OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, March 4, 2016

 भारतस्य रेल्यानविभागस्य अन्तर्जालः नाशितः।

नवदेहली> भारतस्य  अतिशक्तस्य ऱेल्यानविभागस्य रेयिल्नेट्  मैक्रोसायिट् इति विख्यतस्य अन्तर्जालस्यैव भग्नः आदङ्गवादिभिः कृतः।जिगाद्मध्यॆ भागभागित्वं ऊढुं तैः सन्देशमपि तत्र स्थापितमासीत्।
अमेररि्कायाः तथा  सख्यकक्षीणां  च पराजयाय  साहाय्यमपि ते प्रार्थिताः।सर्वकारस्याधीने विद्यमानस्यैकस्य अन्तर्जालस्य नाशः अल्खायिदादलैः प्रथमतया  क्रीयते।

बङ्गुलूरु नगरे कर्षित्रत्वेन ( tractor)कर्षकानां भिन्नान्दोलनम्।

बाङ्गलूरु>बाङ्गलूरु नगरे नूतनान्तोलनशैल्या कृषकाः। कर्षित्वेन बाङ्गुलूरु नगरे केचन कृषकाः ह्यः मार्गान् स्तम्बिधाः। जलक्षामस्य स्वागत परिहारः आवश्यकः इत्युक्त्वा कोलार्,चिक्बल्लापूर् मण्डलेभ्यः आगताः शताधिकाः कृषकाः स्व यानेन कर्षित्रत्वेन प्रधानमार्गान् निश्चलिताः। यानानि नगरात् बहिर्स्थापयितुं आरक्षकैः कृते परिश्रमे कोलाहलः जातः। कृषकाणां नूतनान्तोलनम् अद्य बहुचर्चमाणः विषयः। कोलार् चिक्बेल्लापूर् इत्यनयोः मण्डलयोः जलक्षामस्य उचित परिहारः शीघ्रमेव भवेत् इति कथ्यमानाः शताधिकाः कृषकाः कार्यक्रमे अस्मिन् भागम् ऊढवन्तः।

जे एन् यू तथा छात्रसमाजं प्रति उच्चन्यायालयस्य विमर्शः।

नवदिल्ली - जेएन् यू छात्रनेतुः कनय्यकुमारस्य प्रतिभूत्यनुमति आदेशपत्रे सर्वकलाशालां तथा छात्रसमूहं प्रति उच्चन्यायालयस्य विमर्शः। जे एन् यू अङ्कणे श्रुतानां देशविरुद्धघोषणानाम् आधारभूतानां चिन्तां कार्यक्रमे भागभाक्तृृणां मनोभावं च मौलिकाधिकारस्याधारे संरक्षितुं  न शक्यते इति न्यायालयेन व्यक्तीकृतम्। कलालयाङ्कणेषु संवर्धमाने देशविरुद्धमनोभावे  न्याय.प्रतिभाराणी वर्यायाः अध्यक्षत्वेन न्यायासनेन आशङ्का प्रकाशिता ।

Thursday, March 3, 2016


 कार्षिक - ग्रामीण आधारमण्डलेभ्यः आयव्ययपत्रकम्

 नवदिल्ली> कार्षिक ग्रामीणमण्डलेषु आधारविकासाय प्राधान्यं दीयमानं भारतस्य आयव्ययपत्रकं वित्तमन्त्रिणा अरुण् जय्ट् ली वर्येण लोकसभायाम् अवतारितम्। कार्षिकमण्डलस्य प्रगत्यर्थं कर्षकक्षेमाय च गतवर्षमपेक्ष्य द्विगुणितभागः विहितः। पञ्चसंवत्सरैः कृषकानाम् आयं द्विगुणीकर्तुम् आयव्ययपत्रके विभावनमस्ति। किन्तु सामान्यानां करदायकानाम् आश्वासः न लभते । आयकरस्य अनुपाते अपहारे च परिष्करणं प्रतीक्षितं चेदपि नाभवत्।

केरले कण्णूर् विमाननिलये परीक्षण उड्डयनं संवृत्तम्।

कण्णूर् > केरले कण्णूर् अन्ताराष्ट्र विमाननिलये  प्रथमं परीक्षण उड्डयनं सम्पन्नम्। व्योमसेनायाः डोणियर् द्वे द्वे अष्ट इति विमानं उड्डयन परीक्षणमकरोत् । यात्राविमानं सप्तंबर् मासे कण्णूर् निलये अवतरिष्यति इति सम्मेलनम् उद्घाटनं कुर्वन् मुख्यमन्त्री उम्मन् चाण्टी अवदत्।

तेलङ्कानसीमायां ८ मावोवादिनः हताः।

हैदराबाद् - तेलङ्कान- छत्तीस्गड् सीमायां वनप्रदेशे ८ मावोवादिनः सविशेषदौत्यसेनया गोलिकाशस्त्रेण हताः । निहतेषु ५ महिला अन्तर्भवन्ति। तेलङ्कानायां खम्मं जिल्लासमीपं चिन्तवाड कानने एव इयं घटना ।
कानने मावोवादिनः सम्मिलन्तीति गुप्तसूचनामनुसृत्य आरक्षकविभागस्य ग्रेहण्ट् नामिका मावोविरुद्धसेना काननं प्राप्य संघट्टनम् अकरोत्।

