OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, November 16, 2024

 भारत-दक्षिणाफ्रिक्का टि-२० 

परम्परा भारतेन विजिता।

अन्तिमस्पर्धायां सञ्जु सांसणः तिलक वर्मा च शतकं प्राप्तवन्तौ। 

तिलक वर्मा सञ्जु सांसणश्च क्रीडामध्ये। 

जोहनासबरगः> पुनरपि वीर्यं प्रदर्शितवतः सञ्जु सांसणस्य तिलक वर्मणः च अत्यद्भुतकरे कन्दुकताडने भारतस्य १३५ धावनाङ्कानाम् अत्युज्वलविजयः। अद्य प्रत्युषसि समाप्ते चतुर्थे अन्तिमे च प्रतिद्वन्द्वे भारतेन क्रीडकस्यैकस्य विनष्टे २० क्षेपणचक्रैः २८३ धावनाङ्काः प्राप्ताः। 

  सञ्जु सांसणः १०९ धावनाङ्कान् तिलक वर्मा १२० धावनाङ्कान् च सम्पाद्य अचञ्चलौ अतिष्ठताम्। तृतीये प्रतिद्वन्द्वे शून्यप्राप्त्या बहिर्नीतः सञ्जुः  अन्तिमे गम्भीरं प्रत्यागमनमेव कृतम्। ५६ कन्दुकेभ्यः ९ षट्कानि ६ चतुष्काणि चाभिव्याप्य १०९   [अबाह्यः] धावनाङ्कान् सः सम्प्राप्तवान्। तिलकवर्मा तु अनुस्यूते द्वितीयप्रतिद्वन्द्वे च शतकं प्राप्तवान्। ४७ कन्दुकेभ्यः १० षट्कानि ९ चतुष्काणि च प्राप्यैव १२० धावनाङ्कान् सम्पाद्य अबाह्यः अभवत्। 

   स्पर्धायाः द्वितीयचरणे कन्दुकताडनमारब्धवता  दक्षिणाफ्रिक्कादलेन १८. ५ क्षेपणचक्रेषु १३५ धावनाङ्कान् सम्पाद्य सर्वे बहिर्नीताः। अनेन स्पर्धाचतुष्टये तिस्रः विजित्य भारतं परम्परां प्राप।

 वार्तामुक्तकानि।

अदृष्टाः नाधिगताः - मणिप्पुरे प्रतिषेधाग्निः। 

चुराचान्दपुरं> सुरक्षासेनया सह प्रतिद्वन्द्वे हतानां नीतिर्लभ्यः इत्याहूय मणिप्पुरे चुराचान्दपुरं, काङ्पोक् पि, मोरे जनपदेषु कुक्किसंघटनेन प्रतिषेधसञ्चलनं विधत्तम्। प्रतिद्वन्द्वावसरे अप्रत्यक्षाः त्रयः महिलाः बालकाश्च इतःपर्यन्तं नाधिगताः। एते  अपहृताः इति आरोप्यते। जिरिबामजनपदे सोमवासरे प्रवृत्ते भुषुण्डिप्रयोगे १० जनाः मृताः आसन्।

गुजराते ७०० किलोमितानि उन्मादकवस्तूनि गृहीतानि। 

नवदिल्ली> गुजराते सागरतीरे उन्मादकनियन्त्रणविभागः, भीकरविरुद्धसंघः इत्येतयोः युगपदन्वेषणेन ७०० किलोमितानि 'मेत्तांफेटामैन्' इति उन्मादकवस्तूनि गृहीतानि। इरीनायाः इति कथ्यमानाः अष्ट जनाः निगृहीताः। 'सागर मन्तन् -४' इतिकृतनामधेये क्रियाकलापे आसीदन्वेषणम्। अन्ताराष्ट्रियविपण्यां किलोमिताय कोटिद्वयरूप्यकाणां मूल्ययुक्तमस्ति निगृहीतं उन्मादकमिति अधिकारिभिः निगदितम्। 

