सियाङ् नद्याः जलं उपयोगरहितम् अभवत् । चीनस्य प्रक्रिया इत्याशङ्क्यते।
गुवाहत्ति> उत्तर अरुणाचलप्रदेशस्य जलस्रोतः भवति सियाङ् नदी। अस्याः नद्याः जलं सकल माहर्तुं चीनेन बृहन्नालिका निर्मिता इत्याशङ्का अस्ति इदानीम्। नदीजलस्य उपयोगराहित्यस्य कारणं चीनस्य बृहन्नालिका-निर्माणमिति वदन्ति विशेषज्ञाः। नवंबर् फेब्रुवरिमासे समृद्धया प्रवहिता आसीदियम्। किन्तु इदानीं श्यामवर्णेन प्रवहति। मलिनपङ्केन पूरितः च अस्ति। OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Friday, December 8, 2017
Thursday, December 7, 2017
जरुसलेम् इस्रायेलस्य राजनगरीति ट्रम्पस्य प्रख्यापनं - पश्चिमेष्यायां नूतनसङ्घर्षाय बीजावापः।
वाषिङ्टण् > कालाकालम् अनुवर्तमानं विदेशनयं विगणय्य , जरुसलेमनगरं इस्रायेल् राष्ट्रस्य राजधानीरूपेण अमेरिक्काराष्ट्रपतिः डोणाल्ड् ट्रम्पः अङ्गीकृतवान्। स्वत एव कलुषिते पश्चिमेष्यामण्डले नूतनसङ्घर्षाय हेतुः भविष्यतीदं प्रख्यापनम्। अमेरिक्कायाः सख्यराष्ट्राणि अभिव्याप्य अनेकेषां राष्ट्राणाम् अभ्यर्थनां तृणवत्कृत्य आसीत् ह्यः 'वैट् हौस्' मध्ये ट्रम्पस्य प्रख्यापनम्। जरुसलेमम् इस्रायेलस्य राजधानीरूपेण अङ्गीक्रियमाणं प्रथमराष्ट्रं भवति अमेरिका ।
गुजराते प्रथमचरणात्मकनिर्वाचनानां कृते प्रचारस्याद्य अन्तिमो दिवसः
सूरत् > गुजरातविधानसभाया: प्रथमचरणात्मकनिर्वाचनानां कृते प्रचाराभियानस्य अद्य अन्तिमो दिवस: वर्तते। सायं पञ्चवादने प्रथमचरणात्मकप्रचार: पूर्णातां यास्यति । सर्वाणि दलानि मतदातृन् स्वपक्षे कर्तुं संलग्नानि सन्ति । प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तं भाजपाप्रशासनं जनजातीयजनानां कल्याणाय कार्यमाचरति। गतदिने नेत्रांगे नैर्वाचिकजनसभायां श्रीमोदी प्रावोचत् यत् काङ्ग्रेसदलेन 50 वर्षाणि यावत् देशे शासनं कृतं परं जनजातीयमन्त्रालयस्य स्थापना नैव कृता । अपि च यदा अटलबिहारीवाजपेयी प्रधानमन्त्री निर्वाचित: तदा पृथक्तया जनजातीयमन्त्रालय: स्थापित: , जनजातीयजनेभ्यश्च बजट प्रावधानं कृतम् ।
प्रथानमन्त्रिणा मोदिना प्रतिपादितं यत् राज्ये बालिकाशिक्षायां विशेषतया जनजातीयबालिकानां स्थितौ परिष्कार: सञ्जात:। तेन काङ्ग्रेसदलाक्षिप्तं यत् तेन भारतस्य स्वतन्त्रतान्दोलने जनजातीयानां योगदानं विस्मृतम् अथ च तद्दलं विचारयति यत् स्वतन्त्रतासङ्ग्रामे केवलम् एकस्यैव परिवारस्य कारणेन विजय: अधिगत:।
