अलीकधनिकानां विवरणानि स्विट्सर्लन्ट् राष्ट्रात् २०१९ तमे लप्स्यते- पीयूष् गोयलः।
नवदिल्ली> २०१९ तमस्य आर्थिकसंवत्सरस्य समापनकाले भारतीयानां अलीकधनानां निक्षेपमधिकृत्य पूर्णविवरणानि स्विट्सर्लन्टतः लप्स्यते इति धनकार्यमन्त्री पीयुष् गोयलः अवदत्। तत्रत्ये वित्तकोशे भारतीयानां निक्षेपः प्रतिशतं ५०.२ इति वर्धितः। एवं सप्तसहस्रं कोटि समभवत् इति स्विट्सर्लन्ट् राष्ट्रस्य राष्ट्रियवित्तकोशस्य अावेदनं बहिरागतम्। २०१७ तमस्य गणना भवत्ययम्। एतत् अनुगम्य आसीत् गोयलस्य अभिमतप्रकाशनम्। अपराधिनं प्रति कर्कशप्रक्रमाः भविष्यन्ति इति च तेन उक्तम्।OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Saturday, June 30, 2018
Friday, June 29, 2018
रुप्यकस्य मूल्यं सर्वकालादपि अधः।
नवदिल्ली> रुप्यकस्य मूल्यं सर्वकालादपि अधः पतितम्। डोलरं प्रति ६९ रुप्यकाणि एव मानकम्। विगतदिवसस्य पिधानश्रेण्यां ६८.६१ रुप्यकात् ६८.८९ इति मानकस्य अधः पतितम्। इतःपूर्वं २०१३ तमे आसीत् एतावत् मूल्यापचयं सम्पन्नम्। असंस्कृततैलस्य मूल्यवर्घनम् विदेशनिक्षेपकाः निक्षेपस्य प्रतिग्रहणं क्रियन्ते इति च रूप्यकाणां मूल्यापचयस्य कारणत्वेन वदन्ति।
रेलयानयात्रामध्ये दश सीमासंरक्षणभटाः तिरोभूताः।
डा. अभिलाष् जे
कोल्कत्ता>पश्चिमबंगतः जम्मुकाश्मीरं प्रति विशिष्टरेलयाने यात्रां कुर्वन्तः दश सीमासंरक्षकभटाः तिरोभूताः। पश्चिमबंगालस्थ बरधमानस्य बिहारस्थ धनबादस्य च मध्ये ते तिरोभूताः इति आरक्षकैः उक्तम्। ८३ भटाः अस्मिन् याने आसन्। दीन दयाल उपाध्याय रयिल् निस्थाने याने आगते सति भटानां संख्यागणनासमये दशभटानां अदृश्यतावार्ता विज्ञाता। अनन्तरं भटानां नेता रेल् निस्थानकार्यकर्त्रे आरक्षकाय आवेदम् अयच्छत्।
Thursday, June 28, 2018
आक्रमणं न भविष्यति भवन्तः अस्माकम् अतिथयः - हिस् बुल्ल् सन्देशः।
श्रीनगरम्> अमरनाथ तीर्थाटकान् प्रति हिस् बुल्ल् दलीयानां सन्देशः एवं प्रचलत् अस्ति। आक्रमणं न भविष्यति भवन्तः अस्माकम् अतिथयः आक्रमणाय उद्देशः नास्ति अतः सुरक्षायाः आवश्यकता नास्ति इत्यस्ति सन्देशः। हिस्बुल् मुजाहीतीन् भीकरदलानां कमान्टर् रियास् अहम्मद् नाय्कू इत्यस्य भवति अयं सन्देशः इति अनुमन्यते। पञ्चदशनिमेषदैर्ख्यमितः शब्दसन्देशः सामाजिकमाध्यमद्वारा एव प्रचलति।
तीर्थाटकान् प्रति आक्रमणः स्यात् इति केन्द्रप्रज्ञातृभिः पूर्वसूचना प्रदत्ता आसीत्। अत एव शक्ता सुरक्षा कृता अस्ति। अवसरेस्मिन् भवति एतादृश शब्दसन्देशस्य प्रसारणम्। गतवर्षस्य आक्रमणे अष्टतीर्थाटकाः भीकराक्रमणेन हताः अासन्।
