OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
marquee
Monday, January 22, 2024
Friday, January 19, 2024
वीडियोगयिं नामक मुद्रितलघु चलनछायाक्रीडकेषु श्रवणवैकल्यं तथा श्रोत्रान्तर्भागे गुञ्जनारवः च अधिकः इति अध्ययनफलम्।
गणनिकाविनोदमण्डलेषु अतिद्रुतं प्रचारमापन्नासु क्रीडासु उन्नतं स्थानमावहति वीडियो गेयिम् नामक मुद्रितलघुछायाचलनरूपा इयं क्रीडा।। अस्याः क्रीडायाः जनप्रीतिः अनुदिनं वर्धमाना अस्ति। तत्सममेव शारीरिक-मानसिकाः अस्वास्थ्याः च वर्धमानाः सन्ति। इदानीं चलनचित्रक्रीडकाणां मध्ये श्रवणसंबन्धिसमस्याः आधारीकृत्य जाताः हानीः अधिकृत्य अध्ययनम् एव बहिरागतम्। अतिशब्देन सह क्रीडनद्वारा क्रीडकानां मध्ये अपरिहरणीया श्रवणहानिः श्रोत्रान्तर्भागेषु गुञ्जारवः च अधिको भवति इति नूतनाध्ययनानि सूचयन्ति।
प्राकृतभाषा भारतीयमूर्त्तिकलायाः प्राचीनं स्रोतः- प्रो.मारुतिनन्दनः।
नवदेहली> श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य प्राकृतिकभाषाविभागेन भारतीयमूर्त्तिकला-शिल्पकलायाः इति विषयये विशेषव्याख्यानम् आयोजितम्। बनारसहिन्दुविश्वविद्यालयस्य आचार्यः प्रो.मारुतिनन्दनप्रसादतिवारीवर्यः आसीत् मुख्यवक्ता। महोदयेन स्वविस्तृतवक्तव्ये प्राकृतभाषायाः, तस्याः साहित्यस्य च भारतीयमूर्तिकला-शिल्पकलाभिः सह आत्यन्तिकसम्बन्धः सिद्धः कृतः तथा च तेषु उल्लिखितानां जैनपरम्परागतानां शिल्पानां विषये अन्वेषणात्मकतथ्यानि पीपीटीद्वारा प्रस्तुतानि। तेन शास्त्रेषु प्रस्तुतानां प्रमाणानाम् आधारेण मूर्तिशिल्पानां प्रमाणं सिद्धं कृत्वा भारते देवानां महद्व्यक्तित्वस्य वा मूर्तिनिर्माणं पूजनं च ऐतिहासिकतया पौराणिकतया च जैनधर्मे आरब्धम् इति अवदत्। सः जैनमूर्तीनां शिल्पानां च विस्तृतविश्लेषणं कृत्वा सम्पूर्णभारतीयसंस्कृतेः गौरवम् इति उद्घोषितवान्।
विशिष्टातिथिः सन्तोषकुमारश्रीवास्तवः स्वभाषणे विषयस्य अनुसन्धानपूर्णप्रस्तुतिं प्रशंसितवान् तथा च एतादृशव्याख्यानसत्रस्य आयोजनार्थं प्रेरितवान्। तदनन्तरं विशेष-आमन्त्रित-सुशीलकुमारसेठिना अस्य कार्यक्रमस्य भूरि-भूरिप्रशंसां कृतम्। सभायाः अध्यक्षः विश्वविद्यालयस्य कुलपतिः प्रो.मुरलीमनोहरपाठकवर्यः स्वस्य राष्ट्रपति विशिष्टभाषणे भारतीयमूर्त्तिकलायाः शिल्पशास्त्रस्य च लक्षणं वर्णयित्वा मुख्यवक्तुः वक्तव्यम् अद्वितीयम् इति उद्घोषितवान्। प्रो.पाठकः मूर्त्तिकलाविज्ञानं प्रस्तुतं कृत्वा केषाञ्चन प्रमुखग्रन्थानां सन्दर्भान् अपि प्रस्तुतवान्। कार्यक्रमस्य संयोजनं समन्वयनञ्च प्राकृतभाषाविभागाध्यक्षेण प्रो.सुदीपकुमारजैनमहोदयेन कृतम्। सह-संयोजनं प्रो.कल्पनाजैन एवं डॉ.विकासचौधरी द्वारा निभालितम्।
वार्ताप्रेषकः- डा. विजयगुप्तः |
Monday, January 15, 2024
श्रीरामस्य प्रेष्यचिटिकम् नेपालेन प्रकाशितम् पुरा।
-डा. युवराज भट्टराई
इस्रयेल-हमास् युद्धः १०० दिनानि अतीतः।
> हमास् इति सायुधसंघटनस्य उन्मूलनं लक्ष्यीकृत्य इस्रयेलेन ओक्टोबर् सप्तमदिनाङ्के आरब्धः युद्धः शतं दिनानि अतीतः। आहत्य २३ लक्षं जनेषु २३,३५७ जनाः एतदाभ्यन्तरे मृत्युमुपगताः। तेषु ९६०० बालकाः, ६७५० महिलाश्च अन्तर्भवन्ति। ५९४१० जनाः व्रणिताः जाताः।
गासा प्रदेशस्य ८५% जनाः अभयार्थिनः जाताः - १७ लक्षम्। शतशः शैक्षिकसंस्थाः, आराधनालयाः, 'आंबुलन्स्'यानानि च विनाशं गतानि। ३. ५९ लक्षं वासगृहाणि च विनाशितानि।