 कनय्याकुमारस्य प्रतिभूतिः लब्धा।

नवदिल्ली - देशद्रोहारोपणविधेयः जे एम् यू छात्रनेता कनय्यकुमारः दिल्ली उच्चन्यायालयात् षण्मासानां प्रतिभूतिं लब्धवान्।फेब्रुवरि १२ तमदिनाङ्के गृहीतस्य तस्य १९ दिनानन्तरमेव प्रतिभूतिः लब्धः । अन्वेषणसमाप्तिं यावत् देशविरुद्धसदृशप्रवृत्तिषु प्रत्यक्षतया परोक्षतया वा भागभागित्वं न कर्तव्यमिति न्यायालयेन आदिष्टम्।

अफ्गानिस्थाने भारतीय स्थानपति कार्यालयं प्रति आक्रमणं- ६ हताः।

काबूल् - अफ्गानिस्तान् देशस्य जलालाबाद् प्रविश्यायां  भारतस्य स्थानपतिकार्यालयं प्रति संवृत्ते भीकराक्रमणे षट् जनाः निहताः । तेषु चत्वारः भीकराः, ये सुरक्षासेनया हताः ।
स्फोटकवस्तुसंपन्नं कार् यानं स्थानपतिकार्यालयाङ्कणं प्रवेशयितुमुद्यमे स्फोटनं प्रवृत्तमासीत्। कार्यालयस्य वातायनानि द्वाराणि च स्फोटने विशीर्णानि।
मृतेषु एकः रक्षिपुरुषः अपरा तद्देशवासिनी महिला च  भवति ।आक्रमणस्य उत्तरदायित्वं केनापि न स्वीकृतम् ।

 सुमात्रद्वीपे महद्भूचलनं - सूनामी विज्ञप्तिः निराकृता। 

जकार्ता - इन्डोनेष्या राष्ट्रे सुमात्रा द्वीपे रिक्टर् मापिन्यां ७.८ अङ्कितं भूचलनं ह्यः सञ्जातम् । सुनामीजाग्रतानिर्देशः दत्तः अपि परं निराकृतः।
पडाङ् नगरात् ८०८ कि मी दक्षिणपश्चिमपार्श्वे २४ कि मी अगाधे एव भूकम्पनस्य प्रभवकेन्द्रम्। नाशनष्टानि अधिकृत्य सूचनाः व्यक्ततया न लब्धाः ।

Wednesday, March 2, 2016

विश्वस्य बृहदाकारकं व्यापारनगरं दुबाय् नगरे।

दुबाय् > दुबाय् नगरस्य कृते नूतना बृहत्तरा पद्वतिः आविष्कृता अस्ति। बृहदाकारकं निखिल-व्यापार-नगरम्। यू.ए.ई उपराष्ट्रपतिः, प्रधानमन्त्री तथा शासकः चअयं षेक् मुहम्मद् बिन् राषिद् अल्मक्त्तुं वर्येण पद्धतिः प्रख्यापिता।

पञ्चाशदधिक - पञ्चशत- लक्षं चतुरश्रपदे निर्मीयमानस्य नगरस्य त्रिंशत् ३० बिल्यन् दिर्हं व्ययः प्रतीक्ष्यते । दशवर्षाभ्यन्तरेण नगरनिर्मितिः भविष्यति। चतुर्भ्यः बृहत् भूखण्डेभ्यः पञ्चदशसहस्रं वणिज: अत्र भवेयुः। भारतीयानामपि अत्र अवसरः अस्ति। न केवलं मृत्तैलेन राष्ट्रपुरोगतिः शाक्यते। अतः आयः वर्धयितुं एतादृशः नूतनाविष्कारः अनिवार्यः इति हेल्सैल् सिट्टिं अवतार्य षैक्‌ मुहम्मदेन उक्तम्।

भविष्यनिधि आहरणे करः।, आदेशः पुनः परिशुध्यते। 

नवदिल्ली > कर्मकराणां भविष्यनिधेः धनाहरणवेलायां  निक्षेपस्य ६०% करविधेयं कर्तुं आयव्ययपत्रकनिर्देशः केन्द्रसर्वकारेण पुनःपरिशुध्यते। निर्देशं विरुध्य कार्मिकसंघानां प्रतिषेधः अजायत।इदानीँ भविष्यनिध्याहरणे कोपि करः न क्रियते। आयव्ययपत्रकनिर्देशं विरुध्य भारते सर्वत्र प्रक्षोभासूत्रणानि सम्पद्यन्ते।

कनय्यां विरुध्य दृश्यानि व्याजानि।

 नवदिल्ली > देशद्रोहापराधेन गृहीतं जे एन् यू छात्रनेतारं कनय्याकुमारं विरुध्य समर्पितेषु चलनदृश्येषु दृश्यद्वयं कृत्रिमेण निर्मितमिति  फोरन्सिक् आवेदनपत्रं बहिरागतम्। कनय्याकुमारस्य प्रतिभूति वि मुक्ति याचिकाश्रवणम् अद्य संपद्यते।
देशद्रोहापराधेन गृहीतौ उमर् खालिद् अनिर्बन् भट्टाचार्यौ १४ दिवसीयकारागारवासाय विहितौ ।

