राष्ट्रिय-एकता-दिवस:
नवदेहली >अद्य देशस्य प्रथमगृहमन्त्रिणः सरदारवल्लभभाईपटेलस्य चतुर्दशोत्तरैकशततमीं जयंतीमुपलक्ष्य अशेषदेशेे राष्ट्रिय-एकता-दिवस: आमान्यते । ऐषमः 'राष्ट्रिय-एकता-दिवसावसरे ''भारतस्य एकीकरणम् '' विषयमधिकृत्य सांस्कृतिककार्यक्रमानामायोजनं भविष्यति | प्रधानमन्त्रिणा नरेन्द्रमोदिना,गृहमन्त्रिणा राजनाथ सिंहेन केन्द्रीयसूचनाप्रसारणमन्त्रिणा एम. वेंकैयानायडूना च नवदिल्लीस्थ पटेलचौकस्थाने सरदारवल्लभभाईपटेलस्य प्रतिमायां कुसुमश्रद्धाञ्जलयः समर्पिताः।OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Monday, October 31, 2016
उपग्रहविक्षेपणे नूतनचरितं विरच्य इस्रो
नवदेहली > एकस्मिन् आकाशबाणे ८३ उपग्रहान् संस्थाप्य उपग्रह विक्षेपणे नूतनचरितं निर्मातुम् उद्युक्तः भवति ऐ.एस्.आर्.ओ संस्था। एतदर्थं नूतनी योजना आयोजिता इति अस्याः संस्थायाः नियन्ता राकेष् शशिभूषणः अवदत् ।
आगामि संवत्सरे क्रियमाणे प्रथमे विक्षेपणे एकाशीति (८१) वैदेशिकोपग्रहाः द्वौ भारतोपग्रहौ च भवन्ति। सप्तदशाधिक विंशतिशत तमे जनुवरिमासे विक्षेपणीया इत्येव लक्ष्यम् । अस्मिन् विक्षेपणे अधिकाः सूक्ष्मोपग्रहाः एव।
येशुदेवस्य समाधिस्थानम् अनावृतम्।
जरुसलेम् > येशुदेवस्येति विश्वास्यमानं समाधिस्थानं शताब्देभ्यः परम् अनुसन्धानार्थम् अनावृतम्। पुरातने जरुसलेमे पुनरुत्थृतदेवालये एव येशुदेवस्य अन्त्यविश्रान्तिस्थानं वर्तते। आतन्से विद्यमानः साङ्केतिक विश्वविद्यालयः नेषणल् जियोग्रफिक् सोसईटी इति संस्था च सम्भूय एव पर्यवेषणं कर्तुं निरचिनोत्।
षट्विंशत्यधिकत्रिशततमे क्रिस्त्वब्दे रोमासाम्राज्यस्य चक्रवर्तिनः कोण्स्टन्टयिन् इत्यस्य मात्रा समाधिस्थानं प्रथमं सन्दृश्यते स्म। अग्निबाधायां विशीर्णं स्थानं १८०८-१८१० काले पुनरुद्धृतम्।
येशुदेवं शायितमिति विचार्यमाणं प्रतलं शास्त्रीयपठनविधेयं करिष्यति।
Sunday, October 30, 2016
क्रिकट् - भारतस्य विजयः, परम्परा च।
विशाखपत्तनम्> न्यूसिलान्टं विरुद्ध्य पञ्चमी अन्तिमा च स्पर्धा भारतानुकूला। न्यूसिलान्टं विरुद्ध्य नवत्यधिकशतानां धावनाङ्कानाम् उज्वलविजयः। पञ्चस्पर्धानां परम्परा ३-२ रीत्या भारताय प्राप्ता। स्पर्धायाः प्रथमचरणे कन्दुकताडनं लब्धेन भारतदलेन २६९ धावनाङ्काः प्राप्ताः। तदनन्तरं विजेतुं २७० धावनाङ्कानां लक्ष्यं प्राप्तुं कन्दुकताडनम् आरब्धवन्तः किवीदलक्रीडकाः सर्वे केवलं ७९ धावनाङ्कैः बहिर्गतवन्तः। षड् पर्यासेषु अष्टादश धावनाङ्कान् दत्वा भारतस्य पादचक्रगेन्दकः - लेग् स्पिन्नर्-अमित् मिश्रः पञ्च द्वारकाणि पातयित्वा वरिष्ठक्रीडकपदं प्राप्तवान्।
Saturday, October 29, 2016
सोपानम् -17 Sivani Harikumar Saraswati Vidyaniketan, Chengamanad,Aluva.
