प्रतिगृहम् एकैकः सैनिकः इति क्रमेण टिबट्ट् युवकान् सैनिकपरिशीलनाय प्रेषयितुं चीनेन आदेशो दत्तः।
OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
marquee
Saturday, July 31, 2021
Friday, July 30, 2021
पलास्तिक-मालिन्यानि उपयुज्य भारतेन ७०३ कि. मी दूरं राष्ट्रियमार्गः निर्मितः
नवदिल्ली> पलास्तिकमालिन्यानि उपयुज्य भारते ७०३ कि. मी दुरं राजकीयमार्गः निर्मितः। केन्द्र-यातायात-राजकीयमार्ग-विभागस्य मन्त्रिणा निधिन गड्गरिणा मन्त्रिसभायां प्रतिवेदितमिदम्।
राजकीयमार्गस्य निर्माणे 'टार्' संयुक्तेन सह पलास्तिकमालिन्यान्यपि उपयोक्तव्यानि इति सर्वकारेण आदेशः प्रदत्तः अस्ति इति गड्करिणा उक्तवान्। पञ्चलक्षाधिका जनसंख्या यस्मिन् नगरे विद्यते तस्मिन् प्रदेशे ५० किलो मीट्टर् परिमितौ वृत्तपरिधौ पलास्तिकमालिन्यानि विशालमार्गनिर्माणाय उपयोक्तव्यानि इति मार्गनिर्माणनिर्देशे अस्ति इत्यपि तेनोक्तम्। २०१६ तम संवात्सरात् आरभ्य अयं निर्देशः प्रबलतया अस्ति। टार् संयुक्ते ६% तः ८% पर्यन्तं भागाःपलास्तिकस्य भवन्ति। अनेन पलास्तिकेन जातान् दोषान् न्यूनीकर्तुं शक्यते। इदानीं ११ राज्येषु मार्गनिर्माणाय पलास्तिकमालिन्यानि उपयुज्यन्ते।
Thursday, July 29, 2021
विलम्बो न भविष्यति। आगामिनि संवत्सरे चन्द्रयान् ३ विक्षेप्तुं ऐ एस् आर् ओ संस्थया योजना आविष्कृता।
नवदिल्ली> कोविड् १९ रोगव्यापनहेतुना विलम्बायितं चन्द्रयान् ३ दौत्यं पूर्तीकर्तुं ऐ एस् आर् ओ संस्था सुसज्जा अभवत् ।२०२२ संवत्सरस्य तृतीयपादे विक्षेपणं कर्तुमेव ऐ एस् आर् ओ संस्थायाः लक्ष्यम् । ऐ एस् आर् ओ दौत्याय प्रक्रमाः प्रगतिं आप्नुवन्ति इति नूतन समयक्रमं प्रकाशयन् वैज्ञानिकप्रौद्योगिकमन्त्रिणा डो जितेन्द्रसिंहेन उक्तम्। चन्द्रयान् ३ अस्मिन् संवत्सरे विक्षेप्तुमेव पूर्वं निश्चितम्। अप्रतीक्षिततया जातेन कोविड् १९ व्यापनेन तथा पिधानेन एव चन्द्रयान् ३ विक्षेपणं विलम्बायितम् ।
जम्मूकाश्मीरेषु हिमाचलप्रदेशेषु च मेघविस्फोटे षोडशजनाः मारिताः। बहवः जनाः व्रणिताश्च।
श्रीनगरम्> जम्मूकाश्मीरेषु किष्त्वार् तथा हिमाचलप्रदेशे लाहोल् - स्पिति प्रदेशे च जातेषु मेघस्फोटेषु षोडश जनाः मारिताः विंशति जनाः व्रणिताश्च। अतिवृष्ट्यां होन्सार् ग्रामे षट् संख्याकानि गृहाणि च निपतिताः। रक्षाप्रवर्तनाय भारतीय सैन्यान् तथा दुरन्तनिवारणसेनाः च विन्यस्ताः। अवशिष्टाभ्यः सप्त मृतशरीराणि च प्रत्यग्रहीताः । द्वादश जनाः अवशिष्टेषु अप्रत्यक्षाः जाताः इति सन्देहः अस्ति। प्रभाते जलाशयेषु जलोपप्लवः अभवत्। ग्रामजनाः सर्वे निद्रायां निमग्नाः आसन्। अत एव मरणसंख्या अधिका जाता। प्लावितगृहाणि सर्वाणि जलाशयसमीपवर्तिन्यः आसन्।
कर्णाटके नूतनः मुख्यमन्त्री - बसवराजबोम्मे पदं प्राप्तवान्।
बेङ्गलुरु> कर्णाटकराज्यस्य २६तममुख्यमन्त्रिरूपेण भाजपादलनेता बसवराजबोम्मे इत्याख्यः शपथवाचनं कृत्वा पदं प्राप्तवान्। राजभवनस्य 'ग्लास् हौस्' मध्ये आयोजिते कार्यक्रमे राज्यपालः तावर्चन्द् गहलोटः शपथवाचनं कारितवान्।
२०१९तमे मुख्यमन्त्रिपदं प्राप्तवान् यद्यूरप्पः शासनदले सञ्जातेन कलहेन गतदिने त्यागपत्रं समर्पितवानासीत्।
Wednesday, July 28, 2021
कोविड्व्यापनं २२ जनपदेषु अतितीव्रं भवति।
