OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 16, 2015

संगीतनृत्ते भारतीयचलच्चित्रसविशेषते।


कोच्ची - संगीतस्य नृत्तस्य च प्राधान्येन चलच्चित्रनिर्माणं भारतस्यैव सविशेषता इति प्रमुखः चलच्चित्रसंविधायकः श्यमबनगल्। कोच्चीनगरे All Lights India इति अन्ताराष्ट्र चलच्चित्रोत्सवस्य उद्घाटनं कुर्वन् अवदत्। विभिन्न भारतीयभाषाचलचित्रेषु संगीताय नृत्ताय च प्रधान्यं दीयते। एतत् संस्कृतनाटकानां स्वाधीनात् आर्जिता सविशेषता इति बनगल् वर्येणोक्तम्।

संस्कृतप्रशिक्षणम् - स्वागतसमितिः रूपीकृता
 
तोटुपुष़:-विश्वसंस्कृतप्रतिष्ठानस्य प्रशिक्षणशिबिरस्य स्वागतसंघः रूपीकृतः।17/11/15 दिनाङ्के कृष्णतीर्थमण्डपे भविष्यति कार्यक्रमः। पेरुव गीतामन्दिर् मठाधिपाः श्रीमद्वेदानन्दसरस्वतिस्वामिपादा: कार्यक्रमस्य उद्घाटनम्  कृतवन्त:
विश्वसंस्कृतप्रतिष्ठानस्य मुख्यकार्यदर्शी श्री वी.श्रीकुमारमहोदय: मुख्यभाषणमकरोत्।
 आतङ्कवादान् विरुद्ध्य सर्वैराष्ट्रैकात्मकता  भवेयुः - भारतस्य प्रधानमन्त्री
अन्टालिय - तुर्क्की राज्ये अन्टालियायां जी.20 उच्चकोटी मेलने भागभाजं भवितुमागतः मोदि वर्य: ब्रिक्स् नेतृऋणां  मध्ये कृतायां चर्चायां भाषमाणः आसीत्I पारीस् राष्ट्रे सञ्जात आतङ्क वादाक्रमणे प्रतिरोद्धुं सर्वे मिलित्वा भवेयुः सिना विमानदुर्घटनायां रूसेभ्यः साह्यः दादव्यः इति च उक्तवान् l आतङ्कवादान्‌  विरुध्य पराजेतुं लोकराष्ट्रैः सम्भूय कर्तव्यानि करणीयानि। ब्रिक्स् राष्ट्राणि एतदर्थे प्रामुख्यं दादव्यम् इति च तेन स्मारितः।
2016 फेब्रुवरि मासे ब्रिक्‌स् अध्यक्ष स्थानस्वीकरणे भारतस्य सम्मितिरभिमानित्वं च वर्तते इत्यपि मोदिवर्य: अवदत्।


संस्कृतसेवकेभ्यः सुवर्णावसरः ।

नदिल्ली -भारतभूषा संस्कृतभाषा, जनभाषा भवेत् इत्यस्याः सङ्कल्पनायाः साफल्याय राष्ट्रियसंस्कृतसंस्थानेन सञ्चाल्यमानायां अनौपचारिकसंस्कृतशिक्षणयोजनायां बहूनां सुसंस्कृतशिक्षकाणां नियुक्तिः क्रियमाणा वर्तते । 
अधिकविवरणार्थं sanskrit.nic.in 

http://sanskrit.nic.in/advt_14_11_2015.pdf
http://sanskrit.nic.in/proforma_14_11_2015

Sunday, November 15, 2015

पारीसे भीकराक्रमणे भारतीया: सुरक्षिता : इति सुषमा स्वराजः
नवदेहली - पारीस् महानगरे जाते ऐ. स्.आक्रमणे न कोऽपि भारतीयः दुर्घटनाबद्धः इति विदेशकार्यमन्त्रिणी सुषमा---महाभागा अवदत्। तस्मिन् देशे भारतीया: सर्वे सुरक्षिताः इति तया स्पष्टीकृतम् । ट्विट्टर् द्वारा एव सुषमा वर्या इदमुक्तवती।
      गतदिने भीकराक्रमणवार्तायां समागतायां एव फ्रान्स्देशस्थभारतीयराजदूतेन सह दूरवाण्या सम्भाषणं जातमित्यपि तया ट्विट्टर् मध्ये सूचितम्। भारतीयेभ्यः साहायार्थं संपर्कसंख्याः उद्‌घाटिता: ।तथा सामूहिकमाध्यमद्वारा तैः सह सम्भाषणाय उद्यमः प्रचलति इति उपप्रधानमन्त्री मनीष प्रभातेन उक्तम् ।

पारीस् नगरे जनसंकुलेषु भिन्नभिन्नस्थानेषु युगपद् जाते स्फोटकविस्फोटनेन 150तः मारिता:। मृतसंख्या इतोऽपि अधिकं भविष्यतीति सूचना ।


लण्टने अम्बद्कर् स्मारकं बसवेश्वरप्रतिमा च मोदिना उद्घाटिते।

लण्टन् - लण्टन् महानगरे विद्यमानं बि अार् अम्बेद्कर् महोदयस्य स्मारकं प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटितम्। १९२१- २२ काले लण्टन् स्कूल् आफ् इकणोमिक्स् इति संस्थायाम् अध्यय नं कुर्वन् अम्बद्करेण उषितं भवनमधुनास्मारकत्वेन परिवर्तितम्।
         लणटन् नगरे स्थापितं भारतीयतत्वचिन्तकस्य बसवेश्वरस्य नगरे स्थापिता प्रतिमा मोदिना अनाच्छादितम्। "माग्नाकार्टा"याः पूर्वमेव लोकाय जनाधिपत्यबोधं प्रदत्त: चिन्तकः  जनाधिपत्यविश्वासिनां प्रचोदकश्च आसीदयमिति मोदिना प्रकीर्तितम्।

 ॥ सुवचनानि ॥
त्रैलोक्ये दीपकः धर्मः ।

Saturday, November 14, 2015

तमिल्नाट् राज्ये वर्षाः अनुवर्तन्ते; ५५ मरणानि।


चेन्नै - तमिल्नाट् राज्ये कतिपयदिनैः अनुस्यूतमानासु वर्षासु ५५ जनाः मरणं प्राप्ताः।चेन्नै जनपदे वर्षाः रूक्षतया अनुवर्तन्ते। तिरुवल्लूर् काञ्चीपुरमित्याद्याः जिल्लाः जलोपप्लवे अन्तर्भूताः। बङ्गाल् अन्तर्समुद्रे जातः न्यूनमर्द एव वर्षायाः कारणम् द्वित्राणि दिनान्यपि एषा अनुवर्तिष्यत इति च वातावरण निरीक्षणकेन्द्रैः विज्ञापितम्।
 