Tuesday, March 1, 2016

मधुमक्षिकाः चित्रशलभाश्च कुलक्षयभीत्याम्।

वाषिङ्टण् - सस्येषु परागवितरणं कुर्वन्तः  वनमधुपाः चित्रशलभाश्च वंशना शभीतिम् अभिमुखीकुर्वन्तीति ऐक्यराष्ट्रसभायाः शास्त्रपठनम् ।एतेषां प्राणिनां संरक्षणाय यत्किमपि न क्रियते चेत् मनुजानां भक्ष्यव्यवस्थां बाधयिष्यते इति विज्ञप्तिः। प्रतिवत्सरं लोकं सर्वतः खाद्यविभवानामुत्पादनाय प्रमुखं सोपानं भवति २०००० परं षड्पदानां परागरेणुवितरणम्। तेषु मधुमक्षिकाः चित्रशलभाश्च ४०% परिमितं कुलनाशभीतिं सम्मुखीकुर्वन्ति। किन्तु लघुपक्षिणां जतुकानां च स्थितिः ईषद्वरः भवति।
 कृषिरीतिषु संजातं परिवर्तनं कीटनाशिनीनामुपयोगः तृण-वनप्रदेशानां नशीकरणमित्यादयः षड्पदानां कुलनाशाय कारणमिति निर्णीतम्।



ओस्कार् पुरस्कारः- स्पोट् लैट् उत्तमचित्रम्, डियोप्रियो अभिनेता, ब्रि लारसण् अभिने'त्री।

लोस् आञ्चलस् > 88 तमः ओस्कार पुरस्काराणि प्रख्यापितः। टोम् मेकारत्तिना आविष्कृतं  ' स्पोट् लैट् ' उत्तम चित्रं भवति। आराधकैः प्रतीक्षमाण इव ' द रवनन्टि ' चित्रस्य प्रकटनाय लियनाडो डिकाप्रिय वर्येण  उत्तम अभिनेतुः स्थानं प्राप्तः।  ब्री लारसण् उत्तम अभिनेत्री च।
द रवरन्ट्  इति चित्रस्य संविधानेन आलजान् ट्रो   इनारित्तु संविधानकार्ये उन्नतस्थानं आवहन्ति। षट् पुरस्काराणि प्राप्य ' माड् माक्स् ' फ्यूरि रोट् च पुरस्कारपटिकायाम् अग्रिमस्थानं वहतः।  उत्तम संभाषणलेखनाय स्पोट् लैट् ( जोष् सिड़्ड़र् , टोम् मक्कारत्ति) अवलंबित संभाषणलेखनविभागे
द बिग् षोट्, ( चाल्स् रान्डोप्, आदं मके ) च पुरस्कृतौ।
मारक् रयलनस् ( ब्रिड्ज् ओफ् स्पैस् ) उत्तम सह अभिनेता , अलीषिय वाक्कान्डर्  ( द डानिष् गेल् ) उत्तमा सहाभिनेत्री च ।  अलीषयायाः प्रथम ओस्कार् पुरस्कारः भवति एतत्। भारतीयः आसिफ् कपाटिया पुनः जयिंस् गेरीस् येन च निर्मितौ ' एमि ' इति नामकं  डोक्युमेन्ट्रि चित्रम् उत्तम पुरस्कारं प्राप्तवान्। ' एमि 'नामिका गायिकायाः जीवनचरितं भवति अस्य प्रमेयः।

Monday, February 29, 2016

सर्वशिक्षा अभियानस्य २०१५ श्रेष्ठोत्सवस्य शुभारम्भः
अनन्तपुरी >सर्वशिक्षा अभियानस्य केरळराज्यस्तरीय श्रोष्ठोत्सवस्य अद्य  शुभारम्भः। अनन्तपुर्याम्  एस्.एम्.वि उच्चतर-विद्यालये केरळराज्यस्य शिक्षामन्त्रिणा अब्दुरब् महोदयेन उत्सवोfयम् उद्‌घाटितः। उत्सवेfस्मिन् डा.ए सम्पत्त् (MP)वर्यः मुख्यभाषणं कृतवान्। आरोग्य-देवस्वं विभागयोः मन्त्रिणा शिवकुमारेण अध्यक्षभाषणं कृतम्। केरळस्य सार्वजनिक विद्यालयानां श्रेष्ठतायाः प्रदर्शनमेव दिनद्वय कार्यक्रमेषु मुख्यतमम्। एतदर्थं सज्जीकृते वेदिकाचतुष्टये छात्राणां वैशिष्ट्यप्रदर्शनानि प्रचलन्ति। इतर विद्यालयापेक्षया सार्वजनिक-विद्यालयेषु औत्कृष्ट्यम् अधिकमस्ति इति उत्सवोfयं प्रमाणम्।
 मुसिरिस् पैतृकपद्धत्याः शुभारम्भः।
भारतचरित्रं परस्परादरस्य - राष्ट्रपतिः। 

कोटुङ्ङल्लूर्> भारतचरितं विभिन्नमतधर्मयुक्तानां परस्परादरस्य स्वांशीकरणस्य च योगदानमिति राष्ट्रपतिना  प्रणाबमुखर्जी महाभागेन उक्तम्। मुसिरिस् पैतृकपद्धत्याः प्रथमसोपानस्य उद्घाटनवेलायां भाषमाणः आसीत् राष्ट्रपतिः၊ विभिन्न धर्म समुदाय भाषागताः जनाः परस्परमैत्र्या  सह अनुवर्तन्त इति भारतस्य पारम्पर्यम् । एतादृशपारम्पर्ये केरलम् आदर्शभूतमिति सः अवोचत्। मुसिरिस् नामकेन पुरातनकवाटेन देशान्तरेभ्यः विविधाः संस्कृतयः वंशाः नानाविधानि मतानि च भारतं प्राप्तानि । भारतं तानि सर्वाणि स्वीकृत्य तेषां संरक्षणाय अभिवृद्धये च व्यवस्थाम् अकरोत्।

