अखिलभारतीयशास्त्रीयस्पर्धायां पाणिनिसंस्कृतविश्वविद्यालयस्य छात्रेण श्रीउद्धवपौराणिकेन रजतपदकं लब्धम् ।
उद्धवपौराणिकः |
अखिलभारतीयशास्त्रीयस्पर्धायां पाणिनिसंस्कृतविश्वविद्यालयस्य छात्रेण श्रीउद्धवपौराणिकेन रजतपदकं लब्धम् ।
उद्धवपौराणिकः |
विश्वस्मिन् अतिसम्मर्दितं विमाननिलयम् अमेरिकायाम्। नवमस्थाने भारतम्।
- शोभा . के . पि.
विश्वस्मिन् अतिसम्मर्दितानां विमाननिलयानां नामानि बहिः आगतानि। एयरपोर्ट् कौन्सिल् इन्टर्नेषणल् डेट्टा इति संस्थया एव प्रतिवेदनं बहिः प्रकाशितम्। पट्टिकायां देहली विमाननिलयाय नवमस्थानं प्राप्तम्। भारतस्य एकस्मै विमाननिलयाय एतादृशः पुरस्कारप्राप्तिः इदं प्रथमतया एव भवति। २०२२ तम संवत्सरस्य अध्ययनफलविज्ञप्ततिम् अनुसृत्त्य देहली इन्दिरागान्धी इन्टर् नाषणल् विमाननिलये अभ्यन्तर -अन्ताराष्ट्र यात्रिकाः ५९ दशलक्षं आसन्। २०१९ तमे कोविड् तरंगात् पूर्वं १७ तमं स्थानमासीत्। भारतेषु अधिकसम्मर्दितेषु विमाननिलयेषु द्वितीयंस्थानं मुम्बैनिलयाय प्राप्तम्।
विश्वस्मिन् इदं प्रथमतया समुद्रस्य ८३३६ मीट्टर् अगाधात् स्नेयिल् मत्स्यस्य चित्रम् गृहीतम् ।
- शोभा के पि
जाप्पान्> जाप्पान् राष्ट्रे इसु ओगास्वार गभीरे ८३३६ मीट्टर् अगाधे एव स्नेयिल् मीनाः द्रष्टवन्तः। इतः पूर्वं ८१७८ मीटर् परिधये मरियानायाः अगाधतायाम् अस्य सान्निध्यम् उल्लिखितम् आसीत्। अल्पोष्णजलस्य सान्निध्यमेव स्यात् इति स्नेयिल् मीनं द्रष्टुं कारणत्वेन गवेषकाः सूचयन्ति। ३० सेन्टीमीट्टर् एव स्नेयिल् नीनानाम् आयतिः। एतादृशाः त्रिदशाधिके वर्गाः सन्ति। आर्टिक्, अन्टार्टिक् इत्यादि शीतप्रदेशेषु अपि स्नेयिल् मीनानां सान्निध्यमस्ति। ८२०० मीटर् तः ८४०० मीटर् पर्यन्तम् अगाधतलेषु एतादृशाः मीनाः द्रष्टुं शक्यते इति गवेषकाः सूचयन्ति।
सर्वविनाशम् अगच्छत्। कृत्रिमबुद्धिः परमाणुयुद्धापेक्षया अत्यधिकविनाशकारी इति गवेषकाः।
- रेवती के एम्
प्रौद्योगिकविद्या नूतनयुगे कृत्रिमबुद्धियुगे प्रविशति। मनुष्यबुद्धिम् अतिक्रम्य कृत्रिमबुद्धेः उन्नतिम् इदानीं वयं पश्यामः। अद्यत्वे कृत्रिमबुद्ध्या दत्तांशानाम् कार्यनिर्वहणाय विद्यते। जीपीटी4 इति कृत्रिमबुद्धिः मनुष्यवत् भाषायाः प्रयोगाय शक्ता इति सर्वेषाम् आश्चर्यजनकमेव। एकतः कृत्रिमबुद्ध्या मानुषिककार्याणि सरलीकर्तुं शक्यते इति प्रतीक्षा वर्तते किन्तु विषयेऽस्मिन् आशङ्का वर्तते। अतः एतादृशीम् एकां पूर्वसूचनां ददाति कृत्रिमबुद्धेः गवेषकः एलिसर् युड्कोव्स्कि महोदयः। एतादृशानां तन्त्राणां निर्माणं न करणीयमिति, करोति चेत् पृथिव्यां सर्वे म्रियेरन् इत्यपि तेन महोदयेन टैं (time) पत्रिकायां लिखितम्।