Friday, November 13, 2015

संस्कृतेन सत्यप्रतिज्ञा - केरले नवचरितं रचितम्।

अनन्तपुरी - केरलेषु इदंप्रथमतया संस्कृतभाषया जनप्रतिनिधेः सत्यप्रतिज्ञा। गतदिने संवृत्तायां तद्देशजनप्रतिनिधीनां सत्यप्रतिज्ञास्वीकरणसमये तिरुवनन्तपुरं महानगरसभासामाजिकः भाजपादलस्य राज्यसमित्यङ्गः करमना अजितः
संस्कृतभाषया सत्यवाक्यमुक्त्वा संस्कृतमातृसेवामकरोत्। अनन्तपुरी महानगरसभायाः चरित्रे इदंप्रथमतया एव संस्कृतवाक्यानि उद्घुष्टानि। संस्कृतश्रवणमात्रेण सश्रद्धं निश्शब्दं सभागृहम् अजित्वर्यस्य शपथस्यान्ते उच्चैर्हस्तघोषैः आदरं प्रदर्शितवत्। आदौ वरणाधिकारी तथा  जनपदाधीशः बिजु प्रभाकरः सभायाः ज्येष्ठतमायै सामाजिकायै डो. विजयलक्ष्म्यै सत्यवाक्यम् उपादिशत्। तदनन्तरं विजयक्ष्मीवर्यायाः नेतृत्वे शिष्टाः९९ सामाजिकाः सत्यप्रतिज्ञां कृतवन्तः।
एष्याभूखण्डस्य बृहत्तमः विद्यालयकलामेला केरलेषु।


अनन्तपुरी - एष्याभूखण्डस्य बृहत्तमः कौमारकलोत्सवः इति सुविख्यातः केरलच्छात्रोत्सवः (केरला स्कूल् कलोत्सवः) जनुवरिमासस्य १७ दिनाङ्कादारभ्य २३ दिनाङ्कपर्यन्तं तिरुवनन्तपुरं जनपदे प्रचलिष्यति इति केरलस्य शिक्षामन्त्री पि के अब्दुरब्ब् महोदयः विज्ञापितवान्। एरणाकुलं जनपदे इति पूर्वनिश्चिता आसीदियं कलामेला । किन्तु मेट्रो निर्माणेन अनुभूयमानां दुरवस्थां परिगणय्य एव मेलासञ्चालनाय अनन्तपुरी निश्चितेति शिक्षामन्त्रिणोक्तम्।
 

ब्रिटनदेशे प्रधानमन्त्रिणे उज्ज्वलं स्वीकरणम्।

लण्टन् - भारतप्रधानमन्त्रिणे  नरेन्द्रमोदिवर्याय  उज्ज्वलं स्वीकरणम् । त्रिदिनसन्दर्शनाय ब्रिटन्देशं प्राप्तं प्रधानमन्त्रिणं कोमण् वेल्त् विदेशकार्यमन्त्री ह्यूगो स्वेर्, भारतवंशजा ब्रिटीश्मन्त्री प्रीति: पटेलः इत्यादयः स्वीकृतवन्तः ।

मोदिनः सन्दर्शनेन अतीव सन्तुष्ट: इति ब्रिटीश् प्रधानमन्त्री डेविड् कामरूण्वर्यः अवदत् । उभयोः राष्ट्रयोः मिथः सौहृदं दृढीकर्तुं मोदिनः सन्दर्शनं उपकरिष्यतीति कामरूण् स्पष्टीकृतवान् ।
ब्रिटीश् पार्लिमेन्ट्  संयुक्तसम्मेलनं प्रधानमन्त्री नरेन्द्र मोदी सम्बोधयिष्‍यति । जनप्रतिनिधिसभायाः प्रभुसभायाः च संयुक्तसम्मेलने अपि स: भागं ग्रहीष्यति । मोदि वर्यस्य बहुमानार्थं एलिसबत् महाराज्ञी मध्याह्नभूरिभोजनस्य व्यवस्थां कृतवती । तस्य इङल्ण्डसन्दर्शनम् शनिवासरे समाप्तिम्' एष्यति । ततः स:  G40 सम्मेलने भागं ग्रहीतुं तुर्कीं गमिष्यति

 
भारते असहिष्णुतायाः स्थानं नास्ति इति प्रधानमन्त्री मोदिवर्यः

लन्टन्- देशवासिनः व्यक्तिगतस्वातन्त्र्यं लिखितभरणशासनानुसारं सर्वेभ्यः समानं इति दृढीकृतमस्ति। भगवतः बुद्धस्य तथा महात्मा गान्धीवर्यस्य च जन्मभूमि: इदं भारतम् । अस्मिन् असहिष्णुतायाः स्थानं नास्ति इति ब्रिट्टन् राष्ट्रस्य  उच्चशासनसभायां नरेन्द्रमोदिना अवदत् ।  ब्रिट्टन् देश:अपि इदानीं आतङ्कवादिभ्यो  भीतो वर्तते। तत् परिहर्तव्य:। आतङ्गवादान् विरुद्ध्य किमपि कर्तव्यः इति सर्वेषां मानवानां कर्तव्यमेव इति च सः अवदत्।
 
चाकलेहः इति विचार्य विस्फोटकं खादिता बालिका मृता।

रत्नगिरिः - महाराष्ट्रायां रत्नगिरिजनपदे तिसाङ्गी इति ग्रामे दामिनी निगम् नामिका पञ्चवयस्का बालिका  चाकलेहः इति विचिन्त्य विस्फोटकं खादित्वा मरणं प्राप्ता।स्वगृहस्य पुरतः मित्रैः साकं क्रीडावत्याम् इयं दुर्घटना जाता। झटित्येव माता समीपस्थमातुरालयं नीतवती तथापि बालिका मृत्युमुपगता।