इरान् राष्ट्रात् भारतं तैलानयनं निरुद्धव्यमिति अमेरिका।
वाषिङ्टण्> इरान् राष्ट्रात् भारतेन साकं अन्ये राष्ट्राः च नवंबरमासात् तैलानयनं निरुद्धव्यमिति अमेरिक्कया उक्तम्।अस्मिन् विषये भारतं तथा भारतस्य संस्थाः च अनुकूलता न दास्यति इति अमेरिक्कया व्यक्तीकृतम्।इरान् प्रति कृतोपरोधस्य भागत्वेन अस्ति अमेरिक्कायाः एतत् कर्म।भारतस्य तथा चैनायाः च एतत् बाधकमस्तीति अमेरिक्कया उक्तम्।
इरान् राम् एकं कारयित्वा तेषां आयमार्गान् सर्वान् बव्धितुमुद्दिश्य अमेरिक्का प्रयत्नं करोति।आगमिनि वारे भविष्यमाणे भारत अमेरिक्का संवादे विषयममुं प्रधानविषयत्वेन अमेरिक्का आनयिष्यति।विदेशकार्य मन्त्री सुषमा स्वराजः,प्रतिरोधमन्त्री निर्मला सीताकामन् च भारतं प्रतिनिध्य संवादे भागभाजौ भविष्यतः।
Wednesday, June 27, 2018
रसना संस्कृतमासपत्रिका दशमं वयः प्राप्ता।
कोच्ची> केरलदेशतः डा. के श्यामलामहाभागायाः सम्पादकत्वेन प्रकाश्यमाना रसना नामिका संस्कृतमासपत्रिका दशमेवयसि सम्प्रविष्टा। केरलस्य अद्वितीया संस्कृतमासपत्रिकेयं संस्कृतभाषायाः प्रचाराय अद्वितीयं स्थानम् आवहति। कथा कविता प्रश्नोत्तरम् निबन्धः शोधात्मकरचना बालकविता सांस्कृतिकविषये आवेदनम् वैज्ञानिकविषयाः इतरविषयाः च पत्रिकायाः पुटेषु विस्तृतानि सन्ति। पत्रिकायाः पठितारः विदेशराष्ट्रेषु अपि सन्ति। डा.के श्यामलायाः अश्रान्तपरिश्रमस्य पृष्टतः तस्याः पतिदेवस्य के एम् जनार्दनस्य अभिप्रेरणा च वर्तते। पत्रिकायाः प्रबन्धसम्पादकः भवति एषः। सोടपि अस्मिता पब्लिकेषन् नाम पुस्तकप्रकाशकसंस्थया संस्कृतमातुः सेवायां निरतो वर्तते। www.rasanamagazine.com इति भवति पत्रिकायाः अन्तर्जालपुटसङ्केतः
जैवाधिनिवेशः भारतस्य वार्षिकनष्टः ६.१७ कोटिः
कोच्ची> केरळस्य प्रकृत्याम् अधिनिवेशं कृत्वा सस्यजनतुजालाः स्वाभाविकां प्रकृतिं नाशयन्ति। अनेन कोटिशानां रुप्यकाणां नाशः अभवत्। २००१ तमे संवत्सरे कृताध्ययनस्य गणनाभवत्ययम्। जैवीकाधिनिवेशः इदानीं वर्धिताः इति परिस्थिति वैज्ञानिकाः वदन्ति। किन्तु घटनेടयं निवारयितुम् काടपि योजना इतःपर्यन्तम् न समारब्धा।
वनेषु अधिनिवेशनसस्यानां अधिव्यापनेन वन्यपशूनां भक्ष्यतृणानि अन्यानिसस्यानि च नाशं गतानि। वन्यमृगाः भक्ष्यम् अन्विष्य ग्रामगमनाय सन्दर्भः भविष्यति। तद्देशीयसस्यानाम् वंशनाशाय हेतुः भविष्यति । नष्टानां सस्यानां गणना इतःपर्यन्तं नास्ति। संवत्सरेभ्यः पूर्वं वैज्ञानिकेन डेविड् पिमिन्टलेन कृतम् अध्ययनमेव साकाशे अस्ति।