ममापि श्वः परीक्षा - मोडी
नवदिल्ली > 'श्वः लोकसभायां आयोज्यमाना केन्द्रधनविनिमयपद्धतिः १२५ कोटि जनानां पुरतः लेख्यमाना मदीया परीक्षा' इति प्रधानमन्त्रिणा मोदिवर्येण उक्तम्। शान्ततया आत्मविश्वासेन सह परीक्षाम् अभिमुखीकृत्य विजयं प्राप्नोमि इति आकाशवाण्याः 'मन की बात' इति प्रतिमासकार्यक्रमे भाषमाणः आसीत् सः।
परीक्षायाः कृते प्रयत्नं कुर्वाभ्यः छात्रेभ्यः उपदेशं च दत्तवान्। स्पर्धा अन्यैःसह मास्तु , आत्मानं प्रति भवतु । अन्येषां सम्मर्दे पतित्वा जीवनं व्यर्थं मा कुरुत। सर्वे विजयिनः भूयासुः इति आशंसा च उक्तम्। सि.एन्. आर्.रावु, सच्चिन् तेण्डुल्कर् विश्वनाथ आनन्दः प्रभृतीनां उपदेशाः च स्मारिताः ।
प्रथमतया लक्ष्य निर्णयः करणीयः। तदनन्तरं सम्मर्दान् विस्मृत्य मनसः मुक्तिः प्राप्तव्या। परीक्षा लब्धाङ्केनैव जीवनं मीयमानं न भवेत्। किमपि वा भवतु, लक्ष्यात्‌ न प्रमदितव्यम्। श्वः अनुवर्तिष्यमाणायां  धनविनिमय पद्धत्यां अहमपि विजयी भवेयम् इति च उक्तम्  अनेन महात्मना।

वायुमलिनीकरणम्; मरणसड़्ख्या अतीता।

वाषिङ्टण् >वायुमलिनीकरणेन प्रतिवर्षम् आगोलतले 5.5 दशलक्षाधिकाः जनाः मृताः। तेषु 55%जनाःभारतीयाः भवन्ति इति  गवेषकैः सूचितः। 

आगामि दशकद्वयानां वर्षाणां मध्ये वायुमलिनीकरणं नियन्त्रणविधेयः भवितव्यम् । नोचेत् मलिनीकरणेन मरणसंख्या इतोप्यधिकं भविष्यति इति गवेषकैः सूच्यन्ते। भारतं, चैना, यु एस्, कानडा आदीनां राष्ट्राणां  गवेषकाः अनुसन्धाने भागभाजः अभवन्।
वाषिड़्टण् नगरे अमेरिकन् असोसियेषन् फोर् अट्वान्स्-मेन्ट् ओफ् सयन्स्स्य वार्षिकमेलनवेलायां गवेषकैः सूचनानि प्रकाशितानि। आगोलतले परिस्थिति-मलिनीकरणे  चतुर्थस्थानं भवति भारतस्य वायुमलिनीकरणाय। 

व्यवसायशालाभ्यः, यानेभ्यः जायमानया वातकप्रसारणेन परिस्थितिः मलिनं भविष्यति । किन्तु भारते पचनार्थम् इन्धनोपयोगेन मलिनीकरणं भविष्यति। चैनाराष्ट्रे तु शिला- इन्धनानां(Charcoal) उपयोगेन वायुः प्रदूष्यते। 
मालिन्यानि नियन्त्रणविधेयानि भवेयुः I नो चेत्‌ इतोप्यधिकं  दुष्फलानि भविष्यन्ति इति गवेषकाः।

मासत्रयाभ्यन्तरेण शतं किलोमितं रक्तफलम्।

एरणाकुलम् > रक्तफलमेव  षैलजायाः वटिकायाः तारम् । गृहवाटिकायां मासत्रयेण शतंकिलोमितं रक्तफलं  अनया गृहण्या उत्पाद्यते । चेरायी माडत्तिड़्कल् षैलजा राजेशस्य शाकोद्यानं मुनंबं ग्रामस्य मातृकाशाकोद्यनमेव। जैवोर्वरकमुपयुज्य गृहस्योपरि, शकोद्यानं निर्मितम्।  न केवलं रक्तफलं किन्तु कारवेलम्, भेण्डः, गृजानकं,  कोलीफ्लवर्, आद्रकम्, सूरणः आदीनां अपि च विविधानां मरिचानां शेखरः चअत्र दृष्टुं शक्यते। जैवोर्वरकेन निर्मितानां शाकानाम् उपयोगेन मनसि सन्तोषः जायते इति षैलजा वदन्ति । 2014 तमे, 15 तमे च वर्षे उत्तमकृषकपुरस्कारदानेन आद्रिता भवति षैलजा।

इतिवर्ताः

नवदिल्ली -  राष्ट्रे गतैकवर्षाभ्यन्तरे २००० कोटिरूप्यकाणां व्याजमुद्रितरुप्यकाणि प्राप्ता इति भारतीय रिसर्व् बान्क्।१००० रूप्यकाणां चीका एव प्राप्ताः। अतः 2AQ,  8AC धारावाहिकसंख्यानां चीकाः न विनिमययोग्याः इति आरक्षकवित्तकोषाधिकृतैः आदिष्टम्।


अनन्तपुरं - भारतराज्यसभायां केरलात् जायमानेषु त्रिषु रिक्तस्थानेषु एकैके स्थाने कोण्ग्रस् दलं जनतादलं(यू) सिपिएम् दलं च स्पर्धिष्यते।