 ॥ सुवचनानि ॥
गहना कर्मणो गतिः ।
गुणाः सर्वत्र पूज्यन्ते ।

Thursday, November 12, 2015

अनुज्ञा २४७ कोटिरूप्यकाणां ; व्ययः केवलं १४२ कोटिः।

नवदिल्ली - ६ पङ्क्तियुक्तम् उपरितरणपथं(Flyover) निर्मातुं २४७ कोटिरूप्यकाणाम् अनुज्ञा दीयते, १४२
कोटिरूप्यकैः पद्धतेः पूर्तीकरणं सम्भवति ! भ्रष्टाचारसम्पन्ने अस्मिन् राष्ट्रे भ्रष्टाचारविरुद्धमुद्रावाक्यैः सन्देशैश्च अघिकारं प्राप्तवता दिल्लीमुख्यमन्त्रिणा अरविन्द केज्रिवाल् महोदयेन इयं मान्त्रिकप्रक्रिया सञ्चालिता।
२०१३ तमे वर्षे षीलादीक्षित् सर्वकारेण उत्तरदिल्याम् आसाद्पुर- प्रेमबारीप्रदेशयोः मध्ये १.६ कि.मी. दैर्घ्येन उपरितरणमार्गनिर्माणाय २४७ कोटिरूप्यकाणाम् अनुमतिः दत्ता निर्माणमारभत च। किन्तु केज्रिवाल् वर्यस्य अधिकारप्राप्त्यनन्तरं केवलं १४२ कोटिरूप्यकाणां व्ययेन वीथीनिर्माणं पूर्तीकृत्य गतदिने उद्घाटनमपि कृतम्।


बीहार् - नितीष् कुमारस्य स्थानारोहणं २० तमे।

पाट्ना - बीहारराज्यस्य मुख्यमन्त्रिरूपेण नितीष् कुमार् वर्यस्य स्थनारोहणं नवं- २० तमे दिनाङ्के भविष्यति। पाट्नायां
गान्धीमैतान् मध्ये एव सत्यप्रतिज्ञाक्रियाः आयोजयिष्यन्ते। जे डि यू दलात् १५, आर् जे डी तः१६, कोण्ग्रस् दलात् ६ च सामाजिकाः सचिवपदे भविष्यन्ति।


 
  गोयङ्क एक्सलनस् वार्तामाध्यमपुरस्कारेण बिजु परवत्तः सम्मानितः।

नवदिल्ली - रांनाथ् गोयङ्क एक्स्लन्स् ओफ्‌ जेर्णलिसम् पुरस्कारः मलयालभाषायाः प्रमुखपत्रिका मातृभूमेः वार्ताहराय बिजु परवत्त महोदयाय अलभत। राज्यस्तरीय भाषाया: उत्तमवार्ताहराय प्रख्यापितः अयं पुरस्कारः २०१२-१३ वर्षस्य एव। भारत-पत्र-माध्यम-मण्डल्स्य कुलपति इति विख्यातः इन्ड्यन् एक्‌स्प्रस् पत्रिकायाः स्थापकः राम् नाथ गोयङस्य नाम्नि  संस्थापितः अयं पुरस्कारः। गोयङ्क फौण्डेषन् संस्थया पुरस्कारः यच्छति। लक्षं रुप्यकाणि प्रशस्तिपत्रं च पुरस्कारे अन्तर्भवति ।  2013 अगस्त मासस्य26 तः29 पर्यन्तं मातृभूमिपत्रिकायां प्रकाशितः "नीतिम् अलभमानाम् आदिवासिजीवनम्" इति परम्परायाः कृते एव पुरस्कारः। वि.के माधवन् कुट्टि पुरस्कारेण कालिकट्ट्  प्रस्क्लब् पुरस्कारेण ई. एम्‌ .एस् पठन-गवेषण-केन्द्र-पुरस्कारेण च एषः महोदय: पूर्वं पुरस्कृत: आसीत्।


विदेशचार्टर्विमानसेवनानि इतःपरं भारतात् अपि आरब्धुं शक्यते।
 
नवदेहली - व्योमयानमण्डले विदेशनिक्षेपे उदारीकृते विदेशचार्टर्विमानसेवनानि भारतात् आरब्धुं साध्यता जाता । अस्मिन् मण्डले अधुना चतुस्सप्ततिप्रतिशतम् एव विदेशनिक्षेपाय अनुमति: विद्यते। तत् इतःपरं शतप्रतिशतं कर्तुमेव निश्चयः। नूतनव्योमयाननये आगते वाणिज्यविनोदसञ्चारमण्डलानामपि गुणकरं भविष्यति ।

ISRO संस्थायाः जी साट्15 उपग्रहस्य
विक्षेपणे विजयः
कालीफ़ोर्णिया-  ISRO संस्थायाः जीसाट्15 नाम नूतन उपग्रहस्य विक्षेपणे भारतं विजयीभूतम् । दक्षिण अमेरिक्कायाः फ़्रञ्च् गयानायाः कौरु देशतः विक्षिप्तः विक्षेपणपेटकेन  जीसाट्ट्15 भू भ्रमणपथे न्यक्षिपत् 

 11 घण्डापर्यन्तं अनुवर्तमानः नीच गणनानन्तरं पूर्वनिश्चयानुसारेण आकाशं प्रति उत्पतितः।  43 मिनिट्  24 निमेषानन्तरं स्वस्य स्थानं प्राप्य नियन्त्रकानां कृते सन्देश: प्रेषितः। इदानीम् आरभ्य हासन् तः भवति उपग्रहस्य नियन्त्रणम् ।

Wednesday, November 11, 2015

  ICC अध्यक्षस्थानात् श्रीनिवासः निष्कासितः।

मुम्बई - अन्ताराष्ट्रीयक्रिकट् समित्याः(ICC)अध्यक्षस्थानात् एन्.श्रीनिवासः निष्कासितः। तत्स्थाने शशाङ्क् मनोहरः नियमितः। ICC मध्ये भारतीयक्रिकट्नियन्त्रणमण्डलस्य (BCCI) प्रतिनिधिरूपेण शशाङ्कमनोहरः संस्थायाः वार्षिकसम्मेलने  चितः इत्यतः श्रीनिवासस्य स्थानचलनं सञ्जातम्।


माणिः अपराधं  न कृतवानिति मुख्यमन्त्री।

अनन्तपुरी- मदिराविक्रयणलकुचविषये माणिः अपराधी इति न विश्वसिमि इति
केरलस्य मुख्यमन्त्री उम्मन् चाण्डी वर्यः। माणेः परित्यागपत्रं स्वीकृत्य तिरूवनन्तपुरे माध्यमप्रवर्तकैः साकं भाषमाण : आसीत् मुख्यमन्त्री । उच्चन्यायालयस्य आदेशे कुत्रचित् परामृष्टः इति विहाय माणेः उपरि कोऽपि अपराधः आरोपितः नास्तीति तेन उक्तम् । उन्नतं राजनैतिकमूल्यं  मनसि निधाय एव माणिना स्थानत्यागः कृतः । अयं तस्य स्वीयः निश्चयः इत्येव मुख्यमन्त्री अवदत् । स्थानं  त्यक्तुं कुतश्चिदपि सम्मर्दः नासीत्  । तादृश्य : वार्ता: अतथ्याः इत्यपि तेनोक्तम् ।
1975 तः ऎक्यजनाधिपत्यसख्यस्य अविभाज्यघटकं भवति केरला कोण्ग्रस्। ततः आरभ्य
ऎक्यजनाधिपत्यसख्यस्य शक्तिस्रोतः भवति सः इत्यपि उम्मन् चाण्डिवर्यः अवदत् । के .एम् माणिः सभायां ज्येष्ठ: एव। तस्य सेवनं सर्वकाराय सम्पदेव । निरपराधतां प्रकाश्य सः शीघ्रं प्रत्यागच्छतु इत्यपि तेनोक्तम् ।

