सन्तोष् ट्रोफी किरीटं वंगदेशाय।
हैदराबादः> सन्तोष् ट्रोफी पादकन्दुकक्रीडायां पश्चिमवंगदलः विजेता। अन्तिमस्पर्धायां १ - ० इति क्रमेण केरलदलं पराजयत। स्पर्धायाः अन्त्यनिमिषे वंगस्य रोबिन् हन्सडेनैव लक्ष्यकन्दुकं प्राप्तम्।
मुण्टक्कै-चूरल्मला भूस्खलनम् अतितीव्रमिति केन्द्रसर्वकारस्य सम्मतिः।
नवदिल्ली> २०२४ आगस्ट् मासे केरले वयनाट्जनपदे दुरापन्नः भूस्खलनदुरन्तः अतितीव्रस्वभावयुक्तः इति दुरन्तस्य १५६ तमे दिने केन्द्रसर्वकारस्य सम्मतिः। विषयमिदं केन्द्रगृहमन्त्रालयः राज्यसर्वकारम् औद्योगिकरीत्या न्यवेदयत्।
अनेन केन्द्रसर्वकारात् अधिकसाहाय्यं लब्धुं मार्गः जातः। केरलं पुरस्कृत्य केन्द्रसर्वकारस्य इदं प्रख्यापनं महतः आश्वासस्य विषयः अस्ति। विविधाभ्यः पुनरधिवासप्रक्रियाभ्यः ऊर्जप्रदायकं भवति।
चीनदेशेन विश्वस्य शीघ्रतमम् बुल्लेट्-रेल्यानम् समारब्धम्।
चीनदेशेन समारब्धं बुल्लेट् रेल्यानं होरायां ४५० किलोमीटर् वेगेन गमनं कर्तुं समर्थं CR ४५० इत्यस्य प्रोटोटाइप्- स्वरूपः लोकार्पितः। नवीनः एषः बुलेट्-रेल्यानं न केवलं यात्राकालं न्यूनं करोति अपि च इतरयोः देशयोः सम्बन्धने गुणवत्ताम् अपि वर्धयति।
यद्यपि उच्चगतिरेल्यानानि चीनाय आर्थिकदृष्ट्या लाभजनकानि न सन्ति, एतावता केवलेन बीजिङ्-शाङ्घाय-रे ल्यानसेवा एव लाभं प्रदत्तवती। तथापि, चीनादेशः वदति यत् लाभात् परम् एतानि बुलेट्-रेल्यानानि राष्ट्रस्य आर्थिकसामाजिकविकासे महत्त्वपूर्णं योगदानं कुर्वन्ति इति।
भारतस्य 'स्पैडक्स्' परीक्षणे विजयः।
![]() |
भारतेन ह्यः विक्षिप्तः पि एस् एल् वि - सि ६० उपग्रहः। |
श्रीहरिक्कोट्टा> बहिराकाशपेटकानि भूमेः भ्रमणपथे संयोजितुं विभक्तुं चोद्दिश्य भारतेन विकसिता 'स्पैडक्स्' नामिका साङ्केतिकविद्या विजयप्रदा अभवत्। स्पैडक्स् परीक्षणाय द्वौ लघूपग्रहौ ऐ एस् आर् ओ संस्थायाः ध्रुवीयविक्षेपणवाहनेन [पि एस् एल् वि - सि६०] गतरात्रौ भ्रमणपथं प्राप्तौ। एताभ्यां सह बहिराकाशगवेषणार्थं २४ उपकरणानि च विक्षिप्तानि।
बहिराकाशपरीक्षणनिलयस्य [Space Docking] प्रथमसोपानमेव सोमवासरे पूर्तीकृतमिति ऐ एस् आर् ओ संस्थायाः अध्यक्षः एस् सोमनाथः अवदत्। कुजवासरे उपग्रहद्वयमपि परस्परं २० कि मी अन्तरे एकेनैव भ्रमणपथेन भूमिं प्रदक्षिणं करिष्यति। तदनन्तरमेतयोरन्तरं न्यूनीकृत्य द्वावुपग्रहौ संयोक्ष्यति। तदर्थं सप्त दिनानि अपेक्षितानीति सोमनाथेनोक्तम्।
