OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, September 9, 2023

 आन्ध्राप्रदेशस्य पूर्वमुख्यमन्त्री चन्द्रबाबु नायिडुः निग्रहीतः।

      बंगलूरु> टि डि पि अध्यक्षः तथा आन्ध्राप्रदेशस्य पूर्वमुख्यमन्त्री चन्द्रबाबु नायिडुः आरक्षकैः निग्रहीतः। अन्ध्राप्रदेशस्य नन्द्यालतः दोषान्वेषण-विभागेन एव निग्रहीतः। मानवसंसाधन आयोगानुबन्धतया कृते अलेके भवति निग्रहणम्। २०१४ तमे मुख्यमन्त्रीपदे विराजमानः नायिडुः तस्मिन् समये तन्त्रांशसंबन्धतया  वाग्दानपत्रे  हस्ताक्षरं कृतवान्। तस्मिन् प्रक्रमे इदानीम् अलीकव्यवहारः जातः अस्ति। विषयेस्मिन् एतस्य पुत्रः नारयणलोकेषः अपि निग्रहीतः अस्ति।

 जि २० - बैडनः भारते, नरेन्द्रमोदिनं मिलितवान्।

      नवदिल्ली> भारते समारभ्यमाणे जी २० शिखरमेलने भागं स्वीकर्तुं विविधानां राष्ट्राणां नेतारः समागताः। नवदिल्लीस्थे विमाननिलये अवतीर्णः अमेरिक्कस्य राष्ट्रपतिः अवतीर्णः बैडनः दिल्लीस्थे हैदराबाद् अतिथिमन्दिरे नरेन्द्रमोदिना सह समुन्नतालोचनां उभयोपयोगिनीं राजकीयचर्चां च कृतवान्। यु के राष्ट्रस्य प्रधानमन्त्री ऋषि सुनक् अपि समागतेषु सन्ति। शिखरमेलनं सेप्तंबर् ९, १० दिनाङ्के भविष्यति।

Thursday, September 7, 2023

 सप्तमण्डलेषु उपनिर्वाचनं सम्पन्नम्।

कोच्ची> केरलस्य पुतुप्पल्लीमभिव्याप्य राष्ट्रस्य सप्तसु विधानसभामण्डलेषु उपनिर्वाचनानि मङ्गलवासरे सम्पन्नानि। 

 पुतुप्पल्लीं विना झार्खण्डराज्यस्थे धूम्रि, त्रिपुरे धनपुरं, बोक्सानगरं, बागेश्वरम्, [उत्तरखण्डः],घोसि [उत्तरप्रदेशः], धूपगुडी [पश्चिमवंगः] इत्येषु मण्डलेषु अपि उपनिर्वाचनानि सम्पन्नानि। 

  प्राथमिकगणनामनुसृत्य धूम्रि - ६४. ८४%, धनपुरं - ७६ %,  बोक्सानगरं ७६ %, बागेश्वरं ५५. ४४%, घोसि - ५०. ३०%, धूपगुडी - ७६%, पुतुप्पल्ली - ७५% इति रीत्या मतदानानि विधत्तानि। श्वः मतगणना भविष्यति।

Wednesday, September 6, 2023

 चन्द्रे 'विक्रमः' निद्राति। निद्रायाः पूर्वं स्थानपरिवर्तनम्। 

अवतारकः परिभ्रामकः च। [Lander & Rover]

चेन्नै> भारतस्य चान्द्रपर्यवेक्षणपेटकं विक्रमनामकम्, आगामि १४ दिनानि पर्यन्तं सुप्तावस्थायां प्राप्तवत्। चन्द्रमण्डलस्य दक्षिणध्रुवे यत्र यानमवतारितं, तत्र गतदिनादारभ्य १४ दिनानि सूर्यप्रकाशपतनस्याभावात् - १८० डिग्री पर्यन्तं तापमानं निम्नं भवेदित्यतः एव 'लान्डर्'  'रोवर्' इत्येतत् यन्त्रद्वयं च सुप्तावस्थां प्रापयितुं इस्रो संस्थया निश्चयः कृतः। अत्यधिक निम्नतापमतिजीव्य एतौ सेप्तम्बर् २२ इत्यस्मिन् दिनाङ्के उत्थापयिष्यतः इति प्रतीक्षायामस्ति इस्रो। 