माणिना त्यागपत्रं समर्पितम्।


अनन्तपुरी - मदिराविक्रयणलकुचविषये उच्चन्ययालयात् प्रतिकूलपरामर्शविहितः केरलवित्त-नीतिमन्त्री के एम् माणी त्यागपत्रं समर्पयत्। नीतिन्यायव्यवस्थां प्रति आदरसूचकं भवति स्थानत्यागमिति माणिना उक्तम्। यू डि एफ् दलाय इतोपि सम्पूर्णं साहाय्यं स्यादिति तेनोक्तम्।

॥ सुवचनानि ॥
 इतो भ्रष्टस्ततो भ्रष्टः ।
ईश्वरेच्छा बलीयसी ।

 इक्षुः मधुरोऽपि  समूलं न भक्ष्यः।

Tuesday, November 10, 2015

दीपावली शुभाशयाः विविधभाषासु 
 Clik here For Crackers 














❇Sanskrit:
शुभ दीपावली । सर्वे भवान्तु सुखिनः
Shubhah Deepavalihi.. Sarve bhavantu sukhinah

✴Telugu: 
Andariki Deepawali shubakankshalu

✳Tamil: 
Anaivarukum iniya Dheebavali nal valhthukkal.
Deepavali naal vazhthagal.
எல்லோருக்கும் இனிய தீபாவளி நல்வாழ்த்துக்கள்!

✴Malayalam:
 Ellavarkkum santhoshavum ahlathavum niranja Deepavali ashamsakal
എല്ലാവര്‍ക്കും സന്തോഷവും ആഹ്ലാ
വും നിറഞ്ഞ ദീപാവലി ആശംസകള്‍.

❇Tulu: 
Nikulu Materegla deepavali parbada shubhashya!

✴Kodava:
 Ninga eelariku santosha Deepavali.

❇Kannada: 
DeepavaLi habbada hardika shubhashayagaLu.
ದೀಪಾವಳಿ ಹಬ್ನದ ಹಾರ್ದಿಕ ಶುಭಾಶಯಗಳು
ಮೋಜಿನದೀಪಾವಳಿ ಹಬ್ಬದ ಹಾರ್ಧಿಕ ಶುಭಾಶಯಗಳು

✴Konkani: 
तुन्का सग्गाठंकयी दीपावली ची हार्दिक शुभेच्छा ।
Twitter antu asile pura lokaku amgel kadechan Deepavali parbeche shubhashay.
विविध भाषासु
✳Marathi:
तुम्हा सर्वाना सुखी अणि आनंददायी अश्या दिवाळीच्या हार्दिक शुभेच्छा Tumha sarvana, sukhi ani aanandmayi asha ya Diwlicha hardik shubbhecha.

❇Bambaiyya:
Apun ke taraf se sabko ekdum jhakas happy wala Diwali ki badhai.

❇Gujarati: 
Diwali ni hardik shubechao ne nutan varshabhinandan.
Diwali na divas par tamne ane tamara sahu pariwar jan ne diwali ni subhecha pathvu chu.

✴Kathiyawadi: 
Nava varsh na raam raam/ jai shri krishna

✳Kutchi: 
Aanke madi ke di Diwali ji lakh lakh vadhaiyu
✴Sindhi: 
Tawankhey , tawanje gharawaran and dostan khey dil sa dyari ju wadayu.

❇Balochi:
 Washen Diwali Shomara Murad Bath.

✴Malwa: 
Deepawali ki Ram Ram.

✳Marwari:
Ram Ram sa Diwali ra jualda karu sa,aapne or aapre sagla pariwar ne diwali ra ra
विविध भाषासुmasama karu sa.
थे लोंगा ने दिवाली की हार्दिक शुभकामनाएं.

✴Saavji: 
Tumne ani tumara samasta parivaar ne Deewali nu shubbheccha.

✳Rajasthani: 
Aap re or aap re ghar walo ne mari tharaf su diwali ki gani gani shubha kamnaye.

✴Shekhawati:
 Thane Diwalli ki bhot bhot badhaiaan mahri aur soon.

❇Hadoti:
 Tanne diwalli ki bhat bhot badhai mahri aur choon.

✴Sadri: 
Raaur ke shubh Deepavali.

❇Punjabi:
त्वानूं सब नूं दिवाली दी लख लख बधाइयाँ।
Twahnu Diwali diyan lakh-2 badhaiyan!!

✴Kashmiri: 
Tohi chuv Diwali hunz hath hath Mubarak
Diwali’ us pet tohi saarni mubarak. Lassun te Pahlun.

✳Hindi:
आप सभी को खुशियों और उल्लास से भरी दिवाली की शुभ-कामनाएं !
Aap Sab ko prasannata evam anand se paripoorn Diwali ki shubhkaamnaayein!

✴Urdu: 
Deepavali ki dilli mubarakhbaad app sab khavateen o hazrat ko.

✳Bhojpuri:
Raurake Diwali ke badhayi ho.

✴Nepali:
शुभ दिपावली को पावन अवसरमा हार्दिक मंगलमय शुभकामना

❇Maithili:
Aahan sabgote ke mithilawasi ke or sa Diwali ke hardik subhkamna.

✴Bangla:
Sakalkeyi Diwali)priti o antarik subhecha. Asha kori, ei Dibas apnar jibone Anando niye ashe

✳Asomese: 
दीपावली’र हार्दिक शुभेच्छा जौनाइसु आपुना’र लौक

✴Dimasa:
Deepawali Ni Khirbkhe Aani Hamjauma Odehe Khasauma Rilahadu.

❇Odia: 
Apana sabhinku subha abong anandamaya DIPAVALI ra hardhik subha kamala

✴Romanian: 
Deepawali fericite.

✳Spanish: 
Deseamos feliz Deepavali.

