चेम्मण्डा शारदागुरुकुले छात्रेभ्यः त्रिदिनात्मकः विरामकालवर्गः समारब्धः।
OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
marquee
Tuesday, May 30, 2023
Sunday, May 28, 2023
ऐतिहासिक: निमेष:, गर्वस्य नवसंसद्भवनम् उद्घाटितम्।
-राणिमोल् एन् एस्
दिल्ली> प्रधानमन्त्री नरेन्द्रमोदी जुलाई मासस्य २८ तमे दिनाङ्के नूतनसंसद्भवनस्य उद्घाटनमकरोत्। कार्यक्रमस्य प्रथम पाद: महात्मागान्धिप्रतिमायाः समीपे प्रात: ९:३०वादने होम-पूजादयेभ्यो आरभ्य प्रधानमन्त्रिणः भाषणेन समाप्तः। प्रधानमन्त्री नरेन्द्रमोदी, लोकसभा अध्यक्षः ओम् बिर्ला, राज्यसभायाः उपसभाध्यक्ष: च कार्यक्रमे भागं गृहीतवन्त:।लोकसभायाः अन्तर्भागे प्रातः ९ वादने राजदण्डः अस्थापयत्। कार्यक्रमस्य द्वितीयचरणस्य आरम्भ: १२ वादने राष्ट्रगीतेन अभवत्। राज्यसभायाः उपाध्यक्षः स्वागतभाषणमकारयत्।
तदनन्तरं राज्यसभायाः उपाध्यक्षः, राष्ट्रपतिः माता द्रौपदी मुर्मूः, उपराष्ट्रपतिः जगदीपधनकरः इत्येतयोः सन्देशं लोकसभायाः उपाध्यक्षः अपठत्। अस्मिन्नवसरे लघुचलच्चित्रद्वयस्य प्रदर्शनं स्मृतिरूप -नाणकस्य चित्रमुद्रायाश्च (postal stamp) प्रकाशनम् अभवत्। अपराह्ने २.३० वादने प्रधानमन्त्रिणः नरेन्द्रमोदिनः भाषणेन कार्यक्रम: समाप्तः।
Saturday, May 27, 2023
गतिनिर्णयोपग्रहः एन् वि एस् - ०१ इत्यस्य विक्षेपः २९ तमे दिनाङ्के।
बङ्गलूरु> भारतस्य गतिनिर्णयोपग्रहः एन् वि एस् - ०१ नामकः अस्मिन् मासे २९ तमे दिनाङ्के विक्षेपिष्यते इति ऐ एस् आर् ओ संस्थया निगदितम्। प्रभाते १०. ४२ वादने श्रीहरिक्कोट्टस्थस्य सतीश् धवान् बहिराकाशकेन्द्रस्य द्वितीयात् विक्षेपणस्थानादेव विक्षेपणम्।
आकाशे स्थले समुद्रे च अन्तर्भूतानि गतिनिर्णयानि दुरन्तनिवारणानि इत्यादीनि निर्वोढुम् अनेन शक्यते। राष्ट्रस्य स्वकीयगतिनिर्णयसंविधानं 'नाविक्' [Navigation with Indian Constellation] इति परियोजनायां विभावितायाः द्वितीयपरम्परायाः प्रथमः भवत्ययमुपग्रहः।
शास्त्रतत्त्वानाम् आविर्भावः वेदात् एव भवति। पश्चात् तानि विदेशीयानाम् आविष्कारः अभवत् इति ऐ एस् आर् ओ अध्यक्षः।
-रमा टि के
भोपाल्> शास्त्रतत्त्वानाम् आविर्भावः वेदात् भवति इति ऐ एस् आर् ओ संस्थायाः अध्यक्षेण श्री सोमनाथेन उक्तम्। बीजगणितं, वर्गमूलं, होरासिद्धान्तः, वास्तुशास्त्त्रं, प्रपञ्च रूपं, विविधधातून्यधिकृत्य अध्ययनं, व्योमयानं इत्यादि विषयाण्यधिकृत्य अध्ययनानि तत्त्वानि च प्रथमं वेदेभ्यः एव सन्दृष्टानि। आरबराष्ट्रात् यूरोप्पेषु व्याप्तानि भारतीयतत्त्वानि पश्चात् विदेशीयवैज्ञानिकानां योगदानरूपेण परिवर्तितानि अभवन् इति तेन निगदितम्। उज्जयिन्यां महर्षि पाणिनि -संस्कृत - वैदिक - विश्वविद्यालये बिरुददानकार्यक्रमे भाषमाणः आसीत् एषः महाभागः।