नवदिल्ली> केरलं समेत्य भारतस्य विविधराज्यानां २२ जनपदेषु कोविड्व्यापनम् अतितीव्रं वर्तते इति नीतिआयोगस्य सदस्यः डो.वि के पोल् वर्यः न्यवेदयत्। तीव्रव्यापनजनपदेषु सप्त केरले वर्तन्ते। अन्ये १५ जनपदाः उत्तरपूर्वीयराज्येषु भवन्ति।
केरलस्य कोविड्व्यापने नूतनतरङ्गस्य काचित् सूचना शङ्कत इति डो. पोलवर्येण उक्तम्। तत्र एकस्मात् कोविड्रोगिणः १.२ पुरुषं विषाणुः व्याप्यते। विषाणोः व्यापनमानमपि केरले अधिकाधिकमिति तेनोक्तम्।
Tuesday, July 27, 2021
अर्जन्टीनेषु तटाकस्य वर्णः पाटलः अभवत्। जनाः आशङ्काकुलाः जाताः।
ट्रेल्यू /अर्जन्टीना> अर्जन्टीनेषु दक्षिणपाट्टगोणिया प्रविश्यस्थः एकः तटाकः पूर्णतया पाटलवर्णमभवत्। एषा काचित् आपत्सूचना इति वैज्ञानिकाः अभिप्रयन्ति। गङ्गाटोपस्य (Prawn नाम मत्स्यविशेषः) विदेशान् प्रति प्रेषणसमये कपूयता अथवा शीर्णता न स्यात् इति उद्दिश्य उपयुज्यते किंचित् रासवस्तु। तस्य प्रभावेण मलिनीकरणमिदम् अभवत् इति वैज्ञानिकाः तथा परिस्थितिसंरक्षण-प्रवर्तकाः च वदन्ति। मत्स्यसंस्करणशालासु उपयुज्यमानस्य सोडियं सल्फैट्ट् नाम लवणस्य सान्निध्येनैव तटाकजलं पाटलायितमिति ऊह्यते। कोर्फो तटाकः तथा प्रदेशे विद्यमाना नि अन्यानि जलस्रोतांसि च स्वस्य जलप्रवाहेन सम्पुष्टीक्रियते चुबट्ट् नदिना। अनया नद्या द्वारा सर्वत्र मालिन्यस्य प्लावनम् अभवत्। एतदेव अस्य तटाकस्य एतादृश्याः अवस्थायाः कारणत्वेन परिस्थितिसंरक्षकाः वदन्ति।Monday, July 26, 2021
प्रधानमन्त्री नरेन्द्रमोदी स्वतन्त्रतादिने राष्ट्रगीतालापनाय भारतीयजनतां प्रति समभ्यर्थयत्।
प्रधानमन्त्री नरेन्द्रमोदी भारतस्य पञ्चसप्ततितमे तन्त्रतादिने राष्ट्रगीतालापनाय भारतीयजनतां प्रति समभ्यर्थयत्। बहुसंख्याकान् जनान् एकस्मिन्नेव सूत्रे निबद्ध्य राष्ट्रगीतालपनकार्यक्रमः सांस्कृतिक मन्त्रा लयेन आयोजितः अस्ति। अस्मिन् सदुद्यमे सर्वेषां जनानां भागभागित्वं तेन संप्रार्थितम्। 'मन की बात्' इति नाम्ना आकाशवाण्या कृत-प्रतिमासिक-प्रभाषणपरम्परायाम् एव तेन इत्थं प्रोक्तम्। तदर्थं सांस्कृतिकमन्त्रालयः परिश्रमं कुर्वन्नस्ति। नूतनकार्यक्रमे सर्वे जनाः भागं स्वीकरिष्यन्ति इति प्रतीक्षामहे इति तेन उक्तम्। राष्टगीतालपनानन्तरं ' राष्ट्रगान इन् नाम जालपुटमपि समारब्धमिति तेन उदीरितम्।अतिवृष्टिदुष्प्रभावः - महाराष्ट्रे मरणानि १३८।
मुम्बई> चतुर्दिनानि यावत् अनुवर्तमानया अतिवृष्ट्या ततः उपपन्नेन जलोपप्लवेन च महाराष्ट्रे १३८ जनाः मृत्युमुपगताः। ५३ जनाः अदृष्टाः अभवन्।
वृष्टिदुष्प्रभावेण राज्ये गतदिवसेषु पञ्चसु स्थानेषु मृत्स्खलनमभवत्। उपपञ्चाशत् भवनानि विनाशितानि। ततः ८९ मृतशरीराणि दुरन्तनिवारणसेनया अधिगतानि। रक्षाप्रवर्तनानि अनुवर्तन्ते।
Sunday, July 25, 2021
बालकानां कृते कोवाक्सिनं - परीक्षणफलं सेप्टम्बरमासे।
नवदिल्ली> बालकेभ्यः भारतबयोटेक् संस्थया सज्जीक्रियमाणस्य कोवाक्सिनं प्रत्यौषधस्य परीक्षणफलानि सेप्टम्बरमासे लप्स्यन्ते इति 'एयिंस्'संस्थायाः निदेशकः डो. रणदीपगुलेरियः न्यवेदयत्।
परीक्षणानि पुरोगम्यन्ते। अधिकारिभिः अङ्गीक्रियन्ते चेत् सोपानत्रयमालक्ष्य १२-१८, ६-१२, २-६ वयस्केभ्यः बालकेभ्यः वाक्सिनवितरणं सम्पत्स्यतीति सः अवदत्। भारतबयोटेकं विना १२-१८वयस्केभ्यः वाक्सिनवितरणाय 'सैडस् काडिला' नामिका संस्थापि अनुमतिं प्रतीक्षमाणा वर्तते इति डो. रणदीपेनोक्तम्।