विमानतुल्यः आकारः कश्चित् क्षुद्रग्रहः अद्य भूमेः समीपं प्राप्स्यति - नासा ।
विमानेन समं साकारः एकः क्षुद्रग्रहः अद्य रात्रौ भूमेः समीपम् आगमिष्यति इति नासा संस्थया प्रतिवेद्यते। १६५०० कि.मी वेगेन आगच्छन् अयं श्रुद्रग्रहः भूतलं स्प्रष्टुं सन्दर्भः ७२% अस्ति इति वैज्ञानिकाः वदन्ति। अद्य रात्रौ ११ः ३९ वादने घट्टनं स्यात्।OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
marquee
Sunday, June 23, 2024
कोष़िक्कोट् साहित्यनगरं - प्रख्यापनम् अद्य।
युनेस्को संस्थायाः साहित्यनगरपदं लभ्यमानं राष्ट्रस्य प्रथमनगरम्।
कोष़िक्कोट्> युनेस्कोसंस्थया साहित्यनगरम् इति कोष़िक्कोटस्य चयनं गतवर्षे ओक्टोबर् मासे आसीत्। तस्य औपचारिकं प्रख्यापनम् अद्य सायं ५. ३० वादने नगरस्थे मुहम्मदअब्दुल् रहमान् स्मारक मण्डपे राज्यस्य सांस्कृतिकविभागमन्त्रिणा एम् बी राजेष् वर्यः विधास्यति। भारतस्य प्रथमं पैतृकसाहित्यनगरं भवति कोष़िक्कोट्।
ज्ञानपीठपुरस्कारेण समादृताः एस् के पोट्टकाट्, एम् टि वासुदेवन् नायर्, अक्कितम् अच्युतन् नम्पूतिरिः इत्येतान् विना वैक्कं मुहम्मदबषीर्, उरूब्, सञ्जयः, कुट्ट्कृष्णमारारः, तिक्कोटियन्, एन् पि मुहम्मद, एन् एन् कक्काट्, वत्सला, यू ए खादर्, सुभाष् चन्द्रन् इत्यादीनाम् अनेकेषां साहित्यसपर्यायाः केन्द्रं भवतीदं नगरम्। ५०० अधिकाः ग्रन्थशालाः ७० अधिकाः पुस्तकप्रसाधकशालाः च अस्मिन् नगरे विद्यन्ते। तदुपरि राष्ट्रस्य प्रमुखा पुरातनी संस्कृतपण्डितसभा 'रेवती पट्टत्तानं' नामिका अत्रैव प्रचलति स्म।
विश्वस्य सर्गात्मकनगराणां नूतनायां पट्टिकायामेव कोष़िक्कोट् अन्तर्भूतम्। मध्यप्रदेशस्थाय ग्वालियोर् नगराय संगीतनगरमिति पदमपि लब्धम्।
Saturday, June 22, 2024
'नीट्-नेट्'प्रकरणे आराष्ट्रं प्रतिषेधः शक्तः।
नवदिल्ली> नीट् तथा यू जि सि नेट् परीक्षयोः प्रवृत्तयोः भ्रष्टाचारयोः देशे सर्वत्र प्रतिषेधः शक्तः अभवत्। एन् टि ए संस्था विजर्जनीया, नीट् पुनः परीक्षा करणीया इत्याद्यावश्यकान् उन्नीय राजधान्यां विविधविद्यार्थिसंघटनैः विपक्षीयदलैः प्रक्षोभः आयोजितः।
यू जि सि नेट् प्रश्नपत्रस्य स्रवणप्रकरणे सि बी ऐ अन्वेषणं प्रख्यापितम्। ५००० - ६ लक्षं रूप्यकेषु प्रश्नपत्रं विक्रीतमिति अधिगतम्। डार्क् नेट्, टेलिग्राम् इत्याद्येषु सामाजिकमाध्यमेषु प्रश्नपत्रं विक्रयणाय आसीत्।
तथा च, जूण् २५ - २७ दिनाङ्केषु विधातुमुद्दिष्टा शास्त्रविषयाणां नेट् परीक्षा परिवर्तिता। प्रौद्योगिककारणादेव परिवर्तनमिति एन् टि ए संस्थायाः विशदीकरणम्।
