OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, January 26, 2025

बालसहितीप्रकाशनस्य द्विदिवसीय साहित्य सङ्गोष्ठी अद्य सम्पत्स्यते

   चेरुतुरुत्ती> सांस्कृतिकग्रन्थानां प्रकाशनेषु निरतेन बालसाहिती-प्रकाशनेन आयोजिता द्विदिवसात्मका आवासीया सङ्गोष्ठी अद्य रविवासरे सम्पत्स्यते। ह्यः आरब्धा सङ्गोष्ठी कथाकारः के. के पल्लशनः उद्घाटनमकरोत्। मलयाळभाषायां विद्यमानाः बालसाहित्यनिपुणाः ग्रन्थरचयितारः कार्यक्रमे अस्मिन् भागं स्वीकुर्वन्तः सन्ति। केरळकलामण्डलम् इति मानितविश्वविद्यालयस्य परिसरे इयं सङ्गोष्ठी प्रचलति। सांस्कृतिकयुक्तानां राष्ट्राभिमानयुक्तानां धर्मोपदेशपराणां साहित्यानां नवीनरचना बालकान् उद्दिश्य भवतु इति उद्देश्येन आयोजिता अस्ति इयं सङ्गोष्ठी।

Saturday, January 25, 2025

 जन्माधिकारपौरत्वनिरासादेशः न्यायालयेन अवरुद्धः। 

ट्रम्पः पुनर्विचाराय उद्यमते।

सियाटिल्> जन्माधिकारपौरत्वं निरस्य यू एस् राष्ट्रपतिना डोणाल्ड ट्रम्पेण हस्ताक्षरीकृतः आदेशः सियाटिल् जनपदीय न्यायाधीशेन अवरुद्धः। गुरुवासरे आसीत् ट्रम्पस्य निर्वोढव्यादेशः १४ दिनानि यावत् अवरुद्धः। 

  किन्तु न्यायालयस्य अवष्टम्भादेशं विरुध्य पुनर्विचाराभ्यर्थना समर्पयिष्यतीति ट्रम्पेण निगदितम्। वाषिङ्टणः, अरिसोणा, इलिनोय्, ओरिगण् इत्येतेभ्यः राज्येभ्यः समर्पिते प्रकरणे आसीत् न्यायालयस्य प्रक्रमः। ट्रम्पस्यादेशः राष्ट्रसंविधानस्य नग्नं लङ्घनमिति न्यायालयेन निरीक्षितम्।

Friday, January 24, 2025

 दिल्ली विधानसभानिर्वाचनम्। 

प्रचारणोत्साहे राजनैतिकदलानि। 

नवदिल्ली> विधानसभानिर्वाचनस्य प्रचारणोत्साहे दिल्ल्यां प्रमुखानि राजनैतिकदलानि।  अनुस्यूतप्रशासनं लक्ष्यीकृत्य आम् आद्मी पार्टी [आप्], अधिकारग्रहणाय भा ज पा, विनष्टप्रभावस्य पुनर्ग्रहणाय कोण्ग्रस् च सर्वायुधान् परिगृह्य प्रचारणोत्साहे वर्तन्ते। 

   पञ्चवर्षाभ्यन्तरे दिल्ल्याः कर्मराहित्यं परिहरिष्यतीति 'आप्' दलस्य नेता मुख्यमन्त्रिचरश्च अरविन्द केज्रिवालः उद्घोषितवान्। दशवर्षीयप्रशासनेन आप् सर्वकारः भ्रष्टाचारे अन्यानवाप्तोन्नतसीमां [World record] प्राप्तवानिति भाजपादलेन निन्दितम्। दिवंगतायाः भूतपूर्वप्रधानमन्त्रिणः षीला दीक्षितस्य विकासादर्श एव वरमिति कोण्ग्रसनेत्रा राहुलगान्धिना प्रख्यापितम्। फेब्रुवरि पञ्चमदिनाङ्के भवति दिल्लीनिर्वाचनम्।

