OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
marquee
Wednesday, October 9, 2024
जम्मु काश्मीरे कोण्ग्रस् नेतृत्वे 'इन्डिया' सख्यस्य विजयः।
श्रीनगरं> 'त्रिशङ्कुसभां' प्रवाचिते जम्मु काश्मीरे तस्य विरुद्धतया नाषणल् कोण्फ्रन्स् - कोण्ग्रस् सख्यस्य महान्विजयः। आहत्य ९० मण्डलेषु इन्डिया सख्यं ४९ मण्डलेषु विजयीभूतम्। नाषणल् कोण्फ्रन्स् दलेन ४२ स्थानानि, कोण्ग्रसेन ६ स्थानानि, सि पि एम् दलेन एकं स्थानं च प्राप्तानि।
भाजपा दलेन २९ स्थानानि प्राप्तानि। गतवारात् ४ स्थानानि अधिकतया प्राप्तानि।
हरियाने भाजपा दलस्य अनुस्यूततया तृतीयवारम्।
नवदिल्ली> राज्यविधानसभां प्रति सम्पन्नस्य निर्वाचनस्य मतगणने परिसमाप्ते भाजपदलस्य पुनरपि विजयः। आहत्य ९० स्थानेषु भाजपादलेन ४८ स्थानानि प्राप्तानि। विजयप्रतीक्षां प्रकटितेन कोण्ग्रस् दलेन ३७ स्थानानि विजितानि। ऐ एन् एल् डि दलेन स्थानद्वयमुपलब्धम्। अन्यैः त्रीणि स्थानानि प्राप्तानि।
Tuesday, October 8, 2024
मणिप्पुरे आयुधसञ्चयः अधिगतः।
इम्फाल्> मणिप्पुरस्थे कक्चिङ्, तौबल् इत्येतयोः जनपदयोः सुरक्षासेनया कृते अन्वेषणे भुषुण्डयः, स्फोटकवस्तूनि इत्यादीनि आयुधानि अधिगतानि। ४ भुषुण्डयः, १५ ग्रनेट् स्फोटकानि, ४. ७५ किलो परिमितानि स्फोटकवस्तूनि इत्यादीनि अधिगते आयुधसञ्चये अन्तर्भवन्ति।
गते शनिवासरे तौबलजनपदे चिङ्खं चिङ् इत्यत्र कृते अन्यस्मिन् अन्वेषणे नालिकाशस्त्राणि, अश्रुवातकस्फोटकाः इत्यादीनां सञ्चयः अधिगतः आसीत्।
वैद्यशास्त्रनोबेल् पुरस्काराय द्वौ अर्हतः - विक्टर् अम्ब्रोसः, गारि रव्कनः च।
स्टोक् होमः> अस्य संवत्सरस्य वैद्यशास्त्रनोबेल् पुरस्कारः अमेरिकीयौ शास्त्रज्ञौ विक्टर् अम्ब्रोसः [७०], गारि रव्कनः [७२] च विभज्य स्वीकरिष्यतः। 'मैक्रो आर् एन् ए' इत्यस्य अधिगमनं, प्रोटीनस्य उद्पादने जनितकस्य प्रवर्तनं नियन्त्रणं च इत्येतत् प्रकरणद्वयमेव तयोः पुरस्कारकारणमभवत्।
कुम्भमेलनं पलास्तिककमुक्तं कर्तुं कृत्रिमबुद्धि-तन्त्रज्ञानं, ७०० वैद्युतिक-यानानि च; कुम्भमेलनस्य चिह्नं योगिना आदित्यनाथेन प्रकाशितम्।
उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः प्रयागराजे कुम्भमेलनस्य सिद्धीनाम् अवलोकनं कृतवान्। महाकुम्भः २०२५ इत्यस्य चिह्नं (logo) रविवासरे उदघाटयत्। तेन अन्तर्जालदृश्यपुटस्य तथा एप् सुविधयायाः अपि लोकार्पणं कृतम्। अपि च महोदयेन कुम्भमेलनस्य सिद्धीनां प्रगति: अधिकारिभिः सह चर्चिता, मुख्येषु स्थलेषु स्थलीयनिरीक्षणं च कृतम्। कुम्भमहोत्सवः २०२५ तमस्य जनवरी-मासस्य १४ दिनाङ्कात् फेब्रुवरी-मासस्य २६ दिनाङ्कपर्यन्तं
Monday, October 7, 2024
राष्ट्रे पञ्चसु राज्येषु एन् ऐ ए- अकस्मात् अन्वेषणं प्रचलति।
आतङ्कवाद-संबन्धं आशङ्क्य राष्ट्रस्य पञ्चसु राज्येषु राष्ट्रिय-अन्वेषण-कार्यालयस्य (NIA) आकस्मिकम् अन्वेषणं प्रचलति। जम्मु-कश्मीरे, महाराष्ट्रे, उत्तरप्रदेशे, असमे, दिल्ल्यां च द्वाविंशति स्थलेषु अन्वेषणं प्रवर्तमानं वर्तते। आतङ्कवाददलस्य जैष्-ए-महम्मद-संबन्धं शङ्कित्वा भवति इदं आकस्मिकम् अन्वेषणम्। महाराष्ट्रस्य मालेगाव-नगरे एका होमियो-औषधालये अपि एनआइए- अन्वेषणम् अभवत्। आतङ्कवाद-संबन्धम् आशङ्क्यमानाः सप्त जनाः अस्मिन् अन्वेषणे गृहीताः इति वार्ताः प्राप्ताः। पाकिस्थानम् आधारं कृत्वा स्थितः आतङ्कवाद-दलः भवति जैष्-ए-महम्मद् ॥
©®
महिला टि - २० विश्वचषकः
पाकिस्थानं विरुध्य भारतस्य विजयः।
दुबाय्> महिलानां टि - २० क्रिकेट विश्वचषकस्पर्धायां भारतस्य द्वितीये प्रतिद्वन्द्वे पाकिस्थानं ६ द्वारकाणां पराजितवत्। पाकिस्थानं २० क्षेपणचक्रैः ८ द्वारकाणां विनष्टे १०५ धावनाङ्काः। भारतं , १८. ५ क्षेपणचक्रैः ४ द्वारकाणां विनष्टे १०८ धावनाङ्काः।
प्रथमस्पर्धायां न्यूसिवान्टं प्रति पराजयं स्वीकृतस्य भारतस्य अयं विजयः पूर्वान्त्यस्पर्धां प्रतीक्षां क्रियते।
अशोकन् चरुविल् वर्यः वयलार् पुरस्कारेण समाद्रियते।
अनन्तपुरी> प्रसिद्धः साहित्यकारः अशोकन् चरुविल् स्वस्य 'काट्टूर् कटव्' इत्यनया आख्यायिकया वयलार् पुरस्काराय चितः। लक्षं रूप्यकाणि, कांस्यशिल्पं, प्रशस्त्पत्रं च पुरस्काररूपेण लभते। वयलार् रामवर्मा मेमोरियल् ट्रस्ट् इत्यनेन दीयमानः पुरस्कारः वयलार् रामवर्मणः स्मृतिदिने ओक्टोबर् २७ तमे दिनाङ्के अनन्तपुर्यां दास्यते।