  निद्राप्रापणात् पूर्वं विक्रमनामकम् अवतीर्णकं [Lander] चन्द्रोपरितलात् ४० सेन्टीमीटर् परिमितमुन्नीय ३० सेन्टीमीटर् परिमितं स्थानान्तरं कृत्वा एव निद्रायै सिद्धतामकरोत्।

Saturday, September 2, 2023

 सूर्यसविधं याति 'आदित्य एल्' १।

      सूर्यम् उपगम्य अनुशीलनाय भूतलात् आदित्य एल् १ इति यत् बाह्याकाशयानं प्रेषितं तत् स्वस्य यात्रा समारब्धा। चन्द्रयानस्य  चन्द्रोपरितलप्राप्तेः सफलतायाः अनन्तरं भवति इयं सैरयात्रा। कतिपयनिमेषात् पूर्वं ११:५० वादने आरब्धा भवति इदं बाह्याकाशयानम्। पि एस् एल् वि पि ५७ इति आकाशबाणः आदित्य एल् १ इति बह्याकाशयानं ऊढ्वा गच्छन् अस्ति। श्रीहरिकोट्टायां विद्यमानात् सतीष् धवान् बाह्याकाशनिलयात् आसीत् अस्य उद्गमनम् ।

Friday, September 1, 2023

 पाणिनिसंस्कृतविश्वविद्यालये विशिष्टव्याख्यानं सञ्जातम्॥

  -वार्तासंयोजक: डॉ.दिनेश:चौबे

    


उज्जयिनीस्थ-महर्षिपाणिनि -संस्कृतवैदिकविश्वविद्यालयस्य संस्कृतशिक्षणप्रशिक्षणज्ञानविज्ञान -संवर्धनकेन्द्रस्य तत्त्वावधाने संस्कृतसप्ताहसमारोहम् उपलक्ष्ये असप्ताहं यावत् केन्द्रेण नानाविदुषां विशिष्टव्याख्यानानि आयोज्यन्ते। अगस्तमासस्य 28-दिनाङ्कतः सितम्बरमासस्य 3-दिनाङ्कं यावत् अस्य कार्यक्रमस्य आयोजनं भवति। समारोहस्य उद्घाटनं 28 तमे दिनाङ्के अभूत्। कार्यक्रमस्य पञ्चमदिवसे शास्त्रसंरक्षणोपाया: इति विषये विशिष्टव्याख्यानं सञ्जातम्।अस्मिन् कार्यक्रमे काशीहिन्दुविश्वविद्यालयस्य संस्कृतविद्याधर्मविज्ञानसङ्कायस्य आचार्यः प्रो. व्रजभूषणओझा महोदय: मुख्यवक्तृरूपेण उपस्थित: आसीत् ।

    गुरुकुलमाध्यमेन अस्माकं शास्त्राणि रक्षितानि भवेयुः। व्यवहारिकरूपेण आयुर्वेदादिशास्त्राणि कथं प्रयुक्तानि भवेयुरिति चिन्तनीयमस्माभिः। न कण्ठस्थीकरणेन अपि तु व्यवहारेणैव शास्त्राणां संरक्षणं भवेत्। शास्त्ररक्षणाय इतोऽपि नानाविधान्युपायानि तेन उक्तानि, यानि युट्युब्-मध्ये उपलभ्यते, भवद्भिः तत्रैव श्रूयताम्।