भारतीयवैज्ञानिकैः तदानीन्तनकाले उपयुक्ता भाषा संस्कृतभाषा आसीत्। गुरुमुखात् श्रुत्वा कण्ठस्थीकरणम् इत्येवं प्रकारेणैव ज्ञानविनिमयः प्रचलितः। तत्पश्चात् देवनागरीलिपिम् उपयोक्तुमारभत। पाणिनिमहर्षिणा व्याकरणनियमानि च व्यरचयत्। वैज्ञानिकाः अभियन्तारः च इदानीं संस्कृतस्य प्राधान्यं प्रत्यभिज्ञातवन्तः। संगणकाय अत्यन्तम् अनुयोज्या भाषा संस्कृतं भवति। भाषायाः अस्याः सम्भावनामधिकृत्य अधिकानि अध्ययनानि अपि प्रचलितानि सन्ति इति सः अवदत् ।
ज्योतिशास्त्रं, वैद्यशास्त्रं, भौतिकशास्त्रं, रसतन्त्रं, व्योमयानशास्त्रम् इत्यादिषु विषयेषु नूतनाविष्काराः प्रथमतया संस्कृतभाषायामेव रचिताः। ते अद्यापि पूर्णतया न बहिरागताः। अष्टमशतकेषु आविष्कृतानि ज्योतिश्शास्त्रसम्बन्धीनि विज्ञानानि आधारीकृत्य प्रकाशितः सूर्यसिद्धान्तः नाम ग्रन्थः अग्निबाणवैज्ञानिकं तं हठादाकर्षत् इति सोमनाथवर्येण निगदितम्।
किं पृथिवी पलास्तिकात् मुक्तिं प्राप्स्यति? पलास्तिकं खादन्तान् कवकान् आविष्कृत्य चीनदेशस्य गवेषकाः:।
-राणिमोल् एन् एस्
चीनदेशस्य गवेषकैः पलास्तिकमालिन्यानां संसाधनस्य नूतना सम्भावना प्रकाशिता। सम्प्रति विश्वस्मिन् पलास्तिक-अवशिष्टानां पुनः प्रयोगः अथवा तापोर्जरूपेण परिवर्तनमेव क्रियते। तदा अपि तस्मात् द्विगुणाधिकानि पलास्तिकअवकराणि स्थले समुद्रे च अवशिष्यन्ते। अस्य उन्मूलनस्य विषये सक्रियरूपेण गवेषणान् कुर्वन्नपि वैज्ञानिकदृष्ट्या कोऽपि प्रयासः सफलो न अभवत्। अस्मिन् सन्दर्भे एव पलास्तिकं खादन्तः कवकाः (fungus) आविष्कृतवन्तः इति उक्त्वा चीनदेशस्य गवेषकाः बहिरागताः। क्यू गार्डन्स् इत्यस्य मतानुसारम् अद्यावधि पलास्तिकस्य भङ्गं कर्तुं समर्थाः ४३६ कवकविभेदाः जीवाणवश्च आविष्कृताः। चीनदेशस्य समुद्रतटीयलवणदलेषु एव एतैः विशेषं 'भौम प्लाटिस्फियर्' आविष्कृतम् इति क्यूनगरस्य रॉयल वनस्पति उद्यानेन (Royal Botanical Gardens) ज्ञापितम्।
Thursday, May 25, 2023
मणिप्पुरे पुनः संघर्षः। गुलिकास्त्रक्षेपेण एकः मारितः।
गुवाहत्ति> विभागद्वयोः मध्ये दुरापन्ने संघर्षे गुलिकास्त्रक्षेपेण एकः हतः। द्वौ व्रणितौ अभवताम्। आक्रमकारिणः गृहाणि अग्निसादकरोत् इति प्रतिवेदनमपि अस्ति। विष्णुपूर् जिल्लायां बुधवासरे एव घटनेयं दुरापन्ना। प्रदेशे संघर्षावस्थां परिगणय्य अधिकाः रक्षिपुरुषाः अर्धसैनिकविभागाः च नियुक्ताः।
Wednesday, May 24, 2023
चन्द्रयान्-३; विक्षेपणं जुलैमासे। चन्द्रमण्डले 'लान्टर्' अवतारयिष्यते; सज्जता अन्तिमपदे।
- राणिमोल् एन् एस्
चन्द्रयानम्-२ मिशनस्य भागतया लान्टर् अवरोहणस्य असफल-प्रयासस्य चतुर्वर्षानन्तरं भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गठनेन (ISRO) पुनरपि चन्द्रयानयोजनायै नियोगः स्वीकृतः। नूतननियोगस्य चन्द्रयान्-३ इत्यस्य विक्षेपणम् आगामिनि जुलैमासे भविष्यति इति प्रतीक्ष्यते।