श्रीलङ्कायां संसदि दिसनायकपक्षस्य विजयः।

कोलम्बो> गुरुवासरे सम्पन्ने संसद् निर्वाचने राष्ट्रपतेः अनुर कुमार दिसनायकस्य एन् पि पि सख्यस्य महान् विजयः। २२५ अङ्गयुक्तायां संसदि १५९ स्थानानि एन् पि पि सख्येन प्राप्तानि। अन्तिमफलं न लब्धम्। 

केन्नडि जूनियर् यू एसे स्वास्थ्यमन्त्री। 

वाषिङ्टणः> वाक्सिनविरुद्धः इति ख्यातः रोबर्ट एफ् केन्नडि जूनियर् इत्यमुं अमेरिकायाः आगामि स्वास्थ्यकार्यदर्शिरूपेण नियुक्तराष्ट्रपतिना  डोनाल्ड ट्रम्पेन नियुक्तः। एषः भूतपूर्वराष्ट्रपतेः जोण् एफ् केन्नडेः सोदरः भूतपूर्व‌ः अटोर्णी जनरल् पदीयः रोबर्ट एफ् केन्नडि इत्यस्य पुत्रो भवति।

Friday, November 15, 2024

 वार्तामुक्तकानि। 

केरलराज्यस्तरीय‌ः शास्त्रोत्सवाय अद्य शुभारम्भः।

आलप्पुष़ा>  केरलस्य  कौमारशास्त्रकुतुकिनां परीक्षणनिरीक्षणाय अद्य आरभ्य आलप्पुष़ाजनपदं वेदिका भविष्यति। केरलविद्यालय शास्त्रोत्सवः 'वोकेषणल् एक्सोपो' नामकप्रदर्शनं च अद्य सायं  मुख्यमन्त्रिणा पिणरायि विजयेन उद्घाट्यते। 

शबरिगिरिमन्दिरम् अद्य उद्घाट्यते। 

पत्तनंतिट्टा>  मण्डलकालतीर्थाटनाय शबरिगिरि धर्मशास्तामन्दिरं शुक्रवासरे सायम् उद्घाट्यते।   शनिवासरे प्रत्युषसि त्रिवादने   मन्दिरस्य मुख्यार्चकेन गर्भगृहस्य कवाटे उद्घाटिते मण्डलकालतीर्थाटनस्य शुभारम्भो भविष्यति। 

कल्पात्ति देवरथसङ्गमम् अद्य। 

पालक्काट्>  अद्य तुलामासपौर्णमिसन्ध्यायां केरले पालक्काट् कल्पात्तिस्थेषु अग्रहारवीथिषु रथोत्सवस्य अंशतया देवरथसङ्गमं सम्पत्स्यते। तमिलनाटस्थे मायावरस्थाने मयूरनाथस्य रथोत्सवस्य स्मरणायामेव कल्पात्त्यामपि देवताः रथारोहणं कृत्वा अग्रहारवीथीम् आनयति। रथोत्सवस्य तृतीयदिने अद्य षण्णां रथानां सङ्गमं सम्पद्यते। 

पिनाक आयुधसंविधानस्य परीक्षणं विजयप्रदम्। 

नवदिल्ली> भारतस्य अनेकलक्ष्यवेधी अग्निबाणविभागे अन्तर्भूतं पिनाकनामकस्य आयुधस्य परीक्षणडयनं विजयकरमभवत्। राष्ट्रस्य प्रतिरोधगवेषणविकसनस्स्था  डि आर् डि ओ इत्यनेन साक्षात्कृतमायुधं भवति पिनाकः।

 मोदिने डोमिनिकाराष्ट्रस्य परमोन्नतबहुमतिः।


नवदिल्ली> भारतस्य प्रधानमन्त्रिणे नरेन्द्रमोदिने कोमण्वेल्त् ओफ् डोमिनिका इति करीबियनराष्ट्रस्य परमोन्नतबहुमतिः। कोविड्काले डोमिनिकायै भारतेन दत्तं साहाय्यं सहयोगं च पुरस्कृत्य एव बहुमतिः दीयते इति प्रधानमन्त्रिणः कार्यालयेन निगदितम्। कोविड्व्यापनकाले डोमिनिकायै ७०,००० डोसमितं वाक्सिनं दत्तमासीत्।