✴Arabic:
  ديوالي سعيد جداً
diwali Ya saeed jidan

❇French :
Vous souhaite un joyeux Deepavali

✴German: 
Herzlichen Glueckwunsch  zum Diwali
✳English: 
Wishing you all in advance, a very happy and fun filled Diwali. Happy Deepawali.
-डा.सि.जि. विजयकुमारः 
कविकुलगुरु कालिदास विश्वविद्यालयः
मदिराविक्रयणलकुचविषये 
उच्चन्यायालयेनापि 'माणिः' परित्यक्तः।

 कोच्ची- मदिराविक्रयणलकुचविषये केरलवित्तमन्त्रिणं के एम् माणिं विरुद्ध्य भ्रष्टाचारविरुद्धन्यायालयस्य आदेशः
उच्चन्यायालयेनापि साधुः इति कृतः। पुनरन्वेषणं करणीयमिति उच्चन्यायालयेनापि निर्दिष्टम्। मदिराव्यापारिणां सकाशात् स्वीकृताविहितधनस्य विषये माणिं विरुद्ध्य नीतिपीठः रूक्षविमर्शमपि कृतवान्। केरलाकोण्ग्रस्(एम्),कोण्ग्रस्(ऐ),यू डि एफ् इत्येषाम् उन्नताधिकारसमितिः अद्य अनन्तपुर्यां सम्मिलति। बहवः दलनेतारः माणिवर्यस्य त्यागपत्रम् अभ्ययाचन्त। अतः अद्य एव स्थानत्यागाय अवकाशः अस्ति। 


वल्लत्तोल् जयन्ती समुचितं आघुष्टम् । 

चेरूतुरुत्ति - केरलीयमहाकवे: वल्लत्तोल् महोदयस्य जयन्तीवार्षिकं समुचितं
आघुष्टम् । उपकुलपतिः पि .एन् .सुरेशवर्यः , वल्लत्तोल् वासन्ती मेनोन् , इत्यादीनां नेतृत्वे कवयः कलामण्डलम् अध्यापका :,अन्ये कार्यकर्तार: छात्राः च वल्लत्तोल् समाधिमन्दिरे  पुष्पार्चनां अकुर्वन् । मलयालम् विश्वविद्यालयस्य उपकुलपतिः के . जयकुमार वर्यः वल्लत्तोल् अनुस्मरणभाषणं कृतवान् । काव्यपूजायां  एन् .के.देशं , के .वि.रामकृष्णः, कल्पट्ट नारायणः आलङ्कोड् लीलाकृष्णः, रफीक्‌ अहम्मदः , सेबास्ट्यन्, श्रीलता वर्मा इत्यादया: भागं गृहीतवन्तः । ततः नलचरितं साहित्यं वेदिका च इति विषये सङ्गोष्ठी जाता रात्रौ निलादेशीय नृत्यसङ्गीतसम्मेलने  जानकी रङ्गराजेन कृतं भरतनाट्यं भावतरङ्गितं जातम् ।  ततः नलचरितं तृतीयदिनं कथाकेलिः आसीत्  यस्मिन् विख्यातनटः कलामण्डलं गोपिवर्यः बाहुकवेषं धृतवान् । ततः कीचकवधम् कथाकेलिः अपि आसीत् ।                                      -सुजा हरिदासः 
  
॥ सुवचने ॥
अनतिक्रमणीया हि नियतिः ।
अधिकस्याधिकं फलम् ।

Monday, November 9, 2015

बीहारे महासख्यस्य महाविजयः।

पाट्ना - बीहार् राज्यस्य नियमसभानिर्वाचने प्रवचनानि अप्रसक्तानि कृत्वा जे डि यू, आर् जे डि, कोण्ग्रस् महासख्यस्य अत्युज्वलविजयः। २४३ मण्डलेषु १७८संख्याकानि प्राप्य विशालसख्यः जनहितं प्रकाशितवान्। भाजपासख्येन केवलं ५८ आसन्दाः प्राप्ताः इति मोदीप्रभावस्य प्रत्याघातः सूचितः।
बीहार् - प्राप्ता आसन्दाः
 
महासख्यः -१७८
जे डि यु -७१
आर् जे डि -८०
कोण्ग्रस् - २७


------------०-------------
एन् डि ए सख्यः -५८
भा ज पा -५३
एल् जे पि -०२
आर् एल् एस् पि -०२
एछ् ए एम् -०१
---------------०------------
अन्ये  ७
आहत्य स्थानानि -२७३

न्यायेन सह समावेशीविकासः नूतनप्रशासनाय प्राथ्म्ययुतः– नीतीशः।
भाजपासंसदीयसमित्याः उपवेशनमद्य नवदिल्ल्याम्।
म्यामारदेशे गतदिने निर्वाचनं सम्पन्नम्।

॥ सुवचनानि ॥
अतिपरिचयादवज्ञा ।
अतिलोभो विनाशाय ।
अतितृष्णा न कर्तव्या ।
अति सर्वत्र वर्जयेत् ।

Sunday, November 8, 2015

कश्मीरविकसनम्  - ८०,००० कोटिरूप्यकाणां पद्धत्या केन्द्रसर्वकारः ।

जम्मू - कश्मीरस्य विकसनाय केन्द्र सर्वकारः ८०,००० कोटि रूप्यकाणि दास्यति इति उद्घोषः । मौलिकसौकर्यविकसनं स्वास्थ्यमण्डलविकसनम्  इत्यादयः बृहत्यः विकसनपद्धत्यः एव प्रधानमन्त्रिणा नरेन्द्रमोदिवर्येण  उद्‌घोषितम् ।
जलोपप्लवे नष्टानां गृहाणां पुनर्निर्माणाय नष्टव्यवसायानां पुनःस्थापनाय च 7854 कोटि रूप्यकाणि अयच्छत् जलोपप्लवनियन्त्रणाय अपि व्यवस्थाः भविष्यन्ति | अत्यधिकं धनं मार्ग - राजमार्गविकसनाय एव 42,611 कोटिरूप्यकाणि| ऊर्जपद्धतीनां कृते 11708 कोटिरूप्यकाणि  दास्यति  । आरोग्याय 49,000 कोटिः तथा कार्षिकविकसनाय 529 कोटि: विनोदसञ्चाराय 2241 कोटिः च भवति । अभयार्थिनां पुनरधिवासाय सुरक्षायै च 5263 कोटि: दीयते । 450 मेगावाट् बग्रिम्हार् जलवैद्युत पद्धतेः द्वितीयघट्टस्य उद्घाटनं कश्मीरे कुर्वन् प्रधानमन्त्री एव विकसनपद्धतीः उदघोषयत् ।
 सुवचनम् 
 कर्तव्यो महदाश्रयः ।

Saturday, November 7, 2015

 छोटाराजः दिल्लीं प्राप्तः।

नवदिल्ली - बालीदेशे गृहीतं अधोलोकनेतारं छोटाराजं सि बि ऐ संघः दिल्लीं प्रापयत्।इन्डोनेष्यातः भारतीयव्योमसेनायाः गल्फ् स्ट्रीम् ३ इति विमाने दिल्लीं आनीतं तं सि बि ऐ आस्थानं नीत्वा ततः किमपि अज्ञातकेन्द्रं प्रति स प्रेषितः। छोटाराजस्य आनयनकारणेन मुम्बैय्यां दिल्ल्यां च अतीव  जाग्रता विज्ञापिता।
 
