OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, November 24, 2024

 महाराष्ट्रे महायुतिसख्यस्य प्रवचनातीतविजयः। १३५/२८८ 

मुम्बई> महाराष्ट्रस्य विधानसभानिर्वाचने भाजपा, शिवसेना [षिन्देविभागः], एन् सि पि [अजित पवार विभागः] इत्येतानि मुख्यदलसहितस्य महायुतिसख्यस्य प्रवचनातीतः विजयः सम्पन्नः। २८८ अङ्गयुतविधानसभायां २३५ स्थानानि अनेन सख्येन प्राप्तानि। १३२ स्थानानि सम्प्राप्य भा ज पा दलं महत्तमं दलमभवत्। 

   षण्मासेभ्यः पूर्वं सम्पन्ने लोकसभानिर्वाचने ४८ मण्डलेषु ३१मण्डलानि  विजितस्य कोण्ग्रस् दलसहितस्य महाविकास् अखाडिसख्यस्य तत्समीपं प्राप्तुमपि न शक्यम्।

Saturday, November 23, 2024

 वयनाट् मण्डले प्रियङ्का विजितवती। 


वयनाट्> केरले वयनाटे लोकसभामण्डले सम्पन्ने उपनिर्वाचने कोण्ग्रस् नेत्री प्रियङ्का गान्धी महता भूरिपक्षेण विजितवती। वामपक्षदलीयं सि पि ऐ स्थानाशिनं  सत्यन् मोकेरी वर्यमपेक्ष्य ४,१०,९३१ मतदानानां भूरिपक्षेण विजितवती। आहत्य कृतायाः मतदानसंख्यायाः ६५% भवत्येतत्। 

   प्रियङ्का गान्धी वर्यया ६,२२,३३८ मतेषु प्राप्तेषु सत्यन् मोकेरी २,११,४०७ मतदानानि प्राप्तवान्। भा ज पा स्थानाशिन्या नव्या हरिदासेन  केवलं १,०९९३९ मतानि प्राप्तानि। समर्पितशुल्कं विनष्टं च।

 महाराष्ट्रे एन् डि ए सख्यं, झार्खण्डे इन्डिया सख्यं च शासकपदं प्राप्नोति। 

नवदिल्ली> महाराष्ट्र-झार्खण्डराज्ययोः विधानसभानिर्वाचनस्य फले प्राप्ते महाराष्ट्रे एन् डि ए सख्यं २३६ स्थानानि विजित्य प्रशासनरूपीकरणाय अर्हतां प्राप। झार्खण्डे इन्डिया सख्यं ५६ स्थानानि विजित्य सर्वकारं विधास्यति।

 उत्तराखण्डराज्यस्य संस्कृत-अकादम्यायाः षोडशतममहोत्सवः सम्पन्नः।

वार्ताहरः - कुलदीपमैन्दोला

  उत्तराखण्डराज्यस्य संस्कृत-अकादम्या षोडशतममहोत्सवरूपेण राज्यस्तरीयसंस्कृतछात्रप्रतियोगितायाः आयोजनं कृतम्। शुक्रवासरे हरिद्वारे सम्पन्ने उद्घाटने मुख्यातिथिरूपेण मदनकौशिकेन, अध्यक्षरूपेण प्रो. प्रेमचन्द्रशास्त्रिणा च भागं गृहीतम्। ४५००० छात्राः ४००० शिक्षकाश्च विविधप्रतियोगितासु भागं स्वीकृतवन्तः। निर्णायकमण्डलेषु षोडशसंस्कृतविद्वांसः मूल्यांकनं कृतवन्तः।


     प्रतियोगितायाः उद्देश्यं - संस्कृतभाषायाः प्रचारं संवर्धनं, संस्कृतस्य व्यवहारिकभाषारूपेण स्थापनं च। मुख्यातिथिना भाषायाः महत्त्वं प्रतिपाद्य सर्वत्र संस्कृतशब्दानां प्रचलनाय आह्वानं कृतम्। सर्वेषां सहभागित्वेन संस्कृतस्य पुनरुज्जीवनाय अयं महोत्सवः प्रेरणादायकः इति प्रमाणितः।

