अर्बुदरोगौषधस्य मूल्यं न्यूनं भविष्यति।
स्वास्थ्य-जीवन योगक्षेमस्य अग्रशुल्कं तथा पण्य-सेवा-करस्य अपकर्षणस्य विषये च निर्णयः पश्चात् भविष्यति।
नवदिल्ली> स्वास्थ्य-जीवन योगक्षेमस्य (insurance) अग्रशुल्कं/प्रागर्पितशुल्कं (premium) तथा पण्य-सेवा-करस्य (जी.एस्.टी.) न्यूनीकरणस्य विषये च निर्णयः नवम्बरमासे सम्पत्स्यमाने जी.एस्.टी. परिषदि निर्णयं स्वीकरिष्यति इति केन्द्रधनमन्त्रिणी निर्मला सीतारामः उक्तवती। अस्य विमर्शनाय मन्त्रिस्तरीयसमितिं नियुक्तवती। www.samprativartah.in
अर्बुदरोगस्य औषधीनां करः प्रतिशतं द्वादशात् प्रतिशतं पञ्च पर्यन्तम् इति निर्णयः कृतः। किञ्चित् लघुभक्ष्याणां जी.एस्.टी.