संयुक्तराष्ट्रसंघटनस्य लोकराष्ट्राणां च युद्धविरामाभ्यर्थनाः निष्करुणं निरस्य युद्धः अनुवर्तते।
काश्मीरे भीकराक्रमणं प्रतिरोद्धुम् 'ओपरेशन् सर्वशक्ति' परियोजना।
नवदिल्ली> जम्मु काश्मीरे पाकिस्थानस्य सहयोगेन क्रियमाणं भीकराक्रमणानि प्रतिरोद्धुम् ओपरेशन् सर्वशक्ति' नामिका परियोजना भारतसेनया आविष्क्रियते। पिर्पञ्चल् पर्वतश्रेणीनां पार्श्वाभ्यामुभाभ्यां आगच्छः भीकरसंघस्य प्रतिरोध एव अनेन लक्ष्यीक्रियते। रजौरि, पूञ्च् क्षेत्रेषु भीकराक्रमणं वर्धयतीत्यत एवायं परियोजना निर्णीता।
गृहमन्त्री अमित शाहः, राष्ट्रियसुरक्षा उपदेष्टा अजित् डोवलः, सैनिकाधिकारिणः, गुप्तान्वेषणाधिकारिणः इत्येतेषाम् उपवेशनानन्तरमेव अयं निर्णयो जातः।
Sunday, January 14, 2024
द्वीपतः भारतसैनिकाः प्रतिनिवर्तनीयाः इति मालद्वीपसर्वकारः।
मालद्वीपतः भारतसैनिकाः प्रति निवर्तनीयाः इति मालद्वीपसर्वकारेण पुनरपि प्रार्थितम्। वैद्यशुश्रूषायै आपत्कालिकसहायतायै च ७७ सैनिकाः द्वीपे सेवां कुर्वन्तः सन्ति। चीनस्य अनुकूलकः मुहम्मद् मोय्सु इत्याख्यः राष्ट्रपतिपदवीं प्राप्यनन्तरमेव भवति ईदृशी प्रार्थना। द्वीपतः भारतसैनिकान् प्रतिग्रहीतुं योग्याः प्रक्रमाः स्वीकरिष्ये इत्युक्त्वा आसीत् निर्वाचनसन्दर्भे तस्य स्थानाशिपर्यटनम्।
Saturday, January 13, 2024
एष्याचषक पादकन्दुकस्पर्धाः आरब्धाः।
खत्तरः> एष्याभूखण्डस्थराष्ट्राणां पादकन्दुकक्रीडापरम्परा खतरे आरब्धा। शुक्रवासरे सायं लूसैल् क्रीडाङ्कणे खतर-लबननराष्ट्रयोः उद्घाटनस्पर्धा सम्पन्ना। आहत्य २४ राष्ट्राणि भागं स्वीकुर्वन्ति। तानि ६ संघरूपेण विभक्तानि।
भारतं 'बि' संघे अन्तर्भवति। आस्ट्रेलिया, सिरिया,उस्बकिस्थानं इत्येतानि राष्ट्राण्यपि बि' संघे अन्तर्भवन्ति।
Friday, January 12, 2024
कोविड् - डिसम्बरमासे १०,००० मरणानि।
जनीवा> कोविड्रोगेण गतमासे आविश्वं १०,००० जनाः मृत्युमुपगता इति विश्व स्वास्थ्यसंघटनेन [WHO] निगदितम्। विरामकालोत्सवेषु जनानाम् अनियन्तेर्यमेलनं तथा कोविड् वैराणोः जे एन् १ इति प्रभेदश्च मृत्युवर्धनस्य कारणमिति WHO संघटनस्य निदेशकप्रमुखेन 'टेट्रोस् अडानम्' इत्यनेनोक्तम्।
५० राष्ट्रेषु कोविडेन आतुरालयं प्रवेशितानां संख्यायामपि ४२% वर्धनं सञ्जातम्। भारते इदानीं ३४२२ कोविड्रोगिणः वर्तन्ते।
Tuesday, January 9, 2024
कौमारकलोत्सवस्य अत्युज्वलपरिसमाप्तिः ; कण्णूर् जनपदस्य सुवर्णचषकः। मम्मूट्टिवर्यात् सुवर्णचषकं स्वीक्रियमाणाः कण्णूर् जनपदीयाः।
कोल्लम्> अहोरात्रपञ्चकं यावत् कोल्लं नगरं कौमारकलोत्सवे निमग्नमासीत्। कासरगोडतः अनन्तपुरीपर्यन्तं १४ जनपदेभ्यः आगतानां कुमारीकुमाराणां कलासाहित्यसङ्गीतप्रतिभाविलासैः जनाः पुलकितमानसाः जाताः। कण्णूर् जनपदादागतानां छात्राणां प्रकटनेन ९५२ अङ्कान् सम्पाद्य कण्णूर् जनपदेन सुवर्णचषकं स्वायत्तीकृतम्।
द्वितीयस्थानं कोष़िक्कोड जनपदेन [९४९ अङ्काः] तृतीयस्थानं [९३८] पालक्काट् जनपदेन च प्राप्तम्।
कलोत्सवस्य समाप्तिसम्मेलनं केरलविधानसभायाः विपक्षनेता वि डि सतीशः उद्घाटनं कृतवान्। विख्यातः चलनचित्रनटः भरत् मम्मूटिः विशिष्टातिथिः आसीत्। राज्यस्य वित्तमन्त्री के एन् बालगोपालः, शिक्षामन्त्री वि शिवन्कुट्टिः इतरे मन्त्रिणः जनपदस्थाः विधानसभासदस्याश्च समाप्तिसमारोहे भागं कृतवन्तः।