Friday, November 22, 2024

 स्वस्य अन्त्यविश्रान्तिः वत्तिक्कानात् बहिः - मार्पापावर्यस्य अभिलाषः।


रोमः > स्वस्य अन्त्येष्टिकर्माणि कथं सारल्येन अनुष्ठीयानि इति विशदीकृत्य फ्रान्सिस् मार्पापावर्यः आराधनाक्रमग्रन्थं परिष्कृतवान्। मार्पापावर्येण एप्रिल् मासे अङ्गीकृतानि परिष्काराणि 'ओसेर्वत्तोरे रोमानो' इत्यस्मिन् वृत्तान्तपत्रे प्रसिद्धीकृतानि। 

  रोमनगरात् बहिः सान्तामरिया मागियोरे बसिलिकायां भविष्यति फ्रान्सिस् मार्पापावर्यस्य अन्त्यविश्रान्तिः। भूरिशः मार्पापावर्याः सेन्ट् पीटेर्से बसिलिका एव अन्त्यविश्रान्तिस्थानरूपेण आश्रितवन्तः। किन्तु २०२३ मध्ये मेक्सिकन् दूरदर्शनप्रणाल्यै दत्ते अभिमुखे वत्तिक्कानात् बहिः अन्त्यविश्रान्तिं कर्तुं  मार्पापावर्येण स्वस्य अभिलाषः प्रकाशितः। 

  तथा च समाजदर्शनाय उपयुज्यमानः शवमञ्चोSपि ऋजुरीत्या भवितव्या इति तेन अभिलषितम्।

 वार्तामुक्तकानि। 

दिल्यां सामान्यगमनागमनसुविधा उपयोक्तव्या। 

नवदिल्ली> नगरे वायुमलिनीकरणे अतिकठिने अनुवर्तमाने मलिनीकरणतीव्रताप्रशमनाय जनैः सामान्यगमनागमनसुविधा उपयोक्तव्या इति सर्वकारेण निगदितम्। निजीयसंस्थाभिः  बस् यानसेवामारभ्य वृत्तिकराणां स्वस्वयानोपयोगः न्यूनीकर्तव्यः। यानसम्मर्दम् अपाकर्तुं कार्यालयानां प्रवृत्तिसमयं परिष्कर्तुं निर्दिष्टम्। 

गोवायाम् अन्ताराष्ट्रचलच्चित्रोत्सवः समारब्धः। 

पनजी> ५५ तमः अन्ताराष्ट्रचलच्चित्रोत्सवः बुधवासरे तलेगावमध्ये  समारब्धः। कार्यक्रमे सत्यजितरायि आजीवनान्तपुरस्कारः ओस्त्रेलियनिदेशकाय फिलिप्स् नोय्स् वर्याय समर्पित‌ः। 'बेटर् मान्' इति आङ्गलेयचलच्चित्रम् उद्घाटनानन्तरं  प्रथमतया  प्रदर्शितम्। चलच्चित्रोत्सवः २८ तमे दिनाङ्के समाप्स्यते। 

सि बी एस् ई परीक्षाः फेब्रु. १५तः। 

नवदिल्ली> सि बी एस् ई संस्थया विधास्यमानाः १०, १२ कक्ष्याणां बोर्ड् परीक्षाः फेब्रुवरिमासस्य १५ तमदिनाङ्कतः आरप्स्यन्ते। दशमकक्ष्यापरीक्षाः मार्च् १८ तमे, १२ कक्ष्यापरीक्षाः एप्रिल् चतुर्थे च दिनाङ्के समाप्स्यन्ते। 