श्रीहरिक्कोटा-नगरस्य सतीष् धवान् बहिराकाश-विक्षेपणनिलयात् एव एतस्य प्रयोगः भविष्यति। अस्य सज्जता यू आर् रावु उपग्रहकेन्द्रे भवति। जुलाई-मासस्य मध्यभागे यावत् 'मार्क्-३' इति भारतस्य बृहत्तमे रॉकेट्- विक्षेपण-वाहनेन चन्द्रयानम्-३ इत्यस्य विक्षेपणं करणीयमित्येव भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गठनस्य लक्ष्यम्। एतस्य सज्जीकरणानि अन्तिमपदे इति सङ्गठनस्य अधिकारिणान् उद्धृत्य 'इन्डिया टुडे' वार्तापत्रिकया प्रतिवेद्यते।
Tuesday, May 23, 2023
केरळेषु विरामकालीन-संस्कृताध्यापक-शक्तीकरण-शिबिरं परिसमाप्यते।
आलुवादेशः |
आलुवा-कोच्ची> विरामकालीन-चतुर्दिनात्मकस्य संस्कृताध्यापक-शक्तीकरणकार्यक्रमस्य द्वितीयं परिशीलनशिबिरं च परिसमाप्यते। प्रादेशिक-साधनासम्पत्ति-केन्द्रेण (BRC) केरळस्य विविधेषु केन्द्रेषु शिबिराणि आयोजितानि सन्ति। गुरुवासरे कार्यक्रमस्य समापनं भविष्यति।
पट्टाम्बीदेशः |
Monday, May 22, 2023
पाणिनिसंस्कृतविश्वविद्यालयस्य चतुर्थदीक्षान्तसमारोह:
इसरो अध्यक्ष: श्रीधरसोमनाथ: दीक्षन्तभाषणं प्रदास्यति।
(डॉ. दिनेश चौबे)
उज्जयिनीस्थ महर्षिपाणिनि-संस्कृतवैदिक-विश्वविद्यालयस्य चतुर्थदीक्षान्तसमारोहः मेय् मासस्य चतुर्विंशतितमे दिनाङ्के समायोजिष्यते। दीक्षान्तसमारोहे प्रथमतया भारतीयान्तरिक्षानुसंधान-सङ्घ्ठनम् (इसरो) इत्यस्य प्रमुख: श्रीमंतः श्रीधरसोमनाथमहोदय: दीक्षान्तभाषणं करिष्यति। विश्वविद्यालयस्य माननीयकुलपति: आचार्यविजय कुमारसीजीमेनन्महोदयस्य आध्यक्षत्वे कार्यक्रमोऽयं भविष्यति। समारोहेऽस्मिन् मुख्यातिथिरूपेण मध्यप्रदेशस्य उच्चशिक्षामन्त्री डॉ. मोहन यादवमहोदय:, सारस्वतातिथिरूपेण इसरो अध्यक्षः श्रीधरसोमनाथवर्य: एवञ्च उज्जयिनी- सांसद: अनिलफिरोजियामहोदय:, उत्तरक्षेत्रस्य विधायक: पारसचन्द्रजैनमहोदय:, विश्वविद्यालयस्य कार्यपरिषद्-विद्यापरिषद् सदस्याः, विश्वविद्यालयस्य कुलसचिवः डॉ. दिलीपसोनीमहोदयाः च उपस्थिताः भविष्यन्ति। मध्यप्रदेशस्य राज्यपालः विश्वविद्यालयस्य कुलाधिपतयश्च माननीय: मङ्गुभाईपटेलमहोदय: विद्यावारिधिच्छात्रान् पदकधारि छात्राञ्च शुभकामनाः प्रेषितवान्।
२१ से .मि आयतः नक्तञ्चरः नूतनः गोधिकाविशेषः मिसोरामे प्रत्यभिज्ञातः।
मिसोराम्>मिसोरामे 'फ्लयिंङ् गेक्को' नाम गोधिकाविशेषस्य नूतनविभागः प्रत्यभिज्ञातः। मिसोराम् विश्वविद्यालयीयवैज्ञानिकैः तथा जर्मन्याः माक्स् प्लाङ्गक् इन्स्टिट्यूट् फोर् बयोलजि संस्थायाः वैज्ञानिकैः च संभूय कृतस्य अनुसन्धानस्य फलमेतत्। इन्डो-मान्मर् सीमायाः समीपे एव एषः प्रत्यभिज्ञातः। 'पारच्यूट् गेक्को' नाम च अदात्। मांसभोजी भवति एषः विशेषः।