OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 16, 2015

श्री शङ्कराचार्य विश्वविद्यालयतः
 सम्प्रति वार्ताः विश्वं प्रति 

सङ्गणाक यन्त्रे निर्मितं वार्ता वाचनस्य चित्रम्

बलदेवानन्दसगरस्य वचः 
सम्प्रति वार्ताः श्रूयन्ताम्
प्रवाचकः बलदेवानन्द सागर:   संस्कृतानुरागिणामस्माकं महदिदमामोदस्थानं यत् संस्कृतमाध्यमे अन्तर्जाले नूतना काचित् वार्तापत्रिका "सम्प्रति वार्ताः " इति नाम्ना कतिपयनिमिषेभ्यः पूर्वम् अत्र प्रकाशिता इति। 
श्री शङ्कराचार्य विश्वविद्यालयस्य उप-कुलपतिना  
डा .एम् .सि दिलीपकुमारमहोदयेन  विश्वस्य कृते अधुना समर्पिता। विश्वस्य सर्वप्रथमो अयं संरम्भः समग्रे संसारे प्रतिनिमिषं जायमानानां घटनानां समग्रं चित्रं गैर्वाणीमाध्यमेन तस्मिन्नेव क्षणे दास्यति। इति वार्ताः

 अन्तर्जाले सम्प्रति गैर्वाण्याः  इन्द्र्जालाः

कालटी - महता परितोषेणेदं विज्ञाप्यते यत् संस्कृतमाध्यमेन केरलेभ्यः प्रकाश्यमानायाः प्रथमायाः लक्षणयुक्तायाः संपूर्ण- online वार्तापत्रिकायाः "सम्प्रति वार्ताः" इत्यस्याः शुभारम्भः आकाशवाणी दूरदर्शनयोः प्रवाचकस्य बलदेवानन्दसागरस्य  विज्ञापनेन कृतः  संस्कृतानभिज्ञाः अपि सर्वे भारतीयाः प्रतिदिनं प्रातः आकाशवाणीद्वारा बलदेवानन्दसागरस्य अमुमेव वाचं श्रुत्वा
Image result for baladevananda sagaraभाषामिमां प्रति तत्पराः जाताः अन्तर्जाले विश्वस्य सर्वप्रथमा संस्कृतवार्तापत्रिका "सम्प्रति वार्ताः" केरलेभ्यः प्रकाश्यते अद्य कालटी श्रीशङ्कराचार्य संस्कृतविश्वविद्यालये समायोज्यमाने सम्मेलने विश्वविद्यालयस्यास्य उपकुलपतिः डा. एम् सि दिलीपकुमारः पत्रिकामिमां विश्वस्य कृते  प्रकाशयति। अनेन संस्कृतप्रणयिनां चिरकालाभिलाषः पुष्पितो भवति ।


 भारतश्रीलङ्कादेशौ आतङ्कवादस्य रोधाय संयुक्तपरिश्रमं करिष्यतः.
बिहार राज्ये विधानसभानिर्वाचनानां प्रथमचरणाय विज्ञप्तिः अद्य भवति
इस्लामिक् स्टेट् इति भीकरसंघेन सम्बन्धम् आशङ्क्य केरले चत्वारो निहताः
सानिया हिङ्गिस् युग्मेन यु एस् ओपेन् टेनिस् स्पर्धा विजिता

संस्कृतभाषायाः पोषणाय जर्मनी
बेर्लिन् : - संस्कृतेन सह इतराणां  भारतीय भाषाणां परिपोषणाय जर्मन् योजना राष्ट्रिय शैक्षिक संस्था द्वारा भारतीय भाषाः अपि तत्र पाठयिष्यति।  अस्मिन्  मासे भारतसन्दर्शन वेलायां  जर्मन् कुलपतिना  प्रख्यापनं करिष्यतिभारतस्य विदेश सचिवा सुषमा स्वराजः तस्याः जर्मन् संदर्शनसमये तत्रत्याः विदेशसचिवेन  फ़्रङ्क् वाल्तर् सिन्मियर् महोदयेन शिक्षासचिवेन योहन्न वाङ्केन सह मिथः भाषणं करोति स्म जर्मन्  भाषायै क्रियमाणं पोषणं भारतेन