पृषती मुषली सन्दृष्टा
भारते उत्तरकेरलात् कोङ्कणवन प्रदेशात् नूतना पृषती मुषली (home lizard) सन्दृष्टा। कोष़िक्कोट् जनपदस्य चेङ्ङोट्टुमला वनप्रदेशात् एव एषा गृहगोधिका सन्दृष्टा। सिर्टेडोक् टैयलन्स् चेङ्ङोट्टुमलन्सिस् (Cyrtodactylus chengodumalaensis) इत्यस्ति अस्याः वैज्ञानिकीय नाम। अमेरिक्कराष्ट्रे वर्तमानस्य जेर्णल् ओफ् हेर्पट्टोलजि इत्यस्मिन् नूतनगोधिकायाः विषये उल्लिखिता अस्ति।
अरुणाचल्प्रदेशः भारतस्य अविभाज्यभागः।
-रेवती के. एम्
अरुणाचल्प्रदेशस्य विविधप्रदेशेभ्यः नूतननामानि दत्तस्य चीनस्य प्रवृत्तिः अनुचिता इति अरिन्दं बाग्चिरवदत्। अरुणाचल्प्रदेशराज्ये विद्यमानानाम् एकादशप्रदेशानां नामान्येव चीनेन परिवर्तितम्। एतादृशरीत्या नामकरणाय नाम परिवर्तनाय वा चीनाय अधिकारः नास्ति। अस्माभिः तत् अङ्गीकर्तुं न शक्यते। अरुणाचल्प्रदेशः भारतस्य अविभाज्यभागः भवति। पूर्वमपि चीनेन एवं कृतम् आसीत् इत्यपि भारतस्य विदेशकार्यवक्त्रा अरिन्दं बाग्चिना उक्तम्I
मार्बर्ग् वैराणुः, गल्फ् देशाः अतीवजाग्रतायाम्।
-राणिमोल् एन् एस्
अबुदाबी> वैश्विकरूपेण मार्बर्ग् वैराणुव्यापनहेतुना गल्फ् देशे पूर्वसूचना प्रसारिता। यू.ए. ई., सउदी-अरब् देशयोः अनन्तरं बुधवासरे ख़त्तर् स्वास्थ्यमंत्रालयेन अपि स्पष्टीकृतं यत् परिस्थिती: निरीक्षन्ते इति। वैराणुविषये स्थानीय-अन्ताराष्ट्रिय- संस्थानां सहकारेण निरीक्षणं सुदृढं कृतमस्ति। खत्तर् मंत्रालय: तद्देशवासिनान् प्रवासिनाञ्च अत्यावश्यकस्थितौ विहाय तान्सानिया, इक्विटोरियल् तथा गिनी देशान् प्रति यात्रां मा कुरुत इति निर्देशः दत्तः। परित्यक्तुमशक्येन कारणेन एतेषु देशेषु जिगमिषवः उभयदेशस्थानीयाभिः स्वास्थ्यप्राधिकारिभि: प्रदात्ता: पूर्वसूचनानिर्देशा: पालनीयाः।
स्निग्धसुवासकस्य उपयोगेन कान्सर्- रोगः। ७२००० कोटिरूप्यकाणां क्षतिपूर्तिं दातुं सज्जः जोण्सन् आन्ट् जोण्सन् कम्पनी।
- रेवती