कोच्ची - ट्राफिक् इति एकेनैव चलच्चित्रेण मलयालचलच्चित्रमण्डलस्य दिशानिर्णयं कृतवान् प्रसिद्धः निदेशकः राजेष् पिल्लै दिवंगतः। यकृत्संबन्धरोगेण कोच्ची आतुरालये आसीत्तस्यान्त्यः।

कार् यानदुर्घटना - केरलमुख्यमन्त्री कटिपट्टया सुरक्षितः।
कोट्टयम् >गतदिने प्रभाते केरलमुख्यमन्त्रिणः उम्मन् चाण्टि महोदयस्य कार् यानं कोट्टयं नगरसमीपे काणक्कारि प्रदेशे विनष्टनियन्त्रणेन कुल्याम् अपतत्। मुख्यमन्त्री आसनकटिपट्टम् अधारयत् इत्यतः व्रणितो नाभवत्। किन्तु तस्य सुरक्षाभटस्य हस्तःभग्नः जातः । कार्  यानमपि  विशीर्णम् मुख्यमन्त्री यानान्तरं स्वीकृत्य कोट्टयम् अतिथिमन्दिरं गत्वा ततः पुतुप्पल्लीस्थं स्वगृगं गतवान्। आसनकटिपट्टधारणमेव आत्मानं आहतं विना सुरक्षितं कृतमिति उम्मन् चाण्टिवर्यः वार्ताहरान् अवदत्।

Sunday, February 28, 2016

संस्कृतस्य कृते नूतनं याचिका पत्रम् ।

संस्कृतस्य कृते नूतनं याचिकापत्रं प्रसिद्धीकृतम्। संस्कतानुरागिणः हस्ताक्षरं करणीयमिति वार्ता प्रवाचकः बलदेवानन्द सागरेण उक्तम्। याचिका दर्शनाय  Sanskrit Campaign नाम अत्र उपरि विद्यमाना MENU  दण्डे CLICK क्रियताम्।


संस्कृतस्य वेदाध्यनस्य च शक्तीकरणाय केन्द्रसर्वकारः।
नवदिल्ली > विद्यालय-कलालयतल  अनुसन्धानमण्डले च संस्कृतभाषायाः वेदानां च अध्यनं शक्तं कर्तुं केन्द्रसर्वकारस्य दशसंवत्सरात्मिका पद्धतिः। शास्त्र-साङ्केतिक-मानविकविषयेषु संस्कृतम् अध्ययनमाध्यमं कर्तुं निर्देशपूर्विकां मार्ग-रेखां मानवविभवशेषिमन्त्रालयाय समर्पयत्। राष्ट्रीय संस्कृत विद्यापीठस्य कुलपतेः एन् गोपालस्वामिवर्यस्य अध्यक्ष्यत्वे नियुक्ता समितिरेव मार्ग-रेखां सज्जीकृतवती। 
वेद-संस्कृताध्ययनाय सि.बि.एस्.सि वत् देशीयतले सविशेषां विद्याभ्याससमितिं रूपवत्कर्तुमेव प्रधानादेशः । सेन्ट्रल् बोर्ड आफ् वेद आन्ड् संस्कृत-सेक्कन्टरि एड्यूकेषन् इति स्यात् तस्याः नाम। 
२०१७ -१८ संवत्सरः संस्कृताध्ययनवर्षरूपेण आधोषयिष्यते। शास्त्रं गणितं सामाजिकशास्त्रं अर्थशास्त्रं एन्जिनीयरिंग् मानेज्मेन्ट् इत्येतान् विषयान् संस्कृतेन सह संयोज्य भारतीय वैज्ञानिकमण्डस्य शक्तीकरणमेव अस्याः मार्गरेखायाः आन्तरिकं लक्ष्यम्। 

कोच्ची मेट्रो पट्टिकायानस्य परीक्षणधावनम् विजयपथं प्राप्तम्।

कोच्ची > मुट्टंदेशो विद्यमानः चत्वरादारभ्य कलमशेरीपर्यन्तमासीत्‌ परीक्षणधावनम्। रेल्पन्थायाः उपरि कृतः प्रथमधावन मेवेदम् इति DMRC अवदत् । सायंकाले षट्वादने एव यात्रा आरब्धा मुट्टं यार्डतः अप्पोलोटयर्स् चतुष्पथपर्यन्तं दशकिलोमीट्टर् वेगमितः धावनमासीत्। मर्गस्य पार्श्वेषु जनाः तिष्ठन्तः आसन् । अस्मिन्वर्षों नवंबर् मासादारभ्य जनानां कृते धावनमारप्स्यते इति मुख्य उपदेष्टा इ.एम्. श्रीधरः अवदत्|