 
एकश्रेणी - एकनिवृत्तिवेतनं - विज्ञापनं दीपावलेः पूर्वम्।


नवदिल्ली - विमुक्तभटानां कृते भारतीयसर्वकारेण सेप्तम्बरमासे अंगीकृतायाः एकस्याः श्रेण्याः कृते एकं समानं रीतिः स्वीक्रियमाणा इत्यपि पद्धत्याः विज्ञापनं दीपावलेः प्राक् भविष्यतीति केन्द्ररक्षासचिवः मनोहर परीक्कर् वर्यः उक्तवान्।किन्तु मन्त्रिणः प्रस्तावना न विश्वसनीया इति समरान्दोलनं कुर्वतां विमुक्तभटानां नेता मेजर् जनरल् सद्भीरसिंहः अवदत्।अतः पुरस्काराणां प्रत्यर्पणमिति नूतनसमर रीतिः आविष्कृता  इत्यपि तेनोक्तम्।

  
नगरसभाध्यक्षाणां  चयनम् अष्टादशे

तिरुवनन्तपुरं - नूतननगरसभाध्यक्षाणां महानगरसभाध्यक्षाणां  च चयनम् अष्टादशदिनाङ्के भविष्यति । प्रातः एकादशवादने एतेषां चयनानन्तरं  उपनगरसभाध्यक्षाणां  उपमहानगरसभाध्यक्षाणां च चयनं मध्याह्ने द्विवादने भविष्यति । एतदधिकृत्य निर्वाचन कम्मीषणेन निर्देशा: दत्ताः । ग्राम- ब्लोक् - जनपद पञ्चायतानां अध्यक्षाणां चयनं नवदशदिनाङ्के प्रातः तथा उपाध्यक्षाणां चयनं मध्याह्ने च भविष्यति


आयुधदानं चैनया ; परिशीलनं म्यान्मर् मध्ये - डिङ्का।

कोषिक्कोट् - भारते विध्वंसकप्रवर्तनाय चैना म्यान्मर् द्वारा बहूनि साहाय्यानि तीव्रवादसंघटनेभ्यः ददतः इति गृहीतस्य बोडोतीव्रवादिनायकस्य डिङ्कस्य  उक्तिः।कोषिक्कोटे कक्कोटीतः गृहीतः बोडोतीव्रवादिनेता लिबियोण् बसुमतारी इत्याख्यः डिङ्कः अन्वेषकाणां पुरतः एवम् अपराधाङ्गीकारोक्तिं कृतवान्।
असम् , नागालान्ट्  मणिप्पूर् इत्यादिषु राज्येषु प्रवर्तमानानां संघटनेभ्यः भारतसैन्यं प्रति युद्धं कर्तुं अभ्यासः आयुधश्रेणयश्च प्रातिवेशिकराष्ट्रेभ्यः लभन्ते। कार्बैन् मषिन् गण् इन्सास् सीरीस् गण् ए के  ४७ ,ए के ८७. .. इत्यदीनि नालिकाशस्त्राणि चीनादेशे निर्मीय आनेतुं मध्यस्थाः बहवः सन्ति। एतादृशेषु आयुधेषु शिक्षणं संसिद्ध्य भारतसैन्यं प्रति प्रयुक्तवानिति डिङ्कः स्वस्य उक्तौ स्पष्टीकृतवान्। डिङ्कम् असमराज्यं नेतुं चिराग् जनपदात् सप्तारक्षका: अद्य कोषिक्कोट् प्राप्स्यन्ति।


Friday, November 6, 2015

तद्देशीयनिर्वाचनम् - निर्वाचनयन्त्रदोषमधिकृत्य विशेषान्वेषणम्।

मलप्पुरम् - मलप्पुरे मतदानयन्त्राणां सम्भूय जातं दोषम् अधिकृत्य विशेष: सङ्घः अन्वेषणं करिष्यतीति गृहमन्त्री रमेश् चेन्नित्‍तला अवदत् । निर्वाचन कम्मीषणस्य सकाशात्  लब्धे सति सपदि तदधिकृत्य विज्ञप्तिः भविष्यति । अयं विषय: गौरवयुक्तः इत्यपि तेन स्पष्टीकृतम् । जनपदे यन्त्रदोषकारणेन स्थगितनिर्वाचनेषु त्रयोदश पञ्चायतेषु सप्तविंशतिषु मतदानकेन्द्रेषु पुनर्निर्वाचनं कारणीयम् इति जनपदाधिकारिणा भास्करवर्येण राज्यनिर्वाचनकम्मीषन् प्रति सूचितम्। निर्वाचनस्थगनम् अधिकृत्य विविध राजनैतिकदलैः प्रतिषेधाः कृताः आसन् । यन्त्रदोषेण  सप्तत्यधिकद्विशतेषु (२७०) केन्द्रेषु निर्वाचनं स्थगितमासीत्   । यन्त्रेषु निर्यासादीनां स्थापनेन दोष: कारितः इति अवलोकितमासीत् । मुस्लीमलीग्‌ शक्तिकेन्द्रेषु  एव  एतत् दृष्टम् . I
तृश्शूरे यन्त्रदोषेण स्थगितनिर्वाचनेषु  अष्टस्थानेषु शुक्रवासरे पुनर्निर्वाचनं भविष्यति । कुन्नत्तङ्ङाडि , दक्षिण एरव् , पूतनक्करा , वेल्लार्कुलं, अन्नमनडा , कय्पमङ्गलं  एङ्ङडियूर् ,  चेलक्करा  , इत्यादि स्थानेषु एव पुनर्निर्वाचनं भविष्यति  ।

Thursday, November 5, 2015


राष्ट्रान्तरीयचलच्चित्रोत्सवस्य उद्धाटनाय संस्कृतचित्रम् ।

नवदिल्ली राज्यस्तरीयपुरस्कारनिर्णयवेलायां केरलचलच्चित्रअकाडम्या निरस्तं संस्कृतचलच्चित्रं गोवायां सञ्चााल्य माने रष्ट्रान्तरीयचलच्चित्रोत्सवे भारतीयपनोरमाविभागे उद्घाटनत्वेन स्वीकृतमस्ति।भारतचलच्चित्रचरित्रे तृतीयं संस्कृतचित्रं "प्रियमानसं" एतादृशम् अपूर्वसौभाग्यमर्हदस्ति। 
 विख्यातसंविधायकेन विनोद् मङ्करा वर्येण संविधानं कृतं प्रियमानसं विश्रुतमलयालकवेः उण्णायिवार्यर् वर्यस्य आत्मसंघर्षाणां दृश्याविष्कारः भवति।प्रशस्तः अभिनेता राजेष् हेब्बारः उण्णायिवार्यर् महाभागम् अवतारयति। सोमा क्रियेषन्स् इत्यस्य नेतृत्वे बेबीमात्यू सोमतीरेण इदं चित्रं निर्मितम्। तिरुवनन्तपुरं चलच्चित्रोत्सवे प्रियमानसेन अनुभूता अवगणना विवादाय कारणमभवत्।