भारतसैनिकानां कृते छात्राणां दीपावलि सन्देशा:।
नवदिल्लि > सीमायां सैनिकानां कृते दीपावलि सन्देशा: प्रेषणीयाः इति सन्देश् टु सोल्जियेल़स् नाम्ना वीडियोसन्देशेन भारतस्य प्रधानमन्त्री नरेन्द्रमोदि महोदय: आह्वानम् अकरोत् । एकैकः सन्देशः सैनिकानाम् आत्मबलं संवर्धयति इति प्रधानमन्त्री असूचयत् । मै गवण्मेन्ट डोट् इन् , आकाशवाणि , दूरदर्शन् आदि माध्यमा:,
सोष्यलमीडिया: च एतस्य कृते उपयोक्तव्याः इति स: निरदिशत्। राष्ट्रस्य कृते आत्मन: सुखम् उत्सवादय: च परित्यज्य समर्पित चेतसां सैनिकानामपि दीपावल्यादि पर्वणि भागभाक् कारयितुमासीदयं निर्देशः। निर्देशानुसारं राष्ट्रस्य विभिन्न राज्येभ्यः विद्यालय-छात्राः कलाशाला छात्राः च दीपावली पर्वणः शुभाशयाः सैनिकान् प्रति प्रेषितवन्तः।
भीकराक्रमणम् - कश्चित् सैनिकः वीरमृत्युं गतः।
श्रीनगरं> सैन्य भीकरसंघर्षस्य शमनं नास्ति। ह्यः कुपवारा जनपदे भीकरैः सह संघट्टने एकः सैनिको हतः। नियन्त्रणरेखासमीपे विरूपीकृत्य एव मृतदेहः दृष्ट इति सैनिकवक्तृभिः उक्तम्। सैन्येन कृते प्रत्याक्रमणे एको भीकरः हतः, अन्ये पाक् अधीनकाश्मीरं प्रति पलायितवन्तः। भीकराक्रमणं पाक्सैन्यस्य साहाय्येन आसीदिति भारतसैनिकैः निगदितम्। तथा च अनन्तनागजनपदे कश्चन विद्यालयः अज्ञातैः अग्निसात्कृतः। काश्मीरे संघर्षारम्भानन्तरं विध्वसीकृतानां विद्यालयानां संख्या २० अभवत्।
क्रिकट् - अद्य पञ्चमाङ्कः, अन्तिमाङ्कः।
विशाखपत्तनम् > अद्यतनस्य पञ्चमं एकदिनं यथा भारताय अभिमानयुद्धः भवति तथा न्यूसिलान्टाय चरित्ररचनायाः सन्दर्भः। इदानीं एकैकमपि दलं स्पर्धाद्वयं विजित्य समस्थितौ सति परम्परायाः विधिनिर्णय एव विशाखपत्तने सम्पद्यमाने पञ्चमेऽस्मिन् एकदिने भविष्यति। भारत-न्यूसिलाम्ट् दलयोः नायकयोः विषये अपि एषा स्पर्धा निर्णयाधारभूता भवति। किवीनायकः केय्न् विल्यंसणः भारते एकदिनपरम्परां स्वायत्तीकुर्वन् प्रथमः न्यूसिलान्ट् नायक इति प्रथा परिपालनीया अस्ति। भारतनायकः थोणिस्तु निषकस्पर्धापरम्परां निश्शेषं निश्शेषं स्वायत्तीकृतस्य विराट्कोलिनः पुरतः मुखसंरक्षणाय सुवर्णावसरः।
पाकिस्तानं प्रति शक्त्या प्रतिराद्धुं निर्देशः। काश्मीरदेशे अतीव जाग्रता ।