सेवननिवृत्ताः संस्कृताचार्याः समादृताः।

कोच्ची > केरळ- संस्कृताध्यापक-फेडरेषन् नामकस्य संघटनस्य एरणाकुलं जिल्लाघटकस्य आभिमुख्ये सेवननिवृत्तान् संस्कृताचार्यान् तथा कलालयाध्यापकरूपेण नियुक्तिं प्राप्तान् च विद्यालयाध्यापक-प्रतिभावर्यान् च समाद्रियत।
फेडरेषन् संस्थायाः राज्यस्तरीयार्थपतिः पि. पद्मनाभः आदरणमेलनस्य उद्घाटनमकरोत्। पदवीध्वंसनं , अध्यापक- छात्रानुपातः, सेवनानुकूल्यानां निरोधनम् इत्यादिविषयेषु अध्यापकानामाशङ्कां परिहर्तुम् ऐकमत्येन प्रयतितव्यमिति स उद्घोषयत्।
एरणाकुलं जिल्लासमित्यध्यक्षः तथा 'सम्प्रति वार्तायाः' मुख्यसम्पादकः च अय्यम्पुष़ हरिकुमारः आध्यक्ष्यमावहत्। विरामप्रायाः अध्यापकाः  नवपरम्परायै मार्गदीपाः भवन्तीति तेनोक्तम्।
अस्मिन् वर्षे विरम्यमानाः पि.एम् पुरुषोत्तमः, अार् प्रेमावती, पि.वि चिन्नम्मा, एम्. बेबिक्कुट्टी इत्येते गुरुवर्याः , डो. विश्वजा एस् नायर् , डो. भुवनेश्वरिकुञ्ञम्मा इत्येते कलालयाध्यापकपदप्राप्ताः युवप्रतिभाधनिकाः च समादृताः।
राज्यस्तरीयोपाध्यक्षौ पि. रती , एस् रविकुमारः तथा च अन्ये एम् एन् सानुः , एम् एन् प्रतापः प्रभृतयः च भाषणं कृतवन्तः।

Saturday, February 27, 2016

सुनिश्चयदण्डनाय नीतिशास्त्रं कालानुसृतं भवेत्-राष्ट्रपतिः।


कोच्ची > आधुनिके काले समूहे विद्यमानान् दुष्कृन्यान् परिहर्तुं भारतस्य नीतिन्यायनियमव्यवस्थासु कालानुसृत -परिवर्तनम्‌ आवश्यकम् इति भारतस्य राष्ट्रपतिना प्रणाब् मुखर्जिवर्येण उक्तम्। डयरक्टर् जनरल् ओफ्प्रोसिकूषन् द्वारा आयोजिते भारतस्य पीनल् कोट्संविधानस्य १५५ तम वर्षास्य समापन सभायां उद्‌घाटनं कृत्वा भाषामाणः आसीदयम्।

बिट्टीष्  शासनकालेषु निर्मितेषु दण्डशास्त्रेषु न्यूनातिन्यूनानां  दोषानामेव दण्डः कल्पितः। किन्तु अद्य अवस्थान्तरं जातम्। क्रूरकृत्यानां क्षेत्रत्वेन परिवर्तिततः समूहः। वित्तानुबन्ध अन्तर्जालानुबन्ध दोषकृत्यानि वर्धते। अतः आरक्षकाः नियमज्ञाः च तेषां कर्मसु सत्यतायाः पालनं करणीयम् इति च राष्ट्रपतिना बोधितम्।

राष्ट्रसीमाम् उल्लंघ्य पाक्किस्थानतः वायुसञ्चिका राजस्थाने आगतः।

जय् पूर् > राज्यसीमाम् उल्लंघ्य पाक्किस्थानतः वायुसञ्चिका (balloon) राजस्थानराज्यस्य जलोरदेशे आगतः। ग्रामीणै: वायुसञ्चिकाम् आरक्षकेभ्यः दत्तम्। 

पाक्किस्थान् मरैन् अक्कादम्यां 'इन्टर यूनिवेर्सिट्टि स्पोर्सस्य' समापनसम्मेलनमधिकृत्य लिखितः वस्त्राणं सममेव आसीदियम्।  स्कलितपथा भारते आगतं वायुसञ्चिकाम् अधिकृत्य अधिकृतैः किमपि न उक्तम्। 

इतः पूर्वमपि राजस्थानराज्यस्य बारमर् जिल्लायां तादृशं वस्तुं व्योमसैन्याय लब्धमस्ति। तत् अधिकृत्य प्रतिरोधमन्त्रालयः पाकिस्थानं प्रति सूचना प्रेषिता आसीत्।

राष्ट्रस्य आर्थिकाभिवृद्धिः ७- ७.५% ।

नवदिल्ली - भारतस्य आर्थिकवृद्धेः अनुपात ७ - ७.५% अस्तीति आर्थिक समग्र वीक्षणावेदनपत्रे प्रस्तूयते। आवेदनपत्रं धनमन्त्रिणा अरुण् जय्टली वर्येण संसदि समर्पितम्। राष्ट्रस्य संपत्मण्डले शुभ प्रतिक्षामावहति आवेदनपत्रम्। कार्षिकमण्डले समग्रं परिष्करणं निर्दिशति ।

Thursday, February 25, 2016

भारतस्य प्रथमा अन्तर्वाहिनीनौका सज्जा।

नवदिल्ली > भारतेन स्वयं निर्मिता  प्रथमा आणव अन्तर्वाहिनीनौका अरिहन्तः युद्धाय सज्जः अभवत्‌। इतः पर्यन्तम् अनेकेषु सागरान्तर्गतपरिशीलनेषु आयुधपरीक्षासु च विजयीभूतः विलम्बं विना सैन्यस्य भागः भविष्यति।

भारतेन स्वयं निर्मित: अरिहन्ता अस्माभिः निर्मितेषु पञ्चसु अन्तर्वाहिनी नौकासु प्रथमा एव। अस्यां ७०० कि.मी.मितिपर्यन्तं गम्यमानम् पञ्चदश हृस्वदूरमिसैल् शस्त्राणि ३५०० कि. पर्यन्तम् गम्यमानं K४ बालिसिटक् मिसैल् शस्राणि च योक्ष्यन्ते ।

अरिहन्ततः बृहदाकारका द्वे अन्तर्वाहिन्यौ विशाखपट्टणस्य महानौका निर्माणशालायां निर्माणे स्तः। ६००० टण् भारमितः अरिह्न्ता १११ मिट्टर् दीर्घः भवति ।