मेस्सिना सह अर्जन्टीनापादकन्दुकदलं केरले क्रीडिष्यति। 

अनन्तपुरी> विश्वपादकन्दुकवीरः  अर्जन्टीनीयदलः लयणल् मेस्सिना सह २०२५ तमे  केरलमागत्य एष्यन्दलेन सह  सौहृदस्पर्धां विधास्यतीति केरलसर्वकारेण निगदितम्। अस्य प्रक्रमाय अर्जेन्टीना पादकन्दुकसमित्याः अधिकारिणः मासद्वयाभ्यन्तरे केरलं सन्द्रक्ष्यतीति राज्यकायिकमन्त्रिणा वि अब्दुल् रहमानेन प्रस्तुतम्।

Thursday, November 21, 2024

 मतदानं - महाराष्ट्रे ५८%, झार्खण्डे ६८%।

नवदिल्ली> ह्यः सम्पन्ने विधानसभानिर्वाचने महाराष्ट्रे ५८% जनाः मतदानं कृतवन्तः। झार्खण्डे द्वितीयसोपाने  ६८% मतदायकाः स्वाधिकारं विनियुक्तवन्तः। 

  महाराष्ट्रे अस्मिन् वारे मतदानप्रतिशतता २०१९ तममपेक्ष्य न्यूना अभवदिति राजनैतिकदलेषु आशङ्का जनिता। २०१९ तमे ६१. ४४% आसीत् मतदानम्। 

  मतदानानन्तरं विधत्तायां  'एक्सिट् पोल्' प्रक्रियायां महाराष्ट्रे महायुति इति  एन् डि ए सख्याय विजयं प्रोच्यते। झार्खण्डे तु समस्थितिं च प्रोच्यते।

 वायुमलिनीकरणं - दिल्ल्यां सर्वकारसेवकानां गृहाधिष्ठितवृत्तिः।

नवदिल्ली> राजधानीनगरे वायुमण्डले अतितीव्रमालिन्यावस्थायाम् अनुवर्तिते राज्यस्य सर्वकारकार्यालयेषु ५०% सेवकेभ्यः गृहाधिष्ठितवृत्तिः [work from home] परिकल्पिता। किन्तु स्वास्थ्यविभागः, आरक्षकसेना इत्यादिषु मण्डलेषु व्यवस्थेयं नानुमोदिता। 

  गतदिने केन्द्रवायुमलिनीकरणनियन्त्रणसंस्थायाः सूचिकामनुसृत्य ४२६ भवति सूचकाङ्कनम्।

Wednesday, November 20, 2024

रामेश्वरं नगरे मेघविस्फोटः अभवत्। त्रिषु होरासु ३६२ मि.मी. वृष्टिः।

      रामेश्वरं नगरे मेघविस्फोटः अभवत्। त्रिषु होरासु ३६२ मि.मीट्टर् इत्समात् अधिका वृष्टिः जाता। उत्तरपूर्व-मौन्सूनस्य तीव्रतां प्राप्तेः अनन्तरं तमिलनाडुराज्यस्य दक्षिणजनपदेषु सर्वत्र वर्षाः  सन्ति। जलप्लावनं सुरक्षा-सम्बद्धानि च समस्याः दृष्ट्वा कतिपयेषु जनपदेषु विद्यालयेभ्यः अवकाशः घोषितः।

 राष्ट्रपतिः व्लादिमीर् पुतिनः भारतं संद्रष्टुम् आगमिष्यति।

    रष्यस्य राष्ट्रपतिः व्लादिमीर् पुतिनः भारतं संद्रष्टुम् आगमिष्यति। आगमनस्य तिथिः शीघ्रं ज्ञापयिष्यते। गत-जुलैमासे मोस्कौ नगरे मोदी-पुतिनयोः संभाषणसमये, प्रधानमंत्रिणा नरेन्द्रमोदिना रष्यस्य राष्ट्रपतिः भारतं प्रति आमन्त्रितः।

     अस्य महोदयस्य भारतसन्दर्शनेन दीर्घकालीनसहकारस्य दृढीकरणाय अत्यन्तं महत्त्वपूर्णः सन्दर्भः भविष्यति। रष्य-युक्रेनयोः मध्ये जातस्य युद्धस्य आरम्भानन्तरं प्रथमवारम् एव भवति पुतिनः भारतसन्दर्शम्।