OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, November 20, 2024

 वार्तामुक्तकानि।

'अपो‌ः दुर्गायै' स्मरणाञ्जलिः। 

कोल्कोत्ता>  विख्यातभारतीयचलच्चित्रकारस्य सत्यजित रायिवर्यस्य अतिश्रेष्ठचित्रं 'पथेर् पाञ्जलि' इत्यस्मिन् दुर्गानामकं कथापात्रं अनश्वरतां कृतवती उमादास् गुप्ता [८४] दिवंगता। बिभूतिभूषण बन्दोपाध्यायस्य 'पथेर् पाञ्जलि' इत्याख्यायिकायाः चलच्चित्राविष्कारे अपुः दुर्गा इति सोदरौ अद्यापि चलच्चित्रप्रणयिनां मनसि जीवतः। 

केरल विद्यालयशास्त्रोत्सवः - मलप्पुरं प्रथमस्थानं प्राप।

आलप्पुष़ा> केरल विद्यालयशास्त्रोत्सवे मलप्पुरं जनपदं १४५० अङ्कान् प्राप्य वीरतापदं  प्राप। १४१२ अङ्कैः कण्णूर्, १३५३ अङ्कैः कोष़िक्कोट् जनपदे यथाक्रमं द्वितीयं तृतीयं च स्थानं प्राप्नतुः।

झार्खण्डे महाराष्ट्रे च अद्य निर्वाचनम्। 

नवदिल्ली> झार्खण्डे महाराष्ट्रे च अद्य विधानसभानिर्वाचनं विधास्यति। महाराष्ट्रे २८८ अङ्गयुक्तसभां प्रति एकेनैव चरणेन मतदानं सम्पत्स्यति। झार्खण्डे अद्यतने द्वितीये तथा अन्तिमचरणे ३८ मण्डलेषु मतदानं भविष्यन्ति।

   चतुर्षु राज्येषु १५ स्थानेषु उपनिर्वाचनमपि अद्यैव विधास्यति। सर्वत्र मतगणना २३ तमे दिनाङ्के सम्पत्स्यति। 

मावोवादिनेता विक्रमगौडः व्यापादितः। 

मङ्लुरु> केरलमभिव्याप्य मावोवादिनां कृते सायुधपरिशीलनं क्रियमाणानां मुख्यनेता विक्रमगौडः [४६] नक्सल् विरुद्धसेनया हतः। सोमवासरे कार्कला इत्यत्र हेब्रि पीतबैलु वने आसीत् प्रतिद्वन्द्वः आपन्नः। अन्ये चत्वारः व्रणिताः सन्तः वनान्तर्भागं रक्षां प्राप्ताः।

Tuesday, November 19, 2024

 मणिप्पुरे अशान्तिरनुवर्तते।

+ गोलिकास्त्रप्रयोगे एकः मृतः।

+ केन्द्रसेनायाः ५० संघाः नियुक्ताः।

+ प्रकरणानि एन् ऐ ए अन्वेक्ष्यति। 

+ अष्ट भाजपा नेतारः पदं त्यक्तवन्तः। 

इम्फालः> संघर्षेण मणिप्पुरे सप्ताहं यावत्  अशान्तिरनुवर्तते। संघर्षप्रशमनाय केन्द्रसर्वकारेण  सायुधसेनायाः ५० संघाः [Company] अपि नियुक्ताः। गृहमन्त्रिणः अमित शाहस्य नेतृत्वे उच्चस्तरीयमेलनं संवृत्तम्। 

  गतरात्रौ जिरिबामजनपदे आक्रमणोत्सुकान् जनान् विरुद्ध्य सुरक्षासेनया कृतेन गोलिकाशस्त्रप्रयोगेन एकः हतः।

 एतत्घटनायाः आधारेण प्रतिषेधं कृतवद्भिः  जनैः कोणग्रस भाजपादलयोः कार्यालयाः विनाशीकृताः। 