एछ्.एल्. दत्तुः मानवीयाधिकारसमित्याः अध्यक्षः।

नवदिल्ली - सर्वोच्चन्यायालयस्य भूतपूर्वः मुख्यन्यायाधिपः न्याया. एछ् एल् दत्तुः भारतस्य मानवीयाधिकारसमित्याः अध्यक्षरूपेण निर्णीतः। के जि बालकृष्णस्य विरमणानन्तरं अष्ट मासं यावत् तत्स्थानं रिक्तमासीत्।

राष्ट्रिय-संस्कृत-संस्थानस्य नाट्य-महोत्सवः आरब्धः।

नव दिल्ली > राष्ट्रिय-संस्कृत-संस्थानस्य त्रयोदशः, त्रिदिवसात्मकः संस्कृत-नाट्य-महोत्सवः ह्यः नवदिल्ल्यां महता समारम्भेण आरब्धः | अशेषदेशस्य विभिन्नेषु राज्येषु व्यापृतैः एकादश-परिसरैः संयुतोऽयं राष्ट्रिय-मूल्याङ्कन-प्रत्यायन-परिषदा 'ए'-श्रेण्या प्रत्यायितः मानित-विश्वविद्यालयः प्रतिवर्षं संस्कृत-नाट्य-महोत्सवम् आयोजयति यो हि अन्तःपरिसरीय-संस्कृत-नाट्य-स्पर्धात्वेन छात्रेषु अतितरां प्रियोsस्ति | नाना-परिसरीयाः ज्येष्ठाः कनिष्ठाश्च छात्राः छात्र्यश्च रङ्गकर्मणि सोत्साहं सहभागित्वम् आवहन्ति- इति नूनं संस्कृत-वाङ्मयस्य कृते संस्कृत-नाट्य-शास्त्रीय-परम्पराणां कृते च शुभसङ्केतत्वेन परिगणयितुं शक्यते | अद्य उद्घाटनानुवर्ती पूर्वरङ्गः अतितरां रमणीयः नयनानन्द-दायकः सहृदयावर्जकश्च सिद्धः | अद्य प्रदर्शितेषु प्रहसनेषु जम्मू-कश्मीरस्थस्य श्रीरणवीरपरिसरस्य "लटकमेलकम्", त्रिपुराराज्यीय- अगरतलास्थस्य एकलव्य-परिसरस्य "वञ्चक-पञ्चकम्", हिमाचलप्रदेशस्य बलाहरस्थस्य श्रीवेदव्यासस्य "कुहनाभैक्षवम्" चान्यतमानि सन्ति |ऐषमः संस्कृत-नाट्य-महोत्सवस्य विषयोsस्ति - प्रहसनम् |  अद्य श्वश्च अपराणि अष्टौ प्रहसनानि अत्र प्रदर्शयिष्यन्ते | पूर्वेद्युः [ २३-फेब्रुआरि-दिने] संस्कृत-नाट्य-महोत्सव-विषयकं वार्त्ताहर-सम्मेलनं सुख्याते "प्रेस-क्लब"- इति स्थले सम्पन्नम् | अत्र वार्ताहरान् सम्बोधयन् संस्थानस्य कुलपतिः आचार्यः परमेश्वर-नारायण-शास्त्री संस्कृतस्य प्रचार-प्रसारार्थं विधीयमानानि कार्याणि विस्तरेण विशदीकृतवान्।

समराणां प्रक्षोभाणाम् आधारे सार्वजनीनद्रव्याणि नाशयितुं न अनुज्ञायते।

नवदिल्ली > राष्ट्रे विद्यमानानां समराणां प्रक्षोभाणाम् आधारे सार्वजनीनद्रव्याणि नाशयितुं यं कमपि न अनुज्ञायते इति सर्वोच्चन्यायालयेन आदिष्टम्। एतादृशान् विरुद्ध्य कर्कशव्यवस्थाः विधास्यन्ते। सार्वजनीनद्रव्यनाशकान् दण्डयितुं मानदण्डान् सज्जीकरिष्यन्ते इति न्याय. जे एस् खेर् वर्यस्य अध्यक्ष्यत्वेन न्यायासनेन स्पष्टीकृतम्।
  हर्दिक् पटेलस्य नेतृत्वे प्रचालिते प्रक्षोभे सम्पन्ने द्रव्यनाशे न्यायालयेन आशङ्का उल्लेखिता।

Wednesday, February 24, 2016


संवादः अस्तु; स्तंभनं मास्तु - राष्ट्रपतिः।

नव दिल्ली >जनकीयविषयेपु आरोग्यपूर्णः संवादः समीचीनमस्ति; कुतर्कः सभास्तंभनमित्यादिकम् अनभिलषणीयमिति राष्ट्रपतिः प्रणब् मुखर्जी उद्बोधयत्। भारतीयसंसदः सभाद्वयम् अभिसंबोधयन्नासीत् मुखर्जीवर्यः। आयव्ययपत्रम् अस्मिन् सम्मेलने अवतारयिष्यते। रेल्यानपत्रं २५ दिनाङ्के सार्वजनीनपत्रं २९ तम दिनाङ्के च अवतरिष्यते।

तमिळ् नाटुराज्ये १० विपक्षसामाजिकाः जयललितया सही

चेन्नै > राज्ये दश विपक्षसामाजिकाः त्यागपत्रं समर्प्य जयललितायाः ए ऐ ए डि एम् के दलेन सह युक्तवन्तः। विजयकान्तस्य डिएंडिके दलात् ८ सामाजिकानां त्यागपत्रसमर्पणात् तस्य विपक्षनेतृस्थानं विनष्टम्। तान् विना पुतिय तमिष़कं पिएंके दलाभ्याम् एकैकः अपि शासनपक्षे युक्तः।
कस्यापि दलस्य विपक्षनेतृस्थानाय अर्हता नास्ति इदानीम्।