अनुवर्त्तिष्यते च जर्मन् राष्ट्रेषु पठ्यमानानां  विद्यार्थिनां विषमतामपि भाषणे विषयीभूतः 10000 अधिकाः भारतीयाः छात्राः जर्मन्याम् अधुना उपरि पठनं कुर्वन्ति800 जर्म्न् छात्राः भारते पठन्ति चउभयोः शैक्षिक संस्थायोः मिथः सहकारितां कर्तुं नेतारौ निश्चितवन्तौ
संस्कृतकक्ष्या - जर्मनी







  • बिहारविधानसभानिर्वाचनानां प्रथमचरणार्थम् अधिसूचना अद्य
  • मध्यप्रदेशशासनेन पेटलावाडविस्फोटकाण्डमन्वीक्षीतुम् आयोगः संघटितः
  • ५५तमः एथलेटिक्सनायकस्पर्धा कोलकातानगरे

सर्वकारीयातुरालये प्रथमा हदयपरिवर्तनशस्त्रक्रिया

 
Image result for hartकोट्टयम्- केरलराज्ये इदंप्रथमतया सर्वकारातुरालये हृदयपरिवर्तनशस्त्रक्रिया विजयीभूता। कोट्टयं सर्वकारीयमहाचिकित्सालयः
ईदृशीं स्थानलब्धिं प्राप्तः।
file-4---kt---sept-16---04
शस्त्रक्रिया विभागस्य नेता वैद्यः टी. के.जयकुमारः तस्य अनुचरैः सह


Monday, September 14, 2015


मध्यप्रदेशप्रशासनेन झाबुआविस्फोटकाण्डे मृतकेभ्यः प्रत्येकं परिजनेभ्यः दशलक्षरूप्यकाणि प्रदातुमुदघोषितम्।
श्रीलंकाप्रशासनेन १६ भारतीयधीवराणां विमुक्तेः घोषणा।
•मक्कादुर्घटनायां मृतकेषु ११ भारतीयाः
•पाकाक्रमणे सेनाधिकारी वीरगतिं गतः
•अद्य हिन्दीदिवसे राष्ट्रपतिः पुरस्करोति
•अमेरिकामुक्तटेनिस् : सानिया-मार्टिनयोः विजयः

Sunday, September 13, 2015

वार्ताः इदानीं
•नासिके अद्य द्वितीयं महाकुम्भस्नानम्
•बिहारनिर्वाचनेषु मिम्-दलस्यावतारः
•यूरोपे शरणार्थिनां समर्थने जनप्रयाणम्
•अमेरिकीयमुक्तटेनिस् : फ्लेविया पेनेटा विजयिनी
भारतपाकिस्तानयोःसीमसुरक्षाबलयोः महानिदेशकस्तरीयं सम्भाषणं सम्पन्नम्।
पिधानानदोलनेन कश्मीरोपत्यकायां जनजीवनं पर्याकुलितम्।
असमे पिधानं शान्तिपूर्णम् अर्वतत।

Saturday, September 12, 2015

भारतीयभटाः सीम्नि गोलिकाप्रहाराणां आरम्भं  नैव करिष्यन्ति–राजनाथः।
मकोकान्यायालयेन २००६रेलविस्फोटप्रकरणे १२ अभियुक्तारोपिताः।
जम्मूकश्मीरे संघर्षे आतंकिनौ मृतौ।

कर्णाटके रेलदुर्घटनायां २ मृतौ, ७ च क्षतौ।
The derailed Secunderabad-LTT Duronto Express at the Martur Railway Station in Kalaburagi district. Photo: T.V. Sivanandan 
बंगलूरु : गुल्बर्गायां रेल दुर्घटनायां २ मृतौ ८ क्षतौ च । पूनातः हैद्राबादं प्रति गच्छन्न् आसीत् एतत् तुरन्त शकटम् । यात्रिकानां सर्वविध सहायतां कर्तुं सिद्धाः इति रेल सचिवेन सुरेश् प्रभुना  अवदत् ।



