देशीयपाठ्यपद्धत्यां संपूर्णं परिवर्तनं न भवेत् ।
बेङ्गलूरु - केन्द्रसर्वकारेण निर्दिष्टे देशीयविद्याभ्यासनये संपूर्णं
परिवर्तनं मास्तु इति केरलम् । नूतन विद्याभ्यासनयस्य प्राकृतं रूपं
निर्मातुं केन्द्रसर्वकारेण बेङ्गलूरे आयोजिते
दक्षिणभारतीयविद्याभ्याससचिवानां मेलने केरल शैक्षिक मन्त्रिणा अब्दुरब्
वर्येण एव अयं निर्देशः प्रस्तुतः । कालानुसारी परिष्कारः, योजनानि च
अवश्यम् आवश्यकम् । किन्तु तस्य पूर्णतया पुनर्निर्माणम् नैव
भवेत् इत्येव केरलस्य मतम् । केन्द्र मानव विभवशेषि मन्त्री आध्यक्षम्
ऊढवती । केरलेषु विद्याभ्यासमण्डले मौलिकसौकर्याणि वर्धयितुं इतोऽपि
धनराशिः देया इत्यपि अब्दुरब्बेण उक्तम् । केरले विद्याभ्यास |
-
|
मण्डले
उत्तमानि प्रवर्तनानि जायन्ते। किन्तु मौलिक सौकर्याणि विपुलीकरणीयानि ।
केरलम् उन्नत विद्याभ्यासरङ्गे एव श्रद्धां कुर्वन्ति । तदर्थं अधिकं
धनराशि: आवश्यकी । दरिद्र छात्राणां कृते छात्रवृत्तिदानाय अपि सहाय्यम्
आवश्यकम् । केन्द्र विश्वविद्यालयस्य मलपुरं केन्द्रे अधिक पाठ्यविषयाः
आरम्भणीयाः इत्यपि तेन उक्तम् । विचारयाम: इति स्मृती इरानिना उक्तम् ।
नूतन विद्याभ्यासनयस्य प्राकृतं रूपं डिसम्बर् मासे पूर्णं भवति ततः
राज्याणां अनुमत्यै दास्यते इत्यपि तया सूचितम् । |
केरले सप्तजनपदेषु परश्वः निर्वाचनं; प्रचारणम् अद्य समाप्यते।
अनन्तपुरी - केरलेषु त्रितलपञ्चायदादिनिर्वाचनस्य प्रथमपादं परश्वः(नवं-२)
सप्तसु जिल्लासु प्रचलिष्यति। तत्रत्यानां प्रचारणम् अद्य सायं ५ वादने
समापयिष्यति। तिरुवनन्तपुरम,कोल्लम, इटुक्की, कोषिक्कोट्, कण्णूर् ,
वयनाट्, कासरकोड् एतेषु जनपदेषु एव सोमवासरे निर्वाचनम्।