  मुख्यमन्त्री  एन् बीरेन सिंहः संघर्षं शमयितुं पराजिवान् इत्यारोप्य ८ भाजपादलनेतारः स्थानं त्यक्तवन्तः।

 नैजीरिया राष्ट्रपतिना सह मोदिनः मेलनं सम्पन्नम्। 

अबुजा> त्रिराष्ट्रपर्यटनस्य अंशतया नैजीरियां प्राप्तः भारतप्रधानमन्त्री नरेन्द्रमोदी तद्राष्ट्रस्य राष्ट्रपतिः बोला अहम्मद टिनुबु इत्यनेन सह मेलनं कृतवान्। व्यापारः, निक्षेपः, डिजिटल् क्षेत्रं, आधारसुविधाविकासः इत्यादिषु मण्डलेषु मिथः सहयोगं प्रबलीकर्तुं चर्चा सम्पन्ना। 

  रविवासरस्य प्रत्युषसि राजधानीम् अबुजां प्राप्ताय नरेन्द्रमोदिने मन्त्रिणः नैसोम् एसन्वो इत्यस्य नेतृत्वे उज्वलं स्वीकरणं दत्तम्। नैजीरियाजनतायाः विश्वासस्य आदरस्य च प्रतिरूपेण मोदिने 'अबुजायाः कुञ्चिका' उपहारत्वेन समर्पिता।

Monday, November 18, 2024

 द्विदिवसीयसंस्कृतछात्रप्रतियोगिता: सम्पन्ना: 

वार्ताहरः - कुलदीप मैन्दोला -

  उत्तराखण्डसंस्कृत-अकादमी सम्पूर्णे राज्ये द्विदिवसीयसंस्कृतछात्रप्रतियोगितानाम् आयोजनं कृतवती।

   प्रतियोगितायाः उद्घाटनसन्दर्भे भाषमाणया श्रीमतीरञ्जनारावतवर्यया उक्तं यत् एतादृश्याः स्पर्धाः  संस्कृतस्य प्रचारार्थं अस्माकं सहायतां करिष्यन्ति छात्राः एतादृशैः कार्यक्रमैः एव संस्कृतभाषणस्य अभ्यासं कर्तुं शक्नुवन्ति यतोहि एतत् अस्माकं भारतीयसभ्यतायाः संस्कृते: च मूलं विद्यते। प्रतियोगितामाध्यमेन संस्कृतं , तेन वसुधैवकुटुम्बकं प्रति प्रेरणा- "विधायक: महन्त् दिलीपरावत् "सरस्वतीशिशुविद्यामन्दिरजानकीनगरे द्वितीयदिने च वरिष्ठवर्गप्रतियोगिता: आयोजिता: अभवन्। 

  उद्घाटनकार्यक्रमे लैंसडौनविधायक: महन्त् दिलीपरावत्  प्रतिभागं कृतवान् । मुख्यातिथिरूपेण

 भारतात् अमेरिका यात्रा - यात्रायाः समयः केवलं ३० निमेषाः;

यात्रायै एलोनमस्कस्य 'स्टारशिप्' नामकम् अतिवेगयानम्।

    अमेरिकायाः प्रवासिजनेभ्यः भारतं प्रति आगमनाय २० होरायाः अधिकः समयः आवश्यकः अस्ति। किन्तु सा यात्रा केवलम् एका घटिकायाः अधः भवेत् चेत्? इयम् एलोनमस्कस्य नवीनाः योजनायाः उद्देश्यः इति प्रतिवेदितम्। मस्कस्य स्पेस् एक्स् परियोजनायाः कृते 'स्टारशिप्' नामकं अतिवेगयानं योजना बद्धाम् अस्ति।

     दशवर्षेभ्यः पूर्वम् एलोनमस्कः 'स्टार्शिप् रोकट्' इति आशयं प्रकटितवान्। जगति सर्वाधिकवेगयुक्तं यात्रा-साधनं भवेदिति लक्ष्यं तेन स्थापितम्। प्रतिवेदनानुसारम् एतत् साधनं १००० यात्रिकान् वोढुं समर्थं