८५ प्रकाराः सस्याः २० जीविनः च एवम् अघिनिविष्टाः सन्ति।
एक्स्प्रस् हैवे विरुध्य अायोजितं समरम् आवेदितुम् आगतान् माध्यमप्रवर्तकान् कारयां प्राविशत्।
चेन्नै>चेननै-सेलं अतिवेगमार्गं विरुध्य जनानाम् आन्दोलनम् आवेदितुं समागतान् वार्ताहरान् अपि तमिल् नाट् राज्यस्य आारक्षकाः अबन्धयन्। कैरलीभाषामाध्यमस्य मातृभूमि नाम दृश्यवाहीन्यः चेनै वार्ताहरः अनूप् दासः छायाग्राहकः मुरुगः तीकेकतिरस्य वार्ताहरः रामदासः च बन्धितेषु सन्ति। व्यापकप्रतिषेधेन अनूप् दासः मुरुगः च कारान्मुक्तौ किन्तु तीक्कनलस्य वार्ताहरः इदानीमपि बन्धने भवति। मङ्गलवासरे मध्याह्ने द्वादशवादने सेलं तिरुवण्णामलै जनपदशासनकार्यालयस्य समीपे छायाग्रहणं कुर्वन्तौआस्तां मुरुग अनूपदासौ। तस्मिनेवसमये आगताः आरक्षकाः वार्ताहरान् अबन्धयत् च। घटनानुबन्धतया तमिल्नाट् सर्वकारं प्रति परिदेवनं दातुं वार्तासंस्थाभिः निश्चितमस्ति।
Tuesday, June 26, 2018
दिल्यां सप्तदशसहस्रं वृक्षच्छेदनं नीतिपीठेन जुलाई चत्वारि पर्यन्तं निरोधितम्।
नवदेहली>भवनव्यापारसमुच्चयस्य निर्माणाय दिल्यां सप्तदशसहस्र वृक्षाणां च्छेदनं कर्तुं केन्द्रसर्वकारेण कृतं प्रयत्नं दिल्ली उच्च न्यायालयेन निरोधितम्। जूलाई चत्वारि दिनाङ्कपर्यन्तमस्ति निरोधनम्।वृक्षच्छेदनाय हरितड्रैब्यूणलस्य अनुमतिः प्राप्तः वा इति न्यायालयेन अपृच्छत्।
वृक्षच्छेदनं अधिकृत्य के के मिश्रया दत्त निवेदनस्य परिगणने आसीत् नीतिपीठस्य परामर्शः। दक्षिण दिल्याः सप्तानां कोलनीनां विकासाय वृक्षच्छेदनं केन्द्रसर्वकारेण न कुर्यादिति मिश्र महोदयानां निवेदम्।तदाभ्यन्तरे सप्तकोलनिषु एकस्य सरोजनी नगरस्य जनाः वृक्षान् आलिङ्ग्य चिप्को संग्रामेन रविवासरे आगतवन्तः। १९७० संवत्सरे उत्तराखण्ड् द्शे प्रचारितः संग्रामः आसीत् चिप्को।
Monday, June 25, 2018
मेट्रो रैल् संविधानस्य उपदेष्टृरूपेण इ श्रीधरः नियुक्तः।
नवदिल्ली> आराष्ट्रं मेट्रो रयिल् संविधानस्य मानदण्डनिर्णयाय नूतनसमितिः अायोजिता अस्ति। समित्याः अध्यक्षस्थाने इ श्रीधरः नियुक्तः। समितिः प्रधानमन्त्रिणा अङ्गीकृता अस्ति। भारतस्य सार्वजनिकगतागतसंविधानस्य नवीकरणे सुप्रधानं योगदानं कृतवानासीत् श्रीधरः। दिल्ली मेट्रोरयिल् परियोजनायाः निर्माणं सम्पूर्णतया अस्य नेतृत्वे अासीत्। केच्ची मेट्रोरयिल् परियेजना भवति अस्य नेतृत्वे निर्मिता नूतना पद्धतिः।
Subscribe to:
Posts (Atom)