 मक्कायां क्रेनसंघट्टे १०७ मृताः, २३० च क्षताः
जिद्द- प्रचण्डमारुतेन वृष्ट्या च हरं देवलये एव दुर्घटना।  हज्ज् दिनस्य कृते १० दिनानि एव अवशिष्टानि । मृतानां संख्या  इतोप्यधिकं भविष्यति इतिराजकुमारः अवदत् । देवालयस्य आकारवर्धनमुद्दिश्य उपयुज्यमानः आसीत् एतत् क्रेन्।

 पाकेन पुनः संघर्षविरामः उल्लङ्घितः।

श्रीनगरम् : - सीम्नि संघर्षविरामः भवतु इति चिन्ता यां भारत पाकिस्थान योः सैन्य नेतृणां दिन त्रय मेलनं प्रचलन् आसीत् ।
Crane collapse at Mecca's Grand Mosque kills 107, injures 9 Indians

Friday, September 11, 2015

 काशमीरेषु  सङ्घर्षः चत्वारः मृताः
 
army काश्मीरेषु पाक् भीकराणां भारत सैनिकदलेन साकं सङ्घर्षः, चत्वारः मृताः तेषु द्वौ सैनिकौ। जन्मू काश्मीरे हन्द्वार वनदेशे भीकरा: सुरक्षादलेनयोः मिथः ह्यः रात्रौ प्रवर्तमाने गोलिका प्रहरे एव मृतिः। अधुनापि गोलिका प्रहरः प्रचलति। सीम्नि शान्तये पाक् रैञ्चेर्स्-बी एस् एफ़् मिथःभाषणं अनुवर्तिष्यते ।

അതിര്‍ത്തിയില്‍ സമാധാനം നിലനിര്‍ത്താന്‍  ബിഎസ്എഫ്-പാക് റേഞ്ചേഴ്‌സ് ധാരണ
पाक् रैञ्चेर्स्-बी एस् एफ़् मिथः धारणा
वरिष्जनानां स्वास्थ्यरक्षणार्थं धनानामुपयोगः
स्वाभाविक–धनानामुपयोगः वरिष्टजनानां स्वास्थ्यरक्षणार्थं– जेटली
प्रधानमंत्री चण्डीगढे नूतनं  विमानपत्तनम् उद्घाटयिष्यति।
जम्मूकश्मीरे  गोलिकाप्रहारै भटः आहतः। सीम्नि शान्तये पाक् रैञ्चेर्स्-बी एस् एफ़् मिथः धारणा। रश्यायाम् उभै मध्ये मेलिते मोदी-नवाशरीफ़् दर्शने एव अयं निश्चयः। अद्यापि चर्चा प्रचलति ।

अद्यापि भिषगवराः समराङ्गणे 
अनन्तपुरी -  केरळदेशे भिषगवराः अनुपस्थितिम्  आचरन्ति  । रात्रि समये सेवनमुक्तिः, PG डप्युटेशन् पुन:स्थापनीयः इत्यादयः उक्त्वा एव समरं कुर्वन्ति । अनॆन रुग्णाः पीढिताः भवेयुः । समरस्य प्रतिरोधार्थं यावत् शक्यं तत् करिष्ये इति सर्वकारः।