 आयसयुगारम्भः तमिलनाटे इति राज्यमुख्यमन्त्री। 

५,३०० संवत्सरेभ्यः पूर्वमारब्धमिति स्टालिनः। 

एं के स्टालिनः।

चेन्नै> विश्वस्मिन् आयसयुगस्य प्रारम्भः तमिलनाटे इति अभिमानं ज्ञापयित्वा राज्यमुख्यमन्त्री एं के स्टालिनः। "तमिलनाटे ५,३०० संवत्सरेभ्यः पूर्वमेव आयसयुगमारब्धमिति अहं विश्वं ज्ञापयामि। धातोः अयसः विश्लेषणप्रौद्योगिकी भौगोलिकस्तरे प्रथमतया तमिलनाटे एव अवतारिता। इतः सङ्कलितानां पुरावस्तुसामग्रीणां विशकलनं विश्वस्मिन्नेव श्रेष्ठतरेषु शोधनालयेषु कृतम्। तस्याधारे एवेदं प्रख्यापनम्" स्टालिनः अवोचत्। तमिलनाटस्य अयोपयोगस्य चरित्रं स्पष्टीक्रियमाणस्य 'इरुम्पिन् तोन्मै' इति ग्रन्थस्य प्रकाशनवेलायां भाषमाणः आसीत् स्टालिनवर्यः।

 रेल्यानपेटिकायाम्  अग्निबाधा इति विशङ्क्य  बहिः उत्पतिताः ११ यात्रिकाः मृताः।

    मुम्बै> महाराष्ट्रेषु जल्गावे प्राणरक्षार्थं रेल्यानात् बहिः कूर्दनेन पतिताः द्वादश जनाः मृताः। समीपस्थे रेल्पट्टिकायाः आगतम् अन्यं रेल्यानं घट्टयित्वा एव भूरि जनाः मृताः। दश यात्रिकाः व्रणिताः। लक्नौ देशतः मुम्बैदेशं प्रति आगम्यमानं रेल्यानं भवति पुष्पक् एक्स्प्रस्।  अस्य रेल्यानस्य पेटिकायाः एकस्याः अग्निः धूमः च उत्थितः इति सन्दिह्य यात्रिकाः  रेल्यानात् बहिः कूर्दनमकरोत्। तस्मिन्नवसरे अन्यपट्टिकायाम् आगतं 'कर्णाटक' एक्सप्रस् नाम रेल्यानस्य अधः पतित्वा एव द्वादश जनानां मृत्युः इति प्रतिवेदनमस्ति। विंशत्यधिकाः यात्रिकाः यानात् बहिः कूर्दनमकुर्वन्।

Thursday, January 23, 2025

 राफासीमायाः न प्रतिनिवर्तिष्यते इति इस्रयेलः। 

जरुसलेमः> ईजिप्तस्य समीपस्थायाः राफासीमायाः इस्रयेलसैनिकानां प्रतिनिवर्तनं न भविष्यतीति इस्रयेलेन निगदितम्। ईजिप्तं गासां च संयोज्यमानायाः राफासीमायाः नियन्त्रणं पालस्तीनस्य समितिः स्वीकरिष्यतीति अभ्यूहस्य आधारे एव इस्रयेलस्य विज्ञप्तिः।

 जन्माधिकारनागरिकत्वनिरासः - 

अमेरिकायां २२ राज्यानि न्यायालयं प्रति।

वाषिङ्टणः> यू एस् राष्ट्रस्य राष्ट्रपतिपदं प्राप्य झटित्येव डोणाल्ड ट्रम्पेन आदिष्टस्य जन्माधिकारनागरिकत्वनिरासं विरुद्ध्य २२ राज्यानि न्यायालये प्रकरणं समार्पयन्। डेमोक्रेटिक पार्टी इत्यनेन शासमानानि राज्यानि भवन्त्येतानि। ट्रम्पस्यायं निर्णयः राष्ट्रसंविधानस्य उल्लङ्घनमिति सूचयित्वा   बोस्टण् सियाटिल् इत्येतस्थयोः फेडरल्  न्यायालययोः पुरतः एव प्रकरणं समर्पितम्। 

