उज्जयिन्यां देवीपूजनपाठविधान प्रशिक्षणस्य समारोप:।
- डॉ.दिनेश चौबे
उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिक-विश्वविद्यालयस्य संस्कृतशिक्षणप्रशिक्षणज्ञान विज्ञानसंवर्धनकेंद्रस्य तत्त्वावधाने आभाषीयपटलमाध्यमेन (आनलाईन्) आयोज्यमानस्यदेवीपूजनपाठविधानप्रशिक्षणस्य समारोप: वैक्रमाब्द: २०८०वैशाखशुक्लनवम्यां शनिवासरे तदनु २९/४/२०२३ तमेदिनाङ्के, शनिवासरे सञ्जात:। प्रशिक्षणमिदम् एकदिनाङ्कादारभ्य ऊनत्रिंशत् दिनाङ्कपर्यन्तं
प्राचलत्। अत्रप्रशिक्षणे
देवीपूजन-पाठविधान-मंत्रस्त्रोत्रादि -विषये सरलतया प्रशिक्षणं प्रदत्तम्।