Thursday, September 10, 2015

 भारतपाकिस्तानयोः सीमसुरक्षाबलयोः सम्भाषणमद्य
भारतपाकिस्तानयोः सीमसुरक्षाबलयोः महानिदेशकयोः सम्भाषणमद्य। श्रीमोदी अद्य विश्वहिन्दीसम्मेलनम् उद्घाटयिष्यति। असमाय १९७ कोटिरूप्यकाणि–केन्द्रप्रशासनम्।
श्रीमोदिनोच्चस्तरीयपरामर्शोपवेशनमाकारितम्        
महाराष्ट्रे ॠतुविभागेन  वृष्टिः संभाविता
NDAप्रशासनस्य पार्श्वे पाकिस्तानविषये सुस्पष्टनीतिः नास्ति–सोनिया
गड़्गाशुचीकरणाय अमृतानन्दमयीमठेन शतं कोटि रुप्यकाणि दीयते। शुक्रवारे भविष्माणे कार्यक्रमे श्री अरुण् जेट्टिलि महाभाग: धनराशिं मठत: स्वीकरिष्यति।मठेन क्रियमाणा अमलभारतयोजना मोदिना श्लाघिता।
 •बिहारे निर्वाचनानि आक्टूबरे द्वादशात् नावेम्बरे पञ्चमं दिनाङ्कं यावद् घोषितानि
•यमने १३ भारतीयाः जीवन्ति, ७ च विलुप्यन्ते
•पाकेन पुनः संघर्षविरामः उल्लंघित

Tuesday, September 8, 2015

नूतनप्रत्यभिज्ञान मार्गेण सह नवीन रुप्यकाणां निवेशः
नव दिल्ली
व्याजरुप्यकाणां  निवेशं प्रतिरोद्धुम् नवीना प्रत्यभिज्ञानमुद्रया सह रुप्यकाणां मुद्रणं किरिष्यति।
प्रथमतया १०००, ५००  रूप्यकाणां मध्ये तत् करिष्यति।

अन्तर्जाल - नियन्ता संस्था विलम्बं विना
सैबर दोषान् प्रतिरोद्धुम् एव इयं संस्था । स्त्रीणां बाल का नां च सुरक्षा यै अनिवार्य: एता: ।

* पुंछे संघर्षविरामोल्लंघने भारतीयभटः हतः। कश्मीरे जलौघत्रस्तपुनर्वासमालक्ष्य पिधानाचरणं प्रवर्तते। अमेरिकामुक्तटेनिसस्पर्धायां नोवाकेन उपान्त्यचक्रः प्रविष्टः। विश्वघटनाः,भारताय अवसराश्चेति विषये अद्य मोदी विशेषज्ञान् मिलति। हरियाणायां पञ्चायतेषु सम्प्रति माध्यमिकशिक्षा अनिवार्या। महाराष्ट्रे स्थानीयनिकायकरः समापितः।

Monday, September 7, 2015

उत्तम आयोजक पुरस्कारः संस्कृत अध्यापकाय 

गोश्रीपुरम्  - केरल राज्यस्य विद्याराङ्गं सम्मानेन संस्कृत अध्यापकः बिजु काविल् सम्मानितः राज्यस्य शैक्षिक सचिवेन  अब्दुरब् महोदयेन पुरस्कारः प्रदत्तः।
 

संस्कृतदिनाचराणम्‌

 प्रतिज्ञा 
दिनाचरणं  कसरगोड् जिल्लायां
संस्कृतं मम जीववाणी। तस्याः समृद्धायां नानाविधायां पूर्विकसम्पत्तौ अभिमानी भवामि। संस्कृतपठनं मम विनय-आत्मगौरव-सदाचार-सामूह्यबोधादीनां सद्गुणानां विकासाय प्रभावयति। "वसुधैव कुटुम्बकम्", "सत्यमेव जयते", "सर्वे भवन्तु सुखिनः", इत्यादिभिः आप्तवचनैः राष्ट्रस्य अखण्डता ऐक्यं च संस्कृतभाषायां सुरक्षितमिति विवेचयामि। अहं जाति-वर्ग-स्त्री-पुरुषभेदबुद्धिं विना संस्कृतभाषापठने तथा प्रचारणे च सदा सर्वथा प्रयत्नं करोमि। स्नेहमयी माता स्वपुत्रान् इव अन्यभाषाः अपि आदरिष्ये।।
जयतु जयतु संस्कृतम्।
सि. बि. विनायकः - कोट्टयम्‌ ।

Sunday, September 6, 2015

modi-in-metro
नव दिल्यां फ़रीदबद् मेट्रो रयिल् याने यानस्य प्रथम यात्रायां प्रधान सचिवः मोदी मोदेन याति.