   कार्यक्रमस्य आदौ वैदिकमङ्गलाचरणं तदनु विश्वविद्यालयस्य कुलगानं च अभवत्। व्याख्यानसत्राणां सत्राध्यक्षरूपेण विश्वविद्यालयस्य माननीयः कुलपतिः प्रो. सि. जी. विजयकुमारमेननमहोदयः आसीत्। महोदयेन सभा सम्बोधिता संस्कृतसप्ताहसमरोहस्य शुभकामनाः च प्रदत्ता। कार्यक्रमसंयोजकः वेदव्याकरणविभागाध्यक्ष:, डॉ.अखिलेशकुमारद्विवेदीमहोदय: वर्तते। कार्यक्रमस्य सञ्चालनं डॉ.दिनेशचौबेमहोदयेन, आभारप्रदर्शनं डॉ. शङ्करबेरामहोदयेन कृतम्। कल्याण मन्त्रेण सह सभा समाप्ता जाता।

  संस्कृतं भारते एव न अपि तु विदेशेषु अपि भाष्यते- कुलदीपमैन्दोला  

     संस्कृतभारतीपौडी इत्यस्य सहसंयोजकः कुलदीपमैन्दोला छात्रान् संस्कृतभाषायाः, वेदभाषायाः संस्कृतस्य च महत्त्वस्य विषये अवदत् यत् संस्कृतं न केवलं गुरुकुले अपितु समाजे  अपि अस्ति । संस्कृतं भारते एव न अपि तु विदेशे अपि पठ्यते। अमेरिका, जर्मनी, फ्रान्स, वियतनाम इत्यादिषु विदेशेषु विद्यालयेषु अपि अस्य अध्यापनं प्रचलति। 1983 तमे वर्षे आदिशङ्कराचार्येन संस्कृतभाषायां प्रथमं चलच्चित्रं निर्मितम्, येन अनेके राष्ट्रियपुरस्काराः प्राप्ताः।

      भगवद्गीता, महाभारतं, रामायणं इत्यादीनि अनेकानि नामानि परिगणयितुं शक्यन्ते। अधुना अनेकेषु दूरदर्शनमालायां संस्कृतस्य स्थानं दीयते । केन्द्रीयसंस्कृतसंस्था यूट्यूब-फेसबुकादि-माध्यमेन लघु-चलच्चित्र-निर्माण-आदि-बहुभिः कार्यक्रमैः संस्कृतस्य प्रचारं कुर्वती अस्ति । संस्कृतं शिक्षितुं अद्यत्वे अस्माकं स्मार्त्जंगमवाण्यां प्लेस्टोर इत्यत्र 'संस्कृतकल्पतरु:', 'संस्कृतसम्भाषणं' इत्यादयः बहवः अनुप्रयोगाः वर्तन्ते।

    कण्वनगर्यां कण्वाश्रमत: कलालघाटीपर्न्तं सायंकाले संस्कृतभारत्याः आश्रयेण कार्यकर्तारः गुरुकुलस्य छात्राः च नगरे संस्कृतस्य प्रचारार्थं संगोष्ठीम् आयोजयित्वा संस्कृतदिने शोभायात्राम् अकुर्वन्। शोभायात्रायां छात्राः - अभिमन्युः शिवाङ्गः च संस्कृतगीतानि गायन्ति स्म - मनसा सततं स्मरणीयं च सुरससुबोधविश्वमनोज्ञा, अङ्कुशपाण्डेयः भार्गवश्च शिवताण्डवं शिवपञ्चाक्षरस्तुतिं च गायन्ति स्म, सायंकाले भ्रमणं कुर्वन्तः जनाः अपि च परितः जनाः अपि गानम् सहैव आरब्धवन्तः ते।

  आचार्य: नीरजहिन्दवानः जयतुसंस्कृतम् - जयतु भारतम्, जयतु - जयतु संस्कृतभाषा, प्रधानमंत्री मोदी वदति संस्कृतभाषा, राज्यसभायां संस्कृतभाषा इत्यनेन जयघोषेण  संस्कृतदिवसस्य विषये जनान् अवगतं कारितवान् ।कण्वाश्रमतः प्राप्तस्य सभायाः पुनः कलालघाटीपर्यन्तं समाप्तिः अभवत्। शोभायात्रा अत्र दर्शनीया आसीत्  ।  आचार्य: अरविन्दः शोभायात्राकार्यक्रमस्य फेसबुक् इत्यादिषु त्वरितप्रसारणं कृतवान् । प्रवक्ता रोशनबलूनीवर्य: स्वकीयवक्तव्ये समेभ्य: संस्कृतबान्धवेभ्य: शुभकामनाम् अयच्छत् । अवसरेस्मिन् आशीषनैथानी, राकेश:, कमलेश:, योगीराज:, हिमांशु:, विष्णु: आदय: छात्रा:  उपस्थिता: आसन् ।