बङ्गलुरु मध्ये द्वितीयं विमाननिलयमागच्छति।
बङ्गलुरु> कर्णाटके बङ्गलुरुप्रान्ते द्वितीयं विमाननिलयं निर्मातुं राज्यसर्वकारेण निश्चितम्। एतदर्थं भूक्षेत्रमधिगन्तुं यत्नः आरब्धः। परियोजनायाः साध्यतावेदनं समर्पयितुं मन्त्रिणा एम् बि पाटीलेन निर्दिष्टम्।
इदानीं बङ्गलुरुमध्ये केम्पगौडा अन्ताराष्ट्रियविमाननिलये सप्ततिलक्षाधिकत्रिकोटिपरिमिताः यात्रिकाः चतुर्लक्षं टण् परिमितं पण्यवस्तून्यपि व्यवह्रियन्ते। राष्ट्रस्य बहुसम्मर्दयुक्तं तृतीयं व्योमयाननिलयमिति सविशेषताप्यस्ति। 'तूमकुरु मार्गे' भवेत् द्वितीयं निलयमिति सूच्यते।
Friday, June 21, 2024
उत्तरभारते ग्रीष्मकालः कठिनकठोरः।
उष्णतरङ्गे ११४ जीवहानिः।
नवदिल्ली> अस्य वर्षस्य ग्रीष्मकालः उत्तरभारते कठिनः कठोरश्च वर्तते। बहुषु राज्येषु उष्णतरङ्गस्य भीषायां जनाः दुरितमनुभवन्ति। अस्मिन् काले उष्णतरङ्गस्य काठिन्येन ११४ जनाः मृत्युमुपगताः। ४१,००० जनाः स्वास्थ्यसमस्यामनुभवन्ति। मार्च् प्रथमदिनाङ्कतः जूण् १८ तम दिनाङ्कपर्यन्तं लब्धं वृत्तान्तमनुसृत्य केन्द्रस्वास्थ्यमन्त्रालयेन बहिर्नीता गणना एषा।
गतदिनद्वये दिल्ल्यां ३४ जनाः उष्णतरङ्गेण मृताः। राजस्थानं, हरियानं, मध्यप्रदेशः, उत्तरप्रदेशः इत्यादिषु राज्येष्वपि उष्णतरङ्गदुरितमनुवर्तते।
प्रत्युत, कठिनवर्षाभिः उत्तरपूर्वीयराज्येषु प्रलयभीषा वर्तते।
यू एस् प्रतिनिधिसंघः दलैलामम् अमिलत्।
नवदिल्ली> चीनस्य प्रातिकूल्यं विगणय्य अमेरिकायाः जनप्रतिनिधिसंघः भारतं प्राप्य टिबटस्य आत्मीयनेतारं दलैलामम् अमिलत्। हिमाचलप्रदेशस्थे धर्मशालायां बुधवासरे आसीत् मेलनम्।
टिबटीयप्रकरणस्य परिहाराय यतिष्यते, दलैलामस्य निश्चेतुं चीनस्य पदक्षेपं नाङ्गीकरिष्यतीति च संघेन प्रस्तुतम्। अमेरिकायाः शासन-विपक्षप्रतिनिधीनां सप्ताङ्गसंघः रिपब्लिकन् राजनैतिकदलस्य नेता मैकिल् मलोल् इत्यस्य नेतृत्वे एव दलैलामं समदर्शयत्।
Thursday, June 20, 2024
दुराचारः - यू जि सि संस्थायाः 'नेट्' परीक्षा निरस्ता।
नवदिल्ली> नीट् परीक्षामनगम्य जूण् १८तमे दिनाङ्के एन् टि ए संस्थया विधत्ता यू जि सि संस्थायाः 'नेट्' परीक्षा अपि केन्द्रसर्वकारेण निरस्ता। ८३ मानविकविषयेषु आसीत् परीक्षा। ओ एम् आर् सङ्केतमुपयुज्य कारितायां परीक्षायां 'सैबर्' कुत्सिताचाराः प्रवृत्ताः इति अधिगमनस्य आधारेणायं निर्णयः। प्रकरणेSस्मिन् केन्द्रप्रशासनेन सि बि ऐ अन्वेषणं प्रख्यापितम्।