विश्व महिला द्रुतचतुरङ्गः
भारतस्य कोनेरू हम्पी विश्वविजेत्री।
न्यूयोर्क्> अमेरिक्कायां सम्पन्नायां महिलानां विश्वद्रुतचतुरङ्गस्पर्धापरम्परायां भारतस्य कोनेरू हम्पी [३७] इति आन्ध्रप्रदेशीया विश्वकिरीटधारिणी जाता। दोम्मराजू गुकेशेन चतुरङ्गस्य विश्ववीरतापदं भारतमानीय कतिपयदिनाभ्यन्तरे महिलानां द्रुतचतुरङ्गकिरीटमपि भारतं प्राप्तमित्येतत् द्विगुणीकृतमधुरस्य अनुभवः।
वीरतापरम्परायाः अन्तिमचक्रे इन्डोनीष्यायाः ऐरिन् सुकन्दर् इत्येतं पराजित्य एव सार्धाष्टाङ्कान् सम्प्राप्य लोकविजेत्री अभवत्। द्वितीयवारमेव हम्पी विश्वविजयिनी भवति। २०१९ तमे वर्षे मोस्को मध्ये आसीत् प्रथमकिरीटप्राप्तिः।
सन्तोष् ट्रोफी - अन्तिमस्पर्धायां वंग- केरलप्रतिद्वन्द्वः। केरलाय अनुस्यूतत्रितयं प्राप्तवतः मुहम्मद रोषनस्य मित्राणामभिनन्दनम्।
हैदराबादः> श्वः सम्पद्यमाने सन्तोष् ट्रोफी पादकन्दुकस्पर्धापरम्परायाः अन्तिमप्रतिद्वन्द्वे केरलं पश्चिमवंगेन सह स्पर्धिष्यते। ह्यः सम्पन्ने पूर्वान्त्यस्पर्धायां सर्वीसस् दलं ४ -२ इति लक्ष्यकन्दुकक्रमेण पराजित्य वंगदलः अन्तिमस्पर्धां प्राविशत्। अन्यस्मिन् प्रतिद्वन्द्वे केरलेन मणिप्पुरदलः ५ - १ इति लक्ष्यकन्दुकक्रमेण पराजितः।
केरलस्य क्रीडकः मुहम्मद रोषनः अनुस्यूतत्रयं लक्ष्यकन्दुकं [हाट्रिक्] सम्पादितवान्। नसीब रह्मानः, मुहम्मद अज्सलः इत्येतौ केरलस्य अन्ये लक्ष्यकन्दुके प्राप्तवन्तौ।
दक्षिणकोरियायां विमानदुर्घटना - १७९ जनाः मृत्युमुपगताः।
द्वौ अद्भुतेन रक्षितौ। विमानप्रज्वलस्य दृश्यम्।
सोल्> दक्षिणकोरियायां मूवान् अन्ताराष्ट्रविमाननिलये अवतरणवेलायां विमानपथात् स्रंसितं विमानं सुरक्षाभित्तिमभिघात्य प्रज्वाल्य १७५ यात्रिकाः चत्वारः विमानसेवकाश्च मृत्युमुपगताः। द्वौ विमानसेवकौ अद्भुतरीत्या रक्षां प्राप्तवन्तौ। 'जेजु एयर्' संस्थायाः बोयिंग् ७३७-८०० इति विमानमेव दुर्घटितम्।
ताय्लान्ट् राजधान्यां बाङ्कोके सुवर्णभूमि अन्ताराष्ट्रियविमाननिलयात् मूवानं प्रति प्रस्थिते विमाने द्वौ अपहाय सर्वे कोरियाजनाः आसन्। यात्रासमये विमानं प्रति कश्चन पक्षी अभिघट्टितः इति कस्यचन यात्रिकस्य शब्दसन्देशः बहिरागतः इति 'न्यूस्- १' इति वृत्तान्तमाध्यमेन सूच्यते। विमानस्य पृष्ठस्थाने उपविष्टौ द्वावेव रक्षां प्राप्तौ।