 कण्वनगर्यां विश्वसंस्कृतदिवसोपलक्ष्ये शोभायात्राया: अभवत् आयोजनम्।

शोभायात्रायां गुञ्जितस्तोत्रेण दर्शका: मोहिता: अभवन्

आधुनिकसङ्गणकयुगे संस्कृतभाषा महत्त्वपूर्णा-'पंकजध्यानी'


वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्डं।

  रक्षाबन्धनस्य पावनपर्वणि परमार्थनिकेतनगुरुकुलकण्वाश्रमकोटद्वारस्य संस्कृतभारतीकोटद्वारस्य च संयुक्ताश्रयेण संस्कृतदिवसस्य अवसरे प्रातःकाले सर्वे ब्रह्मचारिणः गायत्रीमन्त्रसूर्यदेवस्य ध्यानं कृत्वा यज्ञोपवीतसंस्कारे यज्ञोपवीतं धृतवन्त:  विद्यालयस्य मुख्याध्यापकस्य श्रीमनमोहननौटियालस्य निर्देशानुसारं सर्वे छात्राः, आश्रमवासिनः, अभिभावकाः च हवनं कृतवन्तः। संस्कृतदिवसस्य कार्यक्रमे छात्रैः श्रीमद्भागवद्गीता  अन्त्याक्षरी, आशुभाषणं, श्लोक-पाठ: तथा नृत्यादिकं प्रस्तुतं । आचार्यमनमोहननौटियालः अस्मिन् अवसरे उक्तवान् यत् संस्कृतभाषा भारतस्य आत्मा अस्ति, भारतस्य प्रतिष्ठा केवलं संस्कृते एव वर्तते। संस्कृतं प्रति छात्राणां उत्कर्षः क्षीणः भवति, सः एकस्मिन् दिने चिन्तनीयः प्रश्नः अस्ति। वयं भारतीयाः सनातनीया: स्मः ये सर्वेषां हिताय प्रार्थयामः।

     संस्कृतभारत्या: जनपदप्रचारक: आचार्यसिद्धार्थनैथानी इत्यनेन उक्तं यत् “भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा” संस्कृतभाषा राष्ट्रस्य प्रगतेः कृते आवश्यकी अस्ति। अस्माकं पुराणोपनिषद: जीवनस्य पाठं शिक्षयन्ति यत् जीवनं कथं सार्थकं कर्तव्यम् इति। भवतु 'वसुधैव कुटुम्बकम्' इति उक्तिः वा 'सह नाववतुः सह नौ भुनक्तुः' इत्यादय: परम्पराः, अस्मान्  एकस्मिन् सूत्रे विना किमपि भेदभावेन परिवारवत् एकत्रितं करोति । 

     संस्कृतजिल्लासंयोजकः पंकजध्यानी अवदत् यत् संस्कृतभारती संस्कृतं पुनः वाच्यभाषां कर्तुं प्रवृत्ता अस्ति।  १९८१ तमे वर्षे सम्पूर्णे विश्वे संस्कृतभाषायाः पुनरुत्थानाय एतस्या:  संस्थायाः स्थापना कृता । संस्कृतं भारतस्य अतीव प्राचीनभाषा अस्ति किन्तु दुर्भाग्येन आधुनिककाले अस्याः उपेक्षा क्रियमाणा वर्तते।  आधुनिकसङ्गणकयुगे संस्कृतभाषा महत्त्वपूर्णा अस्ति ।