पल्लीतः ऐ एस् आर् ओ संस्थां प्रति।
मुम्बै> मुम्बै देशस्थ फिल्टर् पाड नाम पल्ली प्रदेशस्य गृहस्था इन्दू नामिका षड्चत्वारिंशत् वयस्का माता ऐ एस् आर् ओ संस्थाम् अधिकृत्य न श्रुतवती। अष्टमकक्षा पर्यन्तं शिक्षां प्राप्तवत्याः अस्याः ज्ञानस्य उपरि आसीत् नक्षत्र समूहाः तथा बाह्याकाश-विक्षेपणादयश्च। किन्तु अस्या पुत्रः प्रथमेष् हिर्वे ऐ एस् आर् ओ संस्थायाः सोपाने आरुह्यते अधुना। मातुः दुःखाश्रुः सन्तोषाश्रुवत् परिणमति।
दौर्लभ्यस्य आधिक्ये आसीत् प्रथमेशस्य जीवनम्। ततः सम्यक् अध्ययनं कृत्वा एव एषः प्रथमेशः ऐ एस् आर् ओ वैज्ञानिकस्य पदे प्रविशाति। विद्युत् विज्ञानविभागे एव अस्य नियुक्तिः। बल्ये मातापितरौ तं कस्यचन भाविनिकालाध्ययन-निर्देशकस्य समीपं अनयत् । सः तं साहित्याध्ययनाय निरदिशत् । किन्तु यन्त्रविज्ञानीयम् अध्येतुमेव अस्ति पुत्रस्य अभिलाषः इति ज्ञात्वा तदर्थं पितरौ साह्यमकुरुताम् । प्रथमेशः विद्युत्यन्त्र वैज्ञानिकं अध्येतुमारब्धवान् च।
कालः अतीतः। इदानीं ऐ एस् आर् ओ संस्थया उपषोडशसहस्रम् (१६०००)आवेदनपत्रेभ्यः चितानां नवसंख्यानां मध्ये प्रथमेशोऽपि अन्तर्भवति।
Wednesday, December 6, 2017
उत्तरभारतस्य विविधेषु प्रदेशेषु भूचलनम् -
प्रभवकेन्द्रः डेराडूणस्य पूर्वस्यां दिशि - तीव्रता ५.५।
प्रभवकेन्द्रः डेराडूणस्य पूर्वस्यां दिशि - तीव्रता ५.५।
नवदिल्ली > अतरभारतस्य विविधेषु प्रदेशेषु भूकम्पः। दिल्यां समीपप्रदेशे गुड्गावे च भूचलनं शक्तया रीत्या आसीत्I बुधवासरस्य रात्रौ आधुना ८.५१ समये आसीत् भूचलनम्। चण्डीगड्, उत्तराघण्ड इत्यत्रापि भूकम्प : जातः इति आवेदनं लब्धम् । उत्तराखण्टस्य रूर्खि तथा डोराडूणे च शक्तं भूचलनं अजायत। भूकम्पस्य तीव्रतता 5.5 इति रिक्टर् मापिकायां
अङ्कितम् अस्ति।
ड्रम्पस्य ब्रिट्टण् सन्दर्शनं फेब्रुवरिमासे- लक्षशान् सम्मिल्य प्रतिषेध-सञ्चलनम्।
लण्डनदेशः > यु एस् राष्ट्रपतेः डोणाल्ड् ड्रम्पस्य सन्दर्शनं विरुद्ध्य ब्रिट्टण् देशे प्रतिषेधः शक्तः अभवत्। लक्षशान् जनान् सम्मिल्य प्रतिषेधसमराय ट्रम्प् विरोधिनः यतन्ते। जनानाम् अनिष्टकारणेन प्रतिषेध: भविष्यति इति आवेदनेन अतिथितिरूपसन्दर्शनं परित्यज्य प्रवर्तन सन्दर्शनवत् द्विनद्वयस्य सन्दर्शनमेव इदानीं ट्रम्पेन उद्दिश्यते। फेब्रुवरिमासस्य द्वाविंशति सप्त,विंशति दिनाङ्कयोः एव सन्दर्शनं क्रमीकृतम् अस्ति। लण्डनस्थस्य नवीन दूतावासस्य उद्घाटनानुबन्धतया एव अमेरिका राष्ट्रपतेः प्रप्रथम ब्रिट्टण् सन्दर्शनम्।