 युक्रैने रष्यायाः आग्नेयास्त्रवर्षः - अष्ट मरणानि। 

कीव्> रूस-युक्रैनयुद्धे सहस्रदिनानि अतीते रष्यया कृते आग्नेयास्त्राक्रमणे अष्ट जनाः हताः। विंशत्यधिके जनाः व्रणिताश्च। मासत्रयाभ्यन्तरे रष्यायाः महदाक्रमणं भवत्येतत्। 

  गतदिने युक्रैनस्य ऊर्जनिलयान् लक्ष्यीकृत्य १२० मिसैलशस्त्राणि ९० ड्रोण् आयुधानि च रष्यया विक्षिप्तानि। तेषु १४० शस्त्राणि प्रतिरुद्धानीति युक्रेनेन अभिमानितम्। 

  २०२५ तमे वर्षे डोनाल्ड ट्रम्पस्य प्रक्रमेण युद्धस्य परिसमाप्तिः भवेदिति गतदिने युक्रेनस्य राष्ट्रपतिः व्लोदिमर् सेलन्स्की प्रत्याशां प्रकटयन्नासीत्।

 भारतस्य 'हैपर्सोणिक्' आग्नेयास्त्रविक्षेपः विजयीभूतः। 

भारतस्य हैपर्सोणिक् मिसैल् शस्त्रस्य विक्षेपवेलायाम्। 

नवदिल्ली> भारतेन स्वदेशीयतया विकसितस्य शब्दातिशीघ्र आग्नेयास्त्रस्य परीक्षणविक्षेपणं विजयकरमभवत्। ओडीशातीरसमीपे डो ए पि जे अब्दुल् कलामद्वीपात् शनिवासरे आसीत् विक्षेपः। अमुं विजयं 'विस्मयजनकं' 'चरित्रनिमेषः' इति च रक्षामन्त्री राजनाथसिंहः  प्राशंसत। 

  शब्दात् पञ्चगुणितवेगयुक्तमिदम् मिसैल् शस्त्रं १५०० अधिककिलोमीटर् दूरगामी आणवायुधमभिव्याप्य परम्परागतायुधान्यपि वोढुं शक्तमस्ति। 

  हैदराबादस्थं डो ए पि जे अब्दुल् कलां मिसैल् कोम्प्लक्स् तथा डि आर् डि ओ संस्थायाः विविधकेन्द्राणि च मिलित्वा अस्ति एतत् 'दीर्घदूर हैपर् सोणिक् मिसैल् शस्त्रं' भारतेन साक्षात्कृतम्।

Sunday, November 17, 2024

 वार्तामुक्तकानि।

केरलविद्यालयशास्त्रोत्सवः - मलप्पुरं अग्रे। 

आलप्पुष़ा>  केरले राज्यस्तरीयशास्त्रोत्सवे नवंनवाशयानां  कौमारप्रतिभाविलासः। शास्त्र-सामूहिकशास्त्रमण्डले नूतनानामाशयानामवतरणं जनान् हठादाकर्षन्ति। तत्समयनिर्माणप्रवर्तनेष्वपि छात्राः स्वकीयप्रतिभां प्रकटयन्ति।

 द्वितीये दिने मलप्पुरं जनपदं प्राप्त्यङकावल्याम् अग्रे वर्तते। द्वितीयस्थाने तृश्शूर्, तृतीये कण्णूर च।  

प्रधानमन्त्रिणः विदेशसन्दर्शनम् आरब्धम्। 

नवदिल्ली> नैजीरिया, ब्रसील्, गयाना इत्येतेषु  राष्ट्रेषु औद्योगिकसन्दर्शनाय प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे प्रस्थितः। नैजीरिया, गयाना राष्ट्रे प्रति मोदिनः प्रथमयात्रा भवत्येतत्। ब्रसीले १९ तमे जि उच्चशिखरसम्मेलने अपि प्रधानमन्त्री भागं करिष्यति। 