Thursday, November 14, 2024

 वार्तामुक्तकानि।

सामन्ता हार्वी बुक्कर् पुरस्कारजेत्री। 

लण्टनं> २०२४ तमवर्षस्य बुक्कर् पुरस्काराय ब्रिटीशसाहित्यकारी सामन्ता हार्वी चिता। षट् बहिराकाशयात्रिकाणां अन्ताराष्ट्र बहिराकाशनिलये एकदिनाख्यानं कृता 'ओर्बिटल्' नामिका आख्यायिका एव पुरस्कारार्हा अभवत्। 

श्रीलङ्कायामद्य संसद् निर्वाचनम्। 

कोलम्बो>  आर्थिकसङ्कटात् रक्षां प्राप्तुं क्लेशमनुभूयमानायाम् श्रीलङ्कायाम् अद्य संसद् निर्वाचनं प्रचलति। २२५ अङ्गयुक्तां संसदं प्रति आनुपातिकप्रातिनिध्यप्रकारेणैव अङ्गानां चयनम्। ११३ स्थानानीति न्यानातिन्यूनभूयिष्ठसंख्यां लब्धुं तीव्रपरिश्रमे लग्नः अस्ति राष्ट्रपतिः अनुर कुमार दिशनायकः तस्य दलं च। 

उत्तरभारते शैत्यस्य आगमनं विज्ञातं; दिल्ल्यां वायुः आपच्छङ्कायामेव।

नवदिल्ली> विलम्बेनापि उत्तरभारते शीतकालस्य आरम्भः जातः। बुधवासरस्य उषःकालः दिल्ल्यां शीतयुक्त आसीत्। विमाननिलये दृश्यविघातः हिमावरणः अनुभूतः। दिल्ल्यां पञ्चाबे च विमानसेवायां प्रतिबन्धो जातः। रविवासरतः शीतः वर्धते इति पर्यावरणविभागस्य सूचना अस्ति। 

   प्रत्युत, दिल्ल्यां वायोः शुद्धता भीतावस्थायामनुवर्तते। छात्राणां स्वास्थ्यमालक्ष्य पञ्चमीकक्ष्यापर्यन्तं विरामः प्रख्यापितव्य इति भाजपा दलेन निर्दिष्टम्।

 वयनाट्, चेलक्करा उपनिर्वाचनं शान्तिपूर्णं; मतदाने महदाकुञ्चनम्। 

वयनाट् - ६४. ७१%, चेलक्करा - ७२. ७७%।

कोच्ची> केरले वयनाट् लोकसभामण्डले तथा चेलक्करा विधानसभामण्डले च ह्यः सम्प्रवृत्तम् इपनिर्वाचनद्वयमपि शान्तिपूर्णं सम्पन्नम्। किन्तु अतीतनिर्वाचनमपेक्ष्य मतदाने महदाकुञ्चनम् अभवदित्यतः राजनीतिदलानि आशङ्कायां वर्तन्ते। 

  वयनाट् मण्डले २०२४ एप्रिल् मासे सम्पन्ने निर्वाचने ७३. ५७% मतदानं कृतमासीत्। अद्यत्वे तु ६४. ७१% जनाः मतदानं कृतवन्तः। चेलक्करायां तु २०२१ तमे ७७. २८ % मतदाने सम्पन्ने अस्मिन्नुपनिर्वाचने ७२. ७७ इति न्यूनीकृतम्। मतदाने संवृत्तम् एतदाकुञ्चनं कस्य राजनैतिकदलस्य प्रतिकूलाय भविष्यतीति नेतारः आशङ्कायां वर्तन्ते।

 भारतीयगणिते साप्ताहिकी  राष्ट्रियसङ्गोष्ठी समारब्धा। 

CSU कुलपतिः प्रोफ. जुनैद भूसुरिः उद्घाटन करोति।

इरिङ्ङालक्कुटा> गणितशास्त्रे भारतीयसिद्धान्तमधिकृत्य सप्तदिवसात्मिका राष्ट्रियसङ्गोष्ठी तृश्शूरजनपदस्थे पावरट्टिस्थाने ए टि कुरियाकोस् स्मृतिभवने समारब्धा। केन्द्रीयसंस्कृतविश्वविद्यालयस्य [CSU] गुरुवायूर् परिसरस्य  अधीशत्वे पावरट्टि ए टि कुरियाकोस् स्मृतिभवनस्य, इरिङ्ङालक्कुटस्थाने वर्तमानस्य माधवगणितकेन्द्रस्य च संयुक्त सहयोगेन नवम्बर् ११ तमदिनाङ्कतः १७तमदिनाङ्कपर्यन्तं सङ्गोष्ठी प्रचलति। 