  ये यू एस् नागरिकाः न भवन्ति, तादृशयोः पित्रोः यू एस् मध्ये जनितानां शिशूनां नागरिकार्हता अस्तीति १८९८ तमवर्षस्य सर्वोच्चनीतिपीठस्य विधेः विरुद्ध एव ट्रम्पस्य आदेशः इति सूचयित्वा भवन्ति प्रकरणानि।

Wednesday, January 22, 2025

 ट्रम्पस्य अधिकारप्राप्त्यनन्तरं  प्रथमदिने ८० निर्वोढव्यादेशाः।

कतिपयाः आशङ्काजनकाः। 

द्वितीयवारं शपथवाचनानन्तरं ट्रम्पः।

वाषिङ्टणः>  राष्ट्रपतिपदस्वीकरणस्यानन्तरं प्रथमदिने डोनाल्ड ट्रम्पः आशङ्काजनकाः कतिपयादेशान् अभिव्याप्य ८० आदेशेषु हस्ताक्षरं कृतवान्। 

  जननाधिकाररूपेण अमेरिकानागरिकत्वं प्राप्तवतां अल्पकालिकाधिनिवेशितानां च पौरत्वरूपाधिकारः ट्रम्पेण निरस्तः। संयुक्तराष्ट्रसभायाः स्वास्थ्यसभातः [WHO], 'पारीस् पर्यावरणसन्धिः' इत्यस्माच्च ट्रम्पस्य आदेशेन अमेरिका अपसृता भविष्यति।

  यू एस् राष्ट्रे इतःपरं पुं-स्त्रीति लिंगद्वयमेव भवेत्। 'मेक्सिको अन्तरालसमुद्रस्य' परं अमेरिका अन्तरालसमुद्रः इति पुनर्नामकरणं विधास्यति। ट्रम्पस्य नूतनादेशाः प्रायेण राष्ट्रिय-अन्ताराष्ट्रियविवादाय कारणं भविष्यतीति अभिज्ञैः सूच्यते।

 हमासेन चतस्रः महिलाः शनिवासरे विमोचयिष्यन्ते। 

जरुसलेमः> इस्रायेलेन सह कृतस्य युद्धविरामसन्धेः अंशतया हमासेन बन्धिताः चतस्रः महिलाः शनिवासरे विमोचिताः भविष्यन्ति। हमासेन निगदितमिदं वृत्तान्तम्।  तस्य स्थाने पलस्थीनीयाः बन्धिताः इस्रायेलेन विमोचयिष्यन्ते। विशदांशाः न लब्धाः। 

  रविवासरे प्रवृत्तिपथमागतं सन्धिमनुसृत्य तिस्रः महिलाः  हमासेन, ९० पालस्थानीयाः इस्रायेलेन च परस्परं प्रतिप्रेषिताः आसन्। युद्धविरामसन्धेः प्रथमसोपाने ३३ बन्धितान् हमासः १९०० पालस्थानीयान् इस्रयेलश्च विमोचयिष्यति।

 छत्तीसगढे १४ मावोवादिनः व्यापादिताः। 

गरिबन्दः> छत्तीसगढस्य ओडीशायाः च सीमायां सुरक्षासेनया सह विधत्ते प्रतिद्वन्द्वे १४ मावोवादिनः व्यापादिताः। मृतेषु मावोवादिसंघस्य समुन्नतः नेता चलपति इत्याहूयमानः जयराम रेड्डिः अपि अन्तर्भवतीति केन्द्रसर्वकारेण निगदितम्। सुरक्षासेनया संवत्सरैः मार्गमाणः मावोवादिनेता आसीत् जयराम रेड्डिः।