കേന്ദ്ര മന്ത്രിമാരായ വെങ്കയ്യ നായിഡു, വീരേന്ദര്‍ സിംഗ് തുടങ്ങിയവരും പ്രധാനമന്ത്രിയെ അനുഗമിച്ചു.
കേന്ദ്ര മന്ത്രിമാരായ വെങ്കയ്യ നായിഡു, വീരേന്ദര്‍ സിംഗ് തുടങ്ങിയവരും പ്രധാനമന്ത്രിയെ അനുഗമിച്ചു.
കേന്ദ്ര മന്ത്രിമാരായ വെങ്കയ്യ നായിഡു, വീരേന്ദര്‍ സിംഗ് തുടങ്ങിയവരും പ്രധാനമന്ത്രിയെ അനുഗമിച്ചു.
The technology will help Railways in developing solutions for safety at unmanned level crossings with remote sensing facility.  रयिल् यात्रायाः सुरक्षितत्वा वर्धनम् 
ദല്‍ഹി-ഫരീദാബാദ് മെട്രോ യാഥാര്‍ത്ഥ്യമായി; കന്നി യാത്രക്കാരനായി മോദിIsro इस्रो रयिल् यात्रायाः सुरक्षितत्वा वर्धनाय कार्याणि कुर्वन्ति





दल्हि फ़रीदबाद् मेट्रो रयिल् अद्य आरब्धः 
 प्रधान मन्त्रिणा यात्रिकः अभवत् राष्ट्रिय विवादः मास्तु विकासः एव राष्ट्रं वाञ्छति इति मोदिना उक्तवन् सःयात्रिकैः सह सेल्फ़ि अपि कृतवान् केन्द्र सचिवाः वेन्काय्य नायिटु, वीरेन्द्र सिंहादयः अनुगताः
കേന്ദ്ര മന്ത്രിമാരായ വെങ്കയ്യ നായിഡു, വീരേന്ദര്‍ സിംഗ് തുടങ്ങിയവരും പ്രധാനമന്ത്രിയെ അനുഗമിച്ചു.
കേന്ദ്ര മന്ത്രിമാരായ വെങ്കയ്യ നായിഡു, വീരേന്ദര്‍ സിംഗ് തുടങ്ങിയവരും പ്രധാനമന്ത്രിയെ അനുഗമിച്ചു.
കേന്ദ്ര മന്ത്രിമാരായ വെങ്കയ്യ നായിഡു, വീരേന്ദര്‍ സിംഗ് തുടങ്ങിയവരും പ്രധാനമന്ത്രിയെ അനുഗമിച്ചു.
लोकगुरोः श्रीकृष्णपरमात्मनः जन्माष्टमी सवैभवपूर्ण: सम्पन्न:

Story image for sree krishna janmashtami from DeshGujarat
गुर्जरः
आभारतं जन्माष्टमी समाघोष: सवैभवपूर्ण: सम्पन्न:। ग्राम ग्रामान्तरेषु अपि जन्माष्टमि महोत्सवः  आयोजितः- केरलदेशे बालगोकुल संस्थया शोभायात्रा समुचितरूपेण पालिता ।
Janmashtami
मथुरा
केरळम्