केरलेषु अन्तिमपादनिर्वाचनम्  अद्य


अनन्तपुरी- केरलेषु त्रितलतद्देशनिर्वाचनस्य द्वितीयम् अन्तिमं च निर्वाचनं सप्तजनपदेषु अद्य प्रवर्तते।पत्तनंतिट्टा, आलप्पुषा, कोट्टयं , एरनाकुलम, तृश्शूर्, पालक्काट्, मलप्पुरम् इत्येतेषु जनपदेषु प्रातः सप्तवादनादारभ्य मतदानप्रक्रिया आरभते।
 संवत्सराभ्यन्तरे प्रचाल्यमानस्य नियमसभानिर्वाचनस्य निकषरूपेण कल्प्यमाने अस्मिन् निर्वाचने शासकपक्षेन यू डि एफ् दलेन विपक्षेन एल् डि एफ् दलेन च साकं भा ज पा अपि स्वशक्तिं परीक्षते।मतगणना फलप्रख्यापनं च सप्तमदिनाङ्के भविष्यति।


राष्ट्रपतेः वधश्रम: मालिद्वीपे आपात काल जाग्रता  उद्घुष्टा।

मालि  : राष्ट्रपतिं विरुध्य जातम् वधश्रमम् अनुसृत्य मालिद्वीपे  आपातकाल: उद्‌घुष्टः । देशीयसुरक्षाम् अभिलक्ष्य एव आपातः उद्‌घुष्टः इति विदेशकार्यमन्त्रालयेन सूचितम् । त्रिंशत्दिनपर्यन्तमेव आपात:  I सप्तम्बर् अष्टाविंशतौ एव यामीनस्य नौकायां स्फोटनं जातम् । अस्यां दुर्घटनायां यामीनस्य पत्‍नी तथा अन्यौ द्वाै अपि  व्रणितौ आस्ताम् । प्रधानप्रतिपक्षदलस्य मालिद्वीप् डेमोक्राटिक् पार्टी (एम् . डि .पि .)नेतुः मुहम्मद् नषीदस्य ग्रहणानन्तरघटनाः एव द्वीपराष्ट्रं आपातं प्रति नीताः । प्रतिपक्षनेतुः कारावासं विरुध्य अन्ताराष्ट्रियतले प्रतिषेध: आसीत् । राष्ट्रपतिं अब्दुल्ल यामीनं विरुध्य प्रकटने करिष्यमाणे एव आपातकालस्य उद्घोषणम् ।

Wednesday, November 4, 2015

स्वकीयविमानेन चीना।

बैजिङ्- विमानेषु बोयिङ्, एयर बस् यानयोः प्रतिद्वन्ती इव नूतनं विमानं चीनया निर्मितम् सी 919 इति नाम्ना अवतारितस्य विमानस्य निर्मितिः कमेर्सियल् एयर क्राफ़्त् कोर्परेषन ओफ़् चैना नाम संस्थया एव शान हाइ नगरे पुटोङ् राष्ट्रान्तर विमानपत्तने विमानस्य प्रदर्शनमकरोत्
एञ्जिन् द्वयेनयुक्तस्य 39 मीटर दीर्घाकारस्य च अनेन आकाशयानेन 5555 कि मी दूरम् अनुस्यूतम् डयितुम् शक्यते। प्रथमं परीक्षणडयनम् आगामिनि वर्षे कर्तुं शक्यते इति तेषां शुभेच्छा 2019 तमे विमानस्य प्रथममं क्रमानुसारडयनम् भविष्यति 




भारत स्योपरि आक्रमणं कर्तुं 
सीमनि प्रतीक्षमाणाः ३०० आतङ्कवादिनः



श्रीनगरम्- भारतं निलीय प्रवेष्टुं भारतसीम्नः समीपम् आतङ्कवादिनः गुप्तवासं कुर्वन्तीति  वरिष्ठसैनिक:  जनरल् सतीष्‌ दुव अकथयत् । भारतसुरक्षासेनायाः शक्तैः प्रतिरोधप्रवर्तनैः एव आतङ्कवादिनः अन्तः प्रवेष्टुं न पारयन्ति । कदाचित् आक्रमणमपि कुर्वन्तीति सः अवदत् ।प्रधानमन्त्रिणः जम्मु सन्दर्शनवेलायां ह्यः पाकिस्तानतः गोलास्त्रप्रयोगः आसीत् । भारतसैन्यं प्रति आक्रमणे द्वौ  सैनिकौ मृतौ च । ह्यः१२.३०वादने आरब्धम् आक्रमणं द्विवादन वादन पर्यन्तमासीत् । पाक्‌सैन्यस्य एतादृशी प्रवृत्ति: आतङ्कवादिनां भारतप्रवेशनस्य साहायार्थम् इति भारतम् आरोपणं करोति।

 बोडो भीकरः केरल देशात् गृहीतः।

कोषिक्कोट्- निरुद्धायाः बोडोभीकरसंस्थायाः नेता कोषिक्कोट् जनपदे आरक्षकैः गृहीतः।असं राज्यस्य 'नाषणल् डमोक्राटिक् फ्रन्ट् आफ् बोडोलान्ट् ' इति संस्थायाः कार्यदर्शी तथा सायुधसंघस्य नेता लिबियोण् बसुमतारी (डिङ्का-३८) एव विशिष्टारक्षकसंघेन गृहीतः।
  वटकरायां कक्कोटिमुक्क् इत्यस्मिन् स्थाने असमीयैः कर्मकरैः साकं निलीय वासं कुर्वन्तमेनं सैनिकगुप्तचरविभागात् लब्धां सूचनामनुसृत्य राज्यस्य गुप्तचरविभागस्य अधिकारिणः वि पि सदानन्दस्य संघ अग्रहीत्।