  भारतीयगणितशास्त्रस्य आधारतत्वानाम् आशयानां च परिचायनं, भारतीयगणितशास्त्रज्ञानां योगदानं, विश्ववैज्ञानिकक्षेत्रे भारतीयपारम्पर्यमित्यादीनि अस्य कार्यक्रमस्य मुख्योद्देश्यानि भवन्ति। 

  ११ तमे दिने सम्पन्ने कार्यक्रमे कोच्ची शास्त्रसाङ्केतिक विश्वविद्यालय [CUSAT] कुलपतिः प्रोफेसर एम् जुनैद् भूसुरिः सङ्गोष्ठीपरम्पराया‌ः उद्घाटनमकरोत्। CSU गुरुवायूर् परिसरस्य निदेशकः प्रोफेसर के के षैन् वर्यः अध्यक्षपदमलङ्कृतवान्। माधवगणितकेन्द्रस्य निदेशकः ए विनोदः, पावरट्टि केन्द्रस्य निदेशकार्यवाहः प्रोफेसर के विश्वनाथः इत्यादयः आशंसां समर्पितवन्तः।

Wednesday, November 13, 2024

 वयनाट् चेलक्करा मण्डलद्वये जनविधिः अद्य। 

कोच्ची>  केरले वयनाट् लोकसभामण्डले चेलक्करा विधानसभामण्डले च अद्य उपनिर्वाचनं प्रचलति। वयनाट् विना राय्बरेली  मण्डलेSपि चितेन कोण्ग्रस् नेता राहुल गान्धिना वयनाटमण्डलं निरस्तमित्यत एव वयनाटे उपनिर्वाचनं विहितम्। इदानीं तत्र कोण्गसः अखिलभारतीयनेत्री तथा राहुलस्य सोदरी च प्रियङ्का गान्धी स्पर्धते। 

  चेलक्करा मण्डलस्य सदस्यः के राधाकृष्णः ओट्टप्पालं मण्डलात् लोकसभां नीतः इत्यतः उपनिर्वाचनं विहितम्।

 झार्खण्डे विधानसभानिर्वाचनस्य प्रथमसोपानम् अद्य। 

१० राज्येषु ३१ मण्डलेषु उपनिर्वाचनमपि अद्यैव।

नवदिल्ली> झार्खण्डराज्यस्य  ४३ विधानसभामण्डलेषु अद्य निर्वाचनं सम्पद्यते। पञ्च मन्त्रिणः अभिव्याप्य ६८३ स्थानाशिनः अद्य जनविधिं काङ्क्षन्ते। तेषु प्रमुखः भूतपूर्वः मुख्यमन्त्री चम्पाय् सोरनः भवति। जे एम् एम् दलं परित्यज्य भा ज पा दलीयरूपेण अस्ति तस्य स्थानाशित्वम्। तस्य प्रतियोगी तु गतवारे भा ज पादलस्थानाशित्वेन स्पर्धितवान् गणेशमहाली अस्ति! 

  झार्खण्डं विना दशसु राज्येषु ३१ विधानसभामण्डलेष्वपि उपनिर्वाचनानि अद्य सम्पद्यन्ते। प्रभाते सप्तवादनतः सायं  षट्वादनपर्यन्तं मतदानप्रक्रिया भविष्यति। मतगणना २३ तमे दिनाङ्के सम्पत्स्यते।

Tuesday, November 12, 2024

 सुन्दरस्तोत्रोच्चारणस्य आदर्शभूतं दृश्यश्रव्यसौन्दर्यम् ।

 उदाहरणार्थं एकांशः प्रदर्श्यते।


©