द्वितीयलोकमहायुद्धदृश्यानि देशीयचलच्चित्रशेखरे। 

मुंबई >द्वितीये विश्वमहायुद्धे भारतीयसैन्यस्य अपूर्वाणि युद्धदृश्यानि देशीय फिलिम् आर्कैव्स् आफ् इन्डिया  संस्थायै दत्तानि। भारतसैन्यस्य सकाशात् ३० घण्डापरिमितदैर्घ्ययुक्तानि  दृश्यानि एव पूनास्थितायै एन् एफ् ए ऐ संस्थायै दत्तानि। महात्मा गान्धी सर्दार् पट्टेलः मुहम्मदालि जिन्ना इत्यदीनां नेतृजनानाम् अपूर्वदृश्यानि च अत्र अन्तर्भवन्ति।

एकस्मै रेल्यानाय नवषष्टि वर्षस्य  प्रतीक्षा।

नवदिल्ली > भारतं स्वतन्त्रतां प्राप्य नवषष्टि वर्षाणि अतीतानि। किन्तु आसां राज्ये विद्यमान बंग्लादेश् राष्ट्रस्य सीमाप्रान्तेषु वासमानेभ्यः जनेभ्यः ऎदंप्राथम्येन ह्यः नूतनमेकं रेल्यानम् प्राप्नोत्। सिल्च्चर् - नवदेहली-पूर्वोत्तर-सम्पर्ककान्ति एक्स्प्रेस इति नाम्ना प्रथितं रेल्यानम् रेल्यानविभागस्य मन्त्रीणा श्री सुरेष्प्रभुणा स्वस्य  इच्छया,प्रयत्नेन च सफलीकृतः। रेल्यानमिदं रेल्यानमन्त्रालयस्य चरित्रे सुवर्णाक्षरैः रेखयति एव।
कचार् इति कथ्यमान भारतस्य सीमामण्डलात् राष्ट्रस्य राजधानीं नवदेहलीं प्राप्तुं एतावता रेल्यानस्य सेवनं नासीत्। प्रदेशोfयं प्रसिद्धः प्रधानश्चास्ति इति आश्चर्य सत्य विषयः त्रिपुरा,मणिप्पूर्,मिसोरां,एतेषां त्रयाणां राज्यानां प्रवेशनमार्गः भवति एषः प्रदेशः। स्वतन्त्रतान्तोलने एतस्मात् प्रदेशात् बहूनां भागभागित्वमासीदिति श्रद्धेयः विषयः। तथापि कस्मात् एतावत्कालं रेल्यानस्य अभाव‌ इति प्रश्ने सति सर्वे मौनं भजन्ति।
ह्यः सिल्च्चल् रेल्याननिस्थानकात् केन्द्रमन्त्रिणा सुरेष्प्रभुणा यानस्यास्य प्रथमयात्रायै हरितपताकां प्रदर्श्य अनुमतिं अयच्छत।
२०२० तमे वर्षे भारतस्य पूर्वोत्तर राज्येभ्यः नवदेहल्यै रेल्यानानां यात्रा आरभ्यते इति प्रभुणा स्पष्टं  सूचितम्। २०१७-१९ वर्षेभ्यः आसां, मणिप्पूर्, अरुणाचल्प्रदेश्,त्रिपुरा राज्येभ्यः बोड्गेज् रेल् सर्क्यूट् भविष्यति  इत्यपि तेन प्रख्यापितम्।
भारते रेल्यानविभागस्य विकसनस्य प्रत्यक्षोदाहरणमेव एतत्। एते निर्णयाः भारतीय रेल्यानविभागस्य मकुटे सुवर्णाक्षरत्वेन रेखयति।


यु.एस्.राष्ट्रोपरि रष्यायाः डयनम्। 

वाषिड़्टण् > अत्याधुनीक डिजिट्टल् छायाग्रहण्या सह रष्यायाः विमानं यु.एस् राष्ट्रस्य उपरि उड्डयितुम् अनुज्ञां प्राप्तुं श्रमं करिष्यति। चतुस्त्रिंशत् (३४)राष्ट्रेण  संयुक्ततया  हस्ताक्षरं कृतं भवति  "सार्वजनिक -आकाशसन्धिं " रष्या- यु एस् राष्ट्रयोः भागभागित्वेन भवतः।  किन्तु निरीक्षणविमानडयनाय रष्याराष्ट्रं प्रति अनुमतिं ददाति चेत् यु.एस् राष्ट्रस्य रहस्यनि ज्ञातुम् उपकारकं भवेत् इति यु.एस् राष्ट्रस्य रहस्यान्वेषणवृन्तेन शासनाधिकारिण: निर्देशं दत्तः। ये राष्ट्राः सन्धौ  हस्ताक्षरं कृतवन्तः तेषां राष्ट्स्योपरि , आयुधं विना डयनाय, उपकारकाणि विज्ञापनानि दानाय च अनुमति: अनया आकाशसन्धिना लब्धः। किन्तु रष्याराष्ट्रः नूतनसाड़्केतिकविद्यया तेषां स्वार्थे प्रयोगं करिष्यति इत्यनेन  विरुद्धफलप्राप्तिः एव भविष्यतीति यु.एस् रहस्यविभागस्य शड़्का ।