 श्रावणपूर्णिमायां संस्कृतविद्यालयभुवनेश्वर्याम् अभूत् उपनयनसमारोहः ।

वार्ताहर:-कुलदीपमैन्दोला।पौडी।

     श्रावणपूर्णिमायाः शुभावसरे अस्मिन् वर्षे अपि महता उत्साहेन नवप्रवेशकानाम् उपनयनं संस्कृतेः च पूर्वं विद्यालयस्य परम्परानुसारेण ३० अगस्तस्य सायंकाले छात्र-शिक्षक-अभिभावक-सम्मेलनावसरे आयोजनं सञ्जातं । विद्यालयस्य प्रधानाचार्यः अनसुयाप्रसादसुन्दरियालः वरिष्ठशिक्षिक: नवीनजुयालः च अवदताम् यत् सर्वतोन्मुखीविकासे अभिभावकानां अपि महत्त्वपूर्णा भूमिका अस्ति। यदि वयं भवतां सर्वेषां समर्थनं प्राप्नुमः तर्हि अस्माकं छात्राः दूरं पुरतः गमिष्यन्ति। वयं सम्पूर्णं च दलं बहु परिश्रमं कुर्मः। अत्र कठिनपरिस्थितौ प्राप्ताः।अधुना यदा यदा परिणामाः आगच्छन्ति तदा तदा उत्तमं भवति। अभिनन्दनम् सर्वेषां मातापितरौ छात्राणां च शुभकामना। 

    संस्कृतसप्ताहस्य अन्तर्गतं छात्राध्यापकैः मातापितृभिः च उत्साहेन शोभायात्रा जनजागरणाय विहितं । विविधैः संस्कृतगीतैः इत्यादिभिः ततः ३१ अगस्तदिनाङ्के श्रावणपूर्णिमायाः शुभावसरे नित्यपूजनादि वा यज्ञोपवीतसंस्कारस्य समाप्तेः अनन्तरं सर्वेषां कृते आचार्यनवीनममगांई प्रोक्तवान् यत् षोडशसंस्कार: भारतीयसंस्कृते: परिचय: विद्यते । एतेषां संस्काराणाम् आरम्भ: याग्योपवीतस्य अनन्तरं भवति, संस्कार: आचार्येण अनूपद्वारा सम्पन्नोभवत् । आचार्य: कमलदीप:, आशीष: नवीन:  अनूप: आदिभि:  गुरुमंत्र: गृहीत:, अन्यशिक्षकै:  सह  ईशानडोभाल:, नीरजपटवाल:, अंकितमैठानी, भाजपानेता वीरेन्द्रजुयाल:  अभिभावका: च उपस्थिता: आसन् ।

Wednesday, August 30, 2023

 नीरज चोप्रः प्रासमहाराजः।




 

प्रासक्षेपणे ओलिम्पिक्स् सुवर्णेन सह विश्वकायिकस्पर्धायामपि सुवर्णप्राप्तिः।

बुडापेस्ट> मध्ययूरोपस्थस्य  हङ्गरीराष्ट्रस्य राजधान्यां बुडापेस्ट् नगरे आयोजिते विश्वकायिकवीरताप्रदर्शने भारतस्य नीरज चोप्रः कुन्तक्षेपणस्पर्धायां सुवर्णपतकेन विश्वविजयी जातः। ८८. १७ मीटर् परिमितं दूरं कुन्तक्षेपणं कृत्वा एव सः विश्वकिरीटं प्राप्तवान्। टोकियो ओलिम्पिक्स् स्पर्धायाम्, एष्यन् गयिंस्, कोमण्वेल्त् गयिंस्, डयमण्ड् लीग् इत्यादिषु स्पर्धासु च तेन सुवर्णपदकं प्राप्तम्। 

  ८७. ८२ मीटर् परिमितक्षेपणेन पाकिस्थानीयः अर्षादनदीमः रजतं, ८६. ६७ मीटर् परिमितक्षेपणेन चेक् राष्ट्रस्य याकूब वेदलः कांस्यपतकं च प्राप्तवन्तौ।