११. २लक्षं परीक्षार्थिषु ९. ०८लक्षं जनाः परीक्षां लिखितवन्तः। गृहमन्त्रालयस्य अधीने वर्तमानेन National Cyber crime Threat analytics Unit नामकेन प्रथमदृष्ट्या दुराचारः प्रवृत्तः इति स्थिरीकृतम्।
Wednesday, June 19, 2024
इस्रयेले युद्धकार्यमन्त्रिमण्डलं नेतन्याहुः व्यसर्जत्।
टेल् अवीव्> गासायुद्धे सुप्रधाननिर्णयान् विदधमानाम् इस्रयेलस्य युद्धकार्यमन्त्रिसभां प्रधानमन्त्री बञ्चमिन् नेतन्याहुः व्यसृजत्। युद्धप्रकरणे नेतन्याहोः क्रियाव्यवहारे प्रतिकूलतां प्राकट्य भूतपूर्वः रक्षामन्त्री जनरल् बन्नि ग्लान्स् त्यागपत्रं समर्पितवानासीत्। गासायां युद्धविराममालक्ष्य यू एस् राष्ट्रपतेः जो बैडनस्य आशयः नेतन्याहुना तिरस्कृतः इत्यतएव गान्सस्य स्थानत्यागः। एतदनुबन्ध्य आसीत् युद्धकार्यमन्त्रिसभायाः विसर्जनम्। अनेन नव मासान् यावत् अनुवर्तमाने युद्धविषये सर्वकारस्य अनैक्यं स्पष्टमभवत्।
नीट् परीक्षाव्यतिक्रमः - सर्वकारं एन् टि ए प्रति च निर्देशपत्रं प्रेषयन् सर्वोच्चन्यायालयः।
"लघुव्यतिक्रमस्यापि कर्कशप्रक्रमः आवश्यकः।"
नवदिल्ली> वैद्यशास्त्रबिरुदप्रवेशपरीक्षायाः आयोजने यदि यस्मात् कस्माच्चित् पक्षतः लघ्वपि व्यतिक्रमः अभवत् तर्हि तान् अपराधिनः विरुध्य कर्कशः प्रक्रमः करणीयः इति सर्वोच्चन्यायालयस्य विरामकालपीठेन प्रस्तुतम्। मेय् पञ्चमदिनाङ्के विधत्तायां परीक्षायां छात्रेभ्यः अनुकम्पाङ्काः अनुमोदिताः इत्यादिप्रकरणान् परिपृच्छ्य समर्पितासु याचिकासु नीतिपीठेन केन्द्रसर्वकारं एन् टि ए प्रति च निर्देशपत्रं प्रेषितम्। सप्ताहद्वयाभ्यन्तरे प्रत्युत्तरं दातव्यम्।
न्यायाधीशौ विक्रमनाथः, एस् वि एन् भट्टिः इत्येताभ्यां समेतेन नीतिपीठेन निरीक्षितं यत् ०. ००१ प्रतिशतं दुराचारः कृतः चेदपि कर्कशः प्रक्रमः करणीयः। छात्राणां कठिनप्रयत्नः माननीयः, कुत्सितमार्गेण यः कोSपि वैद्यः अभविष्यत्तर्हि तत् समाजाय दोषः भविष्यतीति च नीतिपीठेन अभिप्रेतम्।
जोस् के माणिः, पि पि सुनीर्, हारिस् बीरान् इत्येते राज्यसभासदस्याः।
अनन्तपुरी> केरलतः त्रयः राज्यसभां प्रति चिताः। वामदलपक्षतः जोस् के माणिः, पि पि सुनीर्, ऐक्यजनाधिपत्यसख्यात् हारिस् बीरान् इत्येते राज्यसभां प्रति प्रतिद्वन्द्वं विना चिताः।
जोस् के माणिः अधुना राज्यसभासदस्यः भवति। एनं समेत्य बिनोय् विश्वं, एलमरं करीम् इत्येतेषां सदस्यत्वं जूलाई प्रथमदिनेङ्के समाप्स्यति। एतेषां स्थाने एव निर्वाचनं सम्पन्नम्।