डिजिटल् भारताय फेस्बुक् बि एस् एन् एल् च साहाय्यहस्तं प्रसारयतः।
शाश्वतीकानन्दस्वामिनः मरणे पुनरन्वेषणम्।
अनन्तपुरी
- भूतपूर्वस्य शिवगिरिमठाधिपतेः शाश्वतीकानन्दस्वामिनः दुरूहमरणे
केरलगृहमन्त्रालयेन पुनरन्वेषणं विज्ञापितम्। नवीनप्रमाणानां सांगत्यं
सर्वकारेण अवगतमित्यत एव पुनरन्वेषणप्रख्यापनमिति केरल राज्यस्य गृहमन्त्रिणा रमेश् चेन्नित्तलावर्येण सूचितम्। क्रैं ब्राञ्च् एस् पी के मधुः अन्वेषणस्य उत्तरदायित्वम् वहति।