केरळ ग्रामान्तराः
 श्री कृष्णस्य नवनीतचोरणं पुनराविष्कृत्य ग्रामनगरवीथिषु "उरियटि" कार्यक्रम:। जन्माष्टमी कार्यक्रमस्य अड़्कतया एव केरलेषु कार्यक्रमोयं प्रवृत्त:। बालकृष्णस्य वृन्दावनलीलां कृष्णवेषधारिण: बाला: सामोदं क्रीडितवन्त:।
krishnayanam
ब्रिट्टन् 
 ब्रिट्टन् चरिते प्रथममेव भवति एतादृश आघोषः - तत्रत्याः हैन्दव जनाः जन्माष्टमी दिनं भारतीय रीत्या अकरोत्
केरळ चित्राणि - रोहन् रघुनाथ्
इति वार्ताः
केन्द्र प्रशासनस्य निर्देशा: विमुक्तसैनिकै: निराकृता:।                               
केरले अध्यापकदिनोत्सवस्य प्रान्तीयोत्घाटन कार्यक्रमे के एस् टि ए संस्थया उपरोध: कृत:। केंद्रसेनाविन्यासेन कार्यक्रम: सुसंपन्न:।

Saturday, September 5, 2015

ज्ञानदानम् महत्तरम् कर्म - राष्ट्रपति:

http://www.uramamurthy.com/srkris1.jpgनव दिल्ली :
ज्ञानदानम्  महत्तरम् कर्म इति राष्ट्रपतिना प्रणब् मुखर्जिना अध्यापकानां धर्म ज्ञानदान एवसत्य धर्मादयः अनुशील्य  शिष्यस्य भाविजीवनम् प्रकशोन्मुखं करोति च
राष्ट्रसेवनतत्परता प्रतिज्ञाबद्धता दक्षता च शिष्याणां मनसि सन्निवेश्य जन्मभूमीं प्रति स्नेहः वर्धयितुम् अध्यापकाः प्रयतन्ते एतादृशकर्माणि अस्माभिः अङ्गीकरणीयानिअध्यापकानां वैशिष्ट्यं प्रत्याभिज्ञातुमवसरः भवितव्यम् इति च राष्ट्रपति: अवदत्। 
कृष्णं वन्दे जगद्गुरुम्
दानीम् किं कर्तव्यं इति चिन्तयित्वा मूढत्वे पतितं धनञ्जयं अत्माबोधवर्धनाय गीतामृतम् उपदिश्य उद्धरति श्रीकृष्णः तस्य परमात्मनः जन्मदिनं भरतस्य कोणे कोणे आघुष्यन्ते  केरळ राज्ये बालगोकुल संस्थया आयोजितायां  शोभायात्रायां  बालकः कृष्णः मार्गमध्ये क्रीडति

Friday, September 4, 2015

 भारतीयाः सर्वे मम सोदरी सोदराः 
Image result for रक्षा बंधन:  कोल्क्कत्तायं रिक्षा वाहकं रक्षबन्धनं कृत्वा महिले सोदरम् अकुरुताम्

सर्वेषां भारतीय भाषाणां जननी संस्कृतभाषा एव

नव दिल्ली : र्वेषां भारतीय भाषाणां जननी संस्कृतभाषा एव अतः भाषायाः उन्नत्यै सर्वे प्रयत्नः करणीयः इति केन्द्र सांस्कारिक सचिवः महेश् शर्मा अवदत्  राष्ट्रिय संस्कृतसंस्थया आयोजिता संस्कृतसप्तहोत्सवस्य उद्घाटनं कृत्वा  भाषमाणः आसीत् सः
भारतेषु  1200 भाषाः सन्ति इति गणनायाः दत्तान्  उद्धृत्य कोविदाः वदन्तिप्रति 50 किलोमीट्टर् दूरे अपि भाषा: भिन्ना: किन्तु
भाषामातरं  संस्कृतं उपयोक्तुं सर्वेषां लज्जा  एव
किन्तु संस्कृत भाषायाः विकासाय मन्त्रालयः सर्वविध सहायः करिष्यति  इति महेश शर्मणा अवदत् एस् रामनुजम्, अनिल् डि सहस्रबुद्धे आदयाः अभाषयन् प्रमुखानाम्  संस्कृत पण्डितानाम् समादरणम् अपि अकरोत्अभिनेता मोहनलालस्य आमुखभाषणेन आरम्भमानः अमरवाणि नाम संस्कृतध्वनिमुद्रिकायाः प्रकाशनम् अपि साघोषं संपूर्णमभवत्