मन्मोहनस्य वियोगे गुटेरस् बैडनश्च अनुशोितवन्तौ।
सान्फ्रान्सिस्को> भूतपूर्वप्रधानमन्त्रिणः मन्मोहन् सिंहस्य देहवियोगे यू एन् सचिवप्रमुखः अन्टोणियो गुटरसः, यू एस् राष्ट्रपतिः जो बैडनश्च अनुशोचितवन्तौ।
भारतस्य आर्थिकविधानरूपीकरणे मन्मोहनसिंहः निर्णायकं भागं गृहीतवानिति अनुशोचनसन्देशे गुटरसेन प्रस्तुतम्। तथा च तस्य शासनकाले संयुक्तराष्ट्रसभां प्रति च शक्तं सौहार्दमभवदिति च तेनोक्तम्।
मन्मोहनसिंहस्य नयतन्त्रदर्शनं राजनैतिकवीक्षणं च भारत-यू एस् राष्ट्रयोर्मध्ये उभयपक्षसंबन्धं सम्पुष्टमकरोदिति जो बैडनेन प्रस्तुतम्।
असर्बैजान विमानदुर्घटनायां क्षमां याचित्वा पुतिनः।
मोस्को> ३८ जनानां मृत्युहेतुभूतायां विमानदुर्घटनायाम् असर्बैजानस्य राष्ट्रपतिम् इल्हाम अलियेवं रूसराष्ट्रपतिः व्लादिमिर् पुतिनः क्षमामयाचत। रष्यायाः व्योममण्डले आसीत् दुर्घटना जाता इत्यत एव क्षमायाचनम्।
प्रत्युत, विमानं प्रति अग्निबाणाक्रमणं कृतमिति अभ्युपगन्तुम् उत्तरदायित्वं स्वीकर्तुं वा पुतिनः न सज्जः। ६७ यात्रिकैः सह बाकु इत्यस्मात् ग्रोस्नियां गतवत् असर्बैजानस्य विमानं रष्यायाः मिसैल् आक्रमणेन भञ्जितमिति वृत्तान्तमासीत्।
कृषकनेतुः जज्जितसिंहदलेवालस्य निराहारसत्याग्रहः; सर्वोच्चन्यायालयेन मध्यस्थता कृता।
कृषकनेतुः जज्जितसिंहदलेवालस्य निराहारसत्यग्रहस्य प्रसङ्गे सर्वोच्चन्यायालयेन हस्तक्षेपं कृतम्। दलेवालं चिकित्सालयं प्रति नेतुं पञ्जाबस्य शासनं प्रति सर्वोच्चन्यायालयेन आदेशः प्रदत्तः। एतदर्थं पञ्जाबशासनं मासस्य एकत्रिंशत् दिनाङ्कपर्यन्तं कालं समायाचितम्। दलेवालस्य स्वास्थ्यदशा दुरितस्थितिं प्राप्ता अस्तीत्यतः न्यायालयेन एषः हस्तक्षेपः कृतः। न्यायाधिपौ सूर्यकान्तः उज्जलभूयानः च संयुक्ततया एषः आदेशः प्रदत्तः।
केन्द्रसर्वकारस्य कृषकविरोधिनी नीतिः इति दोषारोपेन खनौरिनगरे जज्जितसिंहदलेवालेन एकमासात् अधिकं कालं यावत् निराहारसत्यग्रहः आरब्धः। पञ्जाबस्य शासनं वदति यत् दलेवालं चिकित्सालयं प्रति नेतुं प्रयासाः अस्याः कृषकसमूहस्य विघ्नेन वर्तते। अपि तु न्यायालयेन उक्तं यत् दलेवालं चिकित्सालयं प्रति नेतुं विघ्नं कुर्वद्भ्यः कृषकनेतृभ्यः आत्माहुति-प्रेरणा इति अपराधः आरोपितः भविष्यति।