नवदेहली> पाकिस्तानं प्रति शक्त्या प्रतिरोद्धुकामा भारतसेना। गृहकार्य सचिवः राज्नाथसिंहः सीमारक्षासेना मुख्येन सह वार्तालापः अकरोत्।सीमाप्रदेशे पाकिस्तानः तीव्रं षेलाक्रमणम् अनस्यूततया चालयति।काश्मीरदेशे अतीव जाग्रता निर्देशः प्रदत्तः। पाक् सैनिकानां आक्रमणान्तरे भीकराणां दुरागमनश्रमं भारतेन निरुद्धम्।
ह्यः सायं पञ्चवादने आरब्धं प्रकोपनं इदानीमपि प्रचलति। प्रातः चतुर्विंशति सीमारक्षाकेन्द्रान् प्रति पाक् गोलकाक्रमणं अजायतेति प्रस्तावः। सीमादेशात् जनानां दूरानयनं कृतम्। द्विशतमीटर् दूरं यावत् अतीव जाग्रता निर्देशश्च अददात्।
तदानीमेव गोलकाक्रमणसमयः नैरन्तर्येण उल्लंघ्य पाक्किस्थाने कृतेन षेलाक्रमणेन काश्मीरस्य आर् एस् पुरा क्षेत्रे सीमारक्षाभटः एकः अवधत्।षट् ग्रामीणाः क्षतबाधिताः। मेन्दर मद्ध्ये अपि समानरीत्या आक्रमणम् अजायत। एकः अम्रियत।
Friday, October 28, 2016
सैनिकानां कृते दीपावलि सन्देशा:
नवदिल्लि > सीमायां सैनिकानां कृते दीपावलि सन्देशा: प्रेषयिष्यति इति सन्देश् ट्टु सोल्जियेल़स् नाम्ना वीडियोसन्देशेन भारतस्य प्रधानसचिव: नरेन्द्रमोदि महोदय: आह्वानम् अकरोत् । एकैकः सन्देशः सैनिकानाम् आत्मबलं संवर्धयति इति प्रधानसचिव: सूचयति । मै गवण्मेन्ट डोट् इन , आकाशवाणि , दूरदर्शन् आदि माध्यमा:, सोष्यलमीडिया: च एतस्य कृते उपयोक्तव्याः इति स: अवदत्। राष्ट्रस्य कृते आत्मन: सुखम् उत्सवादय: च परित्यक्त्वा समर्पित चेतसां सैनिकानामपि दीपावल्यादि पर्वणि भागभाक् कारयितुमुद्दिश्य भवत्ययं निर्देश:।
अद्य प्रथमं देशीय आयुर्वेददिनम्।
कोच्ची>आयुर्वेदाचार्यस्य धन्वन्तरिदेवस्य जन्मदिनमस्त्यद्य। इदं दिनम् अस्मात्संवत्सरादारभ्य देशीय अायुर्वददिनत्वेन आचरितुं केन्द्रसर्वकारेण निश्चितम्।
आयुर्वेदस्य प्रचारं प्रयोगं च संवर्धयितुमेव प्रतिसंवत्सरं धन्वन्तरिजयन्तिम् आयुर्वेददिनत्वेन आचर्यमाणस्य लक्ष्यम्। मधुमेहनियन्त्रणाय आयुर्वेद इत्यस्ति अस्य संवत्सरस्य सन्देशः।Thursday, October 27, 2016
चक्रवातः आन्ध्रातीरं प्रति ।
पेदपरिमि >वंगान्तस्समुद्रस्य उपरि सञ्जातः न्यूनमर्दः चक्रवातेन रूपान्तरं प्राप्य आन्ध्रातीरं सञ्चरति। क्यान्ट् इति कृतनामधेयः अयं चक्रवातः गुरुवासरे आन्ध्रातीरं प्राप्स्यतीति सूचना।आन्ध्राप्रदेशः, वंगदेशः, ओडीषा इत्येतेषु राज्येषु महती वृष्टिः भविष्यति। चक्रवातः प्रतिहोरं ८० कि मी. वेगं प्राप्स्यतीति पर्यावरणनिरीक्षणसंस्थया सूचितम्।
Wednesday, October 26, 2016