१४४० पुरावस्तूनि यू एस् भारताय प्रतिददाति। 

न्यूयोर्क्> भारतात् तस्करैः नीतानि एककोटिडोलर् मूल्ययुतानि १४४० पुरावस्तूनि  यू एस् राष्ट्रेण प्रत्यानीयन्ते। मध्यप्रदेशस्थमन्दिरात् अपहृतं देवविग्रहं, राजस्थानीयग्रामेभ्यः चौरीकृतानि शिल्पानि च एतेषु अन्तर्भवन्ति।

 उत्तरप्रदेशे आतुरालये अग्निबाधा - 

दश नवजातशिशवः दग्धाः ; १६ शिशवः तीव्रावस्थायाम्।

*अनुवैद्यायाः अग्निपेटिकाज्वालनोद्यमः हेतुरिति दृक्साक्षी।

*शिशून् प्रत्यभिज्ञातुमशक्ताः  रक्षितारः। 

नवदिल्ली> उत्तरप्रदेशस्थे झान्सी महाराणी लक्ष्मीभायि आतुरालये दुरापन्नायाम् अग्निबाधायां १० नवजातशिशवः मृताः। अग्निदीप्त्या कठिनावस्थायां प्राप्ताः १६ शिशवः परिचर्यायां वर्तन्ते। 

  विद्युतः 'विकलचङ्क्रमण'मेव [Short circuit] कारणमिति उच्यतेSपि शिशुप्रकोष्ठे वायुकोशस्य नालिकायोजनाय अग्निपेटिकां ज्वालयितुम् अनुवैद्यया उद्यमः कृतः, स एव कारणमिति दृक्साक्षिभिः उक्तम्। 

  प्रत्युत, मृताः परिचर्यायां वर्तमानाः च शिशवः कस्य कस्य इति प्रत्यभिज्ञातुं सन्दिग्धता वर्तते। मृतेषु सप्त शिशवः प्रत्यभिज्ञाताः। शिशूनां शरीरे घटितानि अभिज्ञानपत्राणि दग्धानि अभवन्। 

  दुर्घटनायाम् उच्चस्तरीयान्वेषणाय मुख्यमन्त्रिणा योगी आदित्यनाथेन आदेशः दत्तः। मृतानां व्रणितानां च शिशूनां परिवाराणां कृते राज्य-केन्द्रसर्वकाराभ्यां साह्यधनम् अनुमोदितम्।

 मणिप्पुरे पुनरपि संघर्षाग्निः। 

मणिप्पुरसंघर्षे वाहनानि अग्निसात्कुर्वन्ति।

# अदृष्टानां मृतशरीराणि दृष्टानि। 

# मन्त्रिभवनानि आक्रमितानि।

# इम्फाल् अधित्यकायां निरोधनाज्ञा। 

इम्फाल्> मणिप्पुरे पुनरपि संघर्षाग्निः व्याप्यते। आपद्समाश्वासशिबिरात् सायुधसंघेन अपहृतानां षण्णां मृतशरीरेषु अधिगतेषु एव व्यापकतया अक्रमाः संवृत्ताः। 

  अक्रमकारिणः इम्फाले द्वे मन्त्रिभवने त्रीणि सदस्यभवनानि च अक्रमविधेयानि अभवन्। उपकरणानि विनाशितानि दग्धानि च। पूर्वीयजनपदेषु अनिश्चितकालीया निरोधनाज्ञा प्रख्यापिता। सप्तजनपदेषु अन्तर्जालसुविधा छेदिता। 

  तत्रान्तरे मणिप्पुरे गृहशान्तिं पुनःस्थापयितुं सुरक्षासेनायै केन्द्रगृहमन्त्रालयेन निर्देशः दत्तः।