवजीवं ददती देशीय-उपदेष्ट्रोः चर्चा।भारतस्य देशीयोपदेष्टा अजित् डोवलः पाकिस्तानस्य देशीयोपदेष्टा नसीर् खान् जान्जुवा च ताय्लान्ट् राजधान्यां बाङ्कोक्क् नगरे मिलितवन्तौ। उभयराष्ट्रस्य शान्तिः, सुरक्षा, भीकरवादः ,जम्मुकाश्मीरविषयः इत्यादयः चर्चाविषयाः आसन्।दक्षिणेष्यायां सुस्थिरः शान्तिःआनयितव्या इति चर्चानन्तरं कृते संयुक्तप्रस्तावे उद्घोषितम्।

उच्चतमन्यायालयेन विधेः शासनं संधारयिष्यते
चेन्नै नगरे पुनः वृष्टिः
चाडनगरे विस्फोटघटनायां २७ जनाः मृताः
चेनै विमानपत्तनम् इदानीं राष्ट्रियान्तारष्ट्रिविमानसेवाभ्यः पूर्णतया सक्रियतया सन्नद्धम्।

भारतपाकिस्तानयोः रचनात्मकसम्बन्धानां विकासार्थं सहमतिः प्रकाशमागता।

पञ्जाबे पवित्रग्रन्थस्यावमानकर्ता मुख्याभियुक्तो ह्यः हरियाणाराज्ये जीन्दनगरे निगृहीतः।

विदेशमन्त्री सुषमास्वराजमहाभागा निगदति यद्भारतं खलु समन्वितनेपालस्य समर्थकं द्रुतं च राजनीतिकसङ्कटसमाधानमीहते।

भूतपूर्वराष्ट्रपतेः कलामस्य स्थावरदूरवाण्याः शुल्कः न दत्तः- BSNL सूचना प्रेषितः।

Image result for apj abdul kalam thoughts in englishअनन्तपुरी केरलस्य राजभवने उषितः अब्दुल् कलामः तस्मिन् काले उपयोक्तुं 2724800 सङ्ख्यकः स्थावर दूरवाणीम् स्वीकृतवन्त: तस्य निधनानन्तरं शुल्कः कोपि न दत्तः इत्यनेन स्थावरदूरवाण्या: शुल्कः 1026 रुप्यकाणि एव अभवत्। अत एव BSNL कर्मचारिभिः सूचना प्रेषिता। एतादृश घटना अस्तीति एतावत्पर्यन्तं BSNL अधिकारिणः न उक्तवन्तःइति रजभवनात् वदति। तथापि शुल्क: दातुं विलम्बम् विना यत्  करणीयं तत् करिष्ये इत्यपि राजभवनात् अवदत्।

Comment - His Mother Bharataamba is Crying today.

Sunday, December 6, 2015

दिल्ल्यां लष्कर् आक्रमणात् भीतिः- आरक्षकाः

न्यूदिल्ली- दिल्ली नगरेषु जननिबिडेषु कोणेषु प्रधान व्यक्तीनां परितः च आक्रमणाय लष्कर् तोयिबया पद्धतिराविष्कृता इति आरक्षकाणां सूचना दुजान, उकाष इति नामकं नेतारं पूर्वमेव नियुक्तः च एते एतावत्पर्यन्तं काश्मीर देशेषु आतङ्कवादप्रवर्तनेषु निरताः आस्ताम् इति च वदन्ति आरक्षकाः 

 

आतङ्कवादे  बालकानां नियुक्तिः

वाषिङ्टण्- स्वजनानां संख्या आक्रमणफ़लेन न्यूनमभवत् इति ञ्जात्वा IS दलेन दशवयस्काः बालकाः अपि स्वीयगणेषु युज्यन्ते।  इतःपर्यन्तं 23,000- 33,000- संख्यकाः आतङ्कवादिनः मृताः इति अमेरिक्कायाः प्रतिरोध सेनायाः उक्तिः सख्यदलैः आतङ्गवादिनं विरुध्य आक्रमणस्य शक्ति: अवर्धत इत्यस्मात् कारणादेतत् IS पक्षे नाशः अधिकः अभवत् इति अमेरिक्कायाः सैन्यस्य केन्द्रनिदेशकः केणल् पात्त् रैडर् अवदत् च


विषिञ्ञंपद्धतेः शुभारम्भः।
अनन्तपुरी - केरलराज्ये अन्ताराष्ट्रमहानौकापत्तनाय विषिञ्ञंप्रदेशे समुद्रतीरे ह्यः शिलास्थापनमकरोत्। विषिञ्ञं पद्धतिः इत्याख्यायमानायाः अस्याः निर्माणम् अदानीसङ्घः इति निर्माणसंस्थया क्रियते।
विषिञ्ञं प्रदेशवासिनां कृते तीरसमृद्धिः इति ३५ कोटिरूप्यकाणां पद्धतिरपि अदानीसङ्घस्य अध्यक्षेण गौतम् अदानीवर्येण विज्ञापिता। यदि अवस्था अनुकूला स्यात्तर्हि सहस्रदिनाभ्यन्तरे पत्तनस्य निर्माण पूर्तीकरिष्यति इति तेनोक्तम्।
केरलस्य मुख्यमन्त्री उम्मन् चाण्टि महोदयः स्तम्भदीपं प्रज्वाल्य पद्धतेरस्य उद्घाटनं निरवहत्। केन्द्रमन्त्री नितिन् गड्करी महाशयः शिलास्थापनफलकस्य अनावरणं कृतवान्।
कार्यक्रमेस्मिन् के बाबू , पि जे जोसफः, वि के इब्राहिम् कुञ् ,के पी मोहन:, वि एस् शिवकुमारः इत्येते मन्त्रिणः जनप्रतिनिधयः अन्ये च भागभागित्वं कृतवन्तः।