न्यूयोर्क्> जोण्सन् इत्यस्य स्निग्धसुवासकस्य (baby talcum powder) उपयोगः कान्सर् रोगस्य कारणं भवतीति ज्ञात्वा कम्पनीजनाः प्रकरणस्य निराकरणाय ७२००० कोटिरूप्यकाणां क्षतिपूर्तिः प्रख्यापितवन्तः । जोण्सन् कम्पन्या निर्मितानि उत्पन्नानि कान्सर् रोगं जनयन्तीति गवेषणफलं ज्ञात्वा कम्पनीजनाः स्निग्धसुवासकस्य उत्पादनं स्थगितवन्तः। यतः तस्मिन् स्निग्धसुवासके विद्यमानः एस्बेस्टोस् पदार्थः कान्सर् रोगस्य कारकः भवति । अनेन एस्बेस्टोस् पदार्थेन शिशुषु मेसोतेलियोमा इति रोगावस्थापि आगच्छति।
स्निग्धसुवासकस्य नाम श्रवणेन जोण्सन् आन्ट् जोण्सन् कम्पन्याः नाम एव प्रथमं सर्वेषां मनसि आगच्छति। किन्तु तेन निर्मितानि उत्पन्नानि कान्सर् रोगं जनयन्तीति ज्ञात्वा प्रायः ३८००० जनाः कम्पनीविरुद्धानि आरोपणानि उन्नीय न्यायालयं गतवन्तः।
सस्यानि भाषणं कुर्वन्ति। उत्खोटकस्य स्फोटनसमान इति अध्ययन प्रतिवेदनं बहिः आगतम्।
टेल्अवीव्>सस्यानि भाषणं कूर्वन्ति इति भवन्तः विश्वसिति वा?नोचेत् विश्वासं करणीयमेव भवति। इस्रायेल् राष्ट्रे टेल् अवीव् विश्वविद्यालये गवेषकाः एव अस्मिन् विषये गवेषणं कृत्वा सूचितवन्तः। सस्यानाम् ईदृशाः शब्दाः उत्खोटकस्य (popcorn) स्फोटनसमानः तथा मनुष्याणां भाषणसमान शब्दाः एव, किन्तु उच्चस्तरीय आवृत्यां, मनुष्यकर्णस्य श्रवणपरितावुपरि भवन्ति सस्येभ्यः बहिः आगच्छन्तःशब्दाः।
सम्मर्दे पतितानि सस्यानि शब्दाः बहिः प्रसारयन्ति इति 'जेर्णल् सेल्' इति शेधपत्रिकायां प्रकाशितम् अध्ययनं सूचयति। सस्यानां शब्दाः दूरतः अपि लेखनं कृत्वा विभागं कर्तुं शक्यते इति अध्ययन-प्रतिवेदने सूचितमस्ति।
कूपं पतितं सोदरं नलिका द्वारा अवतीर्य रक्षितवती दिया। चाकलेहं सम्मानरूपेण दत्तवती स्वास्थ्यमन्त्रिणी।
-रेवती के. एम्
आलप्पुष़ा> आलप्पुष़ा जनपदे मावेलिक्करा नामनगरे कूपं पतितं द्विवयस्कं बालकं वीरतया रक्षितवत्यै अष्टवयस्कीयायै बालिकायै स्वास्थ्यमन्त्रिणी श्रीमती वीणा जोर्ज् महाभागा, सम्मानरूपेण चाकलेहं दत्तवती।
माङ्कुष़ी देशे कलित्तुण्डवासिनः सनलस्य षाजिलायाश्च पुत्रम् इवानमेव अग्रजा दिया कूपात् रक्षितवती। इमां वार्तां ज्ञात्वा दियायै मधुरं दातुं निश्चित्य स्वास्थ्यमन्त्रिणी मावेलिक्करा- जनपदीयचिकित्सालयाधिकारिणं निर्दिष्टवती। एवं चिकित्सालयाधिकारिणः दियायाः गृहमागत्य मधुरं दत्तवन्तः। दियायाः सोदरस्नेहः हृदयार्द्रकः इत्यपि स्वास्थ्यमन्त्रिण्या उक्तम्।