ड्रम्पस्य आगमनदिने प्रधानमन्त्रिणः औद्योगिकीं वसतीं प्रति प्रतिषेधसञ्चलनम् आयोक्ष्यतुम् एव 'STOP TRUMP CAMPAIGN' नाम दलायोजनस्य लक्ष्यम् I ब्रिट्टणस्य इतिहासे बृहत्तमं प्रतिषेधसङ्गमम् रचयितुमेव तेषां प्रयत्नः ।
महाराष्ट्रे ओखि ताण्डवम्; केरलम् प्रत्यागन्तुं द्विनवति: जना:।।
मुम्बै> केरले तमिल्नाडे च तीव्रविनाशकार: ओखि चक्रवातस्य ताण्डवम् महाराष्ट्रे च। तथा च गुजराते सूरत् समीपं वीजमानमेनम् अनुवर्त्य महाराष्ट्रे अतिवृष्टि:। सोमवारे रात्रौ आरब्धा वृष्टि: एतावता न शमनं गता। ओखिवातस्य पश्चात्तले मुम्बै मध्ये समीपमण्डलेषु च शिक्षा संस्थानां कृते विराम: कल्पित:। अमित् षा महोदयस्य नेतृत्वे गुजराते प्रचालनीयानि निर्वाचनप्रचरणानि स्थगितानि। जाग्रतया महाराष्ट्रम् -चक्रवातेन या कापि गुरुतरावस्था सञ्जाता चेत् तां सम्मुखीकर्तुं सक्रियमार्गै: सह महाराष्ट्रसर्वकार:। यात्रिकाणां नियन्त्रणाय पश्चिमरेलविभाग: अधिककर्मकरान् विन्यसत्। मुम्बै मेट्रोपोलिटन् नगरम्, सिन्धुदुर्गा, ताने, रायगड्, पलसार् इत्येतेषु स्थानेषु विद्यालयानां कलालयानां च विराम: दत्त:। समुद्रतीराणि मा सन्दर्शयेयु: इति जनानां कृते जाग्रतानिर्देशो दत्त:।।
Tuesday, December 5, 2017
एक रुप्यकस्य शतम् आयुः।
नवदिल्ली> सर्वोच्च वित्तकोशपालस्य हस्ताक्षरं विना विराजमानं रुप्यकपत्रं भवति एकरुप्यकम्। इदानीं एतत् रुप्यकपत्रस्य आविर्भावानन्तरं शतं संवत्सराणि अतीतानि।
सप्त-दशाधिक-नवदश-सहस्रतमे (१९१७) नवम्बर् मासस्य त्रिंशत् दिनाङ्के एव रुप्यकपत्रस्य प्रथम-प्रकाशनमभवत्। चतुर्नवाधिकनव-शतोत्तरैक-सहस्रतमे एकरुप्यकपत्राणां मुद्रणं स्तगयितं चेदपि जनानां निवेदनेन पञ्चदशाधिक-द्विसहस्र (२०१५) तमे मुद्रणं पुनरपि आरब्धम्। नाणकानि एव प्रथमतया मुद्रितानि । किन्तु प्रथमेषु लोकमहायुद्धकालेषु रजतलोहस्य मूल्यं वर्धितम् इत्यनेन जनाः नाणकानि अग्निना द्रवीकृत्य विक्रेतुम् उद्युक्ताः इत्यनेन काकदे मुद्रणम् आरब्धम्। एकत्रिंशदधिकनवशतोत्तरैक-सहस्रतमे (१९३१) एप्रिल् मासस्य पञ्चमदिनाङ्के एव रुप्यकपत्रस्य मुद्रणाय रिजर्व बैंकाय अनुज्ञा लब्धा।
Subscribe to:
Posts (Atom)