Saturday, December 5, 2015

केरलेषु संस्कृतप्रशिक्षणस्य सञ्चालनाय
१०१ संख्याकानां समितिः ।

इटुक्की - प्रशिक्षणस्य सुगमसंचालनाय 101 जनानां स्वागतसंघं रूपीकृत्य कार्याणि कुर्वन्त: सन्ति। धनसमाहरणस्य उद्घाटनं श्री कुम्मनं राजशेखरमहोदयेन कृतम्।प्रशिक्षणस्य प्रचरणाय दीपावली कुटुम्बसंगमे कुमारी सरस्वत्याः संस्कृतपरिचयः इति कार्यक्रम: जात: । प्रशिक्षणपूर्वशिबिराणि स्थानत्रये आयोजितमस्ति। जनपदे विद्यमान अद्ध्यापका: वैद्याः ,संस्कृतेन जीवनं कुर्वन्तः इतरमेखलासु विद्यमानाः अपि स्वकीयं कार्यमिति मत्वा प्रशिक्षणस्य साहाय्यं कुर्वन्तः सन्ति।


महाप्रलयः - चेन्नै नगरं पृथक्कृतं;
साहाय्यहस्ताः प्रसरन्ति।
 
चेन्नै - तमिल्नाडुराज्ये संवृत्तायां घोरवृष्ट्यां राजधानी चेन्नैनगरेण सहितानि ५ जनपदानि जलोपप्लवे आमग्नानि।३०० अधिकं जनाः मृताः । विद्युच्छक्तिः स्थगिता। जनजीवनं निश्चलमभूत्। राजमार्गेण सहिताः सर्वे वीथयः जले निमग्नाः अभवन्। राजधानी चेन्नै नगरं पृथक्कृतमभवत्। राष्ट्रस्य विविधभागेभ्यः साहाय्यानि लभन्ते। प्रधानमन्त्री नरेन्द्रमोदी प्रलयमण्डलं सन्दर्श्य १०००कोटिरूप्यकाणां साहाय्यं प्रख्यापितवान्।

Friday, December 4, 2015

केरलेषु संस्कृतभाषापाठने पुरोगतिः -
 संस्कृताध्यापक-फ़ेडरेशनस्य साफ़ल्य:
अनन्तपुरी- केरलसर्वकारेण वर्षद्वयाद्पूर्वमेव बहुविध सम्मर्द्देन प्रथमकक्ष्यादारभ्य संस्कृतपाठनमारब्द्ध किन्तु पुस्तकनिर्माणे कालविलम्बः अभवत 'केरल-संस्कृत-अध्यापक-फ़ेडरेशन्' नाम अध्यापक दलेन समर: आरब्ध: च, अन्ते पुस्तकमपि आगतम्अधुनापि फ़ेटरेशन् द्वारा कृतः संमर्द्दस्य अन्ते एव प्राथमिकस्तरे अपि परीक्षा सञ्चालनाय निदेशः आगतः ,GO www.kstfedu.org मध्ये लभते


टि एस् ठाक्कुरः भारतस्य मुख्यन्यायाधिपः।
Story image for ts thakur from Oneindia Malayalamनवदिल्ली - भारतस्य ४३ तम मुख्यन्यायाधिपस्थाने नियुक्तः तिरात् सिंह् ठाक्कुरः गतदिने सत्यप्रतिज्ञां कृतवान्। राष्ट्रपतिभवने संवृत्ते कार्यक्रमे राष्ट्रपतिः प्रणब् मुखर्जीवर्यः प्रतिज्ञावाक्यानि उपादिशत्। ६३ वयस्कः न्या.ठक्कुरः ईश्वरनाम्नि सत्यप्रतिज्ञाम् अकरोत्। प्रधानमन्त्री नरेन्द्रमोदी राज्यसभायाः उपाध्यायक्षः श्री हमीद् अन्सारी, श्रीमन्तः राजनाथसिंहः ,सुषमा स्वराजः,अरुणजय्टिली इत्यादयः केन्द्रमन्त्रिणः दिल्लीमुख्यमन्त्री अरविन्दकेज्रीवाल्वर्यः भाजपा नेता एल् के अद्वानीवर्यः इत्यादयः बहवः प्रमुखाः अस्मिन् कार्यक्रमे सन्निहिताः आसन्।