Tuesday, November 3, 2015

 
'चपला' येमन् देशे मरणत्रयम्।
ओमाने  भारतीयाः रिक्तीकृताः।

 येमने सोकोत्र द्वीपे आगतस्य चपला इति झञ्झावातस्य औपग्रहिकं चित्रम् । 

सना - येमने सोकोत्रद्वीपे जाते चपला इति झञ्झावाते त्रयः मृताः I उपशतम् मृताः त। अतिवृष्ट्या जलोपप्लवनेन च १५ ०० कुटुम्बानि तीरप्रदेशात् रिक्तीकृताः । विद्यालयेभ्यः विरामः उद्घुष्टः। मलयालिजनपूर्ण: सलाल अतीव सुरक्षायां भवति । तीरप्रदेशा: च पिहिता:। दोफोर्, तखा, राय्सत्, मिर्बाद, औखाद्‌, अल् साद, तुम्रैत् इत्यादि प्रदेशेषु जाग्रता निर्देश: दत्तः सर्वत्र शक्ता वृष्टि: भविष्यतीति सूचना । तदभ्यन्तरे येमनं प्रति चपलायाः दिशा परिवर्तिता चेदपि कमपि सन्दर्भं सम्मुखीकर्तुं ओमानतीरेषु अतीव सुरक्षा व्यवस्थाः कृताः। दोफोरे भारतीयान् अपि मेलयित्वा ४५००  जनान् १२ सुरक्षितस्थानेषु  परिवर्तिताः इति माध्यमकेन्द्राणि सूचयन्ति ।


कल्बुर्गिवर्याय आर् एस् एस् -स्य आदराञ्जलिः।

राञ्ची - हिन्दुत्ववादिभिः निहताय कन्नटसाहित्यकाराय एम् एम् कल्बुर्गीवर्याय राष्ट्रीय स्वयंसेवक संधस्य आदराञ्जलिः। झार्खण्डराज्ये राञ्चीजनपदे प्रवृत्ते संधस्य अखिल भारतीय कार्यकारिमण्डले एव कल्बुर्गीप्रभृतयः माकिं ८० जनाः अनुस्मृताः। राष्ट्रे विद्यमानाम् असहिष्णुतां विरुद्ध्य साहित्यकाराः चलनचित्रकाराः चरित्रकाराश्च पुरस्कारतिरस्काररूपान् प्रतिषेधकार्यक्रमान् आरब्धवन्तः आसन्।



 टेरि फेलानः ब्लास्टेस् क्रीडाशिक्षकः।

कोषिक्कोट् - केरला ब्लास्टेस् इत्यस्य पादकन्दुकक्रीडादलस्य मुख्यपरिशीलकस्थाने अयर्लान्ट् देशीयः टेरि फेलन् नामकः नियुक्तः। इदानीं सः दलस्य आधारमूलोद्भावकः ( ग्रास् रूट् ) साङ्केतिकनिर्वाहकः अस्ति।
दलस्य दयनीयं प्रदर्शनं हेतुतः इंग्लन्टदेशीयः पीटर् टेय्लरः मुख्यशिक्षकस्थानं त्यक्तवानासीत्।

 सुवचनम् 
 धर्मो मित्रं मृतस्य ।

Monday, November 2, 2015

तिहार् कारागारतः अनुवैद्यानां स्थानान्तरीकरणं
  - देहली सर्वकारस्योपरि विवादः।

नवदेहली- तिहार्  कारागारतः २६ अनुवैद्यानां स्थानान्तरीकरणे देहली सर्वकारः विवादे पतितः। कारागारे अपराधी कश्चन अपमाननं कर्तुम् उद्युक्तवानिति वैद्यायाः परिदेवनानुसारं सुरक्षां परिगणय्य अनुवैद्याः(नर्स् ) अपि स्थानान्तरिताः । किन्तु दक्षिण एष्यायां बृहत्तमे अस्मिन् कारागारे सुरक्षिताः न स्म: चेत् अन्यत्र कुत्र भवेम इति तासां समस्या। तस्मादेव स्थानान्तरनिर्देश: प्रतिनिवर्तनीयः इति ताः अभिप्रयन्ति। दीनदयाल इति आतुरालये एव ताः स्थानान्तरिताः। देहली आरोग्यविभागस्य मानवविभवविकसन विभागस्य नेता एव निर्देशं अदात्। स्थानान्तर निर्देश: प्रतिस्वीकरणीयः इति मुख्यमन्त्रिणे अरविन्द केज्रिवालाय दत्ते पत्रे अनुवैद्याः उक्तवत्यः। यस्मिन् सन्दर्भे सर्वत्र वनिता शाक्तीकरणमधिकृत्य चर्चाः जायन्ते। तस्मिन्नेव एतादृशी  प्रवृत्ति: वनितानाम् आत्मविश्वासं न्यूनीकरोति इति ताः अवदन्। स्थानान्तरं समस्यायाः परिहार: न आवश्यकसुरक्षादानमेव सर्वकारस्य दायित्वम् इत्येव ताः  पृच्छिन्त।
 
दक्षिण चिट्टूर् सेन्ट् मेरीस् माध्यमिकविद्यालये प्रधानमन्त्रिणः अभिनन्दनवर्षः।

 कोच्ची -दक्षिण चिट्टूर् सेन्ट् मेरीस् माध्यमिकविद्यालय: सर्वेभ्यः आदर्श: जात:। अवयवदानबोधवत्करण प्रवर्तने उन्नतादर्शभूतचिन्तां जनेषु उदपादयितुं सर्वे छात्राः स्वस्वाङ्गुलिमुद्रा: भारतराष्ट्रस्य भूरेखाचित्रे मुद्रणं कृत्वा इतरेषां मार्गदर्शकाः अभवन्। 
'मन् की  बात्' इति कार्यक्रमे माननीय: प्रधानमन्त्री श्री नरेन्द्र मोदीवर्यः विद्यालयप्रवर्तकानाम् अभिनन्दनमर्पितवान् ।



अद्य प्रथमः जनविधिः।

कोच्ची - केरलेषु त्रितलपञ्चायदादिनिर्वाचनस्य प्रथमपादं अद्य प्रचलति।तिरुवनन्तपुरं,कोल्लं , इटुक्की, कोषिक्कोट् , वयनाट्, कण्णूर् , कासरगोट् एतेषु जनपदेषु ३१,१६१ स्थानार्थिनः जनविधिम् इच्छन्ति।१.११कोटि सम्मतिदातारः प्रथमपादे सन्ति।प्रातः सप्तवादनादारभ्य सायं पञ्चवादनपर्यन्तं मतदानप्रक्रिया भविष्यति।
नियमसभानिर्वाचनस्य प्राक्परिशीलनमिति व्यवहार्यमाणे अस्मिन् निर्वाचने भरणपक्षेन यू डी एफ् दलेन , विपक्षदलेन एल्  डि एफ् पक्षेन च साकं भाजपा अपि स्वशक्तिं परीक्षते।

 सुवचनम् 
 अनतिक्रमणीया हि नियतिः ।