हाजी अलि दर्गायां स्त्रीप्रवेशनं साध्यते।
नवदिल्ली>मुम्बय्यां प्रसिद्धे हाजी अली दर्गा नामकम् इस्लामिकाराधनालयं महिलानां प्रवेशनं साधितप्रायं वर्तते। चतुर्णां सप्ताहानामाभ्यन्तरे स्त्रीणां कृते पूर्णतया प्रवेशनम् अनुज्ञेयं भविष्यतीति अधिकृतैः सर्वोच्चन्यायालये निवेदितम्। खबर्स्थानपर्यन्तं प्रवेशनसुविधां कर्तुमेव सप्ताहचतुष्टयस्य कालविलम्बम् प्रार्थ्यते। २०१२ संवत्सरादारभ्य दर्गांप्रति महिलाप्रवेशनं निषिद्धमासीत् एनं विरुद्ध्य भारतीय मुस्लिम महिला आन्दोलनसंस्था उच्चन्यायालयं प्राप्य अनुकूलादेशं सम्पादितवती। यद्यपि सर्वोच्चन्यायालये पुनर्याचिका समर्पिता तथापि सामाजिकप्रगतियुक्तं अभिवीक्षणं कर्तुं न्यायालयेन निर्दिष्टम्। अत एव महिलानां प्रवेशनाय दर्गाशासनसमितिः सन्नद्धा अभवत्।
Tuesday, October 25, 2016
ओडीषा-आन्ध्रा सीमायां संघट्टने २४ मावोवादिनः मारिताः।
पेदपरिमि, आन्ध्रप्रदेश> ओडीषा - आन्ध्राप्रदेशराज्ययोः सीमायां वनान्तर्भागे गतदिने उषःकाले आरक्षकबलेन कृते भुषुण्डिप्रयोगे नेतृभिः सह चतुर्विंशति मावोवादिनः मृताः। सीमाप्रदेशे प्रचलन्तं तेषां मेलनं विज्ञाय राज्यद्वयोः आरक्षकबले सम्भूय आगतवति संघट्टनं संवृत्तमासीत्।
ओडीषायाम् उदयः इति उच्यमानेन गजराल रवि नामकेन नेत्रा सह केचन प्रमुखाः नेतारः संघर्षे मारिताः इति सन्देहः वर्तते।
राष्ट्रान्तर-भीकरतां विरुद्ध्य भारतेन सह बहरिन् अपि
भाविनिकाले भारतं बहरिन् च मिथः राष्ट्रयोः सुरक्षायै राष्ट्रान्तर-भीकरतां विरुद्ध्य च संयुक्ततया कार्यं कर्तुं निश्चितः इति सिंहेन उक्तम्।
भद्रं ते विराट!
कोच्ची>ऐ एन् एस् विराटाय स्वस्ति! भारतनौसेनायाः अभिमानभाजनत्वेन वर्तितायै ऐ एन् एस् विराट् नामिकायै युद्धनौकायै कोच्चीतः स्वस्तिवचनम्! विश्वेपि वरिष्ठा विमानवाहिनिनौका विराटः निष्क्रियकरणाय (De Commissioning) एव कोच्ची नौकाश्रयात् मुम्बैय्यां नाविकास्थानं प्रति नीता। भारतीयनौकासेनायाः अविभाज्यांशत्वेन दशकत्रयं यावत् प्रवर्तननिरता आसीदियं विमानवाहिनी। श्रीलङ्कायां सम्पन्नां ओपरेशन् जूपिटर्, कार्गिल् मध्ये ओपरेषन् विजय् , लोकसभाक्रमणानन्तरं संवृत्ता ओपरेषन् पराक्रमः इत्यादिषु विराटः भागभागित्वम् कृतवान्। प्रत्यर्पणानन्तरं विराटस्य भविष्यः कीदृश इति चिन्तनीयः।